संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग २२ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग २२ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग २२ Translation - भाषांतर वन्दाककल्पःवन्दाको द्विविधः प्रोक्तः पुरुषस्त्रीविभेदतः ।खर्जूरीपत्रवत्पत्रः पुरुषः सर्वसिद्धिदः ॥१॥स्त्रीसंज्ञस्तु गुणैरल्पो वृत्तपत्रः प्रतापवान् ।वन्दाकः पादपरुहः शिखरी तरुरोहिणी ॥२॥वृक्षादनी कामिनी च वृक्षरुग्बन्धबन्धकम् ।वन्दाकस्तिक्ततुवरः कफपित्तश्रमापहः ॥३॥वश्यादिसिद्धिदो वृष्यो विषघ्नश्च रसायनम् ।वन्दाकाहरणविधिःकृतोपवासः सुस्नातो रक्तमाल्यानुलेपनः ॥४॥मुक्तकेशाम्बरो भूत्वा रात्रौ संयतमानसः ।वृक्षं प्रदक्षिणं कृत्वा गन्धपुष्पाक्षतादिभिः ॥५॥पूजाद्रव्यैः समभ्यर्च्य बलिं दध्योदनैः किरेत् ।चिन्तामणिं नृसिंहं च मनुमष्टोत्तरं शतम् ॥६॥जप्त्वा खड्गेन संछिद्य वन्दाकं विधिनाहरेत् ।वन्दाकानां तु सर्वेषां विधिरेष उदाहृतः ॥७॥अश्विन्यां शुचिरश्वत्थवन्दाकं विधिनाहृतम् ।क्षीरेण पिष्टमालोड्य पिबेदश्वबलो भवेत् ॥८॥तथैवाश्वत्थवन्दाकमुपरागेऽर्कचन्द्रयोः ।नृसिंहमन्त्रं प्रजपन् खड्गेनाच्छिद्य चाहरेत् ॥९॥घृष्ट्वांभसा प्रकोष्ठेण लिप्त्वा गोरोचनान्वितम् ।विधाय तिलकं पश्येत्सर्ववश्यो भवेद्ध्रुवम् ॥१०॥न्यग्रोधस्य तु वन्दाकमश्विन्यां विधिनाहरेत् ।सूत्रेण बन्धयेद्धस्ते ह्यदृश्यो जायते नरः ॥११॥सर्ववश्यं भवेत्क्षीरैः पिष्ट्वा पाने गदाञ्जयेत् ।अश्विन्यां तु शिरीषस्य वन्दाकं विधिनाहरेत् ॥१२॥सूत्रेण बन्धयेद्धस्ते वीर्यस्तम्भो भवेद्ध्रुवम् ।अश्विन्यामाहरेद्धीमान् पलाशस्य तु बन्धकम् ॥१३॥हस्ते बद्ध्वा स्पृशेद्यस्तु सा नारी वशगा भवेत् ।अङ्कोलबन्धम् अश्विन्यां करे बद्ध्वा जगत्प्रियः ॥१४॥भरण्यां कुशवन्दाकं गृहीत्वा शुभयोगतः ।बध्नीयाद्दक्षिणे हस्ते तेनादृश्यो भवेन्नरः ॥१५॥भरण्यां फल्गुवन्दाकं धान्यराशौ विनिक्षिपेत् ।तेन वै धान्यवृद्धिः स्यान्नात्र कार्या विचारणा ॥१६॥भरण्यां बदरीणां च वन्दाकं विधिनाहरेत् ।बन्धयेद्दक्षिणे हस्ते संलभेद् ईप्सितं फलम् ॥१७॥कृत्तिकायां तु कतकवन्दाकं विधिनाहरेत् ।वर्तिमध्ये क्षिपेत्तं च तेन संगृह्य कज्जलम् ॥१८॥स्त्रीणामञ्जनमात्रेण पतिर्वश्यो भवेद्ध्रुवम् ।कृत्तिकायां शुचिर्भूत्वा जम्बूवन्दाकम् आहरेत् ॥१९॥क्षीरेण पिष्टं तत्कल्कं पीत्वा रोगैर्विमुच्यते ।रोहिण्यां तिन्त्रिणीकस्य वन्दाकं विधिनाहरेत् ॥२०॥बद्ध्वा हस्ते स्पृशेद्यं यं सर्ववश्यो भवेन्नरः ।तिमिरादिषु शस्तं तदसाध्यं घृतमञ्जनात् ॥२१॥क्षौद्रघृष्टेन तेनैव कृतं चक्षुष्यमञ्जनम् ।बन्धकम् उदुम्बरभवं रोहिण्यां गृह्य वलयकं कुर्यात् ।तद्वलयोपरि विनिहितभाण्डस्थितमोदकं क्षयं नैति ॥२२॥अश्वत्थस्य तु वन्दाकं रोहिण्यां विधिनाहरेत् ॥२३॥गृहे स्थिते च वन्दाके नित्यैश्वर्यं प्रजायते ।कतकस्य तु वन्दाकं रोहिण्यां विधिनाहरेत् ॥२४॥अञ्जने नेत्रयुगले निधिं पश्यति निश्चितम् ।तदेव बन्धयेद्धस्ते सर्ववश्यो भवेद्ध्रुवम् ॥२५॥उदुम्बरस्य वन्दाकं रोहिण्यां विधिनाहरेत् ।हस्ते बद्ध्वा निहन्त्याशु ज्वरं चातुर्थिकं प्रिये ॥२६॥रोहिण्यां मातुलुङ्गस्य बन्धकं तु समाहरेत् ।धारयेद्दक्षिणे कर्णे जगद्वश्यकरं परम् ॥२७॥रोहिण्यां बिल्ववन्दाकं करे बद्ध्वा जगत्प्रियः ।मृगशीर्षे शिरीषस्य वन्दाकं सम्यगाहृतम् ॥२८॥हस्ते बद्ध्वा स्पृशेन्नारीं नरं वा वशयेद्ध्रुवम् ।मृगशीर्षे तु वन्दाकं तिन्त्रिणीवृक्षसम्भवम् ॥२९॥क्षीरेण पिष्ट्वा प्रपिबेददृश्यो जायते नरः ।तद्दध्ना यः पिबेत्प्रातः सर्वव्याधिहरो भवेत् ॥३०॥महिषीतक्रपिष्टेन तेन सर्वाङ्गलेपनम् ।कृत्वा वह्निगतो यस्तु वह्निना च न दह्यते ॥३१॥तिन्त्रिणीकस्य वन्दाकं गृहे यस्य प्रतिष्ठितम् ।तस्य चोरभयं नास्ति करे द्यूतजयो भवेत् ॥३२॥उदुम्बरस्य वन्दाकं मृगशीर्षे समाहरेत् ।हस्ते बद्ध्वा स्पृशेन्नारीं सा नारी वशगा भवेत् ॥३३॥स्त्रीणां हस्ते तु बध्नीयादन्नमध्ये विनिक्षिपेत् ।जायते चान्नवृद्धिस्तु नात्र कार्या विचारणा ॥३४॥न्यग्रोधस्य तु वन्दाकं मृगशीर्षे समाहरेत् ।बध्नीयाद्दक्षिणे हस्ते जनवश्यो भवेद्ध्रुवम् ॥३५॥आदाय माटरूषस्य वन्दाकं समुदाहृतम् ।बद्ध्वा हस्ते जनैर्दीव्यन् स्याद्द्यूतेष्वपराजितः ॥३६॥आर्द्रायां तौम्बुरं ग्राह्यं वन्दाकं विधिना हरेत् ।क्षीरेण प्रपिबेद्यस्तु तस्य स्याल्लोहमोटनम् ॥३७॥आर्द्रार्के वा पुष्यरवौ वन्दाकं तुम्बुरोर्हरेत् ।बध्नीयाद्दक्षिणे हस्ते बाणस्तम्भः प्रजायते ॥३८॥पुनर्वसोर्हृतं वंशवन्दाकं क्षीरपेषितम् ।पीत्वा स्त्रीपुरुषौ वन्ध्यौ प्रसुवाते सुतान्बहून् ॥३९॥नक्तमालस्य वन्दाकमाहरेच्च पुनर्वसौ ।क्षीरेण पिष्ट्वा प्रपिबेद् अखिलामयनाशनम् ॥४०॥तच्चूर्णस्य मात्रेण नश्यन्ति ग्रहराक्षसाः ।पुष्ये बन्धूकवन्दाकं गृहीत्वा तं निधापयेत् ॥४१॥क्षेत्रमध्ये रिपोस्तत्र सस्यनाशश्च जायते ।आश्लेषायां कर्णिकारवन्दाकं सम्यगाहृतम् ॥४२॥बद्ध्वा हस्ते दृढं तेन स्पृशन् वशति तेजनात् ।मधूकस्य च वन्दाकमाश्लेषायां समाहरेत् ॥४३॥बन्धयेद्दक्षिणे हस्ते व्याघ्रादिभयनाशनम् ।मघासु मुचुकुन्दस्य वन्दाकं विधिनाहृतम् ॥४४॥निधापयेद्धान्यमध्ये तद्धान्यं त्वक्षयं भवेत् ।विभीतकस्य वन्दाकं फल्गुन्योः पूर्वयोर्हृतम् ॥४५॥स्थापयेद्धान्यमध्येन तदक्षय्यं क्षणाद्भवेत् ।फल्गुन्योर् अन्ययोर् हस्तेऽप्ययमेव विधिः स्मृतः ॥४६॥शाकवृक्षस्य वन्दाकं मघायां विधिनाहरेत् ।धान्यसंचयकृद्द्वारे धान्यवृद्धिश्च जायते ॥४७॥मौञ्जीवृक्षस्य वन्दाकं मघार्के विधिनाहरेत् ।शिरसा धारयेन्नित्यं तस्य श्रीर्वशमाप्नुयात् ॥४८॥पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत् ।करे शिरसि बध्नीयाद्व्याघ्रादिग्रहहृद्भवेत् ॥४९॥तिन्दुकस्य च वन्दाकं चित्रायामाहृतं तथा ।बद्ध्वा हस्ते समस्तानां सध्वधो भवति द्विषाम् ॥५०॥कुटजस्य तु वन्दाकं चित्रायां विधिनाहरेत् ।बध्नीयाद्दक्षिणे हस्ते दुर्लभं चेप्सितं लभेत् ॥५१॥स्वात्यां लिकुचवन्दाकं गृहीत्वा यत्र वस्तुनि ।निधापयति तत्सर्वमक्षयं नात्र संशयः ॥५२॥बब्बूलबन्धकं स्वात्यां बदर्यास्त्वनुराधके ।बध्नन्यो धारयेद्धस्ते तत्स्पृष्टा स्त्री वशा भवेत् ॥५३॥आहृत्य धात्रीवन्दाकं विशाखायां यथाविधि ।शुक्तकारस्य भवने विरुद्धस्य निधापयेत् ॥५४॥सर्वं मद्यमपेयं स्यान्मोक्षस्तस्मिन्समुद्धृते ।अनुराधासु विधिना ऐन्द्रीवन्दाकमाहृतम् ॥५५॥धान्यमध्ये विनिक्षिप्तं धान्यमक्षयतां नयेत् ।ज्येष्ठायाम् आम्रवन्दाकं हृत्वा वेश्यागृहे खनेत् ॥५६॥सा दुर्भगा भवेत्सत्यमुद्धृते मोक्ष उच्यते ।मूले खदिरवन्दाकं गृहीत्वा विधिपूर्वकम् ॥५७॥बद्ध्वा हस्ते नरः क्षिप्रं दुर्भगः सुभगो भवेत् ।तदेव पिष्टं क्षीरेण पीतं कुष्ठादिनाशनम् ॥५८॥मूलार्के गोट्टिकायाश्च वन्दाकं विधिनाहरेत् ।दक्षिणे बन्धयेद्धस्ते स्त्रीवश्यं भवति ध्रुवम् ॥५९॥तदेव शिरसा धार्यं सर्वसिद्धिर्भवेद् ध्रुवम् ।करवीरस्य वन्दाकं पूर्वाषाढासु साधितम् ॥६०॥धारयेच्छिरसा युद्धे स भवेदपराजितः ।पूर्वाषाढासु वन्दाकं बदरीवृक्षसम्भवम् ॥६१॥पिबेत्क्षीरेण या वन्ध्या सा बहूंश्च सुतांल्लभेत् ।कुरवस्य तु वन्दाकं पूर्वाषाढार्कवारके ॥६२॥बन्धयेद्दक्षिणे हस्ते ह्यदृश्यो जायते नरः ।उत्तराषाढनक्षत्रे ग्राह्यं मन्दारबन्धकम् ॥६३॥पलाशबन्धकं वाथ करे बद्ध्वा वशंकरम् ।श्रवणे चित्रकोद्भूतं वन्दाकं प्राप्यते न तु ॥६४॥कङ्कुणीतैलघृष्टेन ताम्रपत्रं च लेपयेत् ।पुटपाकविधानेन तत्स्वर्णं भवति ध्रुवम् ॥६५॥एरण्डस्य तु वन्दाकं श्रवणार्के समाहरेत् ।बन्धयेद्दक्षिणे हस्ते सदा द्यूतजयो भवेत् ॥६६॥धनिष्ठायां तु बदरीवन्दाकं विधिनाहृतम् ।बद्ध्वा करे स्पृशेद्यं यं स स दासो भवेद्ध्रुवम् ॥६७॥हृतं पुन्नागवन्दाकं वारुणेषु यथाविधि ।क्षीरेण पिष्ट्वा प्रपिबन्महानागबलो भवेत् ॥६८॥नक्तमालस्य वन्दाकं मघार्के विधिनाहरेत् ।विधिना धारयेद्बाहौ पिशाचानां च दर्शनम् ॥६९॥तिन्त्रिणीकस्य वन्दाकं पुन्नर्क्षे विधिनाहरेत् ।बन्धयेद्दक्षिणे हस्ते नित्यं द्यूतजयो भवेत् ॥७०॥पुन्नर्क्षे वंशवन्दाकमदृश्यो जायते करे ।शिरीषस्य तु वन्दाकमुत्तरे विधिनाहरेत् ॥७१॥करे शिरसि बध्नीयाद्व्याघ्रादिग्रहहृद्भवेत् ।मघायां स्थापयेत्क्षेत्रे वन्दाकं मधुकोद्भवम् ॥७२॥पक्षिणां मूषिकानां च जायते तुण्डबन्धनम् ।पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत् ॥७३॥लिङ्गलेपं प्रकुर्वीत वीर्यस्तम्भो भवेद्ध्रुवम् ।क्षीरेणालोड्य वल्लीकं क्षौद्रं पिष्ट्वा निषेचयेत् ॥७४॥वङ्गं तु सप्तधा देवि तद्वङ्गं रजतं भवेत् ।पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत् ॥७५॥क्षीरेण प्रपिबेद्यस्तु ह्यदृश्यो जायते नरः ।तिन्दुकस्य च वन्दाकं चित्रायामाहृतं तथा ॥७६॥बद्ध्वा हस्ते समस्तानामवध्यो भवति द्विषाम् ।हरीतक्यास्तु वन्दाकं पूर्वभाद्रपदाहृतम् ॥७७॥क्षीरेण कल्कितं पीत्वा चरेद्वररुचेः समः ।उत्तरास्वर्कवन्दाकं हृतं भाद्रपदासु तत् ॥७८॥प्रलेपाद्यैः परं हन्याद्विषं स्थावरजङ्गमम् ।रेवत्यां बोधिवन्दाकलतया कृतकौतुका ॥७९॥वन्ध्यापि लभते गर्भं पीत्वा गोपयसा च तत् ।रेवत्यां वटवन्दाकं वल्मीकमधुघर्षितम् ॥८०॥अक्षिदोषेष्वतिश्रेष्ठमक्षरावरणादिषु ।रेवत्यां वटवन्दाकं गृहीत्वा धारयेद्भुजे ॥८१॥महानागबलोपेतो महागणश्च जायते ।समुद्धृतं विशाखायां वन्दाकं राजवृक्षकम् ॥८२॥निवारयति गेहस्थं वैश्वानरभयं गृहे ।रोहिण्यां वटवन्दाकं कटिस्थं वीर्यवर्धनम् ॥८३॥अश्वत्थभववन्दाकं रेवत्यां गर्भदं स्मृतम् ।विषवृक्षोत्थवन्दाकं पूर्वाषाढोद्धृतं यदि ॥८४॥प्रलिप्तं तनुते भूतपिशाचादिप्रभाषणम् ।चुल्लिकान्तर्गतं कुर्यात्सभक्तां पानसन्ततिम् ॥८५॥द्यूते जाम्बववन्दाकं रेवत्यां जयकारकम् ।कुर्यात् कुरववन्दाकं हस्तस्थं बाणवारणम् ॥८६॥मधूकवृक्षवन्दाकं धान्यस्थं धान्यवृद्धिदम् ।पलाशतरुवन्दाकं वाक्प्रदं क्षीरसेवितम् ॥८७॥वेश्यायां निम्बवन्दाकं गृहान्तर्निहितं यदि ।वश्यं करोति साश्चर्यम् आ जन्ममरणान्तिकम् ॥८८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP