संस्कृत सूची|संस्कृत स्तोत्र साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः| सुभाषित ७१ - ७५ देवप्रवाहः सुभाषित १ - ५ सुभाषित ६ - १० सुभाषित ११ - १५ सुभाषित १६ - २० सुभाषित २१ - २५ सुभाषित २६ - ३० सुभाषित ३१ - ३५ सुभाषित ३६ - ४० सुभाषित ४१ - ४५ सुभाषित ४६ - ५० सुभाषित ५१ - ५५ सुभाषित ५६ - ६० सुभाषित ६१ - ६५ सुभाषित ६६ - ७० सुभाषित ७१ - ७५ सुभाषित ७६ - ८० सुभाषित ८१ - ८५ सुभाषित ८६ - ९० सुभाषित ९१ - ९५ सुभाषित ९६ - १०० सुभाषित १०१ - १०५ सुभाषित १०६ - ११० सुभाषित १११ - ११५ सुभाषित ११५ - १२० सुभाषित १२१ - १३० सुभाषित १३१ - १४० सुभाषित १४१ - १५० सुभाषित १५१ - १६० सुभाषित १६१ - १७० सुभाषित १७१ - १८० सुभाषित १८१ - २०० सुभाषित २०१ - २२० सुभाषित २२१ - २४० सुभाषित २४१ -२६० सुभाषित २६१ - २८० सुभाषित २८१ - ३०० सुभाषित ३०१ - ३२० सुभाषित ३२१ - ३४० सुभाषित ३४१ - ३६० सुभाषित ३६१ - ३८० सुभाषित ३८१ - ४०० सुभाषित ४०१ - ४२० सुभाषित ४२१ - ४४० सुभाषित ४४१ - ४६० सुभाषित ४६१ - ४७५ देवप्रवाहः - सुभाषित ७१ - ७५ सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ७१ - ७ Translation - भाषांतर ७१. सरस्वतीवीणाक्वाणलयोल्लासिलोलदङ्गुलिपल्लवः ।भारत्याः पातु भूतानि पाणिर्लसितकङ्कणः ॥३५१॥कङ्कणस्य ।आदित्यादपि नित्यदीप्तममृतप्रस्यन्दि चन्द्रादपि त्रैलोक्याभरणं मणेरपि तमःकाषं हुताशादपि ।विश्वालोकि विलोचनादपि परब्रह्मस्वरूपादपि स्वान्तानन्दनमस्तु धाम जगतस्तोषाय सारस्वतम् ॥३५२॥बलदेवस्य ।निगूढं कुत्रापि क्वचिदपि बहिर्व्यक्तमधुरंसरस्वत्याः स्रोतः परिमलगभीरं विजयते ।अतिस्वादुन्यन्तःपिहितरसरम्ये यदुपरिप्लवन्ते भूयांसः कतिचिदपि मज्जन्ति निपुणाः ॥३५३॥क्वचिदिव रविर्जाड्यच्छेदि क्वचित्प्रचुराचिरद्युतिरिव चमत्कारि क्वापि क्षपाकरवन्मृदु ।शिखिवदनृजु क्वापि क्वापि प्रदीपवदुज्ज्वलंविजयि किमपि ज्योतिः सारस्वतं तदुपास्महे ॥३५४॥अपिदेवस्य ।यस्याः प्रसादपरमाणुरसायनेनकल्पान्तरे सुकविकीर्तिशरीरमस्ति ।या कामधेनुरिव कामशतानि दुग्धादेवी प्रयच्छति नमामि सरस्वतीं ताम् ॥३५५॥पुरुषोत्तमदेवस्य ।७२. प्रशस्तचन्द्रःशृङ्गारे सूत्रधारः कुसुमशरमुनेराश्रमब्रह्मचारीनारीणामादिदेवस्त्रिभुवनमहितो रागयज्ञे पुरोधाः ।ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर्देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः ॥३५६॥वसुकल्पस्य । (सु.र. ८९७)कामायुष्टोमयज्वा पुरमथनजटाचक्रकौमारभक्तिःप्राणायामोपदेष्टा सरसिरुहवने शर्वरीसार्वभौमः ।देवो जागर्ति भानोर्भुवनभरभृतः स्कन्धविश्रामबन्धुःशृङ्गाराद्वैतवादी शमितकुमुदिनी मौनमुद्रो मृगाङ्कः ॥३५७॥मुरारेः । (आर्. ७.६२)कन्दर्पस्य जगत्त्रयीविजयिनः साम्राज्यदीक्षागुरुः कान्तामानशिलोञ्छवृत्तिरखिलध्वान्ताभिचारे कृती ।देवस्त्र्यम्बकमौलिमण्डनसरित्तीरस्थलीतापसः शृङ्गाराध्वरदीक्षितो विजयते राजा द्विजानामयम् ॥३५८॥विश्वेश्वरस्य ।व्योमाम्भोनिधिपुण्डरीकममृतप्राधारधारागृहंशृङ्गारद्रुमपुष्पमीश्वरशिखालङ्कारमुक्तामणिः ।काकाकारतमोभिभूतकुमुदग्रामाय मृत्युञ्जयोजीयान्मन्मथराष्ट्रपोष्ठिकमहाशान्तिद्विजश्चन्द्रमाः ॥३५९॥उमापतिधरस्य ।लीलासद्मप्रदीपस्त्रिपुरविजयिनः स्वर्णदीकेलिहंसःकन्दर्पोल्लास सबीजं रतिरसकलहक्लेशविच्छेदचक्रम् ।कह्लाराद्वैतबन्धुस्तिमिरजलनिधेरुच्छिखो बाडवाग्निर्लक्ष्म्याः क्रीडारविन्दं जयति भुजभुवां वंशकन्दः ॥३६०॥श्रीमत्केशवसेनस्य ।७३. चन्द्रकलाश्यामायाः करजक्षतं रतिपतेर्जैत्रं धनुर्बन्धकीहृत्कम्बुककचश्चकोरखुरली सौहृद्यबीजाङ्कुरः ।चोरग्रामगजाङ्कुशः परिलसन्मन्दाकिनीरोहितोध्वान्ताम्भस्तरणैकनौरुदयते बालः सुधादीधितिः ॥३६१॥उमापतेः ।लेखामनङ्गपुरतोरणकान्तिभाजम्इन्दोर्विलोकय तनूदरि नूतनस्य ।देशान्तरप्रणयिनोरपि यत्र यूनोर्नूनं मिथः सखि मिलन्ति विलोकितानि ॥३६२॥वसुकल्पस्य । (सु.र. ९०३, राजशेखरस्य)विगाढदोषं तिमिरं निरस्यताक्रमेण बिद्ध्वाग्रकलाशलाकया ।चिकित्सकेनेव विलोकनक्षमंपुनर्नभश्चक्षुरिवेन्दुना कृतम् ॥३६३॥गणपतेः ।प्रसरत्तिमिरसरित्तरिरसतीहृद्दारुदारुणक्रकचः ।स्मरगृहकवाटविघटनराजतकुञ्जीकला शशिनः ॥३६४॥सेह्नोकस्य ।चैतन्यं नभसश्चकोररमणीकर्पूरपाली सुधानिर्यासद्रवदोहदस्य कुमुदस्तोमस्य सन्धुक्षणम् ।ध्वान्तोत्तुङ्गमतङ्गवारणसृणिः शृङ्गारबीजाङ्कुरःपश्योदञ्चति सस्पृहं प्रणयिनि प्रालेयभानोः कला ॥३६५॥इन्द्रज्योतिषः ।७४. चन्द्रबिम्बःअनलसजवापुष्पोत्पीडच्छवि प्रथमं ततःसमदयवनीगण्डच्छायं पुनर्मधुपिङ्गलम् ।तदनु च नवस्वर्णाम्भोजप्रभं शशिनस्ततस्तरुणि तगराकारं बिम्बं विभाति नभस्तले ॥३६६॥कस्यचित। (सु.र. ९४३)उद्दर्पहूणतरुणीरमणोपमर्दभुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।बिम्बं कठोरविसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥३६७॥अपराजितरक्षितस्य । (सु.र. ९२४)स्फुटकोकनदारुणं पुरस्ताद्अथ जाम्बूनदपत्रपिञ्जराभम् ।क्रमलङ्घितमुग्धभावमिन्दोःस्फटिकच्छेदनिभं विभाति बिम्बम् ॥३६८॥भगीरथस्य । (सु.र. ९४१)करमूलबद्धपन्नगविषाग्निधूमहतमध्यम् ।ऐशानमिव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् ॥३६९॥कस्यचित। (सु.र. ९५०, Jह्७.१७)मध्येयामिनि पार्वणामृतरुचेर्बिम्बं स्फुरच्चन्द्रिकातत्प्रान्तं परितो विसारिकिरणश्रेणी शलाकावलि ।ताराग्रन्थिविसंष्ठुलं स्थलमिव ज्योत्स्नास्फुरद्वाससा संवीतं सुखमध्यशेत जगती सुव्यक्तमालोक्यते ॥३७०॥अंशुधरस्य । ७५. प्रौढचन्द्रःएतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौदिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि ।कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैर्अक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ॥३७१॥वसुकल्पस्य । (शा.प. ३६३९, सु.र. ९००)जनानन्दश्चन्द्रो भवतु न कथं नाम सुकृतीप्रयातोवस्थाभिस्तिसृभिरपि यः कोटिमियतीम् ।भ्रुवोर्लीलां बालः शिर्यमलिकपट्टस्य तरुणोमुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥३७४॥मुरारेः । (सु.र. ४२५, सूक्तिमुक्तावलि ५३.३३)निर्यासैः करपत्रपीडनवशान्निर्यद्भिरिन्दूपलान्मानग्रन्थिभिरश्रमेण कठिनैस्त्रुट्यद्भिरेणीदृशाम् ।देवोऽयं परिपष्टचक्रहृदयादुत्सर्पिभिः पावकैर्व्यक्ताहंकृतिरभ्युदेति तमसां माराङ्कमल्लः शशी ॥३७५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP