देवप्रवाहः - सुभाषित १३१ - १४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
२७. अर्धनारीशः
स जयति गिरिकन्यामिश्रिताश्चर्य्मूर्तिस्
त्रिपुरयुवतिलीलाविभ्रमभ्रंशहेतुः ।
उपचयवति यस्य प्रोन्नतैकस्तनत्वाद्
उपरि भुजगहारः स्थानवैषम्यमेति ॥१३१॥
माघस्य ।
आश्लेषाधरबिम्बचुम्बनसुखालापस्मितान्यासतां
दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनम् ।
इत्थं व्यर्थकृतैकदेहघटनाविन्यासयोरावयोः
केयं प्रीतिविदम्बनेत्यवतु वः स्मेरोऽर्धनारीश्वरः ॥१३२॥
कस्यचित। (स्व६८)
चन्द्रालोकय पश्य पन्नगपते वीक्षध्वमेतद्गणाः
कामारेः स्तनभारमन्थरमुरो लाक्षारुणाङ्घ्रिश्रियः ।
आकर्ण्य त्रिदशापगागिरमिमां सोल्लासमाभाषितां
व्रीडास्मेरनताननो विजयते कान्तार्धनारीश्वरः ॥१३३॥
योगेश्वरस्य ।
स्वच्छन्दैकस्तनश्रीरुभयगतमिलन्मौलिचन्द्रः फणीन्द्र
प्राचीनावीतवाही सुखयतु भगवानर्धनारीश्वरो वः ।
यस्यार्धे विश्वदाहव्यसनविसृमरज्योतिरर्धं कृपोद्यद्
बाष्पं चान्योन्यवेगप्रहतिसिमसिमाकारि चक्ष्ण्ड्स्मृतीयम् ॥१३४॥
मुरारेः । (आर्७.३८, सूक्तिमुक्तावलि २.२१)
धम्मिल्लं च जटां च मौक्तिकसरं चाहिं च रत्नानि च
ब्रह्मास्थीनि च कुङ्कुमं च नृशिरश्चूर्णोत्तरं भस्म च ।
क्षौमं च द्विपचर्म चैकवपुषा बिभ्रद्दिशन्नेकतां
भावानामिव योगिनां दिशतु वः श्रेयोऽर्धनारीश्वरः ॥१३५॥
शङ्करदेवस्य ।
२८. शृङ्गारात्मकार्धनारीश्वरः
अर्धं दन्तच्छदस्य स्फुरति जपवशादर्धमप्युत्प्रकोपाद्
एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।
एकं ध्यानान्निमीलत्यपरमविकसद्वीक्षते नेत्रमित्थं
तुल्यानिच्छाविधित्सा तनुरवतु स वो यस्य संध्याविधाने ॥१३६॥
कस्यचित।
अच्छिन्नमेखलमलब्धदृढोपगूढं
अप्राप्तचुम्बनमवीक्षितवक्त्रकान्ति ।
कान्ताविमिश्रवपुषः कृतविप्रलम्भ
सम्भोगसख्यमिव पातु वपुः स्मरारेः ॥१३७॥
छित्तिपस्य ।
प्रौढप्रेमरसादभेदघटितामङ्गे दधानः प्रियां
देवः पातु जगन्ति केलिकलहे तस्याः प्रसादाय यः ।
व्याहर्तुं प्रणयोचितं नमयितुं मूर्धानमप्यक्षमो
धत्ते केवलमेव वामचरणाम्भोजे करं दक्षिणम् ॥१३८॥
गदाधरस्य ।
मिश्रीभूतां तव तनुलतां बिभ्रतो गौरि कामं
देवस्य स्यादविरलपरीरम्भजन्मा प्रमोदः ।
किन्तु प्रेमस्तिमितमधुरस्निग्धमुग्धा न दृष्टिर्
दृष्टेत्यन्तःकरणमसकृत्ताम्यति त्र्यम्बकस्य ॥१३९॥
भगीरथस्य । (सु.र. ८२)
अन्यस्यै संप्रतीयं कुरु मदनरिपो स्वाङ्गदानप्रसादं
नाहं सोढुं समर्था शिरसि सुरनदीं नापि संध्यां प्रणन्तुम् ।
इत्युक्त्वा कोपबिद्धां विघटयितुमुमामात्मदेहं प्रवृत्तां
रुन्धानः पातु शम्भोः कुचकलसहठस्पर्शकृष्टो भुजो वः ॥१४०॥
मयूरस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP