देवप्रवाहः - सुभाषित ४१ - ४५
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
४१. नरसिंहनखाः
दंष्ट्रासङ्कटवक्त्रघर्घरललज्जिह्वाभृतो हव्यभुग्
ज्वालाभास्वरभूरिकेशरसटाभारस्य दैत्यद्रुहः ।
व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटन
स्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ॥२०१॥
दक्षस्य । (सु.र. १४१)
ये बालेन्दुकलार्धविभ्रमभृतो मायानृसिंहाकृतेर्
निर्याता इव ये सिरासरणिभिर्नाभ्यब्जकन्दाङ्कुराः ।
ते वक्षःस्थलदारितासुरसरित्कीलालधारारुणाः
पायासुर्नवकिंशुकाम्रमुकुलश्रीसाक्षिणः पाणिजाः ॥२०२॥
वराहस्य ।
अस्रस्रोतस्तरङ्गभ्रमिषु तरलिता मांसपङ्क्ते लुठन्तः
स्थूलास्थिभङ्गैर्धवलविसलताग्रासमाकल्पयन्तः ।
मायासिंहस्य शौरेः स्फुरदरुणहृदम्भोजसंश्लेषभाजः
पायासुर्दैत्यवक्षःस्थलकुहरसरोराजहंसा नखा वः ॥२०३॥
मयूरस्य ।
पुनन्तु भुवनत्रयं दलितदैत्यवक्षःस्थल
प्रसर्पिरुधिरच्छटाच्छुरणबालसूर्यत्विषः ।
दृढास्थिचयचूर्णनाघटितशब्दसारा हरेर्
नृसिंहवपुषश्चिरं पिशितपिण्डगर्भा नखाः ॥२०४॥
धूर्जटिराजस्य ।
जयन्ति निर्दारितदैत्यवक्षसो
नृसिंहरूपस्य हरेर्नखाङ्कुराः ।
विचिन्त्य येषां चरितं सुरारयः
प्रियानखेभ्योऽपि रतेषु बिभ्यति ॥२०५॥
कस्यचित्(सु.र. १३०)
४२. शृङ्गारिनरसिंहः
लक्ष्मीमुरःपरिसरे वहतः सलीलं
योगासनं च चरतो नृहरेर्जयन्ति ।
एकक्षणोपनतमान्मथभावमुग्ध
स्वात्मावबोधमसृणानि विलोकितानि ॥२०६॥
कस्यचित।
न्यञ्चत्केसरमुत्तरङ्गपुलकस्रङ्नद्धमर्धस्खलद्
द्वन्द्वालापमपास्तगर्जनमटद्भ्रूभङ्गमार्द्रेक्षणम् ।
स्विद्यत्पाणि विनीतदृप्तिकरजं पायान्नृसिंहाकृतेर्
देवस्य श्रियमङ्कसीम्नि दधतो विश्रान्तरौद्रं वपुः ॥२०७॥
वैद्यगदाधरस्य ।
स्वच्छन्दं वैरिवक्षःस्थलकुलिशभिदो वीक्ष्य कन्दर्पचाप
क्रीडाभाजो नखाग्रान्समसमयभयानन्दलोलायताक्ष्याः ।
लक्ष्म्या वक्षोजकुम्भं करिकलभशिरःशङ्कया वीक्ष्यमाणः
स्वैरं शान्ताक्षिरागो जयति नरहरिर्जातचित्तानुरागः ॥२०८॥
जलचन्द्रस्य ।
अव्याद्वो वज्रसारस्फुरदुरुनखरक्रूरचक्रक्रमाग्र
प्रोद्भिन्नेन्द्रारिवक्षःस्थलगलदसृगासारकाश्मीरगौरः ।
प्रस्फूर्जत्केशराग्रग्रथितजलधरश्रेणिनीलाब्जमाल्यः
सूर्याचन्द्रावतंसो नरहरिरसमाबद्धशृङ्गारलीलः ॥२०९॥
प्रजापतेः ।
आनन्दमुग्धनयनां श्रियमङ्कभित्तौ
बिभ्रत्पुनातु भवतो भगवान्नृसिंहः ।
यस्यावलोकनविलासवशादिवासीद्
उत्सन्नलाञ्छनमृगः कमलामुखेन्दुः ॥२१०॥
उमापतिधरस्य ।
४३. वामनः
इदं प्रायो लोके न परिचितपूर्वं नयनयोर्
न याच्ञा यत्पुंसः सुगुणपरिमाणं लघयति ।
विशद्भिर्विश्वात्मा स्ववपुषि बलिप्रार्थनकृते
त्रपालीनैरङ्गैर्यदयमभवद्वामनतनुः ॥२११॥
वङ्कस्य ।
अपसर पृथिवि समुद्राः संवृणुताम्बूनि भूभृतो नमत ।
वामनहरिलघुतुन्दे जगतीकलहः स वः पातु ॥२१२॥
भवानन्दस्य ।
कुतस्त्वमणुकः स्वतः स्वमिति किं न यत्कस्यचित्
किमिच्छसि पदत्रयं ननु भुवा किमित्यल्पया ।
द्विजस्य शमिनो मम त्रिभुवनं तदित्याशयो
हरेर्जयति निह्नुतः प्रकटितश्च वक्रोक्तिभिः ॥२१३॥
वाक्पतेः । (सु.र. ११४)
पूज्यो ब्रह्मविदां त्वमेव विमलज्ञानैकपात्रं भवान्
मद्भाग्येन गतोऽतिथित्वमधुना किं ते त्रिभिर्भूपदैः ।
त्रैलोक्यं भवतं स्वमित्युपगतो दैत्येश्वरेणादराज्
ज्ञातोऽस्मीति सलज्जनम्रवदनः पायाज्जगद्वामनः ॥२१४॥
वसुसेनस्य ।
लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।
बलिरेष स येनास्य भिक्षापात्रीकृतः करः ॥२१५॥
गणाध्यक्षस्य । (शा.प. २७८)
४४. त्रिविक्रमः
किं छत्रं किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वा
चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्बलिध्वंसि देहे ।
ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं
पायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमानः क्रमेण ॥२१६॥
श्रीहनूमतः ।
ज्योतिश्चक्राक्षदण्डः क्षरदमरसरित्पट्टिका केतुदण्डः
क्षोणीनौकूपदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः ।
ब्रह्माण्डच्छत्र दण्डस्त्रिभुवनस्तम्भदण्डोङ्घ्रिदण्डः
श्रेयस्त्रिविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥२१७॥
दण्डिनः ।
चञ्चत्पादनखाग्रमण्डलरुचिप्रस्यनिगङ्गाजलो
विस्फूर्जद्बलिराज्यनाशपिशुनोत्पाताम्बुवाहद्युतिः ।
पातु त्वां चरणो हरेः क्रमविधौ यस्याधिकं द्योतते
दूरादङ्गुलिमुद्रिकामणिरिव स्फाराङ्कुशजालो रविः ॥२१८॥
विक्रमादित्यस्य ।
यत्काण्डं गगनद्रुमस्य यदपि क्षोणीतडागोदरे
देवस्यैव यशोऽम्बुशोभिनि महायष्टिः प्रतिष्ठाकरी ।
तद्विष्णोः पदमन्तरालजलधेराधारतो भूतलात्
पारं द्यामुपगन्तुमुद्यमवतां सेतूभवत्पातु वः ॥२१९॥
चक्रपाणेः ।
खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं
निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामएध्वनि ।
पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं
पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः ॥२२०॥
वाक्पतिराजस्य । (सु.र. १२४)
४५. परशुरामः
दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यत्रैवाविरभूत्कथाद्भुतमिदं यत्रैव चास्तंगतम् ॥२२१॥
केशटस्य ।
हा तातेति न जल्पितं न रुदितं न स्वीकृतं तद्धनं
न स्नातं न च वीक्षितः परिजनः पित्रे न दत्तं जलम् ।
यावन्न क्रकचाभिघातविगलद्दाम्नामरीणामसृग्
गण्डूषैर्घनघोरघर्घररवाः सन्तर्पिताः फेरवः ॥२२२॥
तस्यैव ।
शौर्यं शत्रुकुलक्षयावधि यशो ब्रह्माण्डखण्डावधि
त्यागः सप्तसमुद्रमुद्रितमहीनिर्वाजदानावधिः ।
व्र्यं यन्तु गिरां न तत्पथि ननु व्यक्तं हि तत्कर्मभिः
सत्यं ब्रह्मतपोनिधेर्भगवतः किं किं न लोकोत्तरम् ॥२२३॥
भवभूतेः ।
गोत्राचारविशेषपारगतया वृद्धाभिरादिष्टया
मात्रा वस्तुषु तेषु तेषु विशदन्यस्तेषु दृष्टेः पुरः ।
अन्नप्राशनवासरे सरभसं वक्षोभरोत्सर्पिणा
येनात्तं धनुरीक्षिताश्च झटिति क्षत्रावतंसा दिशः ॥२२४॥
केशटस्य ।
त्रिःसप्तावधि वाधिता क्षितिभुजामाजन्म वैखानसः
कर्ता मातृवधैनसः स सकलश्रुत्यर्थवीथीगुरुः ।
विश्वस्याश्च भुवः क्रतौ वितरिता श्यामकमुष्टिंपचो
रामः सोऽयमुदग्रगेयमहिमा कासां गिरां गोचरः ॥२२५॥
कस्यचित।
N/A
References : N/A
Last Updated : November 11, 2016
TOP