संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग २३ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग २३ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग २३ Translation - भाषांतर विशिष्टा रससंस्काराःश्रीभैरवी ।श्रुतं सर्वं मया देव दिव्यं सर्वरसायनम् ।शंभो तव प्रसादेन कृपांभोधे सुरेश्वर ॥१॥विज्ञापयिष्याम्यपरं सर्वलोकहितङ्करम् ।वृद्धस्त्रीबालषण्ढानाम् अन्येषां रोगिणामपि ॥२॥रसायनेष्वशक्तानां कथं सौख्यं भवेत्प्रभो ।सर्वानुग्राहक श्रीमन् तदाज्ञापय भैरव ॥३॥श्रुत्वा देव्याः स्तुतिपरं सर्वलोकहितप्रदम् ।श्रुत्वा मन्दस्मितं देवो जगादेत्थं परं वचः ॥४॥श्रीभैरवः ।साधु साधु महाभागे लोकानां जननी यतः ।तस्माल्लोकहितं पृष्टं तद्वक्ष्याम्यहमीश्वरि ॥५॥रसादिसंस्कारविधिं सर्वरोगनिबर्हणम् ।यथाक्रमं प्रवक्ष्यामि श्रूयतामवधानतः ॥६॥रसेन्द्रो रसराजश्च रसः सूतश्च पारदः ।शिवबीजं शिवो जैत्रो रसलोहो महारसः ॥७॥रसोत्तमो महातेजाः सूतराट् चपलोऽमृतः ।धुत्तुरो लोकनाथश्च प्रभुरिन्द्रो भवस्तथा ॥८॥रुद्रतेजाः खेचरश्च रसधातुरचिन्त्यजः ।अमरो देहदः स्कन्दः स्कन्देशो मृत्युनाशनः ॥९॥देवो रसायनः श्रेष्ठो यशोदः पावनः स्मृतः ।प्रोक्ता दिव्यरसाश्चैव त्रयस्त्रिंशच्च नाम च ॥१०॥दोषयुक्तः सूतराजो विषमेव वरानने ।दोषहीनो रसः साक्षादमृतं नात्र संशयः ॥११॥तस्मात्पारदसंस्कारं दोषघ्नं शृणु पार्वति ।रसाचार्यो भिषक्श्रेष्ठो यतात्माघोरमन्त्रवित् ॥१२॥रसशोधनसंस्काराः॑ प्रथमः प्रकारःशुभर्क्षे शुभलग्नेषु सुमुहूर्ते सुवासरे ।पूर्वोक्तवत्सूतपूजां कुर्यादादौ शुचिस्थले ॥१३॥शतं पलानां पञ्चाशत्पञ्चविंशति वा पुनः ।दश वा पञ्च वा देवि नैतस्मादूनमिष्यते ॥१४॥लोहजे वा शिलोत्थे वा खल्वे सूतं विनिक्षिपेत् ।कलांशं सूतराजस्य चूर्णेष्टकनिशारजः ॥१५॥जम्बीराम्लेन संमर्द्य तप्तखल्वे दिनं प्रिये ।क्षालयेद् उष्णसौवीरैर् नागदोषो विनश्यति ॥१६॥अङ्कोलेनेन्द्रवारुण्या वङ्गदोषो विनश्यति ।आरग्वधेन च मलं चित्रके नागदूषणम् ॥१७॥कृष्णधूर्तेन चाञ्चल्यं त्रिफलाभिर्विषं हरेत् ।गिरिदोषं त्रिकटुकैरसह्याग्निस्तु गोक्षुरैः ॥१८॥वङ्गादिसप्तदोषाणां नाशार्थं सप्तवासरम् ।तत्तच्चूर्णैः कलांशैश्च कुमार्या रससंयुतैः ॥१९॥मर्दयित्वा रसं पश्चात्क्षालयेदुष्णकांजिकैः ।पारदः सकलैर्दोषैर्मुच्यते सप्तकञ्चुकैः ॥२०॥वैद्यकर्मणि योज्यश्चेद्रसः स्यात्सर्वरोगहा ।द्वितीयः प्रकारःदेवदारुमलयजजयावायसतुण्डिका ॥२१॥कुमारीमुसलीवन्ध्याकर्कोटीरससंयुतम् ।सूतं दिनं मर्दयेच्च पुनः पातनयन्त्रके ॥२२॥पातयेद्योजयेत्सूतं शुद्धं वैद्यस्य कर्मणि ।तृतीयः प्रकारःदग्धं पाषाणचूर्णं च निशाकन्यारसै रसम् ॥२३॥मर्दयेद्दिनमेकं च पूर्वयन्त्रे च पातयेत् ।एवं संस्कारसंशुद्धं योजयेद्वैद्यकर्मणि ॥२४॥चतुर्थः प्रकारःदरदं याममात्रं तु पारिभद्रद्रवैः प्रिये ।अथवा जम्बीररसैर्मर्दयित्वा तु पाचयेत् ॥२५॥यन्त्रे पातनके देवि दोषकञ्चुकवर्जितः ।पञ्चमः प्रकारःपुनर्नवारसैः पेष्यं धान्याभ्रं पारदं समम् ॥२६॥तप्तखल्वे दिनं कृत्वा वज्रमूषागतं रसम् ।पचेद्भूधरयन्त्रे च पुनः संमर्दयेच्च तम् ॥२७॥पूर्वद्रवैर्यथापूर्वं मर्दनं पाचनं पुनः ।कृत्वैतं दशवारं तं पात्यं पातनयन्त्रके ॥२८॥शुद्धः स्यात्पारदो देवि योज्यो योगे रसायने ।षष्ठः प्रकारःदशमांशं रसाद्गन्धं तप्तखल्वे विनिक्षिपेत् ॥२९॥वराजम्बीरकन्याग्निद्रवैर्यामं विमर्दयेत् ।पातयेत्पातनायन्त्रे कुर्यादेवं तु सप्तधा ॥३०॥सगन्धकं मर्दनं च पातनं भवति प्रिये ।शुद्धः स्यात्पारदो देवि योज्यः पारदकर्मणि ॥३१॥सप्तमः प्रकारःतिलतैलैर् माहिषिकैर् मूत्रैर् मद्याम्लकेन च ।गोमांसैर् हिङ्गुलं पाच्यं लोहपात्रे क्रमाग्निना ॥३२॥सप्ताहं लोहदण्डेन चालयेत्तद्द्रवं मुहुः ।सार्द्रं मयूरपित्तेन भावयेदातपे दिनम् ॥३३॥पातयेत्पातनायन्त्रे दरदं खरवह्निना ।शुद्धो भवेच्चतुर्यामात्पारदो योगवाहकः ॥३४॥जारणार्हो वडबानलविडःशृणु देवि प्रवक्ष्यामि जारणार्हं बिडं प्रिये ।चूर्णं कृत्वा दग्धशङ्खं घर्मे ऽर्कक्षीरभावितम् ॥३५॥कुर्याद्दिनं ततो देवि धूमसारं च भावयेत् ।दिनं जम्बीरकरसैरातपे चातितीव्रके ॥३६॥चतुर्याममजामूत्रैः षोडशांशं सुवर्चलम् ।यथा सान्द्रत्वमाप्नोति तावत्क्वाथ्यं वरानने ॥३७॥नरमूत्रे षोडशांशे कण्टकारीं समूलकाम् ।यावद् घनीभवेत् तावत् क्वाथनीया प्रयत्नतः ॥३८॥तिन्त्रिणीक्षारकासीससर्जक्षाराः शिलाजतु ।जम्बीरस्य रसैः सर्वं चतुर्यामं पृथक्पृथक् ॥३९॥जेपालं तत्त्वचाहीनं मूलकक्षारसैन्धवम् ।गुञ्जां च टङ्कणं शिग्रुद्रवैर्भाव्यं पृथक्पृथक् ॥४०॥जम्बीराणां द्रवैर्भाव्यं शङ्खाद्यं तत्त्रयोदश ।सर्वं समांशं च दिनमेकीकृत्य तु गालितम् ॥४१॥रक्षयेत्सर्वदा ज्ञेयो नाम्ना च वडबानलः ।सुवर्णादिमलोहानां रत्नानां जारणे तथा ॥४२॥अभ्राद्युपरसानां च योजनीयं प्रयत्नतः ।पारदभस्मविधिः॑ प्रथमः प्रकारःशुद्धसूतं शुद्धगन्धं मर्दयेद्गोघृतैः समम् ॥४३॥पिण्डीभूतं कुमार्याश्च दलगर्भे निवेशयेत् ।सम्यक्सूत्रेण संवेष्ट्य तमयस्कान्तसंपुटे ॥४४॥निरुध्य तं मृदुपुटे त्रिधा पाच्यं पुनः प्रिये ।आदाय दृढमूषायामन्धयित्वा धमेत्सुधीः ॥४५॥भस्मीभवेत्सूतराजो योज्यो योगे रसायने ।द्वितीयः प्रकारःछायाशुष्काणि कुर्वीत शाकपक्वफलानि च ॥४६॥मर्दयेदर्कपयसा तेन मूषोदरं लिपेत् ।अग्रप्रसूतगोजातजरायोः शिषितं रजः ॥४७॥मूषामध्ये क्षिपेत्पश्चात्सूतं गन्धश्च तद्रजः ।क्षिप्त्वा निरुध्य च धमेद्भस्मीभवति पारदः ॥४८॥तृतीयः प्रकारःवन्ध्या कार्कोटकी काकतुण्डी च कटुतुम्बिका ।कञ्चुकी नलिका काकमाची वै कालमञ्जरी ॥४९॥काकजङ्घास्त्विमाः सर्वाः पिष्ट्वा मूषान्तरे क्षिपेत् ।पूर्वोक्तवन्ध्यामुख्याभिर् अष्टाभिर् मर्दयेद् रसम् ॥५०॥तद्रसं लिप्तमूषायां क्षिप्त्वा रुद्ध्वा च भूधरे ।पचेदेवं चाष्टवारमेवं मूषाप्रलेपनम् ॥५१॥मर्दनं धमनं कुर्याद् भूयो भूयः सुरेश्वरि ।मृतो भवति सूतेन्द्रो योग्यो रोगे रसायने ॥५२॥चतुर्थः प्रकारःनियामकौषधैर्मर्द्यं चतुर्यामं रसं दृढम् ।द्विगुणे गन्धतैले च शनैर्मन्दाग्निना पचेत् ॥५३॥यावत् खोटत्वमाप्नोति तावदेवं पचेद्रसम् ।तत्खोटं संपुटे लौहे क्षिप्त्वा रुन्ध्याद्दृढं सुधीः ॥५४॥पथ्याजलैर्लोहकिट्टं पिष्ट्वा सम्पुटमालिखेत् ।तस्योर्ध्वं श्रावके काचं कृत्वा नागं विनिक्षिपेत् ॥५५॥स नागो द्रवते यावत्तावदेवं धमेत्प्रिये ।यावन्न याति काठिन्यं तावन्नैव धमेत्सुधीः ॥५६॥पुनः कठिनतां प्राप्ते धमेत्पूर्वोक्तवन्मुहुः ।त्रियामधमनादेवं भस्मीभवति पारदः ॥५७॥भस्मीकृते मूलिकाभिर्जारणारहितो रसः ।देहे लोहे न योज्यः स्याद्योज्यो भेषजकर्मणि ॥५८॥पञ्चमः प्रकारःद्विगुणे गन्धतैले च शुद्धं सूतं विमर्दयेत् ।एकाहं तं पुनर्मर्द्यं सर्पाक्षीभृङ्गराडपि ॥५९॥विष्णुक्रान्ता त्र्यहं चैषां रसैः श्लक्ष्णं विमर्दयेत् ।पचेद्यन्त्रे त्रिसंघट्टे ह्यष्टवारमिति प्रिये ॥६०॥कुर्याद्भस्मति सूतेन्द्रो रोगसंघातनाशनः ।षष्ठः प्रकारःश्वेताङ्कोलस्य मूलोत्थरसैर्मर्द्यस्त्र्यहं रसः ॥६१॥मूषायां निक्षिपेद् रुद्ध्वा पचेद्भूधरयन्त्रके ।पारदो भस्मतां याति सर्वरोगहरः परः ॥६२॥सप्तमः प्रकारःविष्णुक्रान्तां वेदिकां च काञ्जिकेन विमर्दयेत् ।तत्कल्केन रसो मर्द्यः सप्तधा मूर्छितोत्थितः ॥६३॥तं रसं श्रावके क्षिप्त्वा सिञ्चयेत्तद्रसैर्मुहुः ।दीपाग्निना दिनं पच्याद्भस्म स्याल्लवणाकृतिः ॥६४॥अष्टमः प्रकारःकाकोदुंबरिकाक्षीरैर् भावयेत् सोमरामठम् ।पुनः पुनः सप्तधैवं शोषयेन्मर्दयेत् सुधीः ॥६५॥काकोदुम्बरपञ्चाङ्गं षोडशांशे जले क्षिपेत् ।यथैकांशोऽवशिष्टः स्यात्तेन तद्धिङ्गु मर्दयेत् ॥६६॥तद्गोलके रसं क्षिप्त्वा मूषायां तं च रोधयेत् ।भूधरे च पुटेदेवमष्टवारं पुनः पुनः ॥६७॥पुटे पुटे च तद्धिङ्गु दद्यात्सूतो मृतो भवेत् ।नवमः प्रकारःउरुबूकस्य बीजानि तथापामार्गजानि च ॥६८॥पूर्णयेत् तच्च मूषायां क्षिप्त्वा सूतं ततः क्षिपेत् ।तदूर्ध्वं पूर्वचूर्णं च सम्यङ्मूषां निरोधयेत् ॥६९॥पचेल्लघुपुटैरेवं चतुर्भिर्भस्मतां व्रजेत् ।दशमः प्रकारःकुडुहुञ्च्याः कन्दमध्ये कान्तास्तन्यपरिप्लुते ॥७०॥रसं क्षिप्त्वा मुखं रुद्ध्वा तन्मज्जकल्कतः सुधीः ।तं गोमयैः समालिप्य स्वेदयेद्गोमयाग्निना ॥७१॥एवं कृते सप्तवारं रसो भस्मत्वम् आप्नुयात् ।एकादशः प्रकारःअङ्कोलस्य शिफानीरैः सूतं गन्धं समं समम् ॥७२॥दिनमेकं मर्दयेच्च मूषागर्भं निरोधयेत् ।पुटेद्भूधरयन्त्रे च दिनान्ते भस्म जायते ॥७३॥द्वादशः प्रकारःसूतं धान्याभ्रकं तुल्यं मारकौषधिजै रसैः ।मर्दयेद् दिनमेकं तु तत्कल्कैर्वस्त्रलेपनम् ॥७४॥तद्वस्त्रं वर्तिकां कृत्वा धृत्वा दंशेन दीपयेत् ।तद्द्रुतिं पतितां कांस्ये कृष्णवर्णं च तद्भवेत् ॥७५॥तत्पुनर्मारकैर्मर्द्यं पातनायन्त्रके पचेत् ।मृतो भवेद्दिनैकेन तद्भस्माखिलरोगहृत् ॥७६॥त्रयोदशः प्रकारःकालधुत्तूरतैलेन मर्दनीयश्च पारदः ।ततो नियामकैर्मर्द्याद्दिनैकं कूर्मयन्त्रके ॥७७॥पाचयेद्भस्मतां याति शुभ्रः स्यात्सर्वरोगहा ।चतुर्दशः प्रकारःशुद्धसूताद् अर्धभागं शुद्धं गन्धं विमर्दयेत् ॥७८॥मारकौषधजैर् द्रावैर् दिनं मूषागतं पचेत् ।यन्त्रे भूधरसंज्ञे च दिनेनैकेन भस्मति ॥७९॥पञ्चदशः प्रकारःसूतमभ्रं वटक्षीरैस्त्रियामं मर्दयेत्प्रिये ।मूषागर्भे विनिक्षिप्य करीषाग्नौ दिनं पचेत् ॥८०॥भस्मीभवति सूतेन्द्रः शुभ्रः सर्वार्तिनाशनः ।षोडशः प्रकारःमुखीकृते वासिते च पारदे समकाञ्चनम् ॥८१॥जारयेत् पूर्वयोगेन ततो गन्धं समं क्षिपेत् ।दिव्यौषधिद्रवैर्मर्द्यं दिनं मूषाधृतं रसम् ॥८२॥दिवानक्तं करीषाग्नौ पचेद्वा तुषवह्निना ।स्वेदयेत्तं समुद्धृत्य भूयो दिव्यौषधोद्भवैः ॥८३॥बीजैः समांशैः संमर्द्यं चतुर्यामं सुरेश्वरि ।वज्रमूषागतं धाम्यं भस्मीभवति पारदः ॥८४॥तद्भस्म दिव्यं युञ्जीत सदा रोगे रसायने ।सप्तदशः प्रकारःस्वजीर्णे पारदे स्वर्णं सममम्लेन मर्दयेत् ॥८५॥पिष्टीभूतं काञ्जिकेन प्रक्षाल्यादाय तां पुनः ।पिष्ट्यर्धं शुद्धगन्धं च तदर्धं टङ्कणं क्षिपेत् ॥८६॥सर्वतुल्यां निशां नारीपुष्परक्तद्रवैर्दिनम् ।मर्दयेत्तां दिनान्ते च कुर्यात्तद्गोलकं ततः ॥८७॥पचेद् गड्डुकयन्त्रे च दिनं मन्दाग्निना सुधीः ।समादाय विचूर्ण्यैव दत्त्वा तत्समगन्धकम् ॥८८॥गर्भयन्त्रे त्र्यहं पाच्यं लघुना तत्तुषाग्निना ।रसो भस्म भवेद्देवि निरुत्थः स्याद्रसायनम् ॥८९॥अष्टादशः प्रकारःकर्षत्रयं शुद्धसूतं कर्षं ताम्ररजः प्रिये ।अम्लैः संमर्दयेद्गाढं दिनं खल्वे ततो भवेत् ॥९०॥पिष्टिस्तां क्षालयेत्तोयैस्तत आदाय निर्मलम् ।माक्षीकसत्वं तत्सर्वं चक्रमर्दच्छदद्रवैः ॥९१॥त्रिदिनं मर्दयेद्गाढं तां पिष्टिं गर्भयन्त्रके ।तुषाग्निना पचेद्देवि त्रिदिनं वा दिवानिशम् ॥९२॥करीषाग्नौ भवेत्सूतभस्म रोगजरापहम् ।एकोनविंशः प्रकारःसूतं स्वर्णं व्योमसत्वं समं स्वर्णसमं बिडम् ॥९३॥रम्भादण्डद्रवैः सर्वं तत् खल्वे मर्दयेद्दिनम् ।ततो दिव्यौषधोद्भूतैर्बीजैस्तुल्यं दिनद्वयम् ॥९४॥सह संमर्दयेद् रम्भातोयैस् तद् गर्भयन्त्रके ।पूर्वक्रमेण विपचेद्रसभस्म भवेच्छुभम् ॥९५॥जरामरणरोगघ्नं सर्वसिद्धिप्रदायकम् ।विंशः प्रकारःरसेन्द्रं विमलासत्वं तुल्यं मर्द्य दिनत्रयम् ॥९६॥सिन्दुवारछदरसैः पिष्टिः स्यात्तां विनिक्षिपेत् ।काचकूप्यन्तरे कूपीं सप्तमृत्कर्पटैर्लिपेत् ॥९७॥शोषयेद्वालुकायन्त्रे दिनं मन्दाग्निना पचेत् ।रसभस्म भवेद्दिव्यं रुग्जरामरणापहम् ॥९८॥एकविंशः प्रकारःकर्षद्वयं रसेन्द्रं च तदर्धं शुद्धगन्धकम् ।माक्षीकसत्वं गन्धांशं तत्सर्वं मर्दयेद्दिनम् ॥९९॥निर्गुण्डीपत्रसारैश्च तं गोलं निक्षिपेत्प्रिये ।मूषामध्ये ततो मूषावक्त्रं रुद्ध्वा विनिक्षिपेत् ॥१००॥तां मूषां गड्डुकायन्त्रे पचेन्मन्दाग्निना दिनम् ।रसभस्म भवेद्दिव्यं सिन्दूरारुणसन्निभम् ॥१०१॥जरामरणरोगघ्नं सर्वसिद्धिप्रदं शुभम् ।द्वाविंशः प्रकारःपक्वमूषोदरे तुल्यगन्धकान्तरितं रसम् ॥१०२॥तयोश्चतुर्गुणं दत्त्वा काकमाचीरसं पुनः ।आच्छाद्य गड्डुकायन्त्रे तां निधाय पचेत्क्रमात् ॥१०३॥मृदुमध्यमचण्डाख्यवह्नौ यामचतुष्टयम् ।ततश्च सर्वरोगघ्नं रसभस्म भवेच्छुभम् ॥१०४॥त्रयोविंशः प्रकारःस्नुहीक्षीरैर्दिनं सूतं मर्दयेत् तदभावतः ।अम्लवल्ल्या रसैर् एव तं रसं गन्धकैः समम् ॥१०५॥गर्भयन्त्रे विनिक्षिप्य पूर्ववद् विपचेद्बुधः ।मृतो भवेद्रसः सोऽयं सर्वरोगहरो भवेत् ॥१०६॥चतुर्विंशः प्रकारःगुञ्जाफलं रससमं मधुटङ्कणयावकैः ।भृङ्गपत्ररसैर्युक्तं दिनम् एकं विमर्दयेत् ॥१०७॥छादितं वज्रमूषायां धमयेन्मृदुवह्निना ।अयं रसायनो वृष्यो रसः स्याच्छशिसन्निभः ॥१०८॥पञ्चविंशः प्रकारःसमं गन्धरसं शुद्धं कीटमारिणिकाद्रवैः ।अजमार्यहिमार्योर्वा श्वेताङ्कोलरसेन वा ॥१०९॥मर्दयेत्त्रिदिनं क्षिप्त्वा मृण्मये संपुटे ततः ।दिनमेकं करीषाग्नौ तुषाग्नौ वा दिनत्रयम् ॥११०॥पचेत्ततः सूतभस्म जायते रुग्जरापहम् ।षड्विंशः प्रकारःताम्राभ्रपातनायोगाच्छोधितं पारदं प्रिये ॥१११॥वज्रभस्म समं हंसपादीद्रावैर्विमर्दयेत् ।दिव्यौषधिभवैर् बीजैर् वज्रमूषान्तरं लिपेत् ॥११२॥तस्मिन्पूर्वरसं क्षिप्त्वा रुद्ध्वाथ त्रिदिनं पचेत् ।तुषाग्निना तत उद्धृत्य तत्तुल्यं द्रुतपारदम् ॥११३॥हंसपादीरसैः सर्वं मर्दयेत्त्रिदिनं ततः ।पूर्ववत्तं पचेत्सोऽयं रसो भस्मति निश्चयः ॥११४॥जरामरणरोगघ्नः सर्वसिद्धिप्रदः शुभः ।सप्तविंशः प्रकारःवासितं पारदं कर्षमष्टगुञ्जं सुवर्णकम् ॥११५॥मृतवज्रं चतुर्गुञ्जं मर्द्यं हंसपदीरसैः ।तप्तखल्वे वज्रमूषागतं कृत्वा निरोधयेत् ॥११६॥पचेद् भूधरयन्त्रे च पुनरादाय तं रसम् ।हंसपादीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ॥११७॥पूर्ववद् भूधरे यन्त्रे पचेत्तं च पुनः पुनः ।एवं शतपुटं कृत्वा भस्म स्याद्रक्तवर्णकम् ॥११८॥जरामरणदारिद्र्यनाशनं भवनाशनम् ।अष्टाविंशः प्रकारःयुगांशः शुद्धसूतः स्यादेकांशं ताम्रचूर्णकम् ॥११९॥अम्ले दिनं मर्दयेत्तं प्रक्षाल्यादाय पिष्टिकाम् ।ताप्यसत्वं पिष्टिसमं चक्रमर्ददलद्रवैः ॥१२०॥मर्दयेत् त्रिदिनं सर्वं गोलकं गर्भयन्त्रके ।निक्षिप्य त्रिदिनं पाच्यं तुषाग्नौ वा सुरेश्वरि ॥१२१॥दिवारात्रं करीषाग्नौ पचेद्भस्म भवेद्रसः ।एकोनत्रिंशः प्रकारःमुखीकृतरसं चाभ्रसत्वं स्वर्णं त्रयं समम् ॥१२२॥रंभाद्रवेण संमर्द्यं दिनं सर्वसमं बिडम् ।ततो दिव्यौषधीनां च बीजैर्मर्द्यं दिनत्रयम् ॥१२३॥गर्भयन्त्रे पचेत्पश्चात्करीषाग्नौ मृतो भवेत् ।त्रिंशः प्रकारःखजीर्णसूतं विमलां समं निर्गुण्डिकारसैः ॥१२४॥मर्दयित्वा त्र्यहं काचकूपिकायां विनिक्षिपेत् ।सिकतायन्त्रके पच्याच्चतुर्यामेन भस्मितः ॥१२५॥एकत्रिंशः प्रकारःताप्यसत्वं समं गन्धं द्वाभ्यां तुल्यं च जारितम् ।सूतं निर्गुण्डिकां मर्द्य दिनं तद्गोलकं पुनः ॥१२६॥वज्रमूषान्धितं कृत्वा धमेद्वा गड्डुयन्त्रके ।पचेत्तद्रक्तवर्णं स्यात्स रसः सर्वरोगहा ॥१२७॥रसभस्मलक्षणम्अक्षयित्वं निरुत्थत्वं निर्लेपत्वं सुभस्मता ।मारकत्वं च लोहानां लक्षयेद् रसभस्मतः ॥१२८॥१. गन्धपिष्टी॑ प्रथमः प्रकारःसंचूर्ण्य शोधितं गन्धं पूर्वपत्ररसेन च ।सप्तधा भावयेद् घर्मे स्त्रीणां च रजसा तथा ॥१२९॥तथा मानवपित्तेन लोलयेद्गन्धकं पुनः ।पलमेकं शुद्धरसं कर्परे चातपे न्यसेत् ॥१३०॥तदूर्ध्वं लोलितं गन्धं विन्यस्याङ्गुष्ठमर्दितम् ।कुर्यात्सूतो भवेत्पिष्टिः सर्वकर्मसु सिद्धिदः ॥१३१॥द्वितीयः प्रकार, स्वर्णगन्धपिष्टीगन्धकं शोधितं देवि तिलपर्णीरसेन च ।सप्तधा मर्दयेच्छोष्यं छायायां भावयेत् क्रमात् ॥१३२॥मूषायां पारदं शुद्धं पलमात्रं विनिक्षिपेत् ।सुवर्णनिष्कगुलिकां मूषायां निक्षिपेत्ततः ॥१३३॥तत्र नारीरजोमूत्रमलमात्रं विनिक्षिपेत् ।वालुकायन्त्रमध्ये च तां मूषां स्थापयेच्छिवे ॥१३४॥अल्पमल्पं पूर्वगन्धं वारं वारं विनिक्षिपेत् ।मृद्वग्निना पचेद्यावत्कर्षगन्धं च जीर्यते ॥१३५॥अवतार्य स्वाङ्गशीतमाहरेत्स्वर्णगोलकम् ।स्वर्णपिष्टिर्भवेद्दिव्या सर्ववाञ्छितदायिनी ॥१३६॥तृतीयः प्रकारःभावयेन्मर्कटीतोयैः शतधा शुद्धगन्धकम् ।छायायां शुद्धसूतं च घर्मे मृत्कर्परे क्षिपेत् ॥१३७॥किंचित् किंचित् पूर्वगन्धं निक्षिपेन्मर्कटीरसम् ।जीर्णे गन्धे द्रवं देयं मुहुर् गन्धं मुहुर्द्रवम् ॥१३८॥यावत्पादांशकं जीर्णं गन्धं च पिष्टिका भवेत् ।दिव्या सा सर्वकर्मार्हा देवानामपि दुर्लभा ॥१३९॥चतुर्थः प्रकारःशुद्धगन्धं चूर्णयित्वा त्रिवारं काञ्जिकेन च ।जम्बीराम्लैस्त्रिवारं च हंसपादीरसेन च ॥१४०॥सप्तधा क्षालयेदेवं कर्पूरं भावयेत्पृथक् ।श्वेताद्रिकर्णिकातोयैर् आतपे च त्रिवारकम् ॥१४१॥द्विगुञ्जमात्रं कर्पूरं यन्त्रान्तः परिलेपयेत् ।तत्र गन्धं सार्धनिष्कं भावितं चूर्णितं क्षिपेत् ॥१४२॥तदूर्ध्वं च पलं सूतं निक्षिपेत्तस्य पृष्ठतः ।पूर्वमात्रं च कर्पूरं तदूर्ध्वं सार्धनिष्ककम् ॥१४३॥गन्धकं च पुनः क्षिप्त्वा ततो गोमूत्रकेन च ।श्वेताद्रिकर्णिकामूलं पिष्ट्वा तत्कल्ककेन च ॥१४४॥आच्छाद्य तच्छरावेण रोधयेत्पाचयेत्क्रमात् ।जालिकायन्त्रमध्ये च दिव्यं पश्चात्तमुद्धरेत् ॥१४५॥एवं कुर्यात्त्रिवारं च गन्धपिष्टिर् भवेद् ध्रुवम् ।पञ्चमः प्रकारःस्नेहलिप्ते खल्वमध्ये शुद्धसूतं पलं न्यसेत् ॥१४६॥कर्षं च शोधितं गन्धं देवदालीद्रवं क्षिपेत् ।कराङ्गुल्या खरे घर्मे मर्दयेत् पिष्टिका भवेत् ॥१४७॥षष्ठः प्रकारःताम्रखल्वे पलं सूतं कर्षार्धं गन्धकं क्षिपेत् ।मृद्वग्निना पचेद्यामं कराङ्गुष्ठेन चालयेत् ॥१४८॥गन्धपिष्टिर्भवेद्दिव्या सर्वकर्मकरी शुभा ।पिष्टीस्तम्भनम् (२)पिष्टीनां स्तम्भनं वक्ष्ये तिक्तकोशातकीभवम् ॥१४९॥बीजं चण्डालिनीकन्दं तुल्यं कान्तास्तनोद्भवैः ।क्षीरैः पिष्ट्वा च तां पिष्टीं लेपयेदङ्गुलं दृढम् ॥१५०॥वन्ध्याकन्देऽथवा क्षीरकन्दे वा सूरणोद्भवे ।कन्दे वा वज्रकन्दे वा कन्दे वा कुडुहुञ्चिजे ॥१५१॥तां पिष्टिं निक्षिपेत्तत्तन्मज्जया रोधयेन्मुखम् ।तत्कन्दं च मृदा लिप्त्वा पुटेद्भूधरयन्त्रके ॥१५२॥दिवानक्तं करीषाग्नावूर्ध्वाधः परिवर्तनम् ।यथा कन्दं तु न दहेत्तथा पाकक्रमः स्मृतः ॥१५३॥अथ पिष्टिं समानीयाद् भवेत्सा स्तम्भिता प्रिये ।पिष्टीजारणम् (२)पिष्टीनां स्तम्भितानां च जारणा वक्ष्यते शिवे ॥१५४॥स्तनयन्त्रे लोहकृते गन्धकं पिष्टितुल्यकम् ।क्षिपेदूर्ध्वं च देवेशि स्तम्भितां गन्धपिष्टिकाम् ॥१५५॥तदूर्ध्वं पिष्टितुल्यं च गन्धकं चूर्णितं क्षिपेत् ।निरुध्य भूधरे यन्त्रे पाचयेज्जारयेत्क्रमात् ॥१५६॥गन्धं पुनःपुनर्देयमेवं शतगुणं प्रिये ।जीर्णे शतगुणे गन्धे यन्त्रात्पिष्टिं समाहरेत् ॥१५७॥सर्वासां गन्धपिष्टीनां जारणं स्याच्च रञ्जनम् ।पिष्टीमारणम् (२)जारितानां च पिष्टीनां प्रवक्ष्ये मारणक्रमम् ॥१५८॥तप्तखल्वे विनिक्षिप्य जारितां गन्धपिष्टिकाम् ।दिव्यौषधिरसैः पिष्ट्वा दिनं कुर्याच्च गोलकम् ॥१५९॥दिव्यौषधीनां बीजानि पिष्ट्वा दिव्यौषधोद्भवैः ।स्वरसैर् वज्रमूषान्तर् लेपयेत्पूर्वगोलकम् ॥१६०॥क्षिप्त्वा निरुध्य मूषास्यं पचेद्भूधरयन्त्रके ।प्रवर्तयंश्चोर्ध्वमधो दिनमेकं पुनः प्रिये ॥१६१॥समाहृत्य यथापूर्वं पूर्वतोयैश्च मर्दयेत् ।पुटयेत्पूर्ववद्देवि दशवारमिति क्रमात् ॥१६२॥असंशयं गन्धपिष्टिर्म्रियते सर्वकार्यकृत् ।गन्धपिष्टिक्रमाज् जातरसभस्मानि भैरवि ॥१६३॥सर्वकर्मसु मुख्यानि विशेषाद्वादकर्मणि ।रसबन्धाः॑ प्रथमः प्रकारः > वैक्रान्तबन्धःवक्ष्यामि रसबन्धानि शृणु भैरवि सम्प्रति ॥१६४॥शोधितं पारदं खल्वे दशनिष्कं विनिक्षिपेत् ।निष्कैकं शुद्धगन्धं च स्वल्पं स्वल्पं विनिक्षिपेत् ॥१६५॥कुट्टयेन्मर्दयेद् ग्राव्णा पिष्टिः स्याद्याममात्रके ।क्षीरकन्देऽथवा वन्ध्याकन्दे वा कुडुहुञ्चिजे ॥१६६॥कन्दे वा निक्षिपेत्पक्वे शुभे गन्धकपिष्टिकाम् ।निष्कार्धं भस्म वैक्रान्तमूर्ध्वाधो निक्षिपेत्सुधीः ॥१६७॥तत्कन्दमज्जया वक्त्रं निरुध्य च मृदा बहिः ।लिम्पेदङ्गुलिमात्रेण शोषयित्वाथ सर्वतः ॥१६८॥अष्टवारं पचेद्यन्त्रे भूधरे कौक्कुटे पुटे ।करीषाग्नौ पुनः कुर्यादूर्ध्वभागमधः प्रिये ॥१६९॥अधोभागं तथोर्ध्वं च भूयो भूयः प्रवर्तनम् ।एवमेकदिनं पश्चात्पचेद्युगकरीषकैः ॥१७०॥पक्वदाडिमबीजाभो बद्धो भवति पारदः ।वैक्रान्तबद्धनामा स्याच्चूर्णितो योगवाहकः ॥१७१॥द्वितीयः प्रकारः > गन्धकबन्धःपूर्वोक्तां गन्धपिष्टीं तां वस्त्रे बद्ध्वाथ संपुटे ।लोहजे पोट्टलीं स्थाप्यचोर्ध्वाधः समगन्धकम् ॥१७२॥निरुध्य संपुटं सम्यक् पचेत् भूधरयन्त्रके ।यथा जीर्णो भवेद्गन्धो भूयो भूयस्तथापि च ॥१७३॥एव षड्गुणगन्धस्तु जारणीयो महेश्वरि ।एवं गन्धकबद्धोऽयं रसः सर्वामयापहः ॥१७४॥तृतीयः प्रकारः > गन्धकबन्धःषोडशाङ्गुलदीर्घा च जम्बीरफलविस्तृता ।पक्वमूषा दृढतरा वालुकायन्त्रमध्यतः ॥१७५॥त्रिभागमग्नां कुर्वीत बहिः पादांशसंस्थिताम् ।तस्यां क्षिपेद्गन्धसूतं पलमेकं सुरेश्वरि ॥१७६॥सूताद् अथोर्ध्वभागे तु द्विपलं शुद्धगन्धकम् ।निक्षिपेत्तन्मुखं सम्यग्रोधयेन्मन्दवह्निना ॥१७७॥पचेन्निर्धूमता यावत्तावद्धूमे गते पुनः ।काकमाचीद्रवैः पूर्या तद्द्रवे जीर्णतां गते ॥१७८॥रसेन नागवल्ल्याश्च पूरणीया पुनः प्रिये ।उन्मत्तकरसैः पूर्या शनैर्मन्दाग्निना पचेत् ॥१७९॥गन्धकं जीर्यते यावत्काकमाच्यादिकद्रवैः ।धत्तूरान्तैः पचेदेवं बद्धो भवति पारदः ॥१८०॥नाम्ना गन्धकबद्धोऽयं सर्वयोगेषु योजयेत् ।चतुर्थः प्रकारः गन्धकस्वर्णबन्धःपूर्ववद्गन्धपिष्टिं च विधायादौ विचक्षणः ॥१८१॥सप्तार्धनिष्कसूतः स्यादध्यर्धं शुद्धहाटकम् ।याममम्लेन संमर्द्यं ख्यातोऽयं हेमपिष्टिका ॥१८२॥गन्धपिष्टिं हेमपिष्ट्या समयावेष्ट्य बाह्यतः ।स्तनाकारे लोहमये संपुटे वस्त्रबन्धिताम् ॥१८३॥कृत्वा तां पिष्टिकां क्षिप्त्वा पिष्ट्यूर्ध्वाधश्च गन्धकम् ।सर्वतुल्यं क्षिपेत् सन्धिं रुद्ध्वाम्ललवणैः सुधीः ॥१८४॥पचेद्भूधरयन्त्रे च जीर्णे जीर्णे पुनः पुनः ।षड्गुणं गन्धकं दद्यात्ततो वस्त्रं शनैर्हरेत् ॥१८५॥समांशं गन्धकं भूयो भूयो जार्यं शनैः शनैः ।निःशेषं गन्धकं नैव कुर्याच्चेत्पारदच्युतिः ॥१८६॥एवं शतगुणे जीर्णे गन्धपिष्टिं समाहरेत् ।तत्समांशसुवर्णस्य संपुटे पिष्टिकां क्षिपेत् ॥१८७॥काचं कन्याद्रवैः पिष्ट्वा लेपयेद्बाह्यतोऽङ्गुलम् ।ततष्टङ्कणकैर्लिप्त्वा पश्चान्मृल्लवणैः क्रमात् ॥१८८॥एकैकं लेपनं कार्यं वेष्ट्यमङ्गुलमानकम् ।प्रतिलेपं शोषयेच्च कोष्ठीयन्त्रगतं धमेत् ॥१८९॥वङ्कनालेन तीव्रेण वह्निना प्रहरं भवेत् ।उदयादित्यसङ्काशं खोटं दिव्यरसायनम् ॥१९०॥गन्धहाटकबन्धोऽयं जराव्याधिदरिद्रहा ।पञ्चमः प्रकारः गन्धकबन्धःअथवा गन्धपिष्टिं तां वस्त्रे बद्ध्वाथ गन्धकम् ॥१९१॥तुल्यं दत्त्वा निरुध्याथ संपुटे लोहजे दृढम् ।पुटेत्तद्भूधरे तावद्यावज्जीर्यति गन्धकम् ॥१९२॥एवं पुनः पुनर्देयं यावद्गन्धं तु षड्गुणम् ।इत्येवं गन्धके बद्धः सूतः स्यात्सर्वरोगजित् ॥१९३॥षष्ठः प्रकारः मूलिकाबन्धःकार्कोटीमूलजैर्द्रावैः पारदं मर्दयेद्दिनम् ।मर्कटीमूलजे पिण्डे क्षिपेत्तं मर्दितं रसम् ॥१९४॥तं पिण्डं वज्रमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।जायते खोटबद्धोऽयं सर्वकार्यकरः शुभः ॥१९५॥सप्तमः प्रकारः मूलिकाबन्धःअर्कमूलं रविक्षीरैः पिष्ट्वा मूषां प्रलेपयेत् ।तन्मध्ये रञ्जितं सूतं क्षिप्त्वा बद्ध्वाथ रोधयेत् ॥१९६॥मृण्मये संपुटे तं च निरुन्ध्याल्लोहसंपुटे ।पचेद्गजपुटे पश्चात्पारदो बन्धमाप्नुयात् ॥१९७॥अष्टमः प्रकारः मूलिकाबन्धःजलकुम्भीरसैः सूतं मर्दयेद्दिवसत्रयम् ।जलकुम्भीदलैर्मूषां कृत्वा तत्र क्षिपेद्रसम् ॥१९८॥रुद्ध्वा तां वज्रमूषायां छायाशुष्कं पुटेल्लघु ।छगणैरेकवृद्ध्या तु त्रिंशद्वारं पुटैः पचेत् ॥१९९॥ततो गजपुटे देयं सम्यग्बद्धो भवेद्रसः ।नवमः प्रकारः मूलिकाबन्धःएकवीराद्रवैर्मर्द्यं दिनं शुद्धं तु सूतकम् ॥२००॥एकवीराकन्दकल्कैर्वज्रमूषां प्रलेपयेत् ।तस्यां पूर्वरसं क्षिप्त्वा ध्माते बद्धो भवेद्रसः ॥२०१॥दशमः प्रकारः मूलिकाबन्धःआरक्तक्षीरकन्दोत्थद्रवैः स्त्रीस्तन्यसंयुतैः ।त्रिदिनं पारदं मर्द्यं वज्रकन्दद्रवैस्त्र्यहम् ॥२०२॥क्षीरकन्दस्य कल्केन वज्रमूषां प्रलेपयेत् ।तत्र पूर्वरसं बद्ध्वा ध्माते बद्धो भवेद्रसः ॥२०३॥एकादशः प्रकारः मूलिकाबन्धःअर्कमूलफलं पिष्ट्वा मूषां तेन प्रलेपयेत् ।तन्मध्ये निक्षिपेन्मूषां पुङ्खामूलविनिर्मिताम् ॥२०४॥तन्मध्ये सूतकं क्षिप्त्वा पुङ्खामूलसमुद्भवैः ।पूरयित्वा रसैर्मूषां निरुन्ध्यात् तन्मुखं दृढम् ॥२०५॥एवमन्धीकृतां मूषां क्षिपेत्सम्पुटमध्यतः ।ततस्तं लेपयेद्यत्नाल्लवणेन मृदा तथा ॥२०६॥ततोऽसौ पुटयोगेन सूतो बन्धमवाप्नुयात् ।राजिकाद्वयमात्रेण चित्रकद्रवसैन्धवैः ॥२०७॥चूर्णितो भक्षितः प्रातः सर्वरोगविनाशकः ।द्वादशः प्रकारः मूलिकाबन्धःकपित्थस्य शिफानीरैर्यामं सूतं विमर्दयेत् ॥२०८॥अन्यस्याम् अन्धमूषायां सूतमूषां निरोधयेत् ।तथा धमेत्ततो मूषां यथा सिन्दूरवद् भवेत् ॥२०९॥एवं कृते रसेन्द्रोऽसौ बध्यते नात्र संशयः ।मूलिकाबन्धनं ह्येतद्रसेन्द्रस्य प्रकीर्तितम् ॥२१०॥इत्येते मारिताः सूता मूर्छिता बन्धमागताः ।प्रत्येकं योजितास्तत्र प्रयोगैर्योगवाहिनः ॥२११॥रसमूर्च्छनाविधिः॑ प्रथमः प्रकारःअथ शुद्धस्य सूतस्य मूर्च्छनाविधिरुच्यते ।मेघनादवचाहिङ्गुलशुनैर् मर्दयेद्रसम् ॥२१२॥दिनं पिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ।पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना ॥२१३॥ऊर्ध्वलग्नं समादाय दृढं वस्त्रेण बन्धयेत् ।ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सोमानले पचेत् ॥२१४॥जीर्णे गन्धं पुनर्देयं षड्भिर्वारैः समं समम् ।षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ॥२१५॥द्वितीयः प्रकारःगन्धकं धूमसारं च शुद्धं सूतं समं समम् ।यामैकं चूर्णयेत्खल्वे काचकुप्यां निवेशयेत् ॥२१६॥रुद्ध्वा द्वादशयामान्तं वालुकायन्त्रके पचेत् ।स्फोटयेत् स्वांगशीतं तमूर्ध्वस्थं गन्धकं त्यजेत् ॥२१७॥अधःस्थं रसम् आदाय सर्वयोगेषु योजयेत् ।तृतीयः प्रकारःशुद्धसूतं तथा गन्धं सूतार्धं सैन्धवे क्षिपेत् ॥२१८॥द्रवैः सितजयन्त्याश्च मर्दयेद्दिवसत्रयम् ।कृत्वा गोलं तु संशोष्य मूषायां तं निरोधयेत् ॥२१९॥शोषयित्वा धमेत् किंचित् सुतप्तेऽथ जले क्षिपेत् ।तस्माद्रसं समुद्धृत्य त्रिकन्दरसभावितम् ॥२२०॥योजयेत् सर्वरोगेषु धमेद्वा भूधरे पचेत् ।चतुर्थः प्रकारःरसार्धं गन्धकं मर्द्यं घृतैर्युक्तं तु गोलकम् ॥२२१॥कृत्वा तद्बन्धयेद्वस्त्रे डोलायन्त्रगतं पचेत् ।गोमूत्रे तद्गतं यामं नरमूत्रैर्दिनत्रयम् ॥२२२॥शोषयेत्तत्पुनर्वस्त्रैर्बद्ध्वा वेष्ट्यं मृदा दृढम् ।शुष्कं निरुध्य मूषायां पचेदथ तुषाग्निना ॥२२३॥ऊर्ध्वभागमधः कृत्वा त्वधोभागमथोर्ध्वगम् ।इत्यादिपरिवर्तेन स्वेदयेद्दिवसत्रयम् ॥२२४॥पश्चादुद्धृत्य तं सूतं योगवाहं रुजापहम् ।सद्योजातस्य बालस्य विष्ठां पालाशबीजकम् ॥२२५॥चण्डालीरुधिरं सूतं सूतपादं च टङ्कणम् ।जयन्त्या मर्दयेद् द्रावैर्दिनमेकं तु गोलकम् ॥२२६॥पिष्टया सहदेव्याथ लेपयेत्ताम्रसम्पुटम् ।तन्मध्ये गोलकं क्षिप्त्वा द्वियामं स्वेदयेल्लघु ॥२२७॥वालुकायन्त्रमध्ये तु समुद्धृत्य ततः पुनः ।चित्रकैः सहदेव्या च गन्धकं लेपयेद्बहिः ॥२२८॥सम्पुटं बन्धयेद्वस्त्रे मृदा लेप्यं च शोषयेत् ।तं रुद्ध्वा चान्यमूषायां ध्माते सम्पुटमाहरेत् ॥२२९॥सूक्ष्मचूर्णं हरेद्रोगान्योगवाहो महारसः ।सम्पुटं सूततुल्यं स्याच्छास्त्रदृष्टेन कर्मणा ॥२३०॥पञ्चमः प्रकारःधुत्तूरकद्रवैर्मर्द्यं दिनं गन्धांशसूतकम् ।अन्धमूषागतं स्वेद्यं भूधरे मूर्छितो दिनात् ॥२३१॥षष्ठः प्रकारःकृत्वा षडङ्गुलां मूषां सुपक्वां मृण्मयीं दृढाम् ।मूषागर्भे विलिप्याथ मूलैर् वर्तुलपत्त्रजैः ॥२३२॥तन्मध्ये सूतकं क्षिप्त्वा मूषां पूर्यात्तु तद्द्रवैः ।रुद्ध्वा तां वालुकायन्त्रे चुल्ल्यां दीपाग्निना पचेत् ॥२३३॥सप्ताहान्ते समुद्धृत्य योजयेत्तं जरापहम् ।सप्तमः प्रकारःकुरण्डकरसैः सान्द्रमातपे मर्दयेद्रसम् ॥२३४॥लताकरञ्जपत्रोत्थैः पादांगुष्ठेन मर्दयेत् ।दिनैकं मूर्छितं सम्यक् सर्वयोगेषु योजयेत् ॥२३५॥अष्टमः प्रकारःकासीसं सैन्धवं सूतं तुल्यं तुल्यं विमर्दयेत् ।कासीसस्याप्यभावे तु दातव्या फुल्लतूरिका ॥२३६॥स्तोकं स्तोकं क्षिपेत्खल्वे त्रयमेकत्र मूर्छयेत् ।प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं क्वचित् ॥२३७॥स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् ।ऊर्ध्वलग्नं ततः शुभ्रं मूर्छितं चाहरेच्छुभम् ॥२३८॥नवमः प्रकारःअथ शुद्धस्य सूतस्य मूर्छितस्यापरो विधिः ।सूततुल्यं मृतं स्वर्णं द्वाभ्यां तुल्यं च गन्धकम् ॥२३९॥रविक्षीरैर्दिनं मर्द्यमन्धयेद्भूधरे पुटे ।दिनैकेन भवेत्सिद्धो रसो हैरण्यगर्भकः ॥२४०॥शुभ्रः शोणोऽथवा कृष्णवर्णो गुरुतरो रसः ।पुनरुत्थानवान्यस्तु मूर्छितः स उदाहृतः ॥२४१॥मूलिकाबन्धाःश्रीभैरवी ।कीदृशी ओषधी नाथ रसमूर्च्छाकरी शुभा ।केन वा भस्म सूतश्च केन वा खोटबन्धनम् ॥२४२॥श्रीभैरवः ।शृणु भैरवि तत्त्वेन रहस्यं रसबन्धनम् ।ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं सुरवन्दिते ॥२४३॥निशाचरमूलिकाकल्पःगङ्गायमुनयोर्मध्ये प्रयागो नाम राक्षसः ।तस्यासने वरारोहे क्षणाद्बध्येत सूतकः ॥२४४॥निशाचरस्य पत्राणि गृह्णीयात्साधकोत्तमः ।ततो निपीड्यते देवि रसो भवति चोत्तमः ॥२४५॥रसं संमर्द्य तेनैव दिनानि त्रीणि वार्तिकः ।आरोटं बन्धयेत्क्षिप्रं गगनं तत्र जारयेत् ॥२४६॥तेन पत्ररसेनैव साधयेद्गन्धकं पुनः ।सप्तधा भावितं तेन त्र्यूषणेन सहैकतः ॥२४७॥यन्त्रे विद्याधरे देवि गगनं तत्र जारयेत् ।मासमात्रेण देवेशि जीर्यते तु समं समम् ॥२४८॥समजीर्णे तु गगने शतवेधी भवेद्रसः ।निशाचररसे देवि गन्धकं भावयेत्ततः ॥२४९॥भावयेत्सप्तवारं तु द्विपद्याश्च रसेन तु ।तारस्य पत्रलेपेन अर्धार्धे काञ्चनोत्तमम् ॥२५०॥गन्धके समजीर्णे ऽस्मिन् शतवेधी भवेद्रसः ।निशाचररसैर्भाव्यं सप्तवारं तु तालकम् ॥२५१॥तेनैव घातयेद्वङ्गं नागं तारे तु निर्वहेत् ।तत्तारं जारयेत्सूते तत्सूतं बन्धितं भवेत् ॥२५२॥चतुः षष्टितमे भागे शुल्बवेधं तु दापयेत् ।तदंशं जायते श्रेष्ठं धर्मकामार्थमोक्षदम् ॥२५३॥निशाचरस्य पुष्पाणि सूक्ष्मचूर्णानि कारयेत् ।पलानि दशचूर्णस्य रसैर्धात्र्यास्तु भावयेत् ॥२५४॥घृतेन मधुनालोड्यं नवभाण्डे विनिक्षिपेत् ।धान्यराशौ निधातव्यं त्रिः सप्ताहं सुरेश्वरि ॥२५५॥तेन भक्षितमात्रेण वलीपलितवर्जितः ।वल्कलं सूक्ष्मचूर्णं तु मधुना सहितं लिहेत् ॥२५६॥अर्धमासप्रयोगेण प्रत्ययोगं भवेत्प्रिये ।तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् ॥२५७॥मासमात्रप्रयोगेण पन्नगः काञ्चनं भवेत् ।मेर्चुर्य् > पट्टबन्धग्राह्यं तत्फलतैलं तु यन्त्रे पातालसंज्ञके ॥२५८॥तेन तैलेन देवेशि रसं संकोचयेद् बुधः ।तत्क्षणाज्जायते देवि पाटबन्धो महारसः ॥२५९॥कटकं कङ्कणं कार्यं रसलिङ्गं वरानने ।संकोचमरणं तेन कर्तव्यं परमाद्भुतम् ॥२६०॥अङ्गनायिकाकल्पःपुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ।त्रैलोक्यजननी या सा ओषधी अङ्गनायिका ॥२६१॥तया संपर्कमात्रेण बद्धस्तिष्ठति पारदः ।सप्ताहं मर्दितस्यास्य महौषध्या रसै रसः ॥२६२॥शतांशेनैव वेधेन कुरुते दिव्यकाञ्चनम् ।त्रिः सप्ताहं रसे तस्या मर्दनाद्वरवर्णिनि ॥२६३॥लक्षवेधी रसः साक्षादष्टौ लोहानि विध्यति ।त्रिसप्ताहेन देवेशि दशलक्षाणि विध्यति ॥२६४॥चतुर्थे चैव सप्ताहे कोटिवेधी भवेद्रसः ।स्वेदतापनिघर्षेण महौषध्या रसेन तु ॥२६५॥ददाति खेचरीं सिद्धिमनिवारितगोचरः ।कामयेत्कामिनीनां तु सहस्रं दिवसान्तरे ॥२६६॥नष्टच्छायो ह्यदृश्यश्च त्रैलोक्यं च भ्रमेदसौ ।महौषध्या रसेनैव मृतसंजीवनं भवेत् ॥२६७॥अनेन घातयेत्सूतं पञ्चावस्थं कुरु प्रिये ।मृतस्य दापयेन्नस्यं हस्तौ पादौ तु मर्दयेत् ॥२६८॥तस्य तु प्रविशेज्जीवो मृतस्यापि वरानने ।नरसारकल्पःपुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥२६९॥नरसारस्पर्शनेन क्षणाद्बध्येत सूतकः ।नरसाररसं दत्त्वा द्विपदीरजसा रसे ॥२७०॥दिनान्ते बन्धमायाति सर्वलोहानि रञ्जति ।नरसाररसेनैव भावयेत्तु मनःशिलाम् ॥२७१॥निर्गन्धा जायते सा तु घातयेत्तेन पन्नगम् ।द्विपदीरजसा सार्धं निरुद्धः पन्नगो भवेत् ॥२७२॥नरसाररसेनैव जीर्णे षड्गुणपन्नगे ।तारे ताम्रेऽपि वा देवि कोटिवेधी भवेद्रसः ॥२७३॥नरसाररसे स्तन्ये भावितं सप्तधा पृथक् ।रसस्य दापयेद्ग्रासं यन्त्रे विद्याधराह्वये ॥२७४॥जीर्यते गगनं देवि निर्मुखे च वरानने ।नरसाररसेनेशि कीटनारीरसेन च ॥२७५॥द्रावयेद्गगनं देवि तीक्ष्णलोहं च पन्नगम् ।नरसाररसेनेशि हनुमत्या रसेन च ॥२७६॥जायते काञ्चनं दिव्यं निषेकाद्भास्करः प्रिये ।नरसाररसे दत्त्वा मञ्जिष्ठां रक्तचन्दनम् ॥२७७॥स्वरसैर्मदयन्त्याश्च पन्नगं देवि सेचयेत् ।तत्क्षणात्काञ्चनं दिव्यं सप्तवारा निषेचितम् ॥२७८॥अष्टमांशयुतं हेम हेमकर्मणि चौषधम् ।नरसाररसे भाव्यं सप्तवारं तु हिङ्गुलम् ॥२७९॥तेनैव घातयेत्तीक्ष्णं भस्मीभूतत्वमाप्नुयात् ।तद्भस्म ताम्रपिष्टे तु त्रिगुणं तेन निर्वहेत् ॥२८०॥तच्छुल्बं हेमसङ्काशं तारे वाष्टांशयोजितम् ।तारं हेमसमांशं तु द्विवर्णं पतितं भवेत् ॥२८१॥नरसाररसे भाव्यं रसकं सप्तवारतः ।नरसाररसेनैव रसेन्द्रं सप्तवारतः ॥२८२॥तं रसं रसकं चैव तीक्ष्णलोहं च पन्नगम् ।नरसाररसेनैव तेनैकत्र विमर्दयेत् ॥२८३॥तत्क्षणाज्जायते बद्धो रसस्य रसकस्य च ।तीक्ष्णनागं तथा शुल्बं रसकेन तु रञ्जयेत् ॥२८४॥हठात्तज्जायते हेम कूष्माण्डकुसुमप्रभम् ।कङ्कालखेचरीकल्पःपुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥२८५॥कङ्कालखेचरी नाम्ना ओषधी परमेश्वरि ।तस्य तैलं तु संग्राह्यम् आद्यखेचरिसंयुतम् ॥२८६॥स्थापयेद्दिनमेकं तु पात्रे भास्करनिर्मिते ।द्वितीये वासरे प्राप्ते वज्ररत्नं तु घातयेत् ॥२८७॥अनले धामयेत्तं तु सुतप्तं प्रज्वलत्प्रभम् ।मन्त्रसिह्मासनीकल्पःसबीजा चौषधी ग्राह्या काचिद्गुल्मलता प्रिये ॥२८८॥मन्त्रसिंहासनी नाम तृतीया देवि खेचरी ।पातालयन्त्रे तत्तैलं गृह्णीयात्ताम्रभाजने ॥२८९॥तस्य तैलस्य मध्ये तु प्रक्षिपेत्खेचरीरसम् ।मेदिनीयन्त्रमध्ये तु स्थापयेच्च वरानने ॥२९०॥पूर्वौषध्यां तु तद्देवि गगनं मेदिनीजले ।रसे मासं ततो दत्त्वा मर्दनाद् गोलकं कुरु ॥२९१॥बद्ध्वा पोट्टलिकां तेन गगनं जारयेत्प्रिये ।समे तु गगने जीर्णे बद्धस्तिष्ठति पारदः ॥२९२॥भस्त्राफूत्कारयुक्तेन धाम्यमानो न नश्यति ।काकविष्ठासमं रूपं समजीर्णस्य जायते ॥२९३॥द्विगुणे गगने जीर्णे ह्यष्टलोहानि संहरेत् ।इरिन्दिरीकल्पःपुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥२९४॥शिवदेहात्समुत्पन्ना ओषधी तु इरिन्दिरी ।जारयेद्गन्धकं सा तु जारयेत्सापि तालकम् ॥२९५॥काञ्चनं जारयेत्सा तु रसेन्द्रं सा च बन्धयेत् ।प्रवालं द्रावयेत्सा तु द्रावयेद्गगनं तथा ॥२९६॥वज्रं च घातयेत्सा तु सर्वसत्वं च घातयेत् ।जारयेत्सर्वलोहानि सत्वान्यपि च जारयेत् ॥२९७॥इरिन्दिरीरसे न्यस्य गोशृङ्गे तु वरानने ।धान्यराशौ निधातव्यं द्रुतस्तिष्ठति पारदः ॥२९८॥दिव्यौषध्या रसेनैव रसेन्द्रः सुरवन्दिते ।समे तु कनके जीर्णे दशकोटिं तु वेधयेत् ॥२९९॥पञ्चमे लक्षकोटिं तु षड्गुणे स्पर्शवेधकः ।सप्तमे धूपवेधी स्यादष्टमे त्ववलोकतः ॥३००॥नवमे शब्दवेधी स्यादत ऊर्ध्वं न विद्यते ।भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः ॥३०१॥तृणौषधिरसानां च नैव सिद्धिः प्रजायते ।तस्मात्सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधिः ॥३०२॥दिव्यौषध्यश्चतुः षष्टिः कुलमध्ये व्यवस्थिताः ।नैव जानाति मूढास्ताः शिवमोहेन मोहिताः ॥३०३॥अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे ।तृणौषध्या रसे सूतो नैव बद्धः कदाचन ॥३०४॥अक्षयो नैव तिष्ठेत कुलौषधिविवर्जितः ।कुलौषध्या विहीनास्तु गगनं चारयन्ति ये ॥३०५॥स रसस्तु वरारोहे वह्निमध्ये न तिष्ठति ।न खोटं न च वा भस्म नैव द्रव्यं करोति सः ॥३०६॥किंचिद्द्रव्यं प्रकुर्वन्ति धाम्यमानं न तिष्ठति ।पत्रे पाके कषे छेदे नैव तिष्ठति काञ्चनम् ॥३०७॥न वेधं च शतादूर्ध्वं करोति स रसः प्रिये ।यावन्न चाब्दम् एकं तु विक्रान्तं त्रपु तत्तु काञ्चनम् ॥३०८॥धर्मार्थकाममोक्षेषु नैव दद्यात्ततः प्रिये ।श्रीभैरवी ।निर्जीवत्वं गतः सूतः कथं जीवं ददाति सः ॥३०९॥निर्जीवेन तु निर्जीवं कथं जीवति शंकरः ।श्रीभैरवः ।दिव्यौषध्या यदा देवि रसेन्द्रो मर्दितो भवेत् ॥३१०॥कालिकारहितः सूतस्तदा भवति पार्वति ।परस्य हरते कालं कालिकारहितो रसः ॥३११॥अष्टानां चैव लोहानां मलं शमयति क्षणात् ।महामूर्च्छागतं सूतं को वा विकथयेन्मृतम् ॥३१२॥दिव्यौषध्या रसेनैव जायते नष्टचेतनः ।पञ्चभूतात्मकः सूतस्तिष्ठत्येव सदाशिवः ॥३१३॥क्ष्मापालकल्पःपुनरन्यं प्रवक्ष्यामि रसबन्धनमीश्वरि ।क्ष्मापालेन हरेद्वज्रम् अनेनैव तु काञ्चनम् ॥३१४॥वज्रभस्म हेमभस्म तद्वा एकत्र बन्धयेत् ।अन्ये कुलमूलिकाकल्पाःनिशाचररसे जार्यं नरजीवेन जारयेत् ॥३१५॥तं सूतं मारयेद्भद्रे जागरिर् दिव्य ओषधिः ।भक्षितः स रसो येन सोऽपि साक्षात्सदाशिवः ॥३१६॥भक्षिते तोलकैकेन स्पर्शवेधी भवेन्नरः ।प्रस्वेदात्तस्य गात्रस्य अष्टौ लोहानि काञ्चनम् ॥३१७॥लक्षवर्षसहस्राणि स जीवेत्साधकोत्तमः ।प्रस्वेदात्तस्य गात्रस्य रसराजश्च बध्यते ॥३१८॥अजापतिः कृष्णतेजाः क्षणाद्बध्नाति सूतकम् ।जागरीस्पर्शनाद्देवि क्ष्मापालेन च बध्यते ॥३१९॥तुरुवल्ल्या रसेनैव भावितं गगनं प्रिये ।जारयेद्वालुकायन्त्रे खोटो भवति तत्क्षणात् ॥३२०॥द्रुतगोलकमाषैकं माषैकं हेमगोलकम् ।एकीकृत्य तु संमर्द्य लुङ्गाम्लेन दिनत्रयम् ॥३२१॥कर्षैकं नागपत्राणि रसकल्केन लेपयेत् ।वेष्टयेद्वृश्चिकालीं च तत्पिण्डं लेपयेत्ततः ॥३२२॥मारयेत्पन्नगं देवि शक्रगोपनिभं भवेत् ।कर्षैकं तारपर्णानि मृतनागेन लेपयेत् ॥३२३॥लेपयेद् वृश्चिकालीं च तत्पत्रं लेपयेत्ततः ।तत्तारं म्रियते देवि सिन्दूरारुणसन्निभम् ॥३२४॥सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ।जायते कनकं दिव्यं देवाभरभूषणम् ॥३२५॥क्षीरयुक्ता बहुफला ग्रन्थियुक्ता च पार्वति ।नाम्ना वर्तुलपत्त्राणि शस्यते रसबन्धने ॥३२६॥एकवारं कन्दकल्के मूकमूषागतं रसम् ।धमेन्मुखानिलैर्बद्धो भक्षणाय प्रशस्यते ॥३२७॥रक्तकञ्चुकिकन्दं तु स्त्रीस्तन्येन तु पेषितम् ।मूषायां पूर्वयोगेन कुरुते सूतबन्धनम् ॥३२८॥वृश्चिकापत्त्रिकाबीजं नारीक्षीरसमन्वितम् ।धमयेत् पूर्ववत्सूतं भक्षणार्थाय वार्तिकः ॥३२९॥वज्रकन्दं समादाय रसं मध्ये विनिक्षिपेत् ।गजेन्द्राख्यं पुटं दद्यात्सप्तधा बन्धतां नयेत् ॥३३०॥भक्षयेत्तं रसं प्राज्ञः षण्मासादमरो भवेत् ।लाङ्गलीकन्दमादाय कर्कोटीकन्दम् एव च ॥३३१॥रसं तन्मध्यगं कृत्वा स्वेदयेन्मर्दयेत्पुनः ।म्रियते नात्र सन्देहो ध्मातस्तीव्रानलेन तु ॥३३२॥शुकचञ्चुगतं सूतं पुटयेद्धामयेत्ततः ।शतांशवेधकर्तायं देहसिद्धिकरो भवेत् ॥३३३॥हंसपादीरसं सूतं शुष्ककन्दोदरे क्षिपेत् ।गजेन्द्रपुटनं दद्यान्म्रियते नात्र संशयः ॥३३४॥सहस्रवेधकर्ता च जायते नात्र संशयः ।हंसाङ्घ्रिं शुकचञ्चुं च गृहीत्वा मर्दयेद्रसम् ॥३३५॥क्रौञ्चपादोदरे क्षिप्त्वा ततो दद्यात्पुटत्रयम् ।म्रियते नात्र सन्देहो लक्षवेधी महारसः ॥३३६॥तृणज्योतिःकल्पःतृणज्योतिरिति ख्यातां शृणु दिव्यौषधिं प्रिये ।निशा तु प्रज्वलेन्नित्यं नाह्ना ज्वलति पार्वति ॥३३७॥तस्य मूले तु संक्षिप्ते क्षीरं रक्तं भवेत्क्षणात् ।तन्मूलरसगन्धाभ्रैर् मातुलुङ्गाम्लपेषितैः ॥३३८॥शुल्बपत्रं विलिप्तं तु भवेद्धेम पुटत्रयात् ।तन्मूलचूर्णसंयुक्तो रसराजः सुरेश्वरि ॥३३९॥मातुलुङ्गरसे घृष्टमभ्रकं चरति क्षणात् ।उच्चाटाकल्पःअथोच्चाटां प्रवक्ष्यामि रसबन्धकरीं प्रिये ॥३४०॥एकमेव भवेन्नालं तस्या रोमप्रवेष्टनम् ।तस्याग्रे च भवेत्पुष्पं शुकतुण्डस्य सन्निभम् ॥३४१॥तत्पत्राणि च देवेशि शुकपिञ्छनिभानि च ।तत्कन्दं कूर्मसंस्थानं क्षीरं सिन्दूरसन्निभम् ॥३४२॥जलं स्रवेन्मधूच्छिष्टे तत्समादाय पार्वति ।वेधयेत्सर्वलोहानि काञ्चनानि भवन्ति च ॥३४३॥रसतालकतुत्थानि मर्दयेदुच्चटारसैः ।आतपे म्रियते तप्तो रसो दिव्यौषधीबलात् ॥३४४॥वेधयेत्सर्वलोहानि लक्षांशेन वरानने ।आवर्तितं भवेद्यावज्जायतेऽर्कसमप्रभम् ॥३४५॥रक्तस्नुहीकल्पःरसं रक्तस्नुहीक्षीरं कुनटीं गन्धकाभ्रकम् ।दरदं चैव लोहानि सहस्रांशेन वेधयेत् ॥३४६॥स्नुहीक्षीरं समादाय निशाचूर्णेन वेष्टयेत् ।गुटिकीकृत्य तेनैव नागं विध्यति तत्क्षणात् ॥३४७॥स्थलपद्मिनीकल्पःअथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु ।पद्मिनीसदृशा पत्रैः पुष्पैरपि च तादृशी ॥३४८॥भङ्गे चैव स्रवेत्क्षीरं रक्तवर्णा सुशोभना ।आक-रम्य वामपादेन पश्येद्गगनमण्डलम् ॥३४९॥पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलम् ।लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी ॥३५०॥तस्याः पञ्चाङ्गमादाय हरगौरीसमन्वितम् ।मनःशिलातालयुक्तं माक्षिकेण समन्वितम् ॥३५१॥मर्दयेत्सप्तरात्रं तु तेन शुल्बं च वेधयेत् ।सहस्रांशेन देवेशि विद्धं भवति काञ्चनम् ॥३५२॥तस्याः पञ्चाङ्गमादाय पूर्वोक्तविधिना प्रिये ।चारयेत्सूतराजं तु मूकमूषागतं धमेत् ॥३५३॥म्रियते मूषिकामध्ये संकोचेन न संशयः ।तेनैव सर्वलोहानि सहस्रांशेन वेधयेत् ॥३५४॥चित्रककल्पःचित्रकस्य यथा गुह्यं कथयामि समासतः ।त्रिविधश्चित्रको ज्ञेयः कृष्णो रक्तो रसायनम् ॥३५५॥शुक्लो व्याधिप्रशमनः श्रेष्ठमध्यकनीयसाः ।कृष्णं रक्तं सितं वापि हेमन्ते नोद्धरेद् बुधः ॥३५६॥कृष्णचित्रकमुत्पाट्य गोभिर्नाघ्रातमीश्वरि ।क्षीरमध्ये क्षिपेत्क्षीरं कृष्णवर्णं भवेत् क्षणात् ॥३५७॥तस्य पञ्चाङ्गचूर्णेन पारदं सह मर्दयेत् ।धमेच्च मूकमूषायां खोटो भवति तत्क्षणात् ॥३५८॥रक्तांबरधरो भूत्वा रक्तमाल्यानुलेपनः ।कृष्णपक्षे तु पञ्चम्यां रक्तमाल्यौदनेन तु ॥३५९॥बलिं दत्त्वा महादेवि रक्तचित्रकमुद्धरेत् ।रक्तचित्रकचूर्णेन वङ्गं पायैस्त्रिभिस्त्रिभिः ॥३६०॥सर्वदोषविनिर्मुक्तः स्तम्भमायाति तत्क्षणात् ।तन्मूलं सूतकं ताम्रं कुङ्कुणीतैलसेचनात् ॥३६१॥एकविंशतिवारेण शुद्धं शुल्बं भविष्यति ।रक्तचित्रकभल्लाततैललिप्तं पुटेन तु ॥३६२॥चन्द्रार्कपत्रं देवेशि जायते दिव्यकाञ्चनम् ।नागिनीकन्दसूतेन्द्ररक्तचित्रसंयुतम् ॥३६३॥पत्रलेपप्रतीवापैश्चन्द्रार्कं काञ्चनं भवेत् ।ज्योतिष्मतीतैलकल्पःज्योतिष्मतीतैलविधिं वक्ष्यामि शृणु पार्वति ॥३६४॥ज्योतिष्मती नाम लता या च काञ्चनसन्निभा ।वल्लीवितानबहुला हेमवर्णफला शुभा ॥३६५॥आषाढपूर्वपक्षेऽस्या गृहीत्वा बीजमुत्तमम् ।तिलवत्क्वाथयित्वा वा हस्तपादैरथापि वा ॥३६६॥तस्यास्तैलं समादाय कुम्भे ताम्रमये क्षिपेत् ।स्थापयेद्भूगतं कुम्भं क्रमादूर्ध्वतुषाग्निना ॥३६७॥षण्मासे तु व्यतिक्रान्ते स घटः काञ्चनं भवेत् ।ताम्रं हेमसमं कृत्वा तैलमाक्षीकमिश्रितम् ॥३६८॥प्रतिवापेन सिञ्चेत् तद्धेम ताम्रसमं भवेत् ।तथा च शतवेधी स्याद्विद्यारत्नम् अनुत्तमम् ॥३६९॥दग्धरुहाकल्पःदग्धरुहां प्रवक्ष्यामि रसबन्धकरीं प्रिये ।स्पर्शौषधीति सा ज्ञेया सर्वकामार्थसाधनी ॥३७०॥शश्वच्छिन्ना महादेवि दग्धा सा पावकेन तु ।प्ररोहति क्षणाद्दिव्या दग्धा सा तु महौषधी ॥३७१॥रक्तं पीतं सितं कृष्णं तस्याः पुष्पं प्रजायते ।चणकस्येव पत्राणि सुप्रसूतानि लक्षयेत् ॥३७२॥सा स्थिता गोमतीतीरे गङ्गायामर्बुदे गिरौ ।उज्जयिन्या दक्षिणतो वनान्तेषु च दृश्यते ॥३७३॥तस्याः कन्दरसं दिव्ये कृष्णराजीसमन्वितम् ।ताम्बूलेन समं कृत्वा घुटिकां कारयेद्बुधः ॥३७४॥सर्वेषामेव लोहानां द्रुतानां वह्निमध्यतः ।सहस्रं वेधयित्वा तु काञ्चनं कुरुते क्षणात् ॥३७५॥तथैव म्रियते सूतः कान्तहेमाभ्रसंयुतः ।कटुतुम्बीकल्पःकटुतुंबी तु विख्याता देवि दिव्यौषधिं शृणु ॥३७६॥तस्या बीजानि संगृह्य सूक्ष्मचूर्णं तु कारयेत् ।एकविंशतिवाराणि भाव्यं धात्रीरसेन च ॥३७७॥पयसा सह तेनैव विश्वभेषजसंयुतम् ।बीजं यन्त्रे विनिक्षिप्य तैलं संगृह्य पिण्डितः ॥३७८॥रसं मूर्छापयेत्तेन चक्रमर्देन मर्दयेत् ।लोहदण्डकल्पःगोपित्तं शिखिपित्तं च कांक्षीकासीससंयुतम् ॥३७९॥तारतुल्यानि चैतानि सर्वेषां सूतकं समम् ।मेषशृङ्गे निधातव्यं मासमेकं निरन्तरम् ॥३८०॥लोहदण्डेन संसिक्तं सर्वलोहानि वेधयेत् ।गन्धकं लोहदण्डेन एकविंशतिभावितम् ॥३८१॥युक्तं लोहकुलेनैव जम्बीररससंयुतम् ।सबीजं सूतकोपेतमन्धमूषानिवेशितम् ॥३८२॥भूगतं मासमेकं तु तारं काञ्चनतां नयेत् ।दलस्य भागमेकं तु तारपञ्चांशमेव च ॥३८३॥शुल्बं च पञ्चभागं च बीजस्यैकं च योजयेत् ।एते द्वादशभागाः स्युः सर्वं तद्धारयेत्क्षितौ ॥३८४॥स्थानस्यास्य निषेकं तु सुदण्डेन तु कारयेत् ।पञ्चविंशद्दिनान्ते तु जायते कनकोत्तमम् ॥३८५॥क्षीरकन्दकल्पःक्षीरकन्दविधिं वक्ष्ये सर्वसिद्धिकरं तथा ।चतुर्वर्णं विषं तत्र रक्तकन्दं प्रशस्यते ॥३८६॥भग्नमेतत्स्रवेत्क्षीरं रक्तवर्णं सुशोभनम् ।मेघानां तु निनादेन संजातैर् उपशोभितम् ॥३८७॥पत्रैः स्नुहीसमैः स्निग्धैः समभिर् हेमसत्प्रभैः ।बन्धनं रसराजस्य सर्वसत्ववशंकरम् ॥३८८॥तस्य क्षीरं तु संगृह्य तारं निर्वाहयेद्बुधः ।धमेद्धठाग्निना चैव जायते हेम शोभनम् ॥३८९॥तिन्त्रिणीपत्रनिर्यासमीषत्ताम्ररजोयुतम् ।मर्दयेत्पारदं प्राज्ञो रसबन्धो भविष्यति ॥३९०॥तोयमध्ये विनिक्षिप्य गुलिका वज्रवद्भवेत् ।शाकवृक्षकल्पःशाकवृक्षस्य देवेशि निष्पीड्य रसमुत्तमम् ॥३९१॥रक्तचन्दनसंयुक्तं सर्वलोहानि जारयेत् ।मिलन्ति सर्वलोहानि द्रवन्ति सलिलं यथा ॥३९२॥गन्धकं रसकं ताप्यं पारदं रक्तचन्दनम् ।रुदन्त्या रससंयुक्तं तारमायाति काञ्चनम् ॥३९३॥शाकवृक्षस्य निर्यासं यत्नतः परिगालयेत् ।शिग्रुमूलस्य चूर्णं तु तद्रसेन तु मर्दयेत् ॥३९४॥प्रलिप्तशुल्बपत्राणि पुटेत्क्षिप्त्वा विपाचयेत् ।तद्द्रुतं काञ्चनं दिव्यं भवेल्लक्षणसंयुतम् ॥३९५॥फलानि शाकवृक्षस्य परिपक्वानि संगृहेत् ।तद्रसेन तु सम्प्राज्ञः सप्तरात्रं तु भावयेत् ॥३९६॥तद्रसेन समायुक्तं मञ्जिष्ठामिश्रितं तथा ।लेपयेत्तारपत्राणि ध्मातं भवति काञ्चनम् ॥३९७॥देवदालीकल्पःदेवदाल्या महौषध्या विधिं वक्ष्याम्यतः परम् ।सा श्वेता व्याधिशमने कृष्णा पीता रसायने ॥३९८॥पौर्णमास्यां त्रयोदश्यां राहुग्रस्ते दिवाकरे ।अथवा कृष्णपञ्चम्यामिमां विधिवदुद्धरेत् ॥३९९॥देवदालीफलं देवि विष्णुक्रान्तां च सूतकम् ।मूर्छयेद् बन्धयेत्क्षिप्रं शुल्बं हेम करोति च ॥४००॥देवदालीफलं मूलमीश्वरीरसमेव च ।तोयेन मर्दितं कृत्वा वङ्गं स्तम्भयति क्षणात् ॥४०१॥श्वेतगुञ्जाकल्पःअथातः सम्प्रवक्ष्यामि श्वेतगुञ्जाविधिं प्रिये ।कृष्णपक्षे चतुर्दश्यामष्टम्यां च सुरार्चिते ॥४०२॥कपाले मृत्तिकां न्यस्य सेचयेत्सलिलेन तु ।बीजानि सितगुञ्जायाः पुष्ययोगे तु वापयेत् ॥४०३॥वक्ष्यमाणेन योगेन कुर्यात् संग्रहणं तथा ।ओं नमो भगवति श्वेतवल्लि श्वेतपर्वतवासिनि ॥४०४॥सर्वकार्याणि कुरु कुरु अप्रतिहतं नमो नमः स्वाहा ।शुद्धशुल्बं तु संगृह्य मूषामध्ये तु संस्थितम् ॥४०५॥त्रिपञ्चपलसंख्या तु कर्षार्धसितगुञ्जया ।सहैकत्र भवं तारं तस्य गन्धविवर्जितम् ॥४०६॥ब्रह्मरीतिसमायुक्तं गुञ्जाचूर्णं सहैकतः ।देवीनां भूषणं देवि जायते हेम शोभनम् ॥४०७॥कर्तरीरसबन्धःअथातः सम्प्रवक्ष्यामि कर्तरीरसबन्धनम् ।असुराणां समायोगे क्रोधाविष्टेन चेतसा ॥४०८॥सुदर्शनं महाचक्रं प्रेषितं मुरवैरिणा ।भालपट्टात्ततस्तस्य निपेतुः स्वेदबिन्दवः ॥४०९॥ते भूमौ पतिता दिव्याः संजाताः कर्तरीरसः ।रक्षार्थं स्थापितं तत्र विष्णुना च सुदर्शनम् ॥४१०॥चक्रतुल्यं भ्रमत्येतदायुधानि निकृन्तति ।कुरुते गर्जनं नादं धूमज्वालां विमुञ्चति ॥४११॥कर्तरीदृष्टिमात्रेण तथान्या शब्दकर्तरी ।लोकानां तु हितार्थाय घोरशक्तिर्व्यवस्थिता ॥४१२॥रसरूपा महाघोरा सा सिद्धानां तु वेदिनी ।तस्य क्षेत्रं यदा गच्छेदघोरास्त्रं जपेत्तदा ॥४१३॥पुनर्घोरं न्यसेत्तत्र अथान्यं विन्यसेद्बुधः ।अनुलोमविलोमेन देहेऽधिष्ठाप्य कर्तरीम् ॥४१४॥मुद्रया मुद्रयेत्तां तु अघोरास्त्रेण योजिताम् ।दीप्तेन रोधयेत्तां तु स्तम्भयेद् दीपनेन तु ॥४१५॥निष्ठया मुद्रया तां तु स्थानयोगेन योजयेत् ।उदकबन्धाः॑ चन्द्रोदकबन्धःअथ चन्द्रोदकेनेशि वक्ष्यामि रसबन्धनम् ॥४१६॥दृष्ट्वा चन्द्रोदकं मन्त्री पौर्णमास्यां विशेषतः ।ग्रहणं तत्र कर्तव्यं पौर्णमास्यां प्रयत्नतः ॥४१७॥निर्गच्छति महीं भित्त्वा चन्द्रवृद्ध्या तु वर्धते ।क्षेत्रबन्धं पुरा कृत्वा देवमभ्यर्च्य शङ्करम् ॥४१८॥चतुर्दश्यां तु तत्क्षेत्रं पूजयित्वा विचक्षणः ।अहोरात्रोषितो भूत्वा बलिं तत्र निवेदयेत् ॥४१९॥पौर्णमास्यां च रात्रौ च गत्वा तस्य समीपतः ।चन्द्रोदकं तु संगृह्य मन्त्रयुक्तः सुमन्त्रितम् ॥४२०॥आलोड्य मधुसर्पिर्भ्यां पिबेत्तत्तु समाहितः ।पीतमात्रेण तेनैव मूर्छितो भवति क्षणात् ॥४२१॥चन्द्रोदये तथोत्तिष्ठेत्क्षारं तस्य तु दापयेत् ।सप्तरात्रप्रयोगेण चन्द्रवन्निर्मलो भवेत् ॥४२२॥एकविंशतिरात्रेण जीवेद् ब्रह्मदिनत्रयम् ।एकमासप्रयोगेण ब्रह्मायुः स भवेन्नरः ॥४२३॥चन्द्रोदकेन गगनं रसं हेम च मर्दयेत् ।मूषामध्यगतं ध्मातं तत्क्षणाद्घुटिका भवेत् ॥४२४॥अयं तु स्पर्शमात्रेण लोहान्यष्टौ च वेधयेत् ।तद्रसं तु रसं चान्यं वज्रेण समजारितम् ॥४२५॥चतुःषष्ट्यंशतो विध्येद्द्विगुणेन सहस्रकम् ।दशसङ्कलिकाबद्धं गुञ्जामात्रं रसं ततः ॥४२६॥त्रिलोहवेष्टितं वक्त्रे धृत्वा चादृश्यतां व्रजेत् ।ओं नमो रुद्राय दंष्ट्रोत्कटाय विघ्नं नाशय नाशय दिशो रक्ष रक्ष रुद्रो ज्ञापयति हुं फट् स्वाहा ।इति दिग्बन्धमन्त्रः ।ओं नमो भगवते रुद्राय त्रिशूलहस्ताय अमृतोद्भव रक्ष रक्ष हुं फट् स्वाहा ।इति पानमन्त्रः ।विषोदकबन्धःअथातः सम्प्रवक्ष्यामि विषोदरसबन्धनम् ॥४२७॥सितपीतादिवर्णाढ्यं तत्र देवि रसोत्तमम् ।तत्र गत्वाचलोद्देशे स्मरेद्घोरं सहस्रकम् ॥४२८॥केशाः क्षिप्ताः स्फुटन्त्यस्मिन्नात्मच्छायां न दृश्यते ।तैलं च गोलकाकारं घृतं तेन विसर्पति ॥४२९॥गन्धकस्य हरेद्गन्धं पललं लवणायते ।ज्ञात्वा पलाशपत्रेण कटुकालाबुके क्षिपेत् ॥४३०॥विषोदकं गन्धकं च हरबीजं च तत्समम् ।अजाक्षीरेण पिष्ट्वा तु शुल्बपात्रे तु लेपयेत् ॥४३१॥तत्पुटेन भवेद्देवि सिन्दूरारुणसन्निभम् ।शतांशेनैव तद्देवि सर्वलोहानि वेधयेत् ॥४३२॥अनेन विधिना देवि नागः सिन्दूरतां व्रजेत् ।सहस्रांशेन तस्यैव तारं भवति काञ्चनम् ॥४३३॥रक्तं पीतं तथा कृष्णमुत्तरोत्तरकार्यकृत् ।त्रिफलाकान्तपात्रे वा पात्रेऽलाबुमयेऽपि वा ॥४३४॥गृहीत्वा पूर्ववत्पत्रैः पालाशैर्वेष्टयेद्बहिः ।स्थापयेद्धान्यमध्ये तु दिवसानेकविंशतिम् ॥४३५॥महिषीक्षीरमध्ये तु बिन्दुमेकं तु साधयेत् ।पायसं भक्षयेद्यस्तु पयोमध्वाज्यसंयुतम् ॥४३६॥यावत्पूर्णं बलं देवि जीवेत्तद्बिन्दुसंख्यया ।लाङ्गली गृहधूमश्च सिन्दूरं रजनीद्वयम् ॥४३७॥मेषस्य शृङ्गं शृङ्गीं च कृष्णोन्मत्ताश्वमारकम् ।सबीजसूतकं चैव विषतोयेन मर्दयेत् ॥४३८॥विषतोयेन मेधावी सप्तवाराणि भावयेत् ।अथवा भावयेत्तं तु यावच्चूर्णं तु मर्दयेत् तद्भवेत् ॥४३९॥तेन नागं प्रतीवाप्य षोडशांशेन खं भवेत् ।मूषास्थं वेणुयन्त्रे च त्रीणि वाराणि भावयेत् ॥४४०॥धूमं परिहरेत्तस्य अङ्गव्याधिकरं परम् ।स्थापयेन्नागसिन्दूरं पात्रेऽलाबुमये च तत् ॥४४१॥तच्चूर्णं तु शतांशेन तारताम्रादि वेधयेत् ।विषपानीयमादाय वङ्गमावर्तितं शुभम् ॥४४२॥निषिक्तं चैव तत्तोयैस्तारं भवति काञ्चनम् ।विषपानीयमादाय प्रक्षिपेच्च रसोत्तमे ॥४४३॥कुनटीगन्धपाषाणविषटङ्कणलाङ्गलीः ।नष्टपिष्टं कृतं खल्वे तारपत्राणि लेपयेत् ॥४४४॥अन्धमूषागतं ध्मातं निर्बीजं कनकं भवेत् ।ओं ह्रीं नीलकण्ठाय ठः ठः ।अस्य अयुतं जपेत् ।इति विषोदकग्रहणपानमन्त्रः ।सञ्जीवनीजलकल्पःसंजीवनीजलस्याथ विधिं वक्ष्यामि पार्वति ॥४४५॥शुक्रेणाराधितो देवि प्रागहं सुरवन्दिते ।दानवानां हितार्थाय मृतानां देवसङ्गरे ॥४४६॥मया संजीवनी विद्या दत्ता चोदकरूपिणी ।तया संजीविता दैत्या ये मृता देवसङ्गरे ॥४४७॥निक्षिप्ता मर्त्यलोके सा सम्यक् ते कथयाम्यहम् ।अस्ति मर्त्या महापुण्या पवित्रा दक्षिणापथे ॥४४८॥दक्षिणे तु तटे तस्या उत्पलीनगरं परम् ।तस्य दक्षिणतः शैलः सर्वलोकेषु विश्रुतः ॥४४९॥नाम्ना कृष्णगिरिः चेति दृश्यते सर्वमङ्गले ।सुप्रसिद्धाम्बिका नाम ग्रामस्तस्यास्ति सन्निधौ ॥४५०॥तत्राप्युदकमालोक्य परीक्षेत सुरार्चिते ।गृहीत्वा शुष्कवंशं तु क्षिपेत्तोयस्य मध्यतः ॥४५१॥जायते हरितं स्निग्धमहोरात्रेण निश्चितम् ।मुञ्चत्यङ्कुरपत्रानि दृश्यतेऽतिमनोहरम् ॥४५२॥बलिपुष्पोपहारेण ततो देवि समर्चयेत् ।क्षेत्राधिपं गणेशं च चन्द्रं योगिगणं तथा ॥४५३॥ओं चन्द्राय पिनाकिने शूलपाणये ओं दिशो बन्ध बन्धय दिशो बन्ध बन्धय ठः ठः ।तिलांश्च सर्षपांश्चैव मन्त्रेणानेन सर्षपान् ।सप्ताभिमन्त्रितान्कृत्वा साधको दिक्षु निक्षिपेत् ॥४५४॥कटुकालाबुके तोयं कृतरक्षः समाहितः ।गृहीत्वा तत्प्रयत्नेन निजं स्थानं समाश्रयेत् ॥४५५॥ओं नमो ऽमृते अमृतरूपिणि अमृतं कुरु कुरु एवं रुद्र आज्ञापयति स्वाहा ।सप्ताभिमन्त्रितं कृत्वा मन्त्रेणानेन तज्जलम् ।दिनमेकं तथा सूतं स्वर्णमाषद्वयान्वितम् ॥४५६॥मर्दयेत्तेन तोयेन पिबेत्तत्तु विचक्षणः ।एकविंशतिरात्रं तु क्षीराहारोऽथ यत्नतः ॥४५७॥जीवेत्कल्पायुतं साग्रं कामरूपो महाबलः ।योजनानां शतं गत्वा पुनरेव निवर्तते ॥४५८॥अवध्यः सर्वभूतानां स्वेच्छाहारः स खेचरः ।कनकं पारदं व्योम समम् एकत्र योजयेत् ॥४५९॥मर्दयेत्तेन तोयेन सप्ताहं स्वेदयेत्ततः ।स रसः सर्वलोहानि षष्ट्यंशेन तु वेधयेत् ॥४६०॥अथवा तं रसं दिव्यं मधुना सह भक्षयेत् ।मासमात्रप्रयोगेन जीवेद् ब्रह्मदिनायुतम् ॥४६१॥तस्य मूत्रमलस्वेदैः शुल्बं भवति काञ्चनम् ।निर्वाते तोयमादाय पारदं च मनःशिलाम् ॥४६२॥मर्दयेत् खल्वपाषाणे नष्टपिष्टं भवेत्ततः ।स्वेदयेत्सप्तरात्रं तु त्रिलोहेन च वेष्टयेत् ॥४६३॥अन्तर्धानं क्षणाद्गच्छेद्विद्याधरपतिर् भवेत् ।सिद्धकन्याशतवृतो यावत्कल्पांश्चतुर्दश ॥४६४॥दिनेषु तेषु सर्वेषु दद्याच्छाल्योदनं घृतम् ।पयसा च समायुक्तं नित्यमेवं च कारयेत् ॥४६५॥उष्णोदककल्पःउष्णोदकविधिं वक्ष्ये समाहितमनाः शृणु ।पश्यत्युष्णोदकं यत्र वासं तत्रैव कारयेत् ॥४६६॥शर्वरीमुषितां तत्र चणकास्तु दिने दिने ।भक्षयेन्मासमात्रं तु जीवेद्वर्षशताष्टकम् ॥४६७॥तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् ।उष्णोदकं च कासीसं गन्धपाषाणसंयुतम् ॥४६८॥चतुर्थांशेन रसकं दशभागं विनिक्षिपेत् ।शुल्बं च मर्दयेत्सर्वं नष्टपिष्टं क्षणेन तु ॥४६९॥तेन लेपितमात्रेण शुल्वं भवति काञ्चनम् ।निषिक्तं तेन तोयेन प्रतिवापं ददेद्बुधः ॥४७०॥शुल्बं च जायते हेम तरुणादित्यवर्चसम् ।तारं च तेन मार्गेण निषिक्तं हेमतां व्रजेत् ॥४७१॥उष्णोदकेन भल्लातं तिलमुष्टिं च भक्षयेत् ।मासद्वयप्रयोगेण जीवेद्वर्षशतत्रयम् ॥४७२॥रसगन्धाश्मरसकतुत्थं दरदमाक्षिकम् ।याममुष्णाम्बुना घृष्ट्वा तारपत्राणि लेपयेत् ॥४७३॥विभ्राम्य तु धमेद्देवि स्याच्चतुर्दशवर्णकम् ।क्रमेणानेन देवेशि शुल्बं षोडशवर्णकम् ॥४७४॥एकैकं हेमतारांशं द्वयं कांताभ्रयोः पृथक् ।उष्णोदकेन संमर्द्य धमनात्खोटतां नयेत् ॥४७५॥तं मुखे धारयेन्मासं वज्रकायो भवेत्ततः ।तच्चूर्णं यवमात्रं तु भक्षयेन्मधुसर्पिषा ॥४७६॥यावत्पलं तस्य मलैः शुल्बं भवति काञ्चनम् ।उष्णोदपाचितान् खादेत् कुलुत्थान्क्षीरपो भवेत् ॥४७७॥स्नानम् उष्णांभसा कुर्याद् वर्षाद्वर्षाच्छतायुषः ।क्षीरमुष्णोदकं क्वाथं त्रिफलायाश्च पाचयेत् ॥४७८॥पाचयेत्पायसं कान्तपात्रे भुक्त्वा महायुषः ।शैलोदककल्पःअतः परं प्रवक्ष्यामि शैलोदकविधिं प्रिये ॥४७९॥कर्दमापो महीशैलशिला चेति चतुर्विधम् ।कानिचित् क्षणवेधीनि दिनवेधीनि कानि च ॥४८०॥पक्षमासादिषण्मासवेधनानि महीतले ।क्षिप्तं जले यदा काष्ठं शैलीभूतं च दृश्यते ॥४८१॥बहिरन्तश्च देवेशि वेधकं तत्प्रकीर्तितम् ।हिङ्गुलं हरितालं च गन्धकं च मनःशिलाम् ॥४८२॥एषां गन्धापहारं तु कुरुते तच्च वेधकम् ।अन्यथा चेष्टकं देवि तदग्राह्यं निरर्थकम् ॥४८३॥श्रीशैले श्रीवनप्रान्ते पर्यङ्काख्ये शिलातले ।तत्रस्थं क्षणवेधि स्यान्नद्यां भगवतीतटे ॥४८४॥एकाहे वेधकं तत्र गोकर्णे तु दिनत्रयम् ।भद्राङ्गे दिनवेधि स्यात्त्रिस्थलान्ते त्रिवत्सरम् ॥४८५॥धारेश्वरे पाक्षिकं स्यात् कर्षापुर्यां दिनैकतः ।ब्रह्मेश्वरे मासिकं स्याद्व्याघ्रपुर्यां तु वासरम् ॥४८६॥अघोरेशे मासिकं स्यात्सिंहद्वीपे तथा पुनः ।दिनमेकं ब्रह्मगिरौ विन्ध्ये तु क्षणवेधकम् ॥४८७॥वासरं माल्यवन्ते तु क्षणवेधी तु तत्र च ।किष्किन्धे पर्वते रम्ये पम्पातीरे क्षणोदकम् ॥४८८॥तस्य पश्चिमतो देवि योजनद्वितये पुनः ।भूशैलमस्ति तत्रैव त्रिदिनं वेदपर्वते ॥४८९॥अन्यत्र यत्र यत्रापि ब्रह्मविष्णुशिवोद्भवम् ।अमृतं तत्र तत्रापि वज्रीकरणम् उत्तमम् ॥४९०॥तस्योत्पत्तिं प्रवक्ष्यामि यथा जानाति साधकः ।महीं समुद्धृतवतो वराहस्य कलेवरात् ॥४९१॥यः स्वेदः पतितस्तस्माज्जातं शैलोदकं परम् ।तं मुखे क्षणिकं जातं कर्णदेशे तु वासरम् ॥४९२॥बाहुभ्यां त्र्यहवेधी स्यान्मासवेधी तु पार्श्वयोः ।षण्मासमपराङ्गे च सर्वं समफलं च तत् ॥४९३॥अघोरास्त्रेण तत्क्षेत्रे रक्षां कृत्वा दिशां बलिम् ।दत्त्वा लक्षं जपित्वा तु गृह्णीयादमृतं परम् ॥४९४॥शरद्ग्रीष्मवसन्तेषु हेमन्ते वा सुरार्चिते ।आयसे ताम्रपात्रे वा कान्तलोहमयेऽथवा ॥४९५॥शिलाम्बुपलमष्टौ तु पलं क्षीरस्य निक्षिपेत् ।क्षीरावशेषं संक्वाथ्यं त्रिसप्ताहं पिबेन्नरः ॥४९६॥जीवेद्वर्षसहस्रं तु वलीपलितवर्जितः ।अथवाष्टपलं क्षीरं पलैकेनाम्बुमिश्रितम् ॥४९७॥क्षीरावशेषं सेवेत पूर्वोक्तं लभते फलम् ।कुलुत्थाष्टगुणं वारि पचेदष्टावशेषितम् ॥४९८॥चतुर्गुणेन तेनाज्यं पाचयेद् घृतशेषितम् ।लिह्यान्मधुसितोपेतं त्रिसप्ताहाद्बृहस्पतिः ॥४९९॥द्विरष्टवार्षिकाकारः सहस्रायुर् न संशयः ।अवशिष्टकुलुत्थं तु पादांशमधुसर्पिषा ॥५००॥भक्षयेत्कर्षमेकं तु मासेनायुतजीवितः ।तत्सिद्धतैलेनाभ्यङ्गं म्रक्षणं चैव कारयेत् ॥५०१॥पामाविचर्चिकादद्रुकुष्ठानि सहसा जयेत् ।वलीपलितनिर्मुक्तः सहस्रायुश्च जायते ॥५०२॥यः पिबेत्प्रातरुत्थाय शैलाम्बु चुलुकं पयः ।षण्मासात् स्यात् सहस्रायुर् निर्वलीपलितश्च सः ॥५०३॥अथवा सूतकं देवि वारिणा सह मर्दयेत् ।मासेनैकेन देवेशि नष्टपिष्टिर्भविष्यति ॥५०४॥मासमात्रं समश्नीयात्स भवेदजरामरः ।अथवा तं रसं हेम्ना धामयेत्खदिराग्निना ॥५०५॥गुलिका सुन्दरी नाम सर्वायुधनिवारिणी ।कर्ता हर्ता स्वयं सिद्धो जीवेच्चन्द्रार्कतारकम् ॥५०६॥अथ तेनोदकेनैव क्षीरार्धं पायसं पचेत् ।मासमात्रप्रयोगेण वलीपलितवर्जितः ॥५०७॥पक्त्वा तेनाम्भसा पथ्याः षष्टिस्त्रीणि शतानि च ।मधु संयोज्य भाण्डस्थं भूमौ सर्वं निधापयेत् ॥५०८॥दिने दिने तदेकैकं भक्षयेत्प्रातर् उत्थितः ।वलीपलितनिर्मुक्तो जीवेद्वर्षसहस्रकम् ॥५०९॥शैलीभूतं कुलुत्थं वा भक्षयेन्मधुसर्पिषा ।षण्मासात्तु प्रयोगेण जीवेद्वर्षसहस्रकम् ॥५१०॥कूष्माण्डमादितः कृत्वा यानि कानि फलानि च ।जले क्षिप्तानि लोहानि शैलभूतानि भक्षयेत् ॥५११॥क्षीराहारश्च जीर्णान्ते वज्रकायो भवेन्नरः ।तेनोदकेन संमर्द्यम् अभ्रकं क्वाथयेत्प्रिये ॥५१२॥कटुत्रययुतं खादेज्जीवेद्वर्षसहस्रकम् ।अथवा रसकर्षैकं तज्जलेन तु मर्दितम् ॥५१३॥इङ्गुदीफलमध्यस्थं तच्छैलोदकमध्यगः ।कालेन त्रिगुणेनैव काठिन्यं तस्य जायते ॥५१४॥षण्मासं तन्मुखे धार्यं वज्रकायं करोति तत् ।दशनागसमप्राणो देवैः सह स मोदते ॥५१५॥गृहीत्वा त्रिफलां तत्र शैलवारिणि निक्षिपेत् ।यदा भवति तच्छैलं गृहीत्वा चूर्णयेत्ततः ॥५१६॥कान्तजीर्णरसं तेन सार्धं घृतमधुप्लुतम् ।भक्षयेद्वर्षमेकं तु ततः क्षीराशनो भवेत् ॥५१७॥उदयादित्यसङ्काशो मेधावी प्रियदर्शनः ।नीलकुञ्चितकेशश्च जीवेच्चन्द्रार्कतारकम् ॥५१८॥पारदं हरितालं च शिलां माक्षिकमेव च ।दरदं च विषं चैव सर्वमेकत्र कारयेत् ॥५१९॥मर्दयेत् खल्वपाषाणे मातुलुङ्गरसेन तु ।गोलकं कारयित्वा तु वारिमध्ये विनिक्षिपेत् ॥५२०॥तेन तारं च शुल्बं च कांचनं भवति ध्रुवम् ।उपयुञ्जीत मासैकं वलीपलितवर्जितः ॥५२१॥सहस्रं जीवितं तस्य महाबलपराक्रमः ।शैलीभूतहरिद्रां तु तच्चूर्णावापमात्रतः ॥५२२॥हेमत्वं लभते नागो बालार्कसदृशप्रभः ।शैलोदके विनिक्षिप्य भूशैले कर्दमेऽपि वा ॥५२३॥ज्ञात्वा कालप्रमाणेन बन्धयेत्पारदं ततः ।रक्तक्षारयुतं ध्मातं सुवर्णसमसारितम् ॥५२४॥शतांशेन तु लोहानां सर्वेषां हेमकारकम् ।द्वितीयसारणां प्राप्य सहस्रांशेन विध्यति ॥५२५॥तं खोटं धारयेद्वक्त्रे दिव्यत्वं लभते ध्रुवम् ।केचन घुटिकायोगाःनिचुले ककुभे चैव किंशुके मधुकेऽपि वा ॥५२६॥इङ्गुदीफलमध्ये वा रजनीद्वयमार्द्रके ।अमृते कन्दके वाथ उक्तकन्दौषधीषु च ॥५२७॥विधाय कोटरं तत्र क्षिप्त्वा तेनैव डोलयेत् ।त्रिफलाव्योषकल्केन वेष्टयित्वा प्रयत्नतः ॥५२८॥पादेन कनकं दत्त्वा पारदं तत्र योजयेत् ।शैलोदके क्षिपेत्तत्र गुलिका वज्रवद्भवेत् ॥५२९॥पूर्ववत्सारणा कार्या पूर्ववत्सिद्धिदा भवेत् ।धार्यमाणा मुखे सा तु सहस्रायुष्करी भवेत् ॥५३०॥द्वितीयसारणायोगादयुतं वेधयेत्तु सा ।धार्यमाणा मुखे सैवमयुतायुष्यदा भवेत् ॥५३१॥तृतीयसारणायोगाज्जायते लक्षवेधिनी ।तं खोटं धारयेद्वक्त्रे लक्षायुर्जायते नरः ॥५३२॥चतुर्थी सारणा देवि कोटिवेधी न संशयः ।कोट्यायुर्जीवितं तस्य खेचरत्वं च लभ्यते ॥५३३॥पञ्चभिर्दशकोटिः स्यात्षड्भिः कोटिशतं भवेत् ।यावच्चन्द्रार्कजीवित्वम् अनन्तबलवीर्यवान् ॥५३४॥ददाति सप्तमी चापि सारणा गुलिका परा ।खेचरी नाम विख्याता भैरवेण प्रचोदिता ॥५३५॥यस्तु तद्राजिकामात्रं मासमेकं तु भक्षयेत् ।वज्रदेहः स सिद्धः स्याद् दिव्यस्त्रीजनवल्लभः ॥५३६॥क्रीडते खेचरैर् भोगैः स्वेच्छया शिवतां व्रजेत् ।नानाविधफलाश्चास्या घुटिकां शृणु सुन्दरि ॥५३७॥शुद्धबद्धं रसेन्द्रं तु गन्धकं तत्र जारयेत् ।त्रिगुणे गन्धके जीर्णे तेन हेम तु कारयेत् ॥५३८॥कारयेद्भस्म सूतं तु काञ्चनं तेन सूतकम् ।तद्भस्म सूतके जार्यं रसेन्द्रस्य समे समम् ॥५३९॥तेन सूतकजीर्णेन वज्ररत्नं तु घातयेत् ।तद्वज्रं जायते भस्म सिन्दूरारुणसन्निभम् ॥५४०॥तद्भस्म जारयेत्सूते त्रिगुणे तु सुरार्चिते ।हाटकं सारयेत्तं तु घुटिकां तेन कारयेत् ॥५४१॥त्रिलोहावेष्टितं तं तु मुखे प्रक्षिप्य साधकः ।नष्टच्छायो भवेत्सोऽयमदृश्यो देवदानवैः ॥५४२॥लक्षवर्षसहस्राणि निर्वलीपलितो भवेत् ।शूलिनं शक्तिसंयुक्तं रत्नादिगुणभूषितम् ॥५४३॥वक्त्रे करे च बिभृयात्सर्वायुधनिवारणम् ।व्योम माक्षिकसत्वं च तारं ताम्रं सुरायुधम् ॥५४४॥सारलोहं सूतकं च रत्नादिगुणभूषितम् ।घुटिका सा वरारोहे मधुरत्रयसंयुता ॥५४५॥वक्त्रस्था नाशयेत्साक्षात्पलितं नात्र संशयः ।शिवः शक्तिश्च देवेशि रत्नानि सितगोनसा ॥५४६॥हेम तारं तथा भानुः समभागानि कारयेत् ।स्त्रीरजो व्याघ्रमध्यस्थं पद्मसूत्रेण वेष्टयेत् ॥५४७॥सितयेन तथा वेष्ट्यं गुह्यस्थाने निवेशयेत् ।रणे राजकुले द्यूते दिव्ये कामे जयो भवेत् ॥५४८॥वैक्रान्ताभ्रककान्तं तु सस्यकं तु सुरायुधम् ।विभीतकादिसम्भूतकांजिकस्य समं भवेत् ॥५४९॥समावर्त्य ततः सूते योजयेत्पादयोगतः ।कुमारीरससंघृष्टा कृतैषा घुटिका शुभा ॥५५०॥रोगमृत्युजरा हन्ति वक्त्रस्था नात्र संशयः ।पञ्च तारं वरारोहे सूतकद्वयमेव च ॥५५१॥त्रयो गगनभागाः स्युरेकैकं हेमकान्तयोः ।अर्धं शुल्बं विभागेन गुलिकामरसुन्दरी ॥५५२॥अक्षयो ह्यजरश्चैव भवेत्तेन महाबलः ।भस्म सूतपलैकं च मृतकान्तपलं तथा ॥५५३॥माक्षिकस्य पलं चैव शिलाजतु पलं तथा ।पलमेकं विडङ्गस्य पथ्याचूर्णपलं तथा ॥५५४॥एकीकृत्य तु तत्सर्वं मध्वाज्येन तु पेषयेत् ।गुलिकाः कारयेत्तेन षष्ट्याधिकशतत्रयम् ॥५५५॥एकैकां भक्षयेन्नित्यं वर्षमेकं निरन्तरम् ।जीवेद्वर्षशतायुः स यथा रुद्रो महाबलः ॥५५६॥केचन रसायनकल्पाःअतः परं प्रवक्ष्यामि रसभस्मरसायनम् ।विज्ञेयं निष्परिहारं साक्षाद्दिव्यौषधं परम् ॥५५७॥आमलक्यादि कान्तं च पारदं च मनःशिलाम् ।वाकुचीसमभागानि क्षीरिणीरसपेषितम् ॥५५८॥मेघनादरसोपेतं मूकमूषागतं पचेत् ।माषं द्विमाषं त्रिगुणं भक्षयेत्तत्क्रमेण तु ॥५५९॥वर्षत्रयं परं देवि पादनिष्कार्धकं क्रमात् ।षट् सप्ताष्टौ च वर्षाणि क्रमान्निष्कप्रमाणतः ॥५६०॥भुञ्जीत स च दिव्यान्नं जरावैरूप्यवर्जितः ।किंचित् काञ्चनसंयुक्तं निष्कं निष्कार्धमेव वा ॥५६१॥यो भक्षयेत् त्रिभिर् वर्षैः सर्वव्याधीञ्जयत्ययम् ।अष्टवर्षसहस्रायुर्द्वादशे लक्षवेधकः ॥५६२॥षोडशे वत्सरे देवि दिव्यरूपः स जायते ।उत्तमो मूलबन्धस्तु मध्यमं सारबन्धनम् ॥५६३॥अधमः पाकबन्धस्तु एवं त्रिविधबन्धनम् ।शतपलमभयानाम् अक्षधात्र्योस्तथैव क्वथितजलसमाष्टौ भागमष्टावशिष्टम् ।घृतमधुसितयाढ्यं व्योषचित्रं दशैव रसपलदशसिद्धं लोहजीर्णं मृतं च ॥५६४॥गिरियुतसमम् अभ्रं कान्तभृङ्गं विडङ्गं रससहितविभाव्यं तण्डुलैर् बिल्वमज्जैः ।हिमकरकृतकल्कं लोहपात्रस्थमासं त्रिदिनतनुविशुद्धं कल्कमेनं वरिष्ठम् ॥५६५॥लिहति शयनकाले वामनेत्रार्धसेवी घननिबिडसमाधिर् मत्तमातङ्गदर्पः ।विगतसकलदोषः सर्वदृक् दिव्यचक्षुः मदन इव सुकान्तिः कामिनीनां प्रवीरः ॥५६६॥जलद इव वपुष्मान्कुञ्चिताग्राग्रकेशः तुरग इव विशुद्धः सत्कविश्चित्रकारी ।वृषभगतिविचेष्टो मन्दगम्भीरघोषः सुरगज इव लोके चन्द्रतारार्कजीवी ॥५६७॥कान्तहेमरविचन्द्रम् अभ्रकैर् गोलकं निहितमिङ्गुदीफले ।शैलवारिवरिसिद्धगोलकं सुन्दरी ह्यमरसंज्ञिका शुभा ॥५६८॥कान्तहेमरविचन्द्रम् अभ्रकं वज्ररत्नरसमहिराजगोलकम् ।क्षिप्तम् आमलककाष्ठकोदरे भूमिशैलनिहितं समुद्धृतम् ॥५६९॥शैलतां गतमथाहितं मुखे वज्रकायकरकल्पवासरैः ।तारहेमवरशुल्बसूतकैर्गोलकं वरणकाष्ठयन्त्रितम् ॥५७०॥शैलवारिकृतसुन्दरीरसैः खेचरीति गुलिका निगद्यते ॥५७१॥शैलाम्बुनिक्षिप्तपलाशबीजं शैलीकृतं क्षौद्रघृतेन खादेत् ।त्रिसप्तरात्रं दिनमेकमेकं सहस्रजीवी विदितो नरः स्यात् ॥५७२॥सूतकं चाभ्रकं चैव वज्रतीक्ष्णसमन्वितम् ।हाटकेन समायुक्तं गुलिका खेचरी भवेत् ॥५७३॥करञ्जफलमध्यस्थं सूतं तत्रैव निक्षिपेत् ।धृतः शैलाम्बुमध्यस्थः सहस्रायुः प्रयच्छति ॥५७४॥तिन्दुके द्विसहस्रायुर् जम्बीरे त्रिसहस्रकम् ।मातुलुंगे च नारङ्गे चतुःपञ्चसहस्रकम् ॥५७५॥रम्भाफले षट्सहस्रं पनसे सप्तसंख्यकम् ।विभीतकफले चैव दशसाहस्रसंख्यकम् ॥५७६॥नालिकेरे महाभागे सहस्राणि चतुर्दश ।त्रिंशत्सहस्रं पथ्यायां लक्षमामलके पुनः ॥५७७॥अभ्रपत्रभवात् क्वाथाद् अहोरात्रं शिलोदके ।बध्नाति चोद्धृतं सूतं मृत्युदारिद्र्यनाशनम् ॥५७८॥सारणाक्रमयोगेन वज्रवज्जायते वपुः ।रसे रसायने चैव लक्षवेधी न संशयः ॥५७९॥कर्दमं तु कुमार्याश्च रसेन कृतपिण्डिकम् ।धमनात्पतते सत्त्वं मुखस्थं धारयेन्नरः ॥५८०॥षण्मासोपप्रयोगेण ह्यजरामरतां व्रजेत् ।स्रोतोञ्जनयुतं ध्मातं सत्त्वं पारदमिश्रितम् ॥५८१॥तत्खोटं धारयेद्वक्त्रे ह्यदृश्यो भवति ध्रुवम् ।यस्य यो विधिराम्नात उदकस्य शिवागमे ॥५८२॥शतेन बत कालेन कुर्याद्देहे रसायनम् ।बद्धजारणविधिःया पूर्वा निर्मिता सेयमधमा बालजारणा ॥५८३॥उत्तमा दुर्लभा चैव श्रूयतां बद्धजारणा ।अबद्धं जारयेद्यस्तु क्षीयमाणः क्षयं व्रजेत् ॥५८४॥बद्धस्य जीर्यते ग्रासो जीर्णस्य च मुखं भवेत् ।समुखो दुर्मुखं दत्ते सामान्योत्तमलक्षणम् ॥५८५॥बन्धप्रकाराःसामान्यो ऽग्निसहत्वेन महारत्नादिजारकः ।सामान्यः प्रथमः कार्यः सग्रासस्तु समन्ततः ॥५८६॥वसुदेहकरो देवि सामान्यो हि भवेदयम् ।ग्रासहीनस्तु यो बद्धो दिव्यसिद्धिकरो भवेत् ॥५८७॥उत्तमो मूलबन्धस्तु मध्यमं सारबन्धनम् ।अधमः पाकबन्धस्तु एवं त्रिविधबन्धनम् ॥५८८॥मूलबन्धस्तु यो बन्धो मूलसंकुचितं महत् ।सारबन्धस्तु यो बन्धो वासनाबन्ध उच्यते ॥५८९॥स्याच्चतुः षष्टिमूलेभ्यः किंचिन्मूलेन बन्धनम् ।प्राण्यङ्गं दैत्यादीनां मूलाङ्गं देवतामयम् ॥५९०॥पाषाणं चैव सिद्धानां मानुषाणां च पूजितम् ।पीठिकाद्रुतिसंकोचैस् त्रिविधं बन्धनं भवेत् ॥५९१॥दिव्याभिरौषधीभिः प्रागुक्तं संकोचबन्धनम् ।द्रुतिभिर्बध्यते सूतः क्षणबन्ध उदाहृतः ॥५९२॥अभ्रकं हरबीजं च षोडशांशेन काञ्चनम् ।ध्मातं प्रकाशमूषायां शोधयेत्काचटङ्कणैः ॥५९३॥दक्षिणावर्तितं ध्मातं हरबीजेन मेलकम् ।मूषां त्यक्त्वा वरारोहे तिष्ठते खगबद्धवद्रसः ॥५९४॥रक्तिकार्धार्धमात्रेण पर्वतानपि वेधयेत् ।भक्षणात्तस्य देवेशि रुद्रतुल्यो भवेन्नरः ॥५९५॥क्रीडते सप्तलोकेषु शिवतुल्यपराक्रमः ।द्रुतिमेलनविधिःवज्रकन्दं गुडूची च उच्चटादिसमन्वितम् ॥५९६॥अभ्रकं क्रमते शीघ्रमन्यथा नास्ति सङ्गमः ।कृष्णागरुनाभिसितैः रसोनपितरामठैः ॥५९७॥नारीकुसुमपालाशबीजतैलसमन्वितैः ।सोष्णैर्मिलन्ति मृदिता द्रुतयः सकला रसे ॥५९८॥वज्रबन्धः॑ दशसङ्कलिकाविधिसिद्धःपुनरन्यं प्रवक्ष्यामि वज्रबन्धं सुरार्चिते ।गन्धकं भक्षयेन्नारी दिनानामेकविंशतिम् ॥५९९॥तद्रजो रसराजस्य बन्धने जारणे हितम् ।वज्रभस्म तु भागैकं भागाः शुद्धरसात्त्रयः ॥६००॥द्विपदीरजसा मर्द्यं यावत्तत्कल्कतां गतम् ।पादांशेन सुवर्णेन पत्त्रलेपं तु कारयेत् ॥६०१॥सोमवल्लीरसं कान्तं टङ्कणालं सुचूर्णितम् ।दद्यात्तमष्टमांशेन मर्दयेच्च प्रयत्नतः ॥६०२॥नष्टपिष्टं च शुष्कं तदन्धयित्वा पुटे ततः ।अन्धमूषागतं ध्मातं क्रामणेन समन्वितम् ॥६०३॥खोटस्तु जायते देवि शतवेधी महारसः ।सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा विशोधयेत् ॥६०४॥अक्षीणो मिलते हेम्ना समावर्तश्च जायते ।एकोत्तरक्रमे वृद्ध्या संकलैः क्रामयेत्ततः ॥६०५॥एकगुणेन सूतेन एका सङ्कलिकोच्यते ।त्रिगुणेन तु सूतेन द्वितीया संकलोच्यते ॥६०६॥षड्गुणेन तु सूतेन तृतीया सङ्कली भवेत् ।दशगुणेन सूतेन चतुर्थी सङ्कली भवेत् ॥६०७॥पञ्चादशगुणेनेशि पञ्चमी सङ्कली भवेत् ।एकविंशद्गुणेनेशि षष्ठी सङ्कलिका भवेत् ॥६०८॥अष्टाविंशद्गुणेनेशि सप्तमी सङ्कली स्मृता ।षट्त्रिंशद्गुणिते बद्धा भवेत्सङ्कलिकाष्टमी ॥६०९॥पञ्चचत्वारिंशगुणे सङ्कली नवमी मता ।पञ्चाध्यधिकपञ्चाशद् दशसङ्कलिका स्मृता ॥६१०॥एवं च क्रमवृद्ध्या तु संकली दशबन्धिता ।प्रथमे दशवेधी च शतवेधी द्वितीयके ॥६११॥तृतीये सहस्रवेधी स्याच्चतुर्थेऽयुतवेधिकः ।पञ्चमे लक्षवेधी स्याद् दशलक्षं तु षष्ठके ॥६१२॥सप्तमे कोटिवेधी स्याद्दशकोटिं तथाष्टमे ।धूमवेधी तु नवमे दशमे शब्दवेधकः ॥६१३॥संकलैः सकलैर्बद्धे वेधो दशगुणो भवेत् ।दशसंकलिकाबद्धः शब्दवेधी महारसः ॥६१४॥यथा लोहे तथा देहे क्रामते नात्र संशयः ।वेधयेत्तत्प्रमाणेन धातूंश्चैव शरीरकम् ॥६१५॥कारयेद्घुटिकां दिव्यां बदरास्थिप्रमाणतः ।महाकालीं पूजयित्वा धारयेत्सततं बुधः ॥६१६॥ओं ऐं ह्रीं श्रीं कालि कालि महाकालि मांसशोणितभोजनि ।ह्रां ह्रीं ह्रं रक्ष कृष्णमुखि देवि रससिद्धिं ददस्व मे ।श्रीं ह्रीं ऐं ॥६१७॥पूजयित्वा ततो देवीं सिद्धचक्रं विशेषतः ।तां क्षिपेच्चक्रमध्ये तु घुटिकां दिव्यरूपिणीम् ॥६१८॥शतवेधेन या बद्धा रसेन घुटिका प्रिये ।मासमेकं तु वक्त्रस्था जीवेच्चैव यथा विधिः ॥६१९॥तथा सहस्रवेधेन बद्धा या घुटिका शुभा ।मासद्वयं तु वक्त्रस्था जीवेच्चन्द्रार्कतारकम् ॥६२०॥दशसहस्रवेधेन बद्धा या घुटिका यदि ।शक्रतुल्यं तदायुष्यं त्रिभिर्मासैस्तु जायते ॥६२१॥लक्षवेधेन या बद्धा घुटिका दिव्यरूपिणी ।चतुर्मासं तु वक्त्रस्था ब्रह्मायुष्यं प्रयच्छति ॥६२२॥दशलक्षेण या बद्धा घुटिका दिव्यरूपिणी ।सप्तमासं तु वक्त्रस्था वैष्णवं लभते फलम् ॥६२३॥कोटिवेधेन या बद्धा घुटिका दिव्यरूपिणी ।षण्माससंस्थिता वक्त्रे साक्षाद्वै रुद्रतां नयेत् ॥६२४॥दशकोटिप्रभेदेन घुटिका दिव्यरूपिणी ।सप्तमासं तु वक्त्रस्था स भवेद्व्यापको नरः ॥६२५॥कर्ता हर्ता स्वयं भोक्ता शापानुग्रहकारकः ।सर्वज्ञः सर्वकर्ता च सूक्ष्मरूपो निरञ्जनः ॥६२६॥इच्छया कुरुते सृष्टिमिच्छया संहरेज्जगत् ।स्वच्छन्दगमनो भूत्वा शिवरूपो भवेन्नरः ॥६२७॥पूज्यते सर्वदेवैश्च ब्रह्मविष्णुमहेश्वरैः ।अन्यो वज्रबन्धःपुनरन्यं प्रवक्ष्यामि वज्रबन्धं सुदुर्लभम् ॥६२८॥समांशभक्षणं हेम शुद्धसूतेन कारयेत् ।मृतवज्रं कलांशेन मर्दयेद् द्विपदीरसैः ॥६२९॥प्राग्वच्छेषं क्रियाजातं पूर्ववच्च फलं भवेत् ।वज्रबन्धो भवेत्सिद्धो देवदानवदुर्जयः ॥६३०॥चतुर्विंशतिसिद्धानां नायकः सर्वसिद्धिमान् ।अन्यो वज्रबन्धःवज्रचूर्णसमं सूतं हंसपाद्या विमर्दितम् ॥६३१॥पुटित्वा मारयेत्तत्र पुनस्तुल्यं रसं क्षिपेत् ।ध्मातः खोटो भवत्याशु शोधितः काचटङ्कणैः ॥६३२॥यावच्छुक्रोदयप्रख्यो जायते च रसः प्रिये ।अन्यो वज्रबन्धःवज्रसत्त्वं च गगनं रसं हेम च मेलयेत् ॥६३३॥अमरत्वमवाप्नोति वक्त्रस्थेन सुराधिपे ।जारयित्वा रसं तद्धि पुनस्तेनैव जारयेत् ॥६३४॥कोटिवेधी न सन्देहो वक्त्रस्थं खेचरं परम् ।वेधयेत्तत्प्रमाणेन धातूंश्चैव शरीरकम् ॥६३५॥कारयेद्घुटिकां दिव्यां वज्रसिद्धेन काञ्चने ।अनेन क्रमयोगेन यावच्छक्यं तु मारयेत् ॥६३६॥तद्भस्म सूतकं देवि सर्वरोगनिबर्हणम् ।हेम्ना च सारयित्वा तु चन्द्रार्कं लेपयेत्ततः ॥६३७॥द्वात्रिंशांशेन हेमार्धं मातृकार्यधिकं भवेत् ।बदरास्थिप्रमाणेन कारयेद्गुलिकां बुधः ॥६३८॥यथा लोहे तथा देहे क्रमते नान्यथा क्वचित् ।अन्यो वज्रबन्धःवज्रेण द्वंद्वितं हेम कान्तशुल्बकपालिना ॥६३९॥रञ्जयेत्सप्तवाराणि तं खोटं सूक्ष्मचूर्णितम् ।भावितं स्त्रीरजेनैव भूर्जपत्रे निवेशितम् ॥६४०॥द्रुतसूतेन संयुक्तं बद्ध्वा वस्त्रेण पोट्टलीम् ।स्वेदयेद्देवदेवेशि यावद्भवति गोलकः ॥६४१॥लाङ्गली जीवनी चैव गन्धार्युत्तरवारुणी ।एतेषां निक्षिपेत्पिण्डे वज्रगोलं तु वेष्टयेत् ॥६४२॥मूषामध्ये विनिक्षिप्य संधयित्वा प्रयत्नतः ।भूमौ मूषां विनिक्षिप्य पुटं मूर्ध्नि प्रदापयेत् ॥६४३॥अनेनैव प्रतापेन बन्धमेति महारसः ।गोलकं धारयेद्वक्त्रे वर्षमेकं यदा प्रिये ॥६४४॥जीवेत्कल्पसहस्राणि यथा नागो महाबलः ।वर्षैर्द्वादशभिः साक्षाज्जायते रसपूरुषः ॥६४५॥गात्रस्य तस्य प्रस्वेदादष्टौ लोहास्तु काञ्चनम् ।वज्रभस्म तथा सूतं काञ्चनेन समन्वितम् ॥६४६॥वक्त्रस्थं कुरुते यस्तु अब्दात्पलितवर्जितः ।अन्ये वेधोपयोगिनो बन्धाःकृष्णाभ्रकस्य सत्वं च तारं ताम्रं च हाटकम् ॥६४७॥माक्षिकं कान्ततीक्ष्णं च समभागानि कारयेत् ।अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ॥६४८॥तं खोटं सूक्ष्मचूर्णं तु द्रुतसूतेन गोलयेत् ।मृतसत्त्वस्य भागैकं भागाश्चत्वारि गोलकम् ॥६४९॥मर्दयेत्तप्तखल्वेन भस्मीभवति सूतकः ।मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ॥६५०॥गुञ्जामात्रं तु तद्भस्म मध्वाज्येन तु लेहयेत् ।संवत्सरप्रयोगेण ह्ययुतायुर्भवेन्नरः ॥६५१॥वलीपलितनिर्मुक्तो महाबलपराक्रमः ।तद्भस्म पलमेकं तु पलैकं गन्धकस्य च ॥६५२॥अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ।जीवेत्कल्पसहस्राणि यथा नागो महाबलः ॥६५३॥तस्य मूत्रपुरीषेण लोहान्यष्टौ च काञ्चनम् ।तत्खोटं रञ्जयेत् पश्चाद् वङ्गाभ्रककपालिना ॥६५४॥रञ्जयेत्सप्तवाराणि भवेत्कुङ्कुमसन्निभः ।हेम्ना सह समावर्त्य सारणात्रयसारितम् ॥६५५॥शतांशेन तु तेनैव शुल्बमध्ये प्रदापयेत् ।जायते कनकं दिव्यं देवाभरणभूषणम् ॥६५६॥बद्धसूतस्य भागैकं भागैकं कुटिलस्य च ।अन्धमूषागतं ध्मातं यावद्वङ्गावशेषितम् ॥६५७॥अनेन क्रमयोगेन वङ्गं निर्वाह्य षड्गुणम् ।अनेन क्रमयोगेन वहन्नागं च षड्गुणम् ॥६५८॥ततस्तं रञ्जयेत्पश्चात्तीक्ष्णशुल्बकपालिना ।पक्वसूतस्य भागैकं भागैकं द्रुतसूतकम् ॥६५९॥मर्दयेन्मध्यमाम्लेन गोलकं भवति क्षणात् ।मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकम् ॥६६०॥मर्दयेत् तप्तखल्वेन भस्मीभवति सूतकः ।मारयेद्भूधरे यन्त्रे सप्तसंकलिकाक्रमात् ॥६६१॥तद्भस्म तु पुनः पश्चान्मध्यमाम्लेन मर्दयेत् ।पुटं दद्यात्प्रयत्नेन षष्ट्याधिकशतत्रयम् ॥६६२॥तद्भस्म जायते दिव्यं सिन्दूरारुणसन्निभम् ।तेनैव वेधयेत्तारं सहस्रांशेन काञ्चनम् ॥६६३॥मृतवज्रस्य भागैकं भागाः षोडश सूतकम् ।देवदालीशङ्खपुष्पीरसेन मृदितं क्रमात् ॥६६४॥मारयेद्भूधरे यन्त्रे भस्मीभवति तत्क्षणात् ।पूत्काराणां सहस्रेण धाम्यमानं न गच्छति ॥६६५॥ईदृशं भस्म सूतं च देहे लोहे च योजयेत् ।तद्भस्म पलमेकं तु पलमेकं च गन्धकम् ॥६६६॥अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ।तं खोटं रञ्जयेत् पश्चात् कपालिक्रमयोगतः ॥६६७॥सारणात्रययोगेन शुल्बवेधं प्रदापयेत् ।भस्मसूतपलैकं च पलैकं पन्नगस्य च ॥६६८॥कान्तपात्रेण तं कृत्वा मर्दयेल्लोहमुष्टिना ।मृद्वग्निना ततः पाच्यं यावन्नागेन मेलकम् ॥६६९॥पुटेन जायते भस्म सिन्दूरारुणसप्रभम् ।तद्भस्म तु पुनः पश्चाद्गोपित्तेन तु मर्दयेत् ॥६७०॥तच्चतुर्दशवारांस्तु पुटयेद्भस्मयेत्ततः ।तद्भस्म भागमेकं तु भागैकं हेमगोलकम् ॥६७१॥एकीकृत्याथ संमर्द्य क्रामणेन सहैकतः ।तारपिष्टं तु तेनैव सहस्रांशेन काञ्चनम् ॥६७२॥अनेन क्रमयोगेन वङ्गभस्म प्रजायते ।सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ॥६७३॥तच्छुल्बं जायते तारं शङ्खकुन्देन्दुसन्निभम् ।श्वेताभ्रकं च सत्त्वं च काङ्क्षी कान्तं तथायसम् ॥६७४॥वङ्गं कान्तं तारं तथा श्वेतं वैक्रान्तं च कदम्बकम् ।अन्धमूषागतं ध्मातं खोटं कुन्देन्दुसन्निभम् ॥६७५॥तं खोटं सूक्ष्मचूर्णं तु द्रुतसूतेन गोलकम् ।मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकः ॥६७६॥मर्दयेत्तप्तखल्वेन भस्मीभवति सूतकः ।मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ॥६७७॥ततश्च जायते भस्म शङ्खकुन्देन्दुसन्निभम् ।तद्भस्म पलमेकं तु पलमेकं तु गन्धकम् ॥६७८॥अन्धमूषागतं ध्मातं खोटं भवति तद्रसः ।तारेण च समावर्त्य सारणात्रयसारितम् ॥६७९॥सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ।तीक्ष्णचूर्णपलान्यष्टौ पलाष्टौ द्रुतसूतकम् ॥६८०॥मर्दयेत्तप्तखल्वेन टेटञ्चिल्वीरसेन च ।तत्क्षणाज्जायते पिण्डं तीक्ष्णेन सह गोलकम् ॥६८१॥मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकम् ।मर्दयेत्तप्तखल्वेन भस्मीभवति तत्क्षणात् ॥६८२॥मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ।षोडशांशेन तेनैव वङ्गवेधं प्रदापयेत् ॥६८३॥तद्भस्म पलमेकं तु पलैकं गन्धकस्य च ।अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ॥६८४॥तस्य खोटस्य भागं च तीक्ष्णचूर्णं च तत्समम् ।द्वौ भागौ द्रुतसूतस्य सर्वमेकत्र मर्दयेत् ॥६८५॥तप्तखल्वे तु संमर्द्य गोलकं भवति क्षणात् ।मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ॥६८६॥तत्सर्वं जारयेद्भस्म शङ्खकुन्देन्दुसन्निभम् ।तद्भस्म कारयेत्खोटं तीक्ष्णेन द्वंद्वितं सह ॥६८७॥अनेन क्रमयोगेन सप्तसङ्कलिकाक्रमात् ।तं खोटं जारयेत्पश्चात्सारणात्रयसारितम् ॥६८८॥लक्षांशेन तु तेनैव वङ्गवेधं प्रदापयेत् ।भस्मसूतपलैकं तु शुद्धवङ्गं प्रदापयेत् ॥६८९॥मर्दयेदायसे पात्रे वङ्गं तु म्रियते क्षणात् ।द्विपलं मृतवङ्गस्य तारचूर्णपलद्वयम् ॥६९०॥द्विपलं गन्धकं दद्यात्पलैकं टङ्कणस्य च ।अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ॥६९१॥पलैकं खोटचूर्णस्य पलैकं द्रुतसूतकम् ।मर्दयेन्मातुलुङ्गाम्लैर्गोलको भवति क्षणात् ॥६९२॥षोडशांशेन तेनैव तारारिष्टं तु वेधयेत् ।मृतवङ्गपलैकं तु पलैकं सूतकस्य च ॥६९३॥सर्वचूर्णं पलैकं तु त्रयमेकत्र कारयेत् ।मर्दयेन्मातुलुङ्गाम्लैर्गोलको भवति क्षणात् ॥६९४॥मृतवज्रस्य भागैकं भागश्चत्वारि गोलकम् ।एकत्र मर्दयेद्भद्रे ओषधीद्रवसंयुतम् ॥६९५॥मारयेद्भूधरे यन्त्रे पुटानां सप्तकेन तु ।तत्सर्वं जायते भस्म वज्रस्यैव प्रभावतः ॥६९६॥सामुद्रं त्रिपलं देवि भस्ममध्ये प्रदापयेत् ।एकीकृत्याथ संमर्द्य वज्रीक्षीरे दिनत्रयम् ॥६९७॥विश्वामित्रकपालस्थं पुटं दद्यात्तु भूधरे ।तत्सर्वं जायते भस्म शङ्खकुन्देन्दुसन्निभम् ॥६९८॥तेनैव यवमात्रेण वङ्गं स्तम्भयति क्षणात् ।वङ्गं तारं तथा सत्त्वं समसूतेन गोलकम् ॥६९९॥अनेन क्रमयोगेन मारयेच्च पृथक् पृथक् ।तत्सर्वं जायते भस्म वज्रस्यैव प्रभावतः ॥७००॥भस्मसूतपलैकं च वङ्गभस्म पलद्वयम् ।द्वे पले मृततारस्य सत्त्वभस्म पलद्वयम् ॥७०१॥शङ्खचूर्णं पलं पञ्च सामुद्रस्य पलाष्टकम् ।टङ्कणस्य पलान्यष्टौ सर्वमेकत्र जारयेत् ॥७०२॥वज्रीक्षीरेण संवेष्ट्य पुटं दद्याच्चतुर्दश ।एष सिद्धरसः साक्षाद्दुर्लभस्त्रिदशैरपि ॥७०३॥वङ्गं तु दापयेत् पश्चाद्भाण्डे चैव तु मृण्मये ।सिद्धं भस्म भवेल्लोहशलाकेन च चालयेत् ॥७०४॥वापयेच्च प्रयत्नेन यावत्कठिनतां व्रजेत् ।अन्धमूषागतं ध्मातं तारं भवति शोभनम् ॥७०५॥कदाचित् स्फाटिते तारे पुनर्वङ्गं प्रदापयेत् ।पत्रे दाहे कषे छेदे तत्तारं शाश्वतं भवेत् ॥७०६॥संतितं दनुगोलं च षोडशांशसमन्वितम् ।मृतवज्रस्य भगैकमेकत्रैव तु कारयेत् ॥७०७॥देवदालीशङ्खपुष्पं तद्रसेन तु मर्दयेत् ।मारयेद् भूधरे यन्त्रे पुटानां सप्तकेन तु ॥७०८॥तद्भस्म तु पुनः पश्चाद्दीपयन्त्रेण पाचयेत् ।भस्मसूतपलैकं च श्वेताभ्रकदलद्वयम् ॥७०९॥शङ्खचूर्णपलैकं तु पलैकं टङ्कणस्य तु ।एकीकृत्याथ तत्सर्वं वज्रीक्षीरेण पेषयेत् ॥७१०॥अरण्योत्पलकैः पश्चात्पुटं दद्याच्चतुर्दश ।रसोऽयं यवमात्रेण वङ्गं स्तम्भयति क्षणात् ॥७११॥कृष्णाभ्रकपलैकं तु द्विपलेनैव सूतकम् ।गन्धकस्य पलैकं च एकीकृत्याथ मर्दयेत् ॥७१२॥मर्द्यमानं प्रयत्नेन गोलकं भवति क्षणात् ।मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकम् ॥७१३॥मर्दयेत्प्रहरैकं तु भस्मीभवति सूतकः ।आरण्यगोमयेनैव पुटं दद्यात्तु भूधरे ॥७१४॥अनेन क्रमयोगेन सप्तसङ्कलिकां कुरु ।शतांशेन तु तेनैव नागवेधं प्रदापयेत् ॥७१५॥तं खोटं रञ्जयेत् पश्चाच्छुल्बाभ्रककपालिना ।पुनस्तां रञ्जयेत्पश्चात्तीक्ष्णशुल्बकपालिना ॥७१६॥पुनस्तं रञ्जयेत् पश्चान्नागाभ्रककपालिना ।हेम्ना सह समावर्त्य सारणात्रयसारितम् ॥७१७॥सहस्रांशेन तेनैव शुल्ववेधं प्रदापयेत् ।जायते कनकं दिव्यं देवाभरणभूषणम् ॥७१८॥वज्रवल्लीभस्मस्नुहीक्षीरे पुटितं दशभिः पुटैः ।तत्तुल्यं मर्दयेत्सूतं देवदाल्या रसैः पुटेत् ॥७१९॥तत्तुल्यं पुटयेत्तीक्ष्णं त्रिफलाया रसेन तु ।तत्तुल्यं पुटयेन्नागम् अहिमाराटरूषकैः ॥७२०॥हेमवर्णप्रदं तद्धि विंशत्यंशेन योजितम् ।चतुःषष्ट्यंशकेनेदं शुद्धतारं च रञ्जयेत् ॥७२१॥अष्टमांशेन तेनैव नागपत्राणि लेपयेत् ।पुटयेन्मारयेन्नागं सिन्दूरारुणसन्निभम् ॥७२२॥तत्तुल्यं मारयेद्धेम काञ्चनाररसे पुटेत् ।तत्तुल्यं मारयेच्छुल्बं गृहकन्यारसेन च ॥७२३॥पश्चादम्लेन पुटयेद्यावत्सिन्दूरसन्निभम् ।चन्द्रार्कौ रञ्जयेत्तेन शतांशेन तु पाचितम् ॥७२४॥सबीजं बीजवर्जं वा वज्रेण सह सूतकः ।तद्भस्म मर्दयेत्पश्चात् स्वर्णपत्ररसेन च ॥७२५॥तेनैव वेधयेच्छुल्बं शुल्बं तारेण योजयेत् ।वज्रहेमद्वन्द्वमेलापनम्वज्रेण द्वंद्वयेद्धेम हेम्ना च द्वंद्वयेद्रसम् ॥७२६॥रसेन द्वंद्वयेद्देहं स देहो ह्यजरामरः ।कदलीटङ्कसौवीरं कण्टकारीरसप्लुतम् ॥७२७॥क्रामणं सर्वधातूनां सर्वद्वन्द्वेषु मेलनम् ।तिमिरस्य तु पञ्चाङ्गं पेटारीबीजसंयुतम् ॥७२८॥एकीकृत्याथ संमर्द्य वज्रं तेनैव वेष्टयेत् ।वज्रमूषागतं ध्मातं हेमद्वन्द्वं तु कारयेत् ॥७२९॥कान्तपाषाणचूर्णे तु भूलता रामठं मधु ।गुञ्जाटङ्कणकाचं च कर्कटास्थि स्नुहीपयः ॥७३०॥तत्सर्वं तु समं योज्यं स्त्रीस्तन्येन तु मर्दयेत् ।मूषालेपः कृतः प्राज्ञो वज्रमेलापकः सुखम् ॥७३१॥हठाग्नौ वज्रमूषाभिर्दृढं वज्रा मिलन्ति च ।सुसूक्ष्मा रवका भूत्वा ह्येकीभावं व्रजन्ति च ॥७३२॥काचटङ्कणयोगेन ध्मातः शुद्धिमवाप्नुयात् ।बहुभिश्चैव मूषाभिस्तेजःपुञ्जोऽपि जायते ॥७३३॥मृतवज्रस्य भागैकं भागाः षोडश हाटकम् ।श्वेतकाचस्य सूतं तु भागं षोडश दापयेत् ॥७३४॥अन्धमूषागतं ध्मातं वज्रद्वन्द्वं तु कारयेत् ।अनेन क्रमयोगेन सप्तवारांश्च दापयेत् ॥७३५॥मिलते तत्क्षणाद् वज्रं हेम्ना तु सलिलं यथा ।चूर्णे नरकपालस्य मृतवज्रं च दापयेत् ॥७३६॥अन्धमूषागतं ध्मातं हेम्ना मिलति तत्क्षणात् ।भृङ्गपत्रं नृकेशं च मुखं कान्तस्य टङ्कणम् ॥७३७॥बालवत्सपुरीषं च स्त्रीस्तन्येन तु पेषयेत् ।अन्धमूषागतं ध्मातं वज्रं मिलति तत्क्षणात् ॥७३८॥क्षीरेणोत्पलसारिण्या मृतवज्रं तु भावयेत् ।हेमपिष्टिकया मध्ये वज्रं तत्रैव निक्षिपेत् ॥७३९॥वेष्टयेद्भूर्जपत्रेण बाह्ये वस्त्रेण वेष्टयेत् ।धान्यमध्ये तु संस्थाप्य पक्षमेकं निरन्तरम् ॥७४०॥उद्धरेत्तत्प्रयत्नेन वज्रबन्धं तु कारयेत् ।रत्नद्रुतिबन्धःद्रुता वज्रास्तु सूतेन मेलनीयास्तु पार्वति ॥७४१॥द्रुतिबन्धः स विज्ञेयः शतसाहस्रवेधकः ।रत्नानां द्रुतयः सर्वा मेलयित्वा यथाविधि ॥७४२॥शतसहस्रवेधी च देहसिद्धिप्रदायकः ।मुसली चित्रकं वन्ध्या कुक्कुटीकन्दपद्मिनी ॥७४३॥कञ्चुकी नीलिसिन्दूरी पाठा नागबला यथा ।कंसपात्रे रसश्चैव रत्नानां द्रुतयस्तथा ॥७४४॥आतपे धारयित्वा वै अधः कर्षानलं यथा ।ओषधीनां रसं दत्त्वा स्वच्छं कृत्वा पुनः पुनः ॥७४५॥याममात्रं तु घर्मे च द्रुतिर्मिलति वै रसम् ।न तेषां क्रामणे शक्तिर्वक्तुं वक्त्रशतैरपि ॥७४६॥सैन्धवं निंबपत्राणि वाकुची द्वेषिणीजके ।द्रुताभ्रस्य रसेनैव मेलनं परमं मतम् ॥७४७॥वज्रद्वन्द्वानम् ईशानि वज्रेण रसमारणम् ।सबीजं सारणं प्रोक्तं खोटबन्धनमेव च ॥७४८॥तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमर्हसि ॥७४९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP