संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित २१ - २५ देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित २१ - २५ सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २१ - २५ Translation - भाषांतर २१. हरप्रसादनम्निःशङ्कं शङ्कर करग्रथिताहिभोगभोगप्रद प्रदलितामरवैरिवृन्द ।वृन्दारकार्चित चिताभसिताङ्गरागरागातिदूर दुरितापहर प्रसीद ॥१०१॥बाणस्य ।करकलितपिनाक नाकनाथद्विषदुरुमानसशूल शूलपाणे ।भव वृषभविमान मानशौण्डत्रिजगदकारणतारक प्रसीद ॥१०२॥सञ्चाधरस्य ।कटुविशिखशिखिप्रपञ्च पञ्चानन धनदप्रियमित्र मित्रनेत्र ।धृतसकलविकल्प कल्पशेषप्रकटमहानट नाटय प्रसादम् ॥१०३॥तस्यैव ।भव शिव शवभस्मगौर गौरीग्रथितशरीर सरीसृपोत्तरीय ।स्मरहर हर भीम भीमभूतप्रकरभयङ्कर शङ्कर प्रसीद ॥१०४॥तस्यैव ।धृतनिधनधनुः प्रचण्ड चण्डीमुखकमलभ्रमरामराधिनाथ ।हर रणरणकान्त कान्तमूर्तेगगनदुकूल विकूलयापदं नः ॥१०५॥तस्यैव ।२२. गौरीयानुद्धूलयतीश्वरः सिकतिला यैर्मौलिमन्दाकिनीयैर्बालेन्दुकणार्द्रकेतकदलोत्सङ्गे परागायितम् ।यैः कैलासविलासकाननतटीकङ्केल्लिपुष्पोद्गमक्रीडाकार्मणमद्रिजाचरणयोस्ते रेणवः पान्तु वः ॥१०६॥उमापतिधरस्य ।लाक्षारागं हरति शिखराज्जाह्नवीवारि येषांये तत्वन्ति स्रजमधिजटामण्डलं मालतीनाम् ।प्रत्युत्सर्पद्विमलकिरणैर्यैस्तिरोधानमिन्दोर्देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् ॥१०७॥कस्यचित। (सु.र. ८१, दक्षस्य)भवजलधिजलावलम्बयष्टिर्महिषमहासुरशैलवज्रधारा ।हरहृदयतडागराजहंसी दिशतु शिवं भवतश्चिरम् ॥१०८॥भगीरथदत्तस्य । (सु.र. ८६)कां तपस्वी गतोऽवस्थामिति स्मेराविव स्तनौ ।वन्दे गौरीघनाश्लेषभवभूतिसिताननौ ॥१०९॥भवभूतेः ।अभिमतफलसिद्धिसिद्धमन्त्रावलि बलिजित्परमेष्टिनोरुपास्ये ।भगवति मदनारिनारि वन्देनिखिलनगाधिपभर्तृदारिके त्वाम् ॥११०॥वामदेवस्य ।२३. विवाहसमयगौरीगोनासाय वियोजितागदरजाः सर्पाय बद्धौषधिःकण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन्बिभ्रती ।भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरारक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः ॥१११॥राजशेखरस्य । (वि.शा.भ. १.३, सु.र. १०२, सूक्तिमुक्तावलि २.३६)प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनव्यस्तयादृष्ट्वाग्रे परिणेतुरेव लिखितां गङ्गाधरस्याकृतिम् ।उन्मादस्मितरोषलज्जितरसैर्गौर्या कथंचिच्चिराद्वृद्धस्त्रीवचनात्प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥११२॥भासस्य । (सु.र. ८८, शा.प. १०२, सूक्तिमुक्तावलि २.३७)ब्रह्मायं विष्णुरेष त्रिदशपतिरसौ लोकपालास्तथैतेजामाता कोऽत्र योऽसौ भुजगपरिवृतो भस्मरूक्षः कपाली ।हा वत्से वञ्चितासीत्यनभिमतवरप्रार्थनाव्रीडिताभिर्देवीभिः शोच्यमानाप्युपचितपुलका श्रेयसे वोऽस्तु गौरी ॥११३॥कस्यचित।धूमव्याकुलदृष्टिरिन्दुकिरणैराह्लादिताक्षी पुनःपश्यन्ती वरमुत्सुका नतमुखी भूयो ह्रिया ब्रह्मणः ।सेर्ष्या पादनखाच्छदर्पणगतां गङ्गां दधाने हरेस्पर्शादुत्पुलका करग्रहविधौ गौरी शिवायास्तु वः ॥११४॥श्रीहर्षदेवस्य । (Pरियदर्शिका १.१)पादाग्रे स्थितया मुहुः स्तनभरेणानीतया नम्रतांशम्भोः सस्प्रृहलोचनत्रयपथं यान्त्या तदाराधने ।ह्रीमत्या शिरसीहितः सपुलकस्वेदोद्गमोत्कम्पया विश्लिष्यन्कुसुमाञ्जलिर्गिरिजया क्षिप्तोऽन्तरे पातु वः ॥११५॥तस्यैव । (ऱत्नावलि १, सूक्तिमुक्तावलि २.३८)२४. गौरीशृङ्गारःस्वेदस्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभोकस्मात्कम्पितमेतदिन्दुवदने भोगीन्द्रभीतेर्भव ।रोमाञ्चः कथमेष देवि भगवन्गङ्गाम्भसां शीकरइत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥११६॥ लक्ष्मीधरस्य । (सु.र. ७५, शा.प. १०४)शम्भो सत्यमिदं पयोधिमथने लक्ष्म्या वृते केशवेवैलक्ष्यात्किल काककूटमशितं पीतं विषं यत्त्वया ।सत्यं पार्वति नास्ति नः सुभगता साक्षी तथा च स्मरोदेवेनेति कृतस्मृतिः स्मितमुखी गौरी चिरं पातु वः ॥११७॥श्रीहर्षदेवस्य ।चर्मालम्बिदुकूलवल्लरिचिताभस्मावधूतस्तनोन्मीलच्चन्दनमुत्तरीयभुजगव्यासक्तमुक्तावलि ।मुग्धाया अपि शैलराजदुहितुर्गङ्गाधारालिङ्गनंगाढप्रेमरसानुबन्धनिकषग्रावा शिवायास्तु वः ॥११८॥जलचन्द्रस्य ।शिरसि कुटिला सिन्धुर्दोषाकरस्तव भूषणंसह विषधरैः प्रत्यासन्ना पिशाचपरम्परा ।हरसि न हर प्राणानेव न वेद कथं न्वितिप्रणयकुपितक्ष्माभृत्पुत्रीवचांसि पुनन्तु वः ॥११९॥भगवद्गोविन्दस्य ।नादत्ते फणिकङ्कणप्रणयिनं नीईवीनिवेशे करंनो चूणैरुपहन्ति भालनयनज्योतिर्मयीं दीपिकाम् ।धत्ते चर्म हरेण मुक्तमपि न द्वैपं भयादित्यसौपायाद्वो नवमोहनव्यतिकरव्रीडावती पार्वती ॥१२०॥आचार्यगोपीकस्य ।२५. दुर्गाएकं महिषशिरःस्थितम्अपरं सानन्दसुरगणप्रणतम् ।गिरिदुहितुः पदयुगलंशोणितमणिरागरञ्जितं जयति ॥१२१॥जलचन्द्रस्य ।त्रिभुवनशुभपञ्जिकाञ्जिकेवस्फुरति भवानि तवाङ्कुशः कराग्रे ।डमरुरपि बिभर्ति देवि तत्तद्विपदवसानविसर्जनीयलक्ष्मीम् ॥१२२॥हरेः ।ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।त्वां पातु मञ्जरितपल्लवकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१२३॥ अमरोः । (अमरु १; सु.र. १००)पादावष्टम्भनम्रीकृतमहिषतनोरुल्लसद्बाहुमूलंशूलं प्रोल्लासयन्त्याः सरलितवपुषो मध्यभागस्य देव्याः ।विश्लिष्टस्पष्टदृष्टोन्नतविरलबहुव्यक्तगौरान्तरालास्तिस्रो वः पान्तु रेखाः क्रमवशविकसत्कञ्चुकप्रान्तमुक्ताः ॥१२४॥बाणस्य ।विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रेजाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।वैकुण्ठे कुण्ठितास्ते महिषमतिरुषं पौरुषोपघ्निविघ्नंनिर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥१२५॥तस्यैव । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP