संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित ४६१ - ४७५ देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित ४६१ - ४७५ सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ४६१ - ४७५ Translation - भाषांतर ९३. मदनःसुधासूतेर्बन्धुर्मधुसहचरः पञ्चमरुचिदिशंल्लीला बह्वीः कुवलयदृशां नर्मणि गुरुः ।स देवः शृङ्गारी हृदयवसतिः पञ्चविशिखः सदा स्वादून्कुर्वन्मधुमदविकारान्विजयते ॥४६१॥राजशेखरस्य ।अन्तर्बहिस्त्रिजगतीरसभावविद्वान्यो नर्तयत्यखिलदेहभृतां कुलानि ।क्षेमं ददातु भगवान्परमादिदेवःशृङ्गारनाटकमहाकविरात्मजन्मा ॥४६२॥भवानन्दस्य ।जयति स मदलेखोच्छृङ्खलप्रेमरामाललितसुरतलीलादैवतं पुष्पचापः ।त्रिभुवनजयसिद्धौ यस्य शृङ्गारमूर्तेरुपकरणमपूर्वं माल्यमिन्दुर्मधूनि ॥४६३॥उत्पलराजस्य । (सु.र. ३३२)मनसि कुसुमबाणैरेककालं त्रिलोकींकुसुमधनुरनङ्गस्ताडयत्यस्पृशद्भिः ।इति विततविचित्राश्चर्यसङ्कल्पशिल्पोजयति मनसिजन्मा जन्मिभिर्मानिताङ्गः ॥४६४॥कस्यचित। (सु.र. ३२५) याच्यो न कश्चन गुरुः प्रतिमा च कान्तापूजा विलोकननिगूहनचुम्बनानि ।आत्मा निवेद्यमितरव्रतसारजेत्रींवन्दामहे मकरकेतन देव दीक्षाम् ॥४६५॥वल्लनस्य । (सु.र. ३३३)९४. मदनशौर्यं वन्दे देवमनङ्गमेव रमणीनेत्रोत्पलच्छद्मनापाशेनायतिशालिना सुनिविडं संयम्य लोकत्रयम् ।येनासावपि भस्मनाञ्जिततनुर्देवः कपाली बलात्प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः ॥४६६॥ललितोकस्य । (सु.र. ३२८)चापः क्षमाधरपतिः फणिना पतिर्ज्याबाणः पुराणपुरुषस्त्रिदशाः सहायाः ।ईशः पुरामिति पुरां तिसृणां विजेतापुष्पायुधः पुनरयं त्रिजगद्विजेता ॥४६७॥भवानन्दस्य । अयं स भुवनत्रयप्रथितसंयमः शङ्करोबिभर्ति वपुषाधुना विरहकातरः कामिनीम् ।अनेन किल निर्जिता वयमिति प्रयायाः करंकरेण परिताडयञ्जयति जातहासः स्मरः ॥४६८॥नीलपट्ठस्य । (सु.र. ३२३)कुलगुरुरबलानां केलिदीक्षाप्रदानेपरमसुहृदनन्ङ्गो रोहिणीवल्लभस्य ।अपि कुसुमपृषत्कैर्देवदेवस्य जेताजयति सुरतलीलानाटिकासूत्रधारः ॥४६९॥राजशेखरस्य । (वि.शा.भ. १.१, सु.र. ३२७, शा.प. ३०७७, सूक्तिमुक्तावलि १.२५)धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबलामनोभेद्यशब्दप्रभृतय इमे पञ्चविशिखाः ।इयां जेतुं यस्य त्रिभुवनमदेहस्य विभवःस वः कामः कामान्दिशतु दयितापाङ्गवसतिः ॥४७०॥कस्यचित। (स्व८२, सु.र. ३३१)९५. उच्चावचम्पुनः प्रादुर्भावादनुमितमिदं जन्मनि पुरापुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान।नमन्जन्मन्यस्मिन्नहमतनुरग्रेऽप्यनतिभाङ्महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥४७१॥मुञ्जस्य । (सु.र. ३६)न ज्योत्स्ना न च मालती न दयिता नो वल्लकीपञ्चमस्ताम्बूलं न विलेपनं न च रहःकेलिर्न मुक्तालता ।नो वा सत्कविसूक्तयो मम तथा हर्तुं क्षमन्ते मनः पुण्यैरुन्मिलिता चराचरगुरोर्भक्तिर्यथा शूलिनः ॥४७२॥तस्यैव ।का दुर्दशा कुपितनिर्दयचित्रगुप्तवित्रासितस्य जगतो यदि देवि न स्याः ।त्वं कर्मबन्धनविमोचनधर्मराजलेखाधिकारपरिशोधनजातपत्री ॥४७३॥विरिञ्चेः ।स्वाङ्गैः कल्पितसान्द्रतल्परचनः श्वासानिलोल्लासिभिः कल्लोलैः कृतचामरः पृथुफणाक्ÿप्तातपत्रक्रियः ।चूडारत्नधृतप्रदीपवलयो विश्वेशमादार्धयन्नाकल्पस्थिरनिश्चयेन मनसा शेसः परं जीवति ॥४७४॥ब्रह्मनागस्य ।स श्लाघ्यस्तनमुपस्तुन्वन्ति विबुधास्तेनान्वयः पावितस्तस्मै नाम नमन्ति तेऽपि मुनयो मान्यास्ततो बिभ्यति ।हस्ते तस्य जगत्त्रयी किमपरं तत्रामृतं लीयते येन श्रीहरिपादपद्मरजसि न्यस्तं कदाचिन्मनः ॥४७५॥श्रीधरदासविनिर्मितसदुक्तिकर्णामृते पवित्रयतु ।गङ्गेव गाहमानान्प्रथमो देवप्रवाहोऽयम् ॥इति श्रीमहामाण्डलिकश्रीधरदाससंगृहीते सदुक्तिकर्णामृते देवताप्रवाहो नाम प्रथमः प्रवाहः ।अथ वीचयः ९५ श्लोकाः ४७५ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP