देवप्रवाहः - सुभाषित २२१ - २४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
४५. परशुरामः
दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यत्रैवाविरभूत्कथाद्भुतमिदं यत्रैव चास्तंगतम् ॥२२१॥
केशटस्य ।
हा तातेति न जल्पितं न रुदितं न स्वीकृतं तद्धनं
न स्नातं न च वीक्षितः परिजनः पित्रे न दत्तं जलम् ।
यावन्न क्रकचाभिघातविगलद्दाम्नामरीणामसृग्
गण्डूषैर्घनघोरघर्घररवाः सन्तर्पिताः फेरवः ॥२२२॥
तस्यैव ।
शौर्यं शत्रुकुलक्षयावधि यशो ब्रह्माण्डखण्डावधि
त्यागः सप्तसमुद्रमुद्रितमहीनिर्वाजदानावधिः ।
व्र्यं यन्तु गिरां न तत्पथि ननु व्यक्तं हि तत्कर्मभिः
सत्यं ब्रह्मतपोनिधेर्भगवतः किं किं न लोकोत्तरम् ॥२२३॥
भवभूतेः ।
गोत्राचारविशेषपारगतया वृद्धाभिरादिष्टया
मात्रा वस्तुषु तेषु तेषु विशदन्यस्तेषु दृष्टेः पुरः ।
अन्नप्राशनवासरे सरभसं वक्षोभरोत्सर्पिणा
येनात्तं धनुरीक्षिताश्च झटिति क्षत्रावतंसा दिशः ॥२२४॥
केशटस्य ।
त्रिःसप्तावधि वाधिता क्षितिभुजामाजन्म वैखानसः
कर्ता मातृवधैनसः स सकलश्रुत्यर्थवीथीगुरुः ।
विश्वस्याश्च भुवः क्रतौ वितरिता श्यामकमुष्टिंपचो
रामः सोऽयमुदग्रगेयमहिमा कासां गिरां गोचरः ॥२२५॥
कस्यचित।
४६. श्रीरामः
शौर्योत्कर्षतृणीकृतत्रिभुवनो लङ्कापतिः सोऽभवत्
कारायामुपवासयन्विजयते तं हेलया हैहयः ।
लीलालूनविशालतद्भुजवनोऽभूज्जामदग्न्यस्ततस्
तज्जेता जनकात्मजापरिवृढो रामः कथं वर्ण्यताम् ॥२२६॥
सुरभेः ।
रामः कस्य न विस्मयाय मनसो निःशङ्कलङ्केश्वर
त्रुट्यन्मौलिसिरासमुच्छलदसृग्धारानुबन्धेन यः ।
तद्दोर्विक्रमविद्रुता दशदिशो भोगाय भूमण्डले
सम्यग्वासयितुं प्रवालघटिता यष्टीरुदस्तम्भयन॥२२७॥
दङ्कस्य ।
मार्तण्डैककुलप्रकाण्डतिलकस्त्रैलोक्यरक्षामणिर्
विश्वामित्रमहामुनेर्निरुपधिः शिष्यो रघुग्रामणीः ।
रामस्ताडितताडकः किमपरं प्रत्यक्षनारायणः
कौशयानयनोत्सवो विजयते भूकश्यपस्यात्मजः ॥२२८॥
राजशेखरस्य ।
रामो नूनमयं निशाचरचमूकालाग्निरुद्रोपमो
निःसन्देहमयं च विक्रमनिधिः सौमित्रिरस्यानुजः ।
वारं वारमपाङ्गभागचलितैर्यद्दृष्टिपातैरियं
लङ्काभर्तुरनीकिनी पितृपतेः पाशैरिवावध्यते ॥२२९॥
श्रीमित्रस्य ।
रामोऽसौ भुवनेषु विक्रमगुणैर्यातः प्रसिद्धिं पराम्
अस्मद्भाग्यविपर्ययाद्यदि पुनः देवो न जानाति तम् ।
वन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति
श्रीएणीभूतविशालसालविवरोद्गीर्णैः शरैः सप्तभिः ॥२३०॥
विशाखदत्तस्य ।
४७. विरहिश्रीरामः
सरसि विरसः प्रस्थे दुःस्थो लतासु गतादरः
प्रति परिसरं भ्रान्तोद्भ्रान्तः सरित्सु निरुत्सुकः ।
दददपि दृशौ कुब्जे कुब्जे रुदन्नुपनिर्झरं
सुचिरविरहक्षामो रामो न करि अनुरुद्यते ॥२३१॥
वासुदेवज्योतिषः ।
निष्पन्दं गिरिकन्दरेषु विपिनच्छायासु मूर्च्छालसं
सास्रं पञ्चवटीतटीषु तटिनीतीरेषु तीव्रव्यथम् ।
काकुत्स्थं तदवस्थमाधिविधुरं दृष्ट्वा तडिद्व्याजतो
मन्ये मन्युभरैरभेदि हृदयं गाढं घनानामपि ॥२३२॥
वसुरथस्य ।
अनुवनमनुशैलं तामनालोक्य सीतां
प्रतिदिनमतिदीनं वीक्ष्य रामं विरामम् ।
गिरिरशनिमयोऽयं यस्तदा न द्विधाभूत्
क्षितिरपि न विदीर्णा सापि सर्वंसहैव ॥२३३॥
शोभाकस्य ।
कोऽहं वत्स स आर्य एव भगवानार्यः स को राघवः
के यूयं बत नाथ नाथ किमिदं भृत्योऽस्मि ते लक्ष्मणः ।
कान्तारे किमिहास्महे बत वृथा देव्या गतिर्मृग्यते
का देवी जनकाधिराजतनया हा जानकि क्वासि मे ॥२३४॥
कस्यचित।
कूजन्कुञ्जे किमपि करुणं कन्दरे कान्दिशीकः
सानौ शून्यप्रणिहितमनाः कानने ध्याननेत्रः ।
गच्छन्मूर्च्छां कुसुमशयने वीतरागस्तडागे
जीयाज्जायाविरहविदुषां ग्रामणीः रामभद्रः ॥२३५॥
आचार्यगोपीकस्य ।
४८. हलधरः
सुरापीतो गोत्रस्खलनपरिवृद्धाधिकरुषः
प्रसादं रेवत्या जनयितुमनीशः कथमपि ।
विचुम्बन्संश्लिष्यन्स्तनवसनमस्यन्नविरतं
मधून्मादाविष्टः स किल बलभद्रो विजयते ॥२३६॥
लक्ष्मीधरस्य ।
आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चिल्लसद्वाससो
रेवत्यं सनिषण्णनिःसहभुजस्याताम्रनेत्रद्युतेः ।
श्वासामोदमदान्धषट्पदकुलव्यादष्टकण्ठस्रजः
पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः ॥२३७॥
कोकस्य ।
भभभ्रमति मेदिनी लललन्दते चन्द्रमाः
कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः ।
सिसीधु मुमुमुञ्च मे पपपपानपात्रे स्थितः
मदस्खलितमालपन्हलधरः श्रियः वः क्रियात॥२३८॥
पुरुषोत्तमदेवस्य । (सु.र. १२७; बा.रा.स्२.४.३७)
रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ ।
वहन्हली मदक्षीवः पानगोष्ठ्यां पुनातु वः ॥२३९॥
माघभोजदेवयोः । (स.क.आ. २.६१)
भ्रमति धरणीचक्रं चक्रे नभस्तलयन्त्रणात्
प्रभवति न मे गात्रं किञ्चित्क्रियासु विधूर्णते ।
जलधिसलिले मग्नं विश्वं विलोक्य रेवति
त्रिजगदवताज्जल्पन्नेवं हली मदविह्वलः ॥२४०॥
माधवस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP