देवप्रवाहः - सुभाषित ६६ - ७०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
६६. समुद्रोत्थितलक्ष्मीः
सम्पूर्णः पुनरभ्युदेति किरणैरिन्दुस्ततो दन्तिनः
कुम्भद्वन्द्वमिदं पुनः सुरतरोरग्रोल्लसन्मञ्जरी ।
इत्थं यद्वदनस्तनद्वयवलद्रोमावलीषु भ्रमः
क्षीराब्धेर्मथने भवद्दिविषदामलक्ष्मीरसावस्तु वः ॥३२६॥
कस्यचित। (सु.र. १२६)
सानन्दं त्रिदशैः सविस्मयमविश्वस्तैः सुरद्वेषिभिः
साश्चर्यं सुरसुन्दरीपरिजनैः सेर्ष्यं च रम्भादिभिः ।
साकूतं च सकौतुकं च समनोह्लादं च कंसद्विषा
दृष्टा दुग्धमहोदधिप्रमथने लक्ष्मीः शिवायास्तु वः ॥३२७॥
शङ्करसेवस्य ।
जयति महोदधिमथने मुररिपुपरिरम्भसंभृता लक्ष्मीः ।
सत्वरसत्रपसरभससपुलकसोत्कम्पसस्वेदा ॥३२८॥
कस्यचित।
मन्थानोल्लासलीलाचलचिकुरमिलत्कुण्डलां कर्णपालिं
मिथ्यैवोन्मोचयन्त्याः कृतकपटपरावृत्तयस्ते कटाक्षाः ।
लक्ष्म्याः पायासुरन्तः स्मरभरविकसत्स्मेरगण्डस्थलाया
लज्जालोलं वलन्तो मधुरिपुवदनाम्भोजभृङ्गाश्चिरं वः ॥३२९॥
भोजदेवस्य ।
श्रियः क्षीराम्भोधेर्निजविनयनम्रेण वपुषा
शनैरुत्तिष्ठन्त्याः पवनचलितेन्दीवरदृशः ।
कटाक्षो मन्दाक्षस्तिमितलुलितभ्रूर्हरिमनु
प्रकीर्णः कालिन्दीलघुलहरिवृत्तिर्विजयते ॥३३०॥
कस्यचित।
६७. लक्ष्मीस्वयंवरः
सोद्वेगं करिकृत्तिवाससि भवद्व्रीडान्वितं ब्रह्मणि
त्रैलोक्यैकगुआवनादरवलत्तारं शचीभर्तरि ।
त्रासामीलितपक्ष्म भास्वति लसत्प्रेमप्रसन्नं हरौ
क्षीरोदोत्थितया श्रिया विनिहितं चक्ष्ण्डः शिवायास्तु वः ॥३३१॥
समुद्रमथनव्यग्रसुरसन्दोहनिस्पृहाः ।
लग्नाः कृष्णस्य वक्त्रेन्दौ पान्तु नो दृष्टयः ॥३३२॥
उमापतिधरस्य ।
सोत्साहं दधति स्वयंवरमहारङ्गे मिथः स्पर्धया
नेपथ्यप्रतिपन्नचित्तकलनाश्चर्यं सुराणां गणे ।
उद्यान्त्या मकरालयात्कमलया संभावितः केन
चिद्दृक्पातेन विरूढगूढहसितानन्दो हरिः पातु वः ॥३३३॥
महादेवस्य ।
आख्याते हसितं पितामह इति त्रस्तं कपालीति च
व्यावृत्तं गुरुरित्यसौ दहन इत्याविष्कृता भीरुता ।
पौलोमीपतिरित्यसूयितमथ व्रीडावनम्रं श्रिया
पायाद्वः पुरुषोत्तमोऽयमिति च न्यस्तः स पुष्पाञ्जलिः ॥३३४॥
क्षेमेश्वरस्य ।
मुग्धे मुञ्च विषादमत्र बलभित्कम्पो गुरुस्त्यज्यतां
सद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय ।
लक्ष्मीं शिक्षयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छलाद्
इत्यन्यप्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः ॥३३५॥
पुण्डरीकस्य । (Sभ्व्८४ दाक्षिणात्यस्य कस्यापि, पद्या. ३८४ कस्यचित्)
६८. लक्ष्मीशृङ्गारः
शान्तं शेते न शेषः स्थगयति तिमिरं कौस्तुभीर्नापि भासः
साम ब्रह्मापि गीत्वा मुकुलितनयनो निद्रया ध्यायतीव ।
लक्ष्म्या कर्णे गदित्वा मृदुकमिति हरेर्व्रीडया हारि हास्यं
हस्तो हस्तेन नीवीवसनविघटनाद्वारितो वः पुनातु ॥३३६॥
कस्यचित।
तिर्यक्त्वादबुधः फणीमणिर्चोऽप्यस्योपधानीकृतैर्
मन्दारैः स्थगितांशवः स्तनघनस्वेदास्पदं कौस्तुभः ।
नाभीपद्मरजोऽन्ध एव सततं वेधा मुधा लज्जसे
लक्ष्मीमित्यवबोधयन्निधुवनारम्भे हरिः पातु वः ॥३३७॥
गणपतेः ।
मिथ्याकण्डूतिसाचीकृतगलसरणिर्येषु जातो गरुत्मान्
ये निद्रां नाटयद्भिः शयनफणिफणैर्लक्षिता न श्रुताश्च ।
ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टास्
ते लक्ष्मीं नर्मयन्तो निधुवनविधयः पान्तु वो माधवस्य ॥३३८ ॥
राजशेखरस्य (सु.र. १३२)
उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकवरीभारमंशं वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालम्ब्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥३३९ ॥
वररुचेः (स.क.आ. २.३३, V १६५, Vस्१.३; सु.र. १२५, स्व७९, शा.प. १३५)
कचचिबुक कुचाग्रे पाणिषु व्यापृतेषु
प्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि ।
ग्रथितनिविडनीवीबन्धनिर्मोचनार्थं
चतुरधिककराशः पातु वश्चक्रपाणिः ॥३४०॥
दाक्षिणात्यस्य ।
६९. लक्ष्मीः
प्रवीरहठभोग्यापि
जयति श्रीर्महासती ।
कृत्स्नत्रैलोक्यवासापि
कृष्णोरःस्थलशायिनी ॥३४१॥
राजशेखरस्य ।
विद्वानक्षरनष्ट्धीरिति शुर्चिर्धर्मध्वजीति स्थिर
स्तब्धः क्रुद्ध इति ग्रहीति सुदृढः क्षन्ता लघीयानिति ।
मायावीति च नीतिशास्त्रकुशलो यामन्तरेणेश्वरैर्
गण्यन्ते गुणिनोऽपि दूषणपदं तस्यै नमस्ते श्रिये ॥३४२॥
सोलुकस्य ।
विष्णुवक्षोगृहे लक्ष्मीर्
अस्ति कौस्तुभदीपिके ।
पुनातु निवसन्ती वो
दृढदोःस्तम्भतोरणे ॥३४३॥
राजशेखरस्य ।
जयति श्रीमुखं कान्तं
कौस्तुभप्रतिबिम्बितम् ।
चन्द्रमा मनसो जात
इति यद्गायति श्रुतिः ॥३४४॥
आचार्यगोपीकस्य ।
वृत्ते साङ्गविवाहमङ्गलविधौ लब्धापि दैत्यद्रुहः
सौहार्दं विमनाः पुनातु भवतो लक्ष्मीः स्मरन्ती पितुः ।
यामाश्वासयतीव सोदरतया प्रत्यग्रबिम्बग्रह
व्याजादङ्गगतामनङ्कुशनिजस्नेहो मुहुः कौस्तुभः ॥३४५॥
शरणदेवस्य ।
७०. लक्ष्म्युपालम्भः
कोपस्तेज इति ग्रहः स्थितिरिति क्रीडेति दुश्चेष्टता
माया च व्यवहारकौशलमिति स्वच्छत्वमित्यज्ञता ।
दौर्जन्यं स्फुटवादितेति धनिनामग्रे बुधैर्यद्वशाद्
दोषोऽपि व्यपदिश्यते गुणतया तस्यै नमोऽस्तु श्रिये ॥३४६॥
शालूकस्य ।
रत्नाकरस्तव पिता स्थितिरम्बुजेषु
भ्राता तुषारकिरणः पतिरादिदेवः ।
केनापरेण कमले बत शिक्षितासि
सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥३४७॥
कस्यचित। (सु.र. १५१६)
कस्मैचित्कपटाय कैटभरिपूरःपीठदीर्घालयां
देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचक्ष्महे ।
यत्ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते
नीचान्नीचतरोपसर्पणमपामेतत्किमाचार्यकम् ॥३४८॥
मुरारेः । (आर्७.४३)
अस्मान्मा भज कालकूटभगिनि स्वप्नेऽपि पद्मालये
व्याधीभूय कदर्थयन्ति बहुशो मातर्विकारा इमे ।
यच्चक्षुर्न निरीक्षतेच्छविषयं नैवं शृणोति श्रुतिः
प्राणा एव वरं प्रयान्ति न पुनर्निर्यान्ति वाचो बहिः ॥३४९॥
भवग्रामीणवाथोकस्य ।
लक्ष्मि नीचानुरक्तासि
पुनरब्धिविलं विश ।
क्व मन्दर क्व ते देवाः
कस्त्वामुत्तोलयिष्यति ॥३५०॥
कस्यचित।
N/A
References : N/A
Last Updated : November 11, 2016
TOP