संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग २ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग २ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग २ Translation - भाषांतर श्रीभैरवी ।रसोपदेशदातारं तच्छिष्यं काकिनीस्त्रियम् ।रसपूजां तु पृच्छामि यथावत् कथयस्व मे ॥१॥श्रीभैरवः ।रसोपदेशकलक्षणम्शृणु भैरवि तत्सर्वमपूर्वं कथयामि ते ।आचार्यो ज्ञानवान्दक्षः शीलवान् गुणवान् शुचिः ॥२॥धर्मज्ञः सत्यसंधश्च रसशास्त्रविशारदः ।वेदवेदान्ततत्त्वज्ञो निर्मलः शिववत्सलः ॥३॥देवीभक्तः सदा शान्तो रसमण्डपकोविदः ।मन्त्रसिद्धो महावीरो देवतायागतत्परः ॥४॥रसदीक्षाविधानज्ञो मन्त्रौषधमहारसान् ।रागसंख्यां बीजकल्पं द्वन्द्वमेलापनं बिडम् ॥५॥रञ्जनं सारणां तैलं दलानि क्रामणानि च ।वर्णोत्कर्षं मृदुत्वं च जारणं बालवृद्धयोः ॥६॥खेचरीं भूचरीं चैव यो वेत्ति स गुरुर्भवेत् ।शिष्यलक्षणम्गुरुभक्तः सदाचारो लोभमायाविवर्जितः ॥७॥निस्पृहो निरहङ्कारः सत्यवाङ्नियमस्थितः ।निरालस्यः स्वधर्मज्ञः षट्कर्मनिरतः सुधीः ॥८॥दम्भहिंसादिनिर्मुक्तः शिवाचारेषु दीक्षितः ।अत्यन्तसाधकः शान्तो मन्त्रानुष्ठानतत्परः ॥९॥दान्तः शिष्यः स विज्ञेयः शक्तिमान् गतमत्सरः ।काकिनीलक्षणम्आकुञ्चितस्निग्धकेशा पद्मपत्रायतेक्षणा ॥१०॥दीर्घोत्तुङ्गघ्राणकेशा विद्रुमाधरशोभिता ।दाडिमीबीजदशना कम्बुग्रीवोन्नतस्तनी ॥११॥शिरीषमालामृदुलबाहुपाशविराजिता ।संकीर्णोरस्थला निम्ननाभिः सूक्ष्मा चलाङ्गका ॥१२॥तलोदरी रोमराजिवलित्रयविभूषिता ।विशालजघनोपेता रम्भोरुः सुभगा प्रिया ॥१३॥कादलोपमजङ्घा च पाटलाङ्घ्रिसरोरुहा ।शोणामलनखोपेता राजहंसगतिः शुभा ॥१४॥कलकोकिलनिध्वानकलकण्ठादिमञ्जुला ।पिप्पलछदसंकाशस्मरमन्दिरमण्डिता ॥१५॥युवती श्यामला स्निग्धा सुरूपा शुभलक्षणा ।चुम्बनस्पर्शनाश्लेषरतिकर्मविचक्षणा ॥१६॥बहुले या पुष्पवती पक्षे सा काकिनी स्मृता ।स्वस्ववर्णसद्भूता ग्राह्या वाप्यन्यवर्णजा ॥१७॥रसकर्मणि दीक्षायां प्रयोगे च रसायने ।काकिनीत्वापादनम्काकिन्यभावे तरुणी सुरूपान्याथवा भवेत् ॥१८॥गन्धकं गोघृतोपेतं निष्कं त्रिः सप्तवासरम् ।प्रातर्दद्यात्तु सा नारी काकिनीसदृशा भवेत् ॥१९॥धार्मिकः पापभीरुश्च बलवान् ज्ञानवित्तमः ।न्यायश्रेष्ठः सर्वसमो रसागमविशारदः ॥२०॥भूपतिश्चास्य मन्त्री च सर्वशास्त्रविशारदः ।सर्वधर्मरतः श्रेष्ठो न्यायमार्गप्रवर्तकः ॥२१॥रसशालानिर्माणम्रसशालां प्रवक्ष्यामि रसेन्द्रस्य वरानने ।निर्णयेच्च निरातङ्के देशे च निरुपप्लवे ॥२२॥आस्तिकप्राणिसुभगे धनधान्यसमाकुले ।सौराज्ये पूर्णविभवे निरपाये ह्यनिन्दके ॥२३॥नगरे सर्ववर्णाढ्ये महामाहेश्वरावृते ।तत्रापि विजये स्थाने पवित्रे च सुरक्षिते ॥२४॥सव्यालपशुपक्ष्यादिसंबाधपरिवर्जिते ।समस्थले च प्राकारपरिघार्गलभूषिते ॥२५॥नारङ्गदाडिमडहजम्बीरफलपूरके ।तालहिन्तालवकुलनारिकेलाम्लपाटले ॥२६॥अशोकजम्बूपनससालपुंनागमण्डिते ।कपित्थपूगसरलदेवदारुसुबिल्वके ॥२७॥धात्रीन्यग्रोधवरणमधूकाम्रातमण्डिते ।केतकीमल्लिकाजातीयूथिकामालतीयुते ॥२८॥मागधीकुन्दकुरवतिलके शतपत्रके ।कुमुदोत्पलकल्हारपुण्डरीकांबुजोत्पलैः ॥२९॥हंससारसकारण्डचक्रवाकविराजितैः ।सरोभिः शीतलजले परितः परिवेष्टिते ॥३०॥शीतानिलाभिलुलितललितप्रसवाञ्चिते ।चित्रोद्यानेऽतिरुचिरे रसशालां प्रकल्पयेत् ॥३१॥षोडशस्तम्भरुचिरां चतुरश्रां समायताम् ।मनोज्ञां देवदेवेशि मत्तवारणसंयुताम् ॥३२॥वातायनसमोपेतां कवाटार्गलरक्षिताम् ।कक्षपताकासंयुक्तां सर्वोपकरणोज्ज्वलाम् ॥३३॥समालिखितदिक्पालां समर्चितविनायकाम् ।प्रतिष्ठितोमामाहेशां द्वारपालैश्च रक्षिताम् ॥३४॥भेरीकाहलघण्टादिदिव्यवाद्यविनादिताम् ।वास्तुलक्षणसंयुक्तां रसशालां प्रकल्पयेत् ॥३५॥शालायां वेदिका कार्या सुदृढा दर्पणोपमा ।इष्टकैः खचिता रम्या ससोपाना सलक्षणा ॥३६॥कपिलागोमयालिप्ता हिरण्यकलशावृता ।रसेन्द्रपूजाविधिःवेदिकायां रसेन्द्रस्य भद्रपीठं प्रकल्पयेत् ॥३७॥भद्रपीठे लिखेत्सम्यक् सिन्दूरेण द्विहस्तकम् ।षट्कोणं वसुपत्रं च तद्बहिश्चाष्टपत्रकम् ॥३८॥कमलं चतुरश्रं च चतुर्द्वारोपशोभितम् ।रसलिङ्गं न्यसेद्यन्त्रे पुष्पाद्यैश्च समर्चयेत् ॥३९॥रससन्ध्याअथ सन्ध्यां प्रवक्ष्यामि रसकर्मफलप्रदाम् ।प्रविशेद्रसशालां च स्नातः शुद्धोऽनुलेपितः ॥४०॥शुक्लमाल्याम्बरधरः संयतात्मा जितेन्द्रियः ।यतवाग् गुरुभक्तश्च सत्यवादी दृढव्रतः ॥४१॥उपविश्य समाचामेत् मृदुले चित्रकम्बले ।वाङ्मायाश्रीयुतं तोयम् आत्मविद्याशिवात्मकम् ॥४२॥तत्त्वं च शोधयामीति त्रिवारं विधिवत्पिबेत् ।ध्यायेद्वरदगायत्रीं त्रिवारं प्रजपेत्प्रिये ॥४३॥रसभैरवगायत्रीं शृणु भैरवि तत्त्वतः ।ऐं रसेश्वराय विद्महे रसाङ्कुशाय धीमहि ।तन्नः सूतः प्रचोदयात् ।कोटिसूर्यप्रतीकाशं दशकोटीन्दुसंनिभम् ॥४४॥शुभ्रं पञ्चमुखं देवं त्रिनेत्रं चन्द्रशेखरम् ।अष्टादशभुजं शान्तं पञ्चकृत्यपरायणम् ॥४५॥शुक्लमाल्यांबरधरं नागयज्ञोपवीतिनम् ।स्फटिकसङ्काशं प्रेतारूढं रसेश्वरम् ॥४६॥नीलकण्ठं च सर्वज्ञं सर्वाभरणभूषितम् ।वरदं रसशास्त्रं च पारदं भुजङ्गं सुधाम् ॥४७॥शङ्खभैषज्यकोदण्डशूलखट्वाङ्गसायकम् ।डमरुं करवालं च गदां पावकमीश्वरि ॥४८॥आरोग्यं दिव्यमालां च ह्यभयं द्विनवैः करैः ।रसाङ्कुशीं निजोत्सङ्गे बिभ्राणं वृषवाहनम् ॥४९॥कपर्दभाररुचिरं मन्दहासाननं शिवम् ।रसभैरवम् आचिन्त्य तस्योत्सङ्गे रसाङ्कुशीम् ॥५०॥अङ्कुशं चाक्षमालां च दधतीं दक्षहस्तयोः ।पाशाभयं च बिभ्राणां दक्षिणेतरहस्तयोः ॥५१॥चतुर्भुजां रक्तवर्णां त्रिणेत्रामिन्दुशेखराम् ।रक्ताम्बरधरां देवीं कम्बुग्रीवां कृपामयीम् ॥५२॥रत्नालङ्काररुचिरां मन्दहासविराजिताम् ।ध्यायेद्रसाङ्कुशीं देवीं देवस्याभिमुखीं शिवाम् ॥५३॥ततो भस्म समादाय वामहस्तेन धारयेत् ।नैवाधःपतितं पात्रे गृहीत्वा गोमयं सुधीः ॥५४॥विशोष्य प्रदहेत्कुण्डे क्रमेण धारयेत्प्रिये ।पुनरुद्धारणं चैव सद्योजातादिभिर्भवेत् ॥५५॥निरीक्षणं प्रोक्षणं च ताडनाभ्युक्षणं तथा ।सद्योजातादिभिर्मन्त्रैरभिमन्त्र्य च तत्पुनः ॥५६॥मूर्ध्नि वक्त्रे च हृदये गुह्ये चरणयोः क्रमात् ।ईशानाद्यैः पञ्चमन्त्रैस्तत्तत्स्थानेषु निक्षिपेत् ॥५७॥सर्वाङ्गोद्धूलनं कुर्यात् भस्मना पञ्चभिश्च तैः ।संकल्पं विधिवत्कुर्यात् रसाचार्यो महेश्वरः ॥५८॥प्राणायामत्रयं कृत्वा मूलमन्त्रेण पार्वति ।प्रोक्षयेन्मन्त्रितं तोयं मूर्ध्नि वामकरस्थितम् ॥५९॥आचम्य च पुनस्तोयं मूलमन्त्रेण मन्त्रितम् ।त्रिधा दक्षिणहस्तस्थं पिबेदाचमनं ततः ॥६०॥अर्घ्यं मूलेन दत्त्वा त्रिः पुनराचम्य पार्वति ।अष्टोत्तरशतं जप्त्वा मूलमन्त्रमुदारधीः ॥६१॥समर्पयेच्च सूताय रससन्ध्येयमीश्वरि ।त्रिकालमेवं कुर्वीत सन्ध्यां सर्वाघनाशिनीम् ॥६२॥रसांकुशरसांकुशीमूलमन्त्रोद्धारःवक्ष्येऽहं मूलमन्त्रस्य शृणूद्धारक्रमं प्रिये ।वाङ्माया कमला चाथ चतुर्थ्यन्तो रसेश्वरः ॥६३॥ततो महाकालपदं महाबलपदं ततः ।अघोरभैरवपदं वज्रवीरपदं ततः ॥६४॥क्रोधकालपदं चैतत्सर्वं सम्बुद्धिसंयुतम् ।कषष्टवर्गान्तयुतः साधोदन्तः सबिन्दुकः ॥६५॥इदं पञ्चाक्षरं कूटं ततः कर्षणसंयुतः ।सविसर्गो ऽप्ययं कूटश्चतुर्वर्णात्मकः प्रिये ॥६६॥रसेन्द्रभैरवस्यायं मन्त्रो द्वात्रिंशदर्णकः ।गोपितः सर्वतन्त्रेषु रहस्योऽत्यन्तदुर्लभः ॥६७॥रसाङ्कुशामन्त्रमहं वक्ष्यामि शृणु भैरवि ।वाङ्माया भुवनेशी च रमा मकरकेतनः ॥६८॥रसाङ्कुशा चतुर्थ्यां च नमोऽन्तो द्वादशार्णकः ।मन्त्रो रसाङ्कुशायाश्च तव देव्याः प्रकीर्तितः ॥६९॥रसभैरवस्य छन्दो ऽनुष्ठुप् प्रकीर्तितः ।नन्दिकेश ऋषिः प्रोक्तो देवः श्रीरसभैरवः ॥७०॥रं बीजं लं भवेत् कीलम् अन्त्यार्णः शक्तिरीरितः ।रसांकुशायाः स्कन्दस्यार्द्रं बीजं कीलकं रसः ॥७१॥नमः शक्तिरिति ख्यातं रहस्यं मन्त्रमुत्तमम् ।रसलिङ्गार्चनारसलिङ्गार्चनं वक्ष्ये भैरवि शृणु तत्त्वतः ॥७२॥वामपादं पुरस्कृत्य प्रविशेद्यागमन्दिरम् ।आसने मृदुले स्थित्वा शुचिः संयतमानसः ॥७३॥प्राणानायम्य संकल्प्य श्रीगुरुं शिरसि स्थितम् ।शुद्धस्फटिकसंकाशं प्रशान्तं वरदाभयम् ॥७४॥स्मरेत्तन्नाम पूर्वं च तदनुज्ञामवाप्य च ।दिवि स्थिताश्च ये भूता भूमिस्था विघ्नकारिणः ॥७५॥पाताले ये महाभूताः ते नश्यन्तु शिवाज्ञया ।अनेनैव च मन्त्रेण दिग्विदिक्ष्व् अक्षतान् क्षिपेत् ॥७६॥पुष्पमस्त्राय फडिति निक्षिपेद् अन्तरिक्षके ।सर्वशत्रुप्रमथनी चेति दक्षिणपार्ष्णिकाम् ॥७७॥त्रिवारं घातयेद्भूमौ प्राणायामो भवेत्पुनः ।रसेन्द्रभद्रपीठस्य दक्षिणे चतुरश्रकम् ॥७८॥मण्डलं हस्तमात्रं च सार्धं कुर्यात्सुशोभनम् ।त्रिकोणवृत्तषट्कोणचतुरश्रं भवेत्क्रमात् ॥७९॥इन्द्रादिलोकपालांश्च तत्तन्नामपुरःसरम् ।प्रणवादिनमोऽन्तैश्च पूजयेत्कुसुमाक्षतैः ॥८०॥वाङ्मायाकमलाबीजैर् हृदयादीन् प्रपूजयेत् ।प्राच्यामवाच्यां क्रमशः प्रतीच्योत्तरयोः शिवे ॥८१॥ईशानलासुरमरुत्कोणे नेत्रे प्रपूजयेत् ।अस्त्रं सर्वासु काष्ठासु चतुर्थ्यन्तं फडन्तकम् ॥८२॥छोटिका दर्शयेदष्ट पश्चादाधारमाहरेत् ।तत्रैवावाहयेदग्निमण्डलं बीजमूलकम् ॥८३॥अग्नेर्दश कलास्तत्र या गन्धाक्षतैः क्रमात् ।ततः पात्रं समादाय भावयेत्सूर्यमण्डलम् ॥८४॥मार्तण्डद्वादशकलास्तत्रार्च्याश्चन्दनाक्षतैः ।गन्धोत्तमान्वितं तोयं पूरयेद् अर्घ्यपात्रकम् ॥८५॥चिन्तयेदैन्दवं बिम्बं तास्तत्र पूजयेत् ।मध्ये त्रिकोणमालिख्य शक्तिबीजं समुल्लिखेत् ॥८६॥तत्र क्षिपेत् गन्धपुष्पं मूलमन्त्रं त्रिधा जपेत् ।पूर्वादिदिक्षु चतसृषु चतुःपात्राणि धारयेत् ॥८७॥पूरयेत्पूर्ववत्तानि गन्धपुष्पाक्षतैर्यजेत् ।प्रोक्षयेन्मूलमन्त्रेण मध्यपात्रोदकेन च ॥८८॥पात्राणि निजगात्राणि पूजाद्रव्याणि सर्वतः ।स्वागतश्चतुरश्रं च मण्डलं परिकल्पयेत् ॥८९॥पूर्ववत्पञ्चपात्राणि पूरयेच्छुद्धवारिणा ।निक्षिपेन्मध्यगे सूतं रत्नं दक्षिणके क्षिपेत् ॥९०॥स्वर्णं तद्वामपात्रे च तत्समीपे कुशं न्यसेत् ।रत्नपात्रसमीपस्थे पात्रे स्यादष्टगन्धकम् ॥९१॥प्रतिपात्रे त्रिकोणं च लिखेन्मायासमन्वितम् ।न्यसेद्गन्धाक्षतं पुष्पं त्रिधा मूलेन मन्त्रयेत् ॥९२॥सप्तधा रसपात्रं च मूलमन्त्रेण मन्त्रयेत् ।रसपात्रोदकेनैव पूजाद्रव्याणि चात्मनः ॥९३॥शरीरमुत्तमाङ्गं च प्रोक्षयेत्पीठदीपकम् ।आसनस्य ऋषिर्मेरुः सुतलं छन्द ईरितम् ॥९४॥कूर्मरूपी तु भगवान् देवता परिकीर्तिता ।पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।अनेनैव तु मन्त्रेण चासने कुसुमं क्षिपेत् ॥९५॥भूतशुद्धिःभूतशुद्धिं प्रवक्ष्यामि पृथ्वी पीता सवज्रका ।कठिना लंबीजयुता जान्वन्ताङ्गुष्ठमूलतः ॥९६॥ध्येया जान्वादिकट्यन्तम् उपर्यस्यार्धचन्द्रका ।शुभ्रा वं बीजसहिता विचिन्त्या द्रवरूपिका ॥९७॥कट्यादि हृदयान्तं च बहिर्ध्येयस्त्रिकोणगः ।रं बीजं रक्तवर्णश्च स्वस्तिकेन विभूषितः ॥९८॥हृदादिकण्ठपर्यन्तं वायुः स्मर्यो ऽञ्जनप्रभः ।यंबीजसहितो देवि षड्बिन्दुपरिभूषितः ॥९९॥षट्कोणः कर्णदेशाच्च ब्रह्मरन्ध्रान्तमीश्वरि ।वर्तुलं हंबीजयुतं महाकृष्णं वियत्स्मरेत् ॥१००॥पृथिवीम् अप्सु च तास्त्वग्नौ स च वायौ स सोऽम्बरे ।मेलयित्वा द्वादशान्ते स्थापयेत्परमेश्वरि ॥१०१॥यंबीजेनात्मनो देहं मूलाधाराद्विशोषयेत् ।षडाधाराणि निर्भिद्य यावत् ब्रह्मबिलं प्रिये ॥१०२॥रं बीजेन दहेद्देहं सर्वमाप्लावयेत्ततः ।वंबीजेन द्रवीभूतं ब्रह्मरन्ध्रेन्दुमण्डलात् ॥१०३॥स्यन्दमानामृतेनैव तनुमाप्लावयेच्छिवे ।आकाशाद्वायुमादद्यात्तस्माद्वह्निं समाहरेत् ॥१०४॥वह्नेरापः समादेयास्ताभ्यो भूमिं समाहरेत् ।एवं पञ्च च भूतानि स्वस्वस्थाने नियोजयेत् ॥१०५॥वामकुक्षिस्थितं पापपुरुषं कृष्णरूपिणम् ।ध्यायेत्तं निर्गतं देवि खड्गचर्मधरं परम् ॥१०६॥न्यासं रसाङ्कुशेनैव कृत्वाङ्गुलिहृदादिषु ।ऐं ह्रीं श्रीं क्ष्मौं क्ष्मं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् रसेश्वराय महाकालभैरवाय शिखायै वषट् ।रौद्ररूपाय कृष्णपिङ्गललोचनाय अवतर २ अवतारय २ जल्प २ जल्पय २ शुभाशुभं कथय २ कथापय २ मम महारक्षां कुरु कुरु कारय २ मम रससिद्धिं देहि देहि १८८८ ।महाकालभैरवाय हृदयाय नमः ।पूर्ववन्महाबलभैरवाय शिरसे स्वाहा ।पूर्ववत् अघोरभैरवाय शिखायै वषट् ।पूर्ववत् वज्रवीरभैरवाय कवचाय हुं ।पूर्ववत् क्रोधभैरवाय नेत्रत्रयाय वौषट् ।पूर्ववत् कालभैरवाय अस्त्राय फट् ।एवमङ्गुलिन्यासः ।प्रतिबीजैः समुच्चार्य चतुर्थं रसांकुशम् ॥१०७॥हृदादिपञ्चस्थानेषु विन्यसेद्बीजपञ्चकम् ।ततश्चास्त्राय फडिति चोटिकां दिक्षु दर्शयेत् ॥१०८॥मातृकां च कलान्यासं पाज्योन्यासं च कोलकम् ।प्रकुर्वीत ततो देवि चान्तर्यजनम् आचरेत् ॥१०९॥कुम्भकेन हृदम्भोजे सम्फुल्लं विदधाति हि ।हृत्पद्मकर्णिकायां च रसमूर्तिं च चिन्तयेत् ॥११०॥मानसैर्गन्धपुष्पाद्यैरुपचारैः प्रपूजयेत् ।स्वदेहं गन्धपुष्पाद्यैर् अलंकुर्याद् यथासुखम् ॥१११॥अन्तर्यजनमेवं स्याद् बहिर्यजनम् आचरेत् ।अस्त्रेण लिङ्गं सम्प्रोक्ष्य लिङ्गशुद्धिं विधाय च ॥११२॥वस्त्रेन तोयेन पूरितां वर्धनीं प्रिये ।दक्षपार्श्वे संनिवेश्य पूजयेत्तां विधानतः ॥११३॥पीठे सिन्दूररजसा विदध्याच्चतुरश्रकम् ।षट्कोणं विलिखेत्तस्मिन् ऋजुं स्वर्णशलाकया ॥११४॥वसुपत्रं चाष्टपत्रं सचतुर्द्वारभूगृहम् ।चतुरश्रं बहिर्भागे दिक्पालान्पूजयेत्प्रिये ॥११५॥नन्दिनं च महाकालं भृङ्गिं रिटिं महाबलम् ।कुम्भकर्णं च सुग्रीवं भृङ्गकं च दृढायुधम् ॥११६॥चतुर्द्वारे तु विन्यस्य द्वौ द्वौ प्रागादिपूजितौ ।रुक्मं रौप्यं ताम्रसीसं वङ्गकान्तशठं ह्ययः ॥११७॥प्रागादिद्वार्षु सम्पूज्य क्रमाद्द्वे द्वे महेश्वरि ।भूगृहाभ्यन्तरे प्राच्यां शुक्रमग्नौ ग्रहं यजेत् ॥११८॥दक्षिणस्यां यजेद्रुद्रमासुरे च समीरणम् ।पश्चिमस्यां शिवं वह्निं वायव्याम् उत्तरे ह्युमाम् ॥११९॥यजेत्पावकमैशान्यां ततश्चाष्टदलाग्रके ।प्रागादौ गन्धकं तालं कासीसं च मनःशिलाम् ॥१२०॥कंकुष्ठं माक्षिकं चैव नृपावर्तं च गैरिकम् ।लेपिका क्षेपिका चैव क्रामिका रञ्जिका तथा ॥१२१॥लोहटी बन्धकारी च भूचरी मृत्युनाशिनी ।विभूतिः खेचरी चैव दश दूत्यः क्रमेण च ॥१२२॥पूज्यास्त्वष्टदले पद्मे ह्यूर्ध्वाधस्ताद्दलेषु च ।माणिक्यमुक्तावैडूर्यनीलगारुडविद्रुमाः ॥१२३॥गोमेदः पुष्परागश्च मणयः सर्वसिद्धिदाः ।द्वितीयवसुपत्रस्य दलाग्रेषु प्रपूजयेत् ॥१२४॥अष्टादशभुजा रुद्राः पञ्चवक्त्रास् त्रियम्बकाः ।चन्द्रार्धशोभिमकुटाः नीलग्रीवा वृषध्वजाः ॥१२५॥स्वस्ववर्णधराः सर्वे त्वष्टविद्येश्वरास्तु ते ।पूजनीया महेशानि द्वितीयेऽष्टदलाम्बुजे ॥१२६॥रसकं विमलं ताप्यं चपलं तुत्थमञ्जनम् ।षट्कोणस्य दलाग्रेषु सख्यः स्युः सर्वसिद्धिदाः ॥१२७॥वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणम् ।भूनागः शक्तयश्चैताः षडस्रेषु प्रपूजयेत् ॥१२८॥हिंगुलं सस्यकं चैव शिलाजत्वग्निजारकम् ।तत्कर्णिकायां पूर्वादौ पराशक्तिचतुष्टयम् ॥१२९॥हिंगुलं मालिनी शक्तिः परा शक्तिश्च सस्यकम् ।शिलाजत्वपरा शक्तिरग्निजारः परापरा ॥१३०॥प्रणवादिनमोऽन्तैश्च तत्तन्नामपुरःसरम् ।सचतुर्थ्या यजेदेतान्रसावरणसंस्थितान् ॥१३१॥मध्ये तु दिव्यशक्तीनां पूजयेद्रसभैरवम् ।सप्तविंशतिनिष्के तु द्राविते शुद्धहाटके ॥१३२॥नवनिष्कं सूतराजं विन्यसेच्चैकमानसः ।मधूच्छिष्टकृते यन्त्रे लिङ्गाकारे सुलक्षणे ॥१३३॥निष्टप्ते हाटके सूतं प्रतप्ते प्रक्षिपेच्छिवे ।मुहूर्तात्स्वाङ्गशीतं तं रसलिङ्गं पयोऽन्तरे ॥१३४॥स्थापयेत् पुनरादाय ह्युपरिस्थं मलं हरेत् ।संघृष्य च समीकृत्य लिङ्गं संप्रोक्षयेत्ततः ॥१३५॥एवं रौप्यादिलोहैर्वा व्यस्तैर् वाथ समस्तकैः ।अभ्रकादिमसत्त्वैर्वा लिङ्गं कुर्यात्स्वशक्तितः ॥१३६॥रसलिङ्गं द्विधा प्रोक्तं सकलं निष्कलं प्रिये ।पूर्वोक्तं सकलं लिङ्गं निष्कलं केवलो रसः ॥१३७॥बुभुक्षूणां हि सकलं निष्कलं मोक्षमिच्छताम् ।रसलिङ्गं हेमबद्धं ब्रह्मविष्ण्वीशवह्नयः ॥१३८॥अपूजयन् रूप्यबद्धं गणेशस्कन्दनन्दिनः ।त्वयाभ्रसत्वसम्बद्धं रसलिङ्गं प्रपूजितम् ॥१३९॥ताम्रबद्धं रमावाणीकुबेरेन्द्रजलाधिपाः ।कान्तबद्धं यममरुन्नैरृताः समपूजयन् ॥१४०॥वङ्गबद्धं सिद्धसाध्यविद्याधरमहर्षयः ।नागबद्धं नागवसुगन्धर्वोरगकिन्नराः ॥१४१॥तीक्ष्णबद्धं भद्रकालीयक्षभूतपिशाचकाः ।मुण्डबद्धं च दुर्गाम्बा चाप्सरोगुह्यकासुराः ॥१४२॥निष्कलं रसलिङ्गं तु भृङ्ग्याद्या योगिनोऽर्चयन् ।उक्तानि रसलिङ्गानि मानवाः फलकाङ्क्षिणः ॥१४३॥पूजयेयुः प्रयत्नेन नित्यं सर्वार्थसिद्धये ।उक्तानां रसलिङ्गानां प्राणसंस्थापनं शृणु ॥१४४॥प्राणानायम्य विधिवत् प्राणशक्तिं स्मरेच्छिवे ।शोणिताम्भोधिमध्यस्थरक्ताम्भोजासनां पराम् ॥१४५॥रक्तांबरधरां रक्तां नानारत्नकिरीटिनीम् ।विमलेन्दुकलाजूटां रविवह्नीन्दुलोचनाम् ॥१४६॥कर्णताटङ्ककिरणारुणीकृतकपोलकाम् ।श्रीपर्णीकुसुमाकारनासावंशविराजिताम् ॥१४७॥प्रवालपद्मरागाभबिम्बाधरविराजिताम् ।कुरुविन्ददलाकारश्लक्ष्णदन्ताभिशोभिताम् ॥१४८॥शङ्खाभिरामकण्ठस्थमुक्ताहारविराजिताम् ।अङ्गुलीयककेयूरकटकादिविभूषिताम् ॥१४९॥पाशाङ्कुशेक्षुकोदण्डपुष्पबाणाभयप्रदाम् ।रुधिरापूर्णपात्रेण शोभमानकराम्बुजाम् ॥१५०॥पीनस्तनतटोद्भासिहारकुङ्कुममण्डिताम् ।काञ्चीमञ्जीरकटकपादाङ्गुलिविभूषिताम् ॥१५१॥प्राणप्रतिष्ठां लिङ्गस्य कुर्वीतैकाग्रमानसः ।सृणिं मञ्च पाशश्च हंसः सोऽहमिति प्रिये ।अमुष्य लिङ्गस्य प्राण इह प्राणः ।अमुष्य लिङ्गस्य जीव इह स्थितः ।अमुष्य लिङ्गस्य सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणा इहागत्य सुखं चिरं तिष्ठन्तु सोऽहं हंसः स्वाहा ।यरलवशषसहों ।क्रों ह्रीं आं ।एतन्मन्त्रं समुच्चार्य प्राणानावाहयेत्प्रिये ।अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः ।ऋग्यजुःसामानि छन्दांसि ।श्रीपराशक्तिर्देवता ।आं बीजम् ।ह्रीं शक्तिः क्रों कीलकम् ।अमुष्य लिङ्गस्य प्राणप्रतिष्ठायां विनियोगः ।आसनं पूजयेत्पूर्वं गन्धपुष्पाक्षतादिभिः ॥१५२॥हां आधारशक्त्यै नमः ।ह्रीं कूर्माय नमः ।ह्रूं अनन्ताय नमः ।ह्रैं पृथिव्यै नमः ।ह्रौं कन्दाय नमः ।अङ्कुराय नालाय कर्णिकेभ्यः दलेभ्यः केसरेभ्यः कर्णिकायै तन्मध्ये धर्माय ज्ञानाय वैराग्याय ऐश्वर्याय अधर्माय अज्ञानाय अवैराग्याय अनैश्वर्याय नमः ।हृदम्भोजस्थितं देवं सह देव्या महेश्वरि ।आवाहयेत्सावरणं स्वाङ्गशक्तिसमन्वितम् ॥१५३॥पीठे संस्थापयेल्लिङ्गं मूलेनार्घ्यं कुशोदकैः ।पाद्यं गन्धोदकैर्दद्यात् हैमेनाचमनं भवेत् ॥१५४॥रत्नोदकैर्भवेत्स्नानं सर्वं मूलेन शाम्भवि ।एकादशेन रुद्रेण पवमानेन पार्वति ॥१५५॥चमकैः पुरुषसूक्तैश्च फलैः पञ्चामृतैरपि ।नालिकेरेक्षुसलिलैः सुगन्धोदकवारिणा ॥१५६॥संस्नाप्य च ततो लिङ्गं पीठे संस्थापयेच्छिवे ।लिङ्गस्य परितः ओं वामदेवाय नमः ज्येष्ठाय रुद्राय कालाय कलविकरणाय बलाय बलविकरणाय बलप्रमथनाय सर्वभूतदमनाय इत्यष्टासु दिक्षु मनोन्मनाय इति शिवसन्निधौ पुष्पैरभ्यर्च्य ।ओं ह्रां हृदयाय नमः ।ओं ह्रीं शिरसे स्वाहा ।ओं ह्रूं शिखायै वषट् ।ओं ह्रैं कवचाय हुं ।ओं ह्रौं नेत्रत्रयाय वौषट् ।ओं ह्रः अस्त्राय फट् ।ह्रां ईशानाय नमः ।ह्रीं तत्पुरुषाय नमः ।ह्रूं अघोराय नमः ।ह्रैं वामदेवाय नमः ।ह्रौं सद्योजाताय नमः ।मूलमन्त्रेण देवाय दद्यात्पुष्पाञ्जलिं प्रिये ॥१५७॥मूलमन्त्रषडङ्गेन न्यासं कुर्याच्छिवस्य च ।लिङ्गस्य दक्षिणे भागे ऋगादीन्निगमानपि ॥१५८॥ब्रह्माणं पृथिवीं तोयं विष्णुं रुद्रं हुताशनम् ।ईश्वरं पवनं चैवमाकाशं च सदाशिवम् ॥१५९॥श्रीकण्ठममृतांशुं च भैरवं भास्करं तथा ।परं शिवं परात्मानं पूजयेन्मतिमान् क्रमात् ॥१६०॥लिङ्गस्य वामपार्श्वे तु ब्राह्म्यादीः सप्त मातरः ।महालक्ष्मीं महाकालीं दुर्गां स्कन्दविनायकौ ॥१६१॥योगिन्यः क्षेत्रपालाश्च शक्तयश्चादिपीठकाः ।ओड्याणशक्तिर् जालंध्री तथा पूर्णा गिरिः प्रिये ॥१६२॥कामेश्वरीति संपूज्या रुद्रशक्तिः सुरार्चिते ।लोपामुद्रा कुब्जिका च कालसंकर्षणी तथा ॥१६३॥मधुरादिरसा गन्धाः सर्वधान्यानि पार्वति ।दिव्यौषध्यः सुधा हाला विषं चर्मादिधातवः ॥१६४॥इन्द्रियाणि मनो बुद्धिरहङ्कारश्च चेतनः ।शब्दाद्या विषयाः पूज्या देहाङ्गानि च शाम्भवि ॥१६५॥लिङ्गस्य पश्चिमे भागे समुद्राः सरितो नदाः ।पर्वता मेरुमुख्याश्च भास्कराद्या नव ग्रहाः ॥१६६॥ज्योतिश्चक्रं ध्रुवश्चैव शिशुमारः प्रजापतिः ।कलाः काष्ठाश्च घटिका मुहूर्ताः प्रहरा दिनम् ॥१६७॥रात्रिः पक्षश्च मासश्च ऋतुकालायनानि च ।संवत्सरा युगाः कल्पा दिशस्तारास्तिथिः शिवे ॥१६८॥पातालानि च नागेन्द्रास्तथा कालाग्निरुद्रकाः ।यक्षाः पिशाचभूताश्च राक्षसा दनुजास्तथा ॥१६९॥गुह्यका दुष्टवेताला राजयक्ष्मादयो गदाः ।मन्त्राः शस्त्राणि चास्त्राणि सम्पूज्य क्रमशः प्रिये ॥१७०॥लिङ्गस्य पूर्वभागे तु संपूज्या गुरुपङ्क्तयः ।सिद्धाः साध्याश्च मुनयो योगिनो ब्रह्मवादिनः ॥१७१॥विद्याधराः किन्नराश्च गन्धर्वश्चाश्विनौ तथा ।वसवोऽप्सरसां मुख्या शृङ्गारादिरसा नव ॥१७२॥गीतं नृत्तानि तद्भेदाः काश्यपाद्यास्तथा दश ।रुद्राः समनवः पूज्या भास्करा वह्नयस्त्रयः ॥१७३॥विश्वे देवाश्च पितरो मातरः पितृदेवताः ।कुलाचार्या रसाचार्याः पूर्वाचार्याः शिवार्चकाः ॥१७४॥मत्स्यादिदशजन्मानि जिनो लोकायतस्तथा ।नरकाद्याः सर्वलोका गरुडा गरुडाण्डकाः ॥१७५॥ब्रह्माण्डाः खेचराः सर्वे भूचराश्च जलेचराः ।सम्पूज्य देवताः सर्वाः प्रणवादिनमोऽन्तकैः ॥१७६॥तत्तन्नामचतुर्थ्यन्तैः पुष्पगन्धाक्षतैः प्रिये ।देवाय वस्त्रयुगलम् उपवीतद्वयं तथा ॥१७७॥मधुपर्कं दिव्यगन्धमक्षतान् कुसुमानि च ।सदा कैतकवर्ज्यानि दिव्यानि विदलानि च ॥१७८॥तत्पुष्पाणि च कह्लारकमलोत्पलकैरवम् ।जातीचम्पकपुन्नागपूगनारङ्गकैः ॥१७९॥मागधीमाधवीमल्लीयूथिकाप्रभृतीनि च ।दमनी मरुवं चैव रसेन्द्राय समर्पयेत् ॥१८०॥धूपं दशाङ्गं दीपं चापूपान्नं घृतपायसम् ।सषड्रसानि शाकानि शुद्धगन्धोत्तमान्वितम् ॥१८१॥लेह्यं चोष्यादि नैवेद्यं पारदेन्द्राय दर्शयेत् ।हस्तप्रक्षालनं देवि दद्याद्गन्धोदकेन च ॥१८२॥सुवासितानि पूगानि घनसारयुतानि च ।अवदातानि साग्राणि नागवल्लीदलानि च ॥१८३॥मुक्ताफलोद्भवं चूर्णं ताम्बूलं च समर्पयेत् ।दर्पणं चामरद्वन्द्वं छत्रं नृत्तं च गीतकम् ॥१८४॥उपचारेषु सर्वेषु दद्यादाचमनं प्रिये ।सर्वोपचारान्मूलेन दद्यात्स्तोत्रं जपेच्छिवे ॥१८५॥रसेन्द्रभैरवं देवं ध्यात्वा देवीं रसांकुशाम् ।माहेश्वरांश्च विनतां गन्धपुष्पादिभिर्यजेत् ॥१८६॥अङ्गुष्ठानामिकाभ्यां च दद्याद्गन्धोत्तमान्वितम् ।बिन्दुमूलेन देवाय देव्यै च गुरुपङ्क्तये ॥१८७॥क्रमादावरणस्थेभ्यो देवीभ्योऽपि च तर्पयेत् ।ह्रीं आनन्दशिवमूर्तिमाराधयामि ।ह्रीं परानन्दशिवमूर्तिमाराधयामि ।ह्रीं परापरानन्दशिवमूर्तिमाराधयामि ।ह्रीं आनन्दसिद्धमूर्तिमाराधयामि ।ह्रीं परानन्दसिद्धमूर्तिमाराधयामि ।ह्रीं परापरानन्दसिद्धमूर्तिमाराधयामि ।क्लीं आनन्दगुरुमूर्तिमाराधयामि ।क्लीं परानन्दगुरुमूर्तिमाराधयामि ।क्लीं परापरानन्दगुरुमूर्तिमाराधयामि ।तेभ्यो दत्त्वा प्रसादं च तैरनुज्ञापितः स्वयम् ॥१८८॥कुण्डल्याम् आत्मतत्त्वं च विद्यातत्त्वं च नाभिगम् ।हृदये शिवतत्त्वं च सर्वतत्त्वं हि तालुगम् ॥१८९॥त्रितत्त्वम् एवं संचिन्त्य प्रसादं च समन्त्रकम् ।ततः प्रज्वलितं स्मृत्वा ज्योतिरन्तर्गतं प्रिये ॥१९०॥स्वीकुर्वीत प्रसादं च यथेष्टं सुरसेविते ।प्रीणन्ति पितरो हर्षान्मूर्छया सर्वदेवताः ॥१९१॥अज्ञाना [... औ३ Zएइछेन्झ्] वप्रीतिः स एवाहं न संशयः ।रसेन्द्रबलिक्रमःगन्धोत्तमौदनं शुद्धक्षतजं च घृतं मधु ॥१९२॥संयोज्य पञ्चखण्डं च कृत्वा दद्यात्क्रमेण च ।दक्षिणोत्तरपूर्वासु पश्चिमायां च मध्यमे ॥१९३॥तांस्तान्मन्त्रान्समुच्चार्य बलिं दद्यात्ततो नरः ।प्रणवं मायां कमलां देवीं पुत्रप्रदं ततः ॥१९४॥ततो वटुकनाथाख्यं कपिलं जटाभारभासुरं च ततः पिङ्गल त्रिणेत्र इमां बलिं पूजां गृह्ण गृह्ण स्वाहा ।ओं ह्रीं श्रीं सिद्धयोगिनीभ्यः सर्वमातृभ्यो नमः ।ओं ह्रीं श्रीं सर्वभूतेभ्यः सर्वभूतपतिभ्यो नमः ।ओं ह्रीं श्रीं स्थानक्षेत्रपाल इमां बलिं पूजां गृह्ण गृह्ण स्वाहा ।ओं ह्रीं श्रीं रसेन्द्र क्षेत्रपाल राजराजेश्वर इमां बलिं पूजां गृह्ण गृह्ण स्वाहा ।बलिं दद्यादिति शिवे सर्वविघ्नोपशान्तये ।ततश्चाष्टोत्तरशतं जपेन्मूलं रसाग्रतः ॥१९५॥ततः स्तोत्रं जपेद्देवि रसभैरवतुष्टये ।संतुष्टाः सर्वदेवाः स्युः तुष्टे तु रसभैरवे ॥१९६॥अयं नित्यार्चनविधिः प्रोक्तः सर्वत्र दुर्लभः ।पारदपूजाफलम्विद्धि मां पारदं देवि तत्स्मर्ता मत्समः प्रिये ॥१९७॥पारदस्त्वधिको मत्तो मदीयत्वाच्च सारतः ।रसस्य स्मरणं पुण्यं दर्शनं स्पर्शनं तथा ॥१९८॥पूजनं भक्षणं दानं षोढा पुण्यमुदीरितम् ।सात्त्विकं राजसं चैव तामसं त्रिविधं वपुः ॥१९९॥सात्त्विकं मुक्तिदं शुभ्रं बालं द्विभुजमण्डितम् ।पूर्णपात्रं सूक्ष्मदण्डं द्विनेत्रं किङ्किणीस्रजम् ॥२००॥राजसं भुक्तिदं रक्तं किरीटशशिशेखरम् ।चतुर्भुजं च तरुणं नीलकण्ठं त्रिलोचनम् ॥२०१॥सर्वैश्वर्यप्रदं ध्यायेत् शूलपात्रवराभयम् ।तामसं कृष्णवर्णं च ज्वलदूर्ध्वशिरोरुहम् ॥२०२॥अष्टादशभुजं त्र्यक्षं पूर्वोक्तं चिन्तयेद्रसम् ।सर्वसिद्धिप्रदं देवि सर्वकामफलप्रदम् ॥२०३॥स्मरणं रसराजस्य सर्वोपद्रवनाशनम् ।हृदम्भोजस्थितं ध्यायेन्नश्यन्त्येनांसि भैरवि ॥२०४॥दर्शनं पारदेन्द्रस्य हन्ति पापं त्रिकालजम् ।सेतुकेदारपर्यन्तदिव्यलिङ्गौघदर्शने ॥२०५॥यत्पुण्यं लभते मर्त्यः तत्कोटिगुणितं भवेत् ।पृथिव्यां सर्वतीर्थेषु सागरान्तेषु दर्शनात् ॥२०६॥स्नानपानादिभिः पुण्यं तत्कोटिगुणितं भवेत् ।गोहत्यानियुतं देवि भ्रूणहत्याशतानि च ॥२०७॥ब्रह्महत्यासहस्राणि नश्यन्ति रसदर्शनात् ।गवां कोटिप्रदानेन स्वर्णकोटिशतेन च ॥२०८॥अश्वमेधसहस्रेण यत्पुण्यं तच्च दर्शनात् ।रसस्य स्पर्शनं हन्यादगम्यागमनं प्रिये ॥२०९॥परद्रव्यापहारं च पापं प्राणिवधार्जितम् ।सप्तद्वीपे धरण्यां च पाताले गगने दिवि ॥२१०॥यान्यर्चयति लिङ्गानि तत्पुण्यं रसपूजया ।स्वायंभुवेषु लिङ्गेषु दिव्येषु कृतपूजया ॥२११॥यत्पुण्यं रसलिङ्गस्य पूजया तत्फलं भवेत् ।योगिनोऽष्टाङ्गनिरता यत्पदं ब्रह्मवादिनः ॥२१२॥तत्पदं समवाप्नोति रसलिङ्गस्य पूजया ।कुंकुमागरुकस्तूरीकर्पूरान्तर्गतं रसम् ॥२१३॥मूर्छितं रसलिङ्गाय दद्यादिष्टार्थसिद्धये ।भक्षणाद्रसराजस्य सर्वपापं विनश्यति ॥२१४॥अनादिमायामलिनमात्मानं च विशोषयेत् ।भवरोगं हरेच्छीघ्रं त्रितापं च विनाशयेत् ॥२१५॥रसराजस्य दानेन चतुरब्ध्यन्तमेदिनीम् ।महामेरुसमं स्वर्णं दत्त्वा यत्तत् फलं भवेत् ॥२१६॥ब्रह्मरूपी शुद्धरसो विष्णुरूपी स मूर्छितः ।भस्मीकृतो रुद्ररूपी बद्धः सूतः सदाशिवः ॥२१७॥कामरूपी जलूकाभः कालरूपी च दोषवान् ।मूर्छितो भस्मितो बद्धः पारदेन्द्रो महेश्वरि ॥२१८॥व्याधिमृत्युदरिद्रत्वं हरतेऽसौ कृपाकरः ।रसेन्द्रस्तोत्रम्ददासि त्वं रसेन्द्राशु शब्दस्पर्शनधूमतः ॥२१९॥स्वर्णमर्बुदकोट्यन्तं त्राहि खेचरसिद्धिद ।नमस्ते कालकालाय नमः सर्वगुणात्मने ॥२२०॥वलीपलितनाशाय महावीर्यप्रदायिने ।नमः शस्त्रास्त्रहन्त्रे च मायाम्भोनिधिपारद ॥२२१॥पारदेन्द्र नमस्तुभ्यं कामिनीकेलिमन्मथ ।सुधारूप त्रिदोषघ्न नमस्ते षड्रसात्मने ॥२२२॥घनत्वात्पृथिवीरूप द्रवत्वाज्जलरूपिणे ।तेजोऽधिकत्वात्तेजस्विन् चाञ्चल्याद्वायुरूपिणे ॥२२३॥सूक्ष्मत्वाद्रसरूपाय नमस्ते भूतरूपिणे ।नमस्ते योगयोग्याय प्रसीदामरवन्दित ॥२२४॥वेदगोद्विजराजेन्द्रगुरुवीरादिहिंसया ।सम्भूतक्षयकुष्ठादीन्रोगान्हरसि पावन ॥२२५॥नष्टेन्द्रियार्थानज्ञानान् त्राता त्वमसि पारद ।सर्वौषधीभ्योऽप्यधिको ह्यणुमात्रोपयोगतः ॥२२६॥एकोऽपि सर्वदोषघ्नोऽरुचिनाशन ते नमः ।त्वया सृष्टा महेन्द्राद्याः सुरा ब्रह्मादयः कलाः ॥२२७॥चन्द्रार्कग्रहनक्षत्रशिवभैरवशक्तयः ।ज्ञानाज्ञानगुणा लोका गन्धर्वोरगराक्षसाः ॥२२८॥दिव्यौषधानि सर्वाणि सर्वसिद्धिकराण्यपि ।सूतेन्द्र भवतः श्रीमन् कलां नार्हन्ति षोडशीम् ॥२२९॥प्रत्यक्षशम्भो सूतेन्द्र किमन्यैर्भवति स्थिते ।अणिमादिगुणोपेते नानासिद्धिप्रदायके ॥२३०॥योगिनो हेममुख्यानि लोहान्यक्षयतां सदा ।अमृतत्वं प्राप्नुवन्ति सेवया तत्र कोज्वल ॥२३१॥दृश्यादृश्यस्वरूपं त्वां भोगमोक्षप्रदं परम् ।यो न जानाति सूतेन्द्र स मां वेत्ति कथं नरः ॥२३२॥गुरुर्माता पिता भ्राता धनं विद्या गतिः सुहृत् ।रस त्वमेव भूतानां त्वत्तः कोऽन्यो हितंकरः ॥२३३॥रसेन्द्र तव योगे च शास्त्रे स्तोत्रे रसायने ।यस्तु भक्तियुतो लोके स एवाहं न संशयः ॥२३४॥ब्रह्मज्ञानेऽपि निष्णातो यस्त्वां निन्दति पारद ।त्याज्योऽसौ सर्वलोकेषु नैवाहं रक्षितुं क्षमः ॥२३५॥यस्त्वां नास्तीति च वदेत् तस्य सिद्धिर्न कुत्रचित् ।यस्त्वामस्तीति च वदेत्तस्य सिद्धिर्भवेत्सदा ॥२३६॥रसेन्द्रं यस्तु लोकेऽस्मिन्कुलीनो वाधमान्वयः ।संस्कृतं कुरुते सूत त्वामष्टादशकर्मभिः ॥२३७॥स पुण्यः स व्रती धन्यः स श्लाघ्यः स च बुद्धिमान् ।स पुमान्स च सर्वज्ञः स सिद्धः स च दैवतम् ॥२३८॥तत्कुलं पावनं भूमिः पुण्या राजा जयान्वितः ।तत्पुरं सोत्सवं नित्यं कृतार्था च तदम्बिका ॥२३९॥तस्य संदर्शनं पुण्यं स्पर्शनं भाषणं तथा ।प्रत्यक्षादिप्रमाणेन पारद त्वं सदाशिवः ॥२४०॥त्वत्तो देहादि लोहानि वज्रत्वं यान्ति हेमताम् ।रसेन्द्र त्वत्प्रसादेन मानिन्यो मृगलोचनाः ॥२४१॥चक्रवाकसमोत्तुङ्गपीनवृत्तस्तनोज्ज्वलाः ।चञ्चला मन्मथासक्ता विद्रुमाधरशोभिताः ॥२४२॥शुकतुण्डप्रतीकाशवक्रतीक्ष्णनखाङ्कुराः ।शिरीषमालासुभुजाः चम्पकस्रक्समप्रभाः ॥२४३॥निम्ननाभिसमुद्भूतरोमराजिविराजिताः ।सर्वाङ्गसौष्ठवाः कान्ताः स्निग्धा वश्या भवन्ति च ॥२४४॥सूतेन्द्र शुष्ककाष्ठानां राशिमग्निर्यथा दहेत् ।तथैव जन्मदारिद्र्यमृत्युदुःखमहामयान् ॥२४५॥जारणार्थेऽग्निमध्ये त्वां धारयेत्कति वासरान् ।तावत्कल्यसहस्राणि शिवलोके सुखं वसेत् ॥२४६॥तव कार्येषु सूतेन्द्र किंचिद्द्रव्यं व्ययेन्नरः ।तेषां ददासि तद्वित्तं कोटिकोटिगुणाधिकम् ॥२४७॥परमा पारदी विद्या सर्वलोकेषु दुर्लभा ।भोगमोक्षप्रदा पुण्या पुत्रारोग्यप्रवर्धनी ॥२४८॥ये त्वां निन्दन्ति सूतेन्द्र मार्जालखरवायसाः ।जम्बूका ऋषभाः श्वानः क्लीबान्धबधिरा जडाः ॥२४९॥मूकाः कुब्जाः पङ्गवश्च व्यङ्गा वन्ध्याश्च रोगिणः ।कैवर्ताः पापकर्माणो जायन्तेऽनेकजन्मसु ॥२५०॥भवतो निन्दकैः सार्धं भाण्डपक्वान्नमिश्रणम् ।यः कुर्यादासनं शय्यां भोजनालापसंगतिम् ॥२५१॥स पापिष्ठो भवेत्त्याज्यः सर्वधर्मबहिष्कृतः ।इति स्तोत्रं मया प्रोक्तं पारदेन्द्रस्य भैरवि ॥२५२॥यः पठेत् शृणुयाद्भक्त्या त्रिसन्ध्यं रससिद्धये ।ब्रह्महत्यादिपापैश्च पातकैरुपपातकैः ॥२५३॥त्रिकर्मकलिभिर्देवि मुच्यते नात्र संशयः ।घोरे युद्धे महारण्ये दिग्भ्रमे शत्रुसंकटे ॥२५४॥नदीप्रतरणे देवि चोरव्याघ्रादिसङ्कटे ।जपेत्स्तोत्रमिदं देवि ध्यात्वा श्रीरसभैरवम् ॥२५५॥इति स्तुत्वा सूतराजं सर्वं कर्म समर्पयेत् ।रसो दाता रसो भोक्ता रसः कर्ता च कारणम् ॥२५६॥रसो होता च हव्यं च सर्वव्यापी रसः सदा ।अनेनैव च मन्त्रेण रसेन्द्राय समर्पयेत् ॥२५७॥ततो न्यासं च मूलेन कुर्याद्ध्यात्वा च पूर्ववत् ।संहारमुद्रां कृत्वाथ वहेन्नद्यां रसेश्वरम् ॥२५८॥हृत्पद्मे स्थापयेद्देवं साङ्गावरणशक्तिकम् ।शिवोऽहमिति सद्भावं चिन्तयेद्रसदेशिकः ॥२५९॥पूजास्थानं च संमार्ज्य प्रोक्षयेदुदकेन च ।ततो होमालयं प्राप्य समाचम्य च देशिकः ॥२६०॥शालायामग्निदिग्भागे योनिकुण्डे त्रिमेखलम् ।दर्भैः प्रागुदगग्रैश्च परिस्तीर्णं यथाविधि ॥२६१॥न्यासं मूलेन संकल्प्य प्राणायामं विधाय च ।पञ्चभूसंस्कृतं कृत्वा स्वस्त्रिया वा द्विजेन वा ॥२६२॥आनीय वह्निं निक्षिप्य कुण्डे प्रज्वालयेत्ततः ।वह्निं पिङ्गजटाजूटं त्रिनेत्रं शुक्लवाससम् ॥२६३॥रक्ताम्भोजस्थितं देवं माल्याभरणभूषितम् ।सप्तहस्तं चतुःशृङ्गं द्विशीर्षं च त्रिपादकम् ॥२६४॥त्रिधा बद्धं च ऋषभं शक्त्याद्यायुधधारिणम् ।ध्यात्वा तस्यार्घ्यपाद्यादि कुर्यात्सर्वोपचारकम् ॥२६५॥गन्धाक्षतसुपुष्पैश्च पूजयेज्जातवेदसम् ।तस्मिन्नावाहयेद्देवं संचिन्त्य रसभैरवम् ॥२६६॥न्यासं देवस्य कुर्वीत मूलमन्त्रेण होमयेत् ।तिलाज्यव्रीहिभिर्मन्त्रं शतमष्टोत्तरं प्रिये ॥२६७॥अष्टाविंशति वा कुर्यात् मूलात्पूर्वाहुतिं हुनेत् ।प्राणायामं ततो न्यासं कृत्वा च हृदि धारणम् ।एवं नित्यार्चनविधिः प्रोक्तस्तव सुरार्चिते ॥२६८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP