देवप्रवाहः - सुभाषित १ - ५
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१. अथ ब्रह्मवीचिः
शम्भोः साक्षात्सखैकः सुरपतिपरो धर्मराजस्तथान्यः
प्राणा विश्वस्य कस्य प्रथमतरमतः कोऽनु सम्भाषणीयः ।
कार्यायातान्विदित्वा मुहुरिति चतुरो लोकपालांश्चतुर्भिर्
वक्त्रैराभाषमाणः सममुदितरवः पातु पद्मोद्भवो वः ॥१॥
पालितस्य ।
आगस्कारिणि कालनेमिदलने तत्ताडनार्थं रुषा
नाभीपङ्कजमस्त्रतां गमयितुं जाने प्रयत्ने श्रियः ।
आवासोन्मथनोपपादितभयभ्रान्तात्मनः सम्भ्रमाद्
अब्रह्मण्यपराः पुरातनमुनेर्वाचः प्रसीदन्तु वः ॥२॥
भट्टश्रीनिवासस्य । (सूक्तिमुक्तावलि २.१०८)
पायाद्वो मधुकैटभासुरवधे विष्णुप्रबोधोद्धुरो
धाता वक्त्रचतुष्टयं तु युगपद्यस्याभवत्सार्थकम् ।
एकं स्तौति मुखं शिवामितरदप्यार्तं वरान्याचते
दैत्यौ प्रत्यपरं वितर्जति हरत्यन्यच्छ्रियः सम्भ्रमम् ॥३॥
वसन्तदेवस्य ।
यन्न क्षुण्णं कदाचित्तुहिनकणचयस्यन्दिभिश्चन्द्रपादैर्
नापि व्यालीनमुस्रैर्नवनलिनसरोबन्धुभिर्भानवीयैः ।
तत्कल्पान्तानुषङ्गि द्रुतमतनुतमः पाटयन्त्यः समन्ताद्
आद्याधीतौ विधातुर्मुखशशिविसृताः पान्तु वो दन्तभासः ॥४॥
बीजकस्य ।
जातस्तेऽधरखण्डनात्परिभवः कापालिकाद्योऽभवत्
स ब्रह्मादिषु कथ्यतामिति मुहुर्बाल्याद्गुहे जल्पति ।
गौरीं हस्तयुगेन षण्मुखवचो रोद्धुं निरीक्ष्याक्षमां
वैलक्ष्याच्चतुरास्यनिष्फलपरावृत्तिश्चिरं पातु वः ॥५॥
(सु.र. १०१, सूक्तिमुक्तावलि २.१०५)
२. सूर्यः
तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय
व्योमेन्द्रनीलतरुकाञ्चनपल्लवाय ।
संसारसागरसमुत्क्रमियोगिसार्थ
प्रस्थानपूर्णकलसाय नमः सवित्रे ॥६॥
वराहमिहिरस्य । (सु.र. १५०)
विष्वग्विसारितिमिरप्रकरावरुद्ध
त्रैलोक्यनेत्रपुटसिद्धरसायनाय ।
तुभ्यं नमः कमलषण्डविषादनिद्रा
विद्रावणोद्यतकराय दिवाकराय ॥७॥
श्रीकण्ठस्य ।
शुकतुण्डच्छवि सवितुश्चण्डरुचः पुण्डरीकवनबन्धोः ।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥८॥
विद्यायाः । (सु.र. १४९, शा.प. ८६)
जीयादेकफलं नभस्तलतरोरभ्रंशि सिन्दूरिणी
मुद्रा कैरवकाननस्य तिमिरस्तेयाय सन्धिर्दिवः ।
मन्दारस्तवकोन्तरीक्षकवरीभारस्य गौरीपतेः
कम्पिल्लच्छदपाटलच्छवि कुलच्छत्रं रघूणां रविः ॥९॥
हरेः ।
आद्यूनस्तमसां चकोररमणीरागाब्धिमन्थाचलो
जीवातुर्जलजस्य वासवदिशाशैलेन्द्रचूडामणिः ।
आदेष्टा श्रुतिकर्मणां कुमुदिनीशोकाग्निपूर्णाहुतिर्
देवः सोमरसायनं विजयते विश्वस्य बीजं रविः ॥१०॥
विभाकरस्य ।
३. ईशप्रणतिः
मौलौ वेगादुदञ्चत्यपि चरणभरन्यञ्चदुर्वीतलत्वाद्
अक्षुण्णस्वर्गलोकस्थितिमुदितसुरश्रेष्ठगोष्ठीस्तुताय ।
संत्रासान्निःसरनत्यविरतविषजद्दक्षिणार्धाङ्ग
बन्धादत्यक्तायाद्रिपुत्र्या तिर्पुरहरजगत्क्लेशहन्त्रे नमस्ते ॥११॥
बाणस्य । (सु.र. ५६)
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥१२॥
(सु.र. ४८)
तादृक्सप्तसमुद्रमुद्रितमहीभूभृद्भिरभ्रंकषैस्
तावद्भिः परिवारिता पृथुद्वीपैः समन्तादियम् ।
यस्य स्फारफणामणौ निलयनात्तिर्यक्कलङ्काकृतिः
शेषः सोऽप्यगमद्यदङ्गदपदं तस्मै नमः शम्भवे ॥१३॥
बल्लणस्य । (सु.र. ३८)
नमस्तस्मै कस्मैचन वचनवित्तेन्द्रिययमी
यमीशानं ज्योतिर्मयमयमुपास्ते मुनिजनः ।
गुरूपज्ञप्रज्ञामुकुरनिकुरम्बप्रतिफलन्
निजानन्दज्योत्स्नाभ्युदयभिदुराज्ञानतिमिरः ॥१४॥
हरेः ।
वृषधन धनदप्रिय प्रियार्ध
ग्रथनविदग्ध विदग्धचित्तयोने ।
पुरहर हरिणाङ्कचूड चूडा
भुजगभयङ्कर धूर्जटे नमस्ते ॥१५॥
भोजदेवस्य ।
४. महादेवः
शिल्पं त्रीणि जगन्ति यस्य कविता यस्य त्रिवेदी गुरोर्
यश्चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते ।
त्रीन्कालानिव वीक्षितुं वहति यो विस्फूर्जदक्ष्णां त्रयं
स त्रैगुण्यपरिच्छेदो विजयते देवस्त्रिशूलायुधः ॥१६॥
वसुकल्पदत्तस्य । (सु.र. ३०)
अर्वाञ्चत्पञ्चशाखः स्फुरदुपरिजटामण्डलः संश्रितानां
नित्यापर्णोऽपि तापत्रितयमपनयन्स्थाणुरव्यादपूर्वः ।
यः प्रोन्मीलत्कपर्दैः शिरसि विरचिताबालबन्धे द्युसिन्धोः
पाथोभिर्लब्धसेकः फलति फलशतं वाञ्छितं भक्तिभाजाम् ॥१७॥
जह्नोः ।
कामं मा कामयध्वं वृषमपि च भृशं माद्रियध्वं न वित्ते
चित्तं दत्त श्रयध्वं परममृतफला या कला तामिहैकाम् ।
इत्थं देवः स्मरारिर्वृषमधरचरीकृत्य मूर्त्यैव दित्सन्
निःस्वो विश्वोपदेशानमृतकरकलाशेखरस्त्रायतां वः ॥१८॥
कविपण्डितश्रीहर्षस्य ।
भूतिव्याजेन भूमीममरपुरसरित्कैतवादम्बु बिभ्रल्
लालाटाक्षिच्छलेन ज्वलनमहिपतिश्वासलक्ष्यं समीरम् ।
विस्तीर्णाघोरवक्त्रोदरकुहरनिभेनाम्बरं पञ्चभूतैर्
विश्वं शश्वद्वितन्वन्वितरतु भवतः सम्पदं चन्द्रमौलिः ॥१९॥
जयदेवस्य ।
पीयूषेण विषेण तुल्यमशनं स्वर्गे श्मशाने स्थितिर्
निर्भेदाः पयसोऽनलस्य वहने यस्याविशेषग्रहः ।
ऐश्वर्येण च भिक्षया च गमयन्कालं समः सर्वतो
देवः स्वात्मनि कौतुकी हरतु वः संसारपाशं हरः ॥२०॥
वैद्यगदाधरस्य ।
५. शिवः
वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते
स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥२१॥
कालिदासस्य । (Vइक्. १.१)
कण्ठच्छायमिषेण कल्परजनीमुत्तंसमन्दाकिनी
रूपेण प्रलयाब्धिमूर्ध्वनयनव्याजेन कल्पाजलम् ।
भूषापन्नगकेलिपानकपटादेकोनपञ्चाशतं
वातानप्युपसंहरन्नवतु वः कल्पान्तशान्तौ शिवः ॥२२॥
चित्तपस्य ।
क्वाप्यग्निः क्वचिदद्रिभूर्नरशिरःकीर्णा क्वचिन्निम्नगा
रूक्षा क्वापि जटा क्वचिद्विषधरा रौद्रं विषं कुत्रचित।
तादृग्भूतगणैर्वृतो मम चिताभस्मोर्मिकिर्मीरितः
संसारं प्रतिमुच्य यातुरपुनर्योगाय पन्थाः शिवः ॥२३॥
बिल्हणस्य ।
निर्माता जगदर्थमेव वचसां वाचं यमो यः स्वयं
भोगान्विश्वकृते तनोति विषयव्यावर्तितात्मेन्द्रियः ।
धत्तेऽस्त्राणि जगन्ति रक्षितुमुदासीनः स्वदेहग्रहे
योगीन्द्रोऽस्तु सदाशिवः स भवतां भूत्यै परार्थव्रती ॥२४॥
वैद्यगदाधरस्य ।
दूरोन्मुक्तखगेश्वरे मुरभिदि व्याक्षिप्तबाहौ ग्रह
व्यूहे वारितमातरिश्वनि नमत्याशापतीनां गणे ।
निष्कम्पोरगहारवल्लिरचलच्चूडेन्दुरव्याकुल
स्वःसिन्धुः स्थिरयोगनिर्वृतमनाः पायात्त्रिलोकीं शिवः ॥२५॥
तस्यैव ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP