संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित ४०१ - ४२० देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित ४०१ - ४२० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ४०१ - ४२० Translation - भाषांतर ८१. सतारश्चन्द्रः मृगेन्द्रस्येव चन्द्रस्य मयूखैर्नखरैरिव ।पाटितध्वान्तमातङ्गमुक्ताभा भान्ति तारकाः ॥४०१॥अभिनन्दस्य । (सु.र. ९४८)तारास्तोकतमिस्रधूमपटलीव्यापारसन्ध्याननज्वालालीढनभःकपालविचलल्लाजश्रियं बिभ्रति ।किं चायं रजनीपतिः परिणतप्राग्भारतालद्रवोन्मिश्रं चिक्कणपिण्डमण्डकलसल्लावण्यमारोहति ॥४०२॥कस्यचित।उदयगिरिसौधशिखरे ताराचयचित्रिताम्बरविताने ।सिंहासनमिव निहितं चन्द्रः कन्दर्पभूपस्य ॥४०३॥कस्यचित।ताराकोरकराजिभाजि गगनोद्याने तमोमक्षिकाःसन्ध्यापल्लवपातिनीः कवलयन्नेकान्ततस्तर्कय ।एतस्मिन्नुदयान्तपर्वततरुद्वन्द्वान्तराले ततैरेतैर्भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी ॥४०४॥हरेः । (सु.र. ९५६)अयमुदयमहीध्रधातुरागैररुणकरारुणिताम्बराभिरामः ।वितरसि न दृशौ कृशाङ्गि तारामिव दिवि वन्दितुमिन्दुरभ्युपैति ॥४०५॥हरिदत्तस्य ।८२. क्षरदमृतश्चन्द्रःशशिनमसूत प्राची नृत्यति मदनो हसन्ति ककुभोऽपि ।कुमुदरजःपटवासं विकिरति गगनाङ्गने पवनः ॥४०६॥धर्मकीर्तेः । (सु.र. ९१९)तथा पौरस्त्यायां दिशि कुमुदकेदारकलिकाकपाटघ्नीमिन्दुः किरणलहरीमुल्ललयति ।समन्तादुन्मीलद्बहुजलबिन्दुव्यतिकरैर्यथा पुञ्जायन्ते प्रतिगुणकमेणाङ्कमणयः ॥४०७॥मुरारेः । (आर्२.७८, सु.र. ९१५)स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाङ्कुरोदेवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिम्भरिः ।संस्कर्ता निजकान्तमौक्तिकमणिश्रेणीभिरेणीदृशांगीर्वाणाधिपतेः सुधारसवती पौरोगवः प्रोदगात॥४०८॥तस्यैव । (आर्. ७.६१)आमोदं कुमुदाकरेषु विपदं पद्मेषु कालानलंपञ्चेषोर्विशिखेषु सान्द्रशिशिरक्षारं शशिग्रावसु ।म्लानिं मानवतीमुखेषु विनयं चेतःसु वामभ्रुवांवृद्धिं वार्धिषु निक्षिपन्नुदयते देवस्तमीकामुकः ॥४०९॥शङ्करदेवस्य ।सौरातपविरहज्वललङ्घितगात्रीं कुमुद्वतीं निभृतः ।संरक्तः परिपश्यन्विधुरयमयते प्रसादयितुम् ॥४१०॥कस्यचित।८३. भासःकह्लारस्पर्शगर्भैः शिशिरपरिचयात्कान्तिमद्भिः कराग्रैश्चन्द्रेणालिङ्गितायास्तिमिरनिवसने स्रंसमाने रजन्याः ।अन्योन्यालोकनीभिः परिचयजनितप्रेमनिस्यन्दिनीभिर्दूरारूढे प्रमोदे हसितमिव परिस्पष्टमाशासखीभिः ॥४११॥पाणिनेः । (सु.र. ९२०)उपोढरागेण विलोलतारकंतथा गृहीतं शशिना निशामुखम् ।यथा समस्तं तिमिरांशुकं तथापुरोऽपि मोहाद्गलितं न लक्षितम् ॥४१२॥तस्यैव । (स्व१९६९, शा.प. ३६३४)यातस्यास्तमनन्तरं दिनकृतो वेशेन रागान्वितःस्वैरं शीतकरः करं कमलिनीमालिङ्गितुं योजयन।शीतस्पर्शमवाप्य सम्प्रति तथा गुप्ते मुखाम्भोरुहेहासेनेव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥४१३॥वसुकल्पस्य । (सु.र. ९२२, ंन्२.४२)प्राचीमञ्चति यामिनीमनूनयत्याशाः समालम्बतेद्यामालिङ्गति सेवते कुमुदिनीं स्निग्धोऽतिमुग्धैः करैः ।बह्वीषु प्रतिपन्नमन्मथरसं कुर्वन्मनः कामिनामिन्दुर्वन्द्यकरः स एष भुवनानन्दः परिस्पन्दते ॥४१४॥कस्यचित।कलाधारो वक्रः स्फुरदधररागो नवतनुर्गलन्मानावेशास्तरुणरमणीर्नागर इव ।घनश्रोणीबिम्बे नयनमुकुले चाधरदलेकपोले ग्रीवायां कुचकलशयोश्चुम्बति शशी ॥४१५॥श्रीकण्ठस्य । (सु.र. ९०१)८४. मिश्रकचन्द्रःउत्पल्लव इव किरणैः कुसुमित इव तारकाभिरयमिन्दुः ।उदयत्युदयतटान्ते सुरतरुरिव शीतलच्छायः ॥४१६॥जनकस्य ।यात्रायामिव दत्तपूर्णकलशः कन्दर्पराज्ञः शशीतत्रायं सहकारपल्लवतुलामङ्कः समारोहति ।ज्योत्स्नालेपनपङ्कपूरितमिव व्योमाङ्गणं सर्वतःक्षिप्ता मङ्गललाजमुष्टय इव भ्राजिष्णवस्तारकाः ॥४१७॥कस्यचित।गगनतलतडागप्रान्तसीम्नि प्रदोषप्रबलतरवराहोत्खन्यमानश्चकास्ति ।परिकलितकलङ्कस्तोकपङ्कानुलेपोनिजकिरणमृणालीमूलकन्दोऽयमिन्दुः ॥४१८॥परमेश्वरस्य । (सु.र. ९३२)चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषःकलङ्कस्तस्यायं वहति मलिनाङ्गारतुलनाम् ।अथैतस्य ज्योतिर्दरदलितकर्पूरधवलंमरुद्भिर्भस्मेव प्रसरति विकीर्णं दिशि दिशि ॥४१९॥राजशेखरस्य । (सु.र. ९०७)अथोद्दामैरिन्दोः सरसविसदण्डद्युतिधरैर्मयूखैर्विक्रान्तं सपदि परितः पीततिमिरैः ।दिनंमन्या रात्रिश्चकितचकितं कौशिककुलंप्रफुल्लं निद्राणैः कथमपि यथाम्भोरुहवनैः ॥४२०॥योगेश्वरस्य । (सु.र. ९२३) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP