देवप्रवाहः - सुभाषित ६ - १०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
६. हरशृङ्गारः
एवं स्थापय सुभ्रु बाहुलतिकामेवं कुरु स्थानकं
नात्युच्चैर्नम कुञ्चिताग्रचरणं मां पश्य तावत्क्षणम् ।
गौरीं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना
शम्भोर्वः सुखयन्तु लम्भितलयच्छेदाहतास्तालिकाः ॥२६॥
योगेश्वरस्य । (सु.र. ६०)
तस्या नाम मया कथं कथमपि भ्रान्त्या समुच्चारितं
जानास्येव ममाशयं तव कृते गौरि प्रसन्ना भव ।
क्षान्तिः स्वीक्रियतां दयावति मयि क्रोधः परित्यज्यता
मित्येवं बहु जल्पतः स्मररिपोः प्रेमाञ्जलिः पातु वः ॥२७॥
चक्रपाणेः ।
बालः सुन्दरि चन्द्रमाः स्रुतसुधाधाराभिराप्यायितो
निद्रामेति फणीश्वरः सुरधुनी रुद्धा जटावल्लिभिः ।
इत्थं मन्मथकेलिकौतुकविधौ व्रीडावतीं पार्वतीं
पायाद्वः प्रतिबोधयन्नववधूं चन्द्रार्धचूडामणिः ॥२८॥
कक्कोलस्य ।
श्रुतिः सक्ता मुग्धे वचसि वदनेन्दौ निपतिता
दृशः स्वादौ बिम्बाधरमधुनि मग्नैव रसना ।
निषण्णाभून्नासा निजपरिमले शैलदुहितु
र्घनाश्लेषानन्दे वपुरपि विलीनं पुरभिदः ॥२९॥
उमापतिधरस्य ।
दूरे दारुवनाभिसारक मृषा चाटूनि मुञ्चाधुना
भूयस्त्वं पुनरप्यहं यदि तदा चन्द्रः क्षितिं यास्यति ।
इत्युक्तः शशिमौलिरद्रिसुतया चूडेन्दुभूलम्भन
व्याजव्यञ्जितपादपद्मपतनप्रीतप्रियः पातु वः ॥३०॥
कविपण्डितश्रीहर्षस्य । (सूक्तिमुक्तावलि २.८)
७. शिवयोः प्रश्नोत्तरम्
कस्मात्पार्वति निष्ठुरासि सहज शैलीद्भवानामिदं
निःस्नेहासि कुतो न भस्मपरुषः स्नेहं क्वचिन्निन्दति ।
कोपस्ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद्
इत्थं निर्वचनीकृतो दयितया शम्भुः शिवायास्तु वः ॥३१॥
भोजदेवस्य । (सु.र. ३५)
किं गौरि मां प्रति रुषा ननु गौः किमस्मि
कुप्यामि कं प्रति मयीत्यनुमानतोऽहम् ।
जानामि सत्यमौनामनत एव स त्वम्
इत्थं गिरो गिरिभुवः कुटिला जयन्ति ॥३२॥
रुद्रटस्य । (Kआव्यालङ्कार २.१५, सूक्तिमुक्तावलि ९९.६)
केयं मूर्ध्न्यन्धकारे तिमिरमिह कुतः सुभ्रु कान्तेन्दुयुक्ते
कान्ताप्यत्रैव कामिन्ननु जलमुमया पृष्टमेतावदेव ।
नाहं द्वन्द्वं करोमि व्यपनय शिरसस्तूर्णमेनामिदानीम्
एवं प्रोक्तं भवान्या प्रतिवचनजडः पातु वो मन्मथारिः ॥३३॥
कस्यचित॥
एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा
हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते ।
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते
इत्थं यो विनिगूहते त्रिपथगां पायान्स वः शृङ्गारः ॥३४॥
कस्यचित। (स्व६७)
धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या
नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः ।
नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्
देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः ॥३५॥
विशाखदत्तस्य । (ंउद्राराक्षस्१.१, सूक्तिमुक्तावलि ९९.१)
८. हरहास्यम्
पाणौ कङ्कणमुत्फणः फणिपतिर्नेत्रं ज्वलत्पावकं
कण्ठः कुण्ठितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् ।
गौरीलोचनलोभनाय सुभगो वेषो वरस्येति मे
गण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः ॥३६॥
रुद्रटस्य । (शृ.ति. ३.२अ)
उद्दामदन्तरुचिपल्लवितार्धचन्द्र
ज्योत्स्नानिपीततिमिरप्रकरावरोधः ।
श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर्
अम्भोधरावलिघनध्वनिरट्टहासः ॥३७॥
सङ्घमित्रस्य । (सु.र. ४१)
मातर्ब्रूहि किमेतदञ्जलिपुटे तातेन गोपायितं
वत्स स्वादुफलं प्रयच्छति न मे गत्वा गृहाण स्वयम् ।
मात्रैवं प्रहिते गुहे विघटयत्याकृष्य सन्ध्याञ्जलिं
शम्भोर्भग्नसमाधिरुद्धमनसो हास्योद्गमः पातु वः ॥३८॥
योगेश्वरस्य । (सु.र. ५९)
निर्विघ्नं घनसारसारविशदस्वर्लोककल्लोलिनी
कल्लोलप्रतिमल्लबाहुचलनैर्व्याप्तान्तरालश्रियः ।
शम्भोः सम्भवदङ्गहारतरलोत्तंसामृतांशुद्रव
प्राणात्प्राणिकपालचापलदृशो हासोर्मयः पान्तु वः ॥३९॥
वाचस्पतेः ॥
भृङ्गी कस्तव चर्चिके गुह न कोऽप्याकार एकस्तु नौ
सत्यं भृङ्गरिटे सुसत्यमनृतं लोकं तु मोटिर्वदेत।
नग्नं पृच्छतमस्तु वां परिणयैकात्मत्वमित्युद्भट
स्तावुत्सृज्य सपर्षदः पशुपतेर्हास्योद्गमः पातु वः ॥४०॥
९. हरशिरः
त्वङ्गद्गङ्गमुदञ्चदिन्दुशकलं भ्रश्यत्कपालावलि
क्रोडभ्राम्यदमन्दमारुतचयस्फारीभवद्भाङ्कृति ।
पायाद्वो घनताण्डवव्यतिकरप्राग्भारखेदस्खल
द्भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरो धूर्जटेः ॥४१॥
वीर्यमित्रस्य । (सु.र. ४२)
सन्ध्याताण्डवितस्य खण्डपरशोरव्याज्जगन्ति ज्वलल्
लालाटाक्षिपुटोद्भवानलशिखालीढेन्दुलेखं शिरः ।
भ्रश्यत्कृत्ति चलन्महाहिविगलद्व्योमापगाम्बुस्खलत्
खण्डेन्दूच्छलभूतिचटुलभ्राम्यज्जटासन्तति ॥४२॥
योगेश्वरस्य ।
धूमोद्भेदानभिज्ञस्फुरदन,अमनाघ्रातपङ्काधिकार
प्रेङ्खत्कल्लोलवारिव्यतिकरमनघस्पर्शजाग्रत्कपालम् ।
अज्ञातास्तत्रियामादयितमविदितप्राणिहिंसोरगस्रग्
भूतेशस्य प्रभूताद्भुतमवतु शिरः श्रेयसां सन्ततिं वः ॥४३॥
वैद्यगदाधरस्य ।
नाट्यावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलः
शीघ्रभ्रान्तिवशाल्ललाटनयनज्वालातडिद्भीषणः ।
मुण्डालीकुहरप्रसर्पदनिलास्फालप्रयुक्तध्वनिः
प्रावृट्काल इवोदितः शिवशिरोमेघः शिवायास्तु वः ॥४४॥
कस्यचित।
अन्तःस्वीकृतजाह्नवीजलमतिस्वच्छन्दरत्नाङ्कुर
श्रेणीशोणभुजङ्गनायकफणाचक्रील्लसत्पल्लवम् ।
भूयादभुयदाय मोक्षनगरप्रस्थानभाजमितः
प्रत्यूहप्रशमैकपूर्णकलशप्रायं शिरो धूर्जटेः ॥४५॥
जलचन्द्रस्य ।
१०. हरशिरोगङ्गा
कपाले गम्भीरः कुहरिणि जटासन्धिषु कृशः
समुत्तानश्चूडाभुजगमणिबन्धव्यतिकरे ।
मृदुर्लेखाकोणे रयवशविलोलस्य शशिनः
पुनीताद्दीर्घं वो हरशिरसि गङ्गाकलकलः ॥४६॥
योगेश्वरस्य । (सु.र. ५३)
स जयति गाङ्गजलौघः शम्भोरुत्तुङ्गमौलिविनिविष्टः ।
मज्जति पुनरुन्मज्जति चन्द्रकला यत्र शफरीव ॥४७॥
कस्यचित। (सु.र. ४५)
यच्चन्द्रकोटिकरकोरकभावभाजि
बभ्राम बभ्रुणि जटापटले हरस्य ।
तद्वः पुनातु हिमशैलशिलानिकुञ्ज
सात्कारडम्बरविरावि सुरापगाम्भः ॥४८॥
कस्यचित। (स.क.आ. १.७७)
गौरीविभज्यमानार्धसङ्कीर्णे हरमूर्धनि ।
अम्ब द्विगुणगम्भीरे भागीरथि नमोऽस्तु ते ॥४९॥
कस्यचित। (सु.र. ७८, सूक्तिमुक्तावलि १.२४)
मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा
बह्वौ लाजनिभा दृशोर्मणिनिभा भोगोत्करे भोगिनः ।
नृत्यावर्तपरम्परेरितपयः मूर्च्छनोच्छालिताः
खेलन्तो हरमूर्ध्नि पान्तु भवतो गङ्गापयोबिन्दवः ॥५०॥
नडगाङ्गोकस्य ॥ शा.प. १०६, सूक्तिमुक्तावलि २.५३)
N/A
References : N/A
Last Updated : November 11, 2016
TOP