संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग १४ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग १४ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग १४ Translation - भाषांतर विषम् विषोत्पत्तिःश्रीभैरवी ।श्रुतं सर्वं मया देव दिव्यं सर्वरसायनम् ।विषोत्पत्तिं च जातिं च सेवां वद च तत्फलम् ॥१॥श्रीभैरवः ।क्षीरोदधौ मथ्यमाने मन्थनीकृतमन्दरैः ।सिद्धकिन्नरगुह्येन्द्रपिशाचोरगराक्षसैः ॥२॥ब्रह्माद्यैरखिलैर् देवैरेकतो दनुजाधिपैः ।दैत्यैरन्यत्र विपुलैर्महाबलपराक्रमैः ॥३॥ततो जातानि रत्नानि कौस्तुभादीनि कामगौः ।कल्पवृक्षो महालक्ष्मीर् ऐरावतमहागजः ॥४॥उच्चैःश्रवास्तथा चेन्दुर्धन्वन्तरिभिषग्वरः ।अमृतं च लता दिव्या दिव्यसिद्धिप्रदायकाः ॥५॥मन्दरभ्रमणश्रान्तनागराजमुखात् ततः ।विषज्वाला समुत्पन्ना तीव्रा लोकभयंकरी ॥६॥ममज्ज क्षीरजलधावत्यन्तमथनात्पुनः ।कालकूटं महाक्ष्वेडं कल्पान्तयमसन्निभम् ॥७॥संवर्ताग्निप्रतीकाशं वीक्ष्य भीताः सुरास्तदा ।ममान्तिकं समाजग्मुः स्तुवन्तो दीनमानसाः ॥८॥स्वामिन्सर्वोत्तम त्राहि शरणागतपालक ।इत्यादि बहुधा स्तोत्रं कुर्वाणास्ते सुरासुराः ॥९॥अहं स्मितमुखं कृत्वा कालकूटं तदापिबम् ।तत्र तत्रावशिष्टं तद्बहुधा समभूद्भुवि ॥१०॥क्वचिन्मूलस्वरूपेण क्वापि त्वग्रूपतः प्रिये ।कुत्रापि पर्णरूपेण तोयरूपेण कुत्रचित् ॥११॥एवं बहुविधं जातं तत्र तत्र विषं गतम् ।तेषां श्रेष्ठं कन्दविषमष्टादशविषं प्रिये ॥१२॥पोइसोन् > १० किन्द्स्क्रमाद्भेदं प्रवक्ष्यामि कालकूटं च दर्दुरम् ।हालाहलं मेषशृङ्गं मोहदं ग्रन्थि कर्कटम् ॥१३॥रक्तशृङ्गि हरिद्रं च केसरं दशमं स्मृतम् ।एते दशविधाः क्ष्वेडा न प्रयोज्या रसायने ॥१४॥पोइसोन् > ८ किन्द्स्श्वेतशृङ्गी वत्सनाभं सर्षपं शृङ्गि वालुकम् ।मुस्तकं सक्तुकं देवि चाष्टमं कर्दमं भवेत् ॥१५॥रसायने योजनीयास्त्वष्टौ भेदाः प्रकीर्तिताः ।कालकूटं काकचञ्चुप्रभं दर्दुरसन्निभम् ॥१६॥दर्दुरं नीलवर्णं च हालाहलविषं समम् ।मेषशृङ्गी तु मेषस्य शृङ्गाभं मोहदं पुनः ॥१७॥रक्तनीलप्रभं देवि ग्रन्थिकं ग्रन्थिसंयुतम् ।कर्कटं कपिलाभं च रक्तशृङ्गि महाविषम् ॥१८॥कृष्णपिङ्गं च रक्ताभं हरिद्राभं हरिद्रकम् ।केसरं पद्मकिञ्जल्कप्रभं दशविधं त्विति ॥१९॥श्वेतशृङ्गीभदन्ताभं वत्सनाभं च पाण्डुरम् ।सर्षपाकृतिभिर्युक्तं बिन्दुभिः सर्षपं भवेत् ॥२०॥शृङ्गी शृङ्गाकृतिर्ज्ञेयो वालुकं वालुकाकृति ।मुस्ताकृतिर्मुस्तकं स्याच्छ्वेतवर्णं तु सक्तुकम् ॥२१॥मधूच्छिष्टाकृतिर्देवि कर्दमं विषमुत्तमम् ।विषखण्डेषु भग्नेषु दृश्यन्ते येषु बिन्दवः ॥२२॥श्वेतरक्तपीतवर्णाः कृष्णा विप्रादयः क्रमात् ।श्वेता रसायने रक्ता वश्ये पारदकर्मणि ॥२३॥क्षुद्रकर्मणि पीताः स्युः कृष्णवर्णास्तु मारणे ।विषं युक्त्यामृतं देवि तदयुक्त्या विषं भवेत् ॥२४॥तस्माद्युक्त्या विषं सेव्यमयुक्त्या न कदाचन ।रसाभ्रहेमकान्तानां वीर्येण सदृशं विषम् ॥२५॥विषशुद्धिःरक्तसर्षपतैलेन लिप्ते वस्त्रे च बन्धयेत् ।त्रिदिनान्ते समुद्धृत्य टङ्कणेन समं विषम् ॥२६॥मर्दयेच्छ्लक्ष्णचूर्णं तत्कारयेच्च विशुध्यति ।रोगे रसायने योज्यं सिद्धिदं स्याद्वरानने ॥२७॥विषरसायनम्शुद्धदेहो विरेकाद्यैः पथ्याशी विषभुग्भवेत् ।क्रमेण सेवनीयं तत्सर्षपं राजसर्षपम् ॥२८॥मुद्गव्रीहियवा माषा गुञ्जामात्रं परावधिः ।शर्करासहितं सेव्यं क्ष्वेलं तदमृतं भवेत् ॥२९॥कट्वम्ललवणास्त्याज्या व्यायामोष्णातपादयः ।तैलसर्षपखाद्याश्च वर्ज्या विषरसायने ॥३०॥गव्यं क्षीरं घृतं तक्रं स्निग्धं दधि च शर्करा ।सेव्या स्वादुरसद्रव्या नोचेद्विकृतिकारणम् ॥३१॥विषोपद्रवास्तच्चिकित्सा चमात्रया सेवितं क्ष्वेलम् अमृतं भवति प्रिये ।अतिमात्रं यदि भवेदमृतं च विषायते ॥३२॥प्रमादादतिमात्रं चेत् तदा वेगा भवन्ति च ।कष्टं प्रथमवेगे स्याद्वेपथुश्च द्वितीयके ॥३३॥तृतीये च तृषा दाहश् चतुर्थे गतिभञ्जनम् ।फेनिलास्यः पञ्चमे स्यात्षष्ठे कन्धरभञ्जनम् ॥३४॥सप्तमे च निरुत्थानं मरणं चाष्टमे भवेत् ।तस्माच्छीघ्रं प्रतीकारः करणीयो वरानने ॥३५॥किंचिन्मात्राधिकं क्ष्वेलं नानारोगान्करोति तत् ।भ्रान्तिविस्मृतिशूलानि वान्त्यतीसारकं परम् ॥३६॥स्वरसादं गद्गदत्वं दाहं दृष्टिभ्रमं तथा ।कर्णरुक्श्वासकासादीन् अन्यान् वातोद्भवान् गदान् ॥३७॥यदातिमात्रं चिह्नानि दृश्यन्ते वपुषि प्रिये ।तदा तु टङ्कणं निष्कम् आज्यं चापि चतुर्गुणम् ॥३८॥पेयं तत्परिहारार्थं जलैर्वा तण्डुलीयकम् ।मज्जां वा पुत्रजीवस्य फलान्निष्कं जलान्वितम् ॥३९॥तुत्थं पणद्वयोन्मेयं नृमूत्रैर् वा हरिद्रकम् ।वचां वा देवदालीं वा सर्पाक्षीं वाथ सार्बुणीम् ॥४०॥पटोलीं गिरिपर्णीं नृमूत्रैर्विषजित्पृथक् ।लां यां वां हां चतुर्वर्णैर् गारुडं संपुटीकृतम् ॥४१॥स्तम्भस्तोभननिर्वाहनिर्विषीकरणं तथा ।लां प्रों लां अनेन मन्त्रेण स्तम्भनम् ।शीतजलघटम् अभिमन्त्र्य विषातुरस्य मस्तके जलं ढालयेत् ।विषं नाक्रामति ।यां प्रों यां अनेन स्तोभनमन्त्रेण विषातुरस्य शिखिनमन्धयेत् ।वां प्रों वां अनेन निर्वाहमन्त्रेणार्कदण्डं वा धुत्तूरकाष्ठदण्डं वाभिमन्त्र्य विषातुरस्य सर्वाङ्गं स्पृष्ट्वा विषं निर्वाहयेत् ।हां प्रों हां अनेन निर्विषीकरणमन्त्रेण निर्विषीकरणार्थं विषातुरस्य सर्वाङ्गं दण्डेनापामार्जयेत् स्वस्थो भवति ।जीर्णं क्ष्वेलं शरीरे चेत्पित्तान्तं वमनं प्रिये ॥४२॥आमान्तं रेचनं कार्यं तण्डुलीयकमूलभुक् ।सेवेत मांसं सघृतं विषदोषहरं भवेत् ॥४३॥पूर्वोक्तमात्रासेवी यो महाव्याधेर्विमुच्यते ।देवि षण्मासयोगेन जरापलितखण्डनम् ॥४४॥संवत्सरोपयोगेन जीवेच्चन्द्रार्कतारकम् ।हिमशीतवसन्तेषु योज्यं विषरसायनम् ॥४५॥ग्रीष्मवर्षशरत्स्वेतन्न प्रयोज्यं कदाचन ।वातस्थविरगर्भिण्यः क्षुत्तृड्घर्माध्वपीडिताः ॥४६॥नपुंसका गदक्षीणाः पित्तक्रोधाधिकास्तथा ।यक्ष्मिणो नैव योग्याः स्युः सदा विषरसायने ॥४७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP