संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग ९ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग ९ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ९ Translation - भाषांतर रसायनार्हरससंस्कारः॑ प्रथमः प्रकारःश्रीभैरवी ।रसायनार्हां सूतस्य संस्कृतिं वद मे विभो ।श्रीभैरवः ।शृणु पार्वति यत्नेन संस्कारं शोधनादिकम् ॥१॥पुनर्नवारसैः पेष्यं धान्याभ्रं पारदं समम् ।तप्तखल्वे दिनं देवि वज्रमूषागतं रसम् ॥२॥पचेद्भूधरयन्त्रे च पुनः संमर्दयेच्च तम् ।पूर्वद्रवैर्यथापूर्वं मर्दनं पाचनं पुनः ॥३॥कृत्वैवं दशवारं तं पात्यं पातनयन्त्रके ।शुद्धः स्यात्पारदो देवि योज्यो योगे रसायने ॥४॥द्वितीयः प्रकारःदशमांशं रसाद्गन्धं तप्तखल्वे विनिक्षिपेत् ।वराजम्बीरकन्याग्निद्रवैर्यामं विमर्दयेत् ॥५॥पातयेत्पातनायन्त्रे कुर्यादेवं तु सप्तधा ।सगन्धकं मर्दनं च पातनं भवति प्रिये ॥६॥शुद्धः स्यात्पारदो देवि योग्यो योगे रसायने ।तृतीयः प्रकारःतिलतैलैर् माहिषिकैर् मूत्रैर् मर्द्याम्लकेन च ॥७॥गोमांसैर् हिङ्गुलं पाच्यं लोहपात्रे क्रमाग्निना ।सप्ताहं लोहदण्डेन चालयन्सद्रवं मुहुः ॥८॥सार्द्रमायूरपित्तेन भावयेदातपे दिनम् ।पाचयेत्पातनायन्त्रे दरदं खरवह्निना ॥९॥शुद्धो भवेच्चतुर्यामात्पारदः स्याद्रसायने ।रसभस्मक्रमः॑ प्रथमः प्रकारःऊर्ध्वाधस्तात्खजीर्णस्य सूतस्य समगन्धकम् ॥१०॥निक्षिपेत्पक्वमूषायां गर्ते द्वाभ्यां चतुर्गुणम् ।काकमाचीद्रवं दत्त्वा निरुध्यैनां क्रमाग्निना ॥११॥पचेद्गुण्डकयन्त्रस्थां मूषां यामचतुष्टयम् ।भस्मसाज्जायते सूतो योजयेत्तु रसायने ॥१२॥द्वितीयः प्रकारःजीर्णसूतं स्नुक्क्षीरैः समं गन्धं विमर्दयेत् ।दिनं ततो गर्भयन्त्रे पुटे भस्मति पूर्ववत् ॥१३॥तृतीयः प्रकारःखजीर्णसूतं तुल्यांशं लाक्षोर्णामधुटङ्कणम् ।गुञ्जां भृङ्गरसैः सर्वं दिनमेकं विमर्दयेत् ॥१४॥अन्ध्रितं वज्रमूषायां धमेद्भस्मति पारदः ।चतुर्थः प्रकारःघनजीर्णं रसं गन्धं त्र्यहं तुल्यं विमर्दयेत् ॥१५॥अहिमार्या रसैर्वाथ ह्यजामार्या रसेन वा ।रसेन कीटमारिण्याः श्वेताङ्कोलरसेन वा ॥१६॥दिवारात्रं करीषाग्नौ मृण्मये संपुटे दहेत् ।तुषाग्निना वा त्रिदिनाद्भस्मीभवति पारदः ॥१७॥तप्तखल्वे वज्रभस्म जीर्णे सूते समं त्र्यहम् ।हंसपादीरसैर् मर्द्यं बीजैर्दिव्यौषधोद्भवैः ॥१८॥लेपयेद्वज्रमूषायां तत्र पूर्वं रसं क्षिपेत् ।त्र्यहं तुषाग्निना पाच्यं हंसपादीद्रवैः पुनः ॥१९॥मर्दयेत्त्रिदिनं गाढं तद्गोलं पूर्ववत्पचेत् ।भस्मीभवति सूतेन्द्रः शङ्खकुन्देन्दुसन्निभः ॥२०॥जारितरसमारणम्॑ प्रथमः प्रकारःअथ वक्ष्यामि देवेशि जारितं रसमारणम् ।प्रथमं जारणं कुर्यात्सबीजं सुरनायिके ॥२१॥अजारितं रसं मूढः प्रमादान्मारयेद्यदि ।मम द्रोही स पापिष्ठो महापातकवान् भवेत् ॥२२॥भ्रूणहा गुरुघाती च गोघ्नः स्त्रीबालघातकः ।तस्मात्सर्वप्रयत्नेन कुर्याज्जारणपूर्वकम् ॥२३॥मारणं रसराजस्य मम बीजस्य पार्वति ।धरायां गोमयं देवि स्थापयित्वा तत उपरि ॥२४॥पक्वमूषायां विनिक्षिप्य तन्मध्ये कटुतुम्बिजम् ।तैलं निधाय सूतं च निक्षिपेच्च तत उपरि ॥२५॥काकमाचीरसो देयस्तैलतुल्यो वरानने ।शुद्धं गन्धं व्रीहिमात्रं दत्त्वा मूषां निरोधयेत् ॥२६॥तदूर्ध्वं खादिराङ्गारपूरितं श्रावकं न्यसेत् ।ज्ञात्वा तत्स्वाङ्गशीतत्वं पुनर्गन्धं च तैलकम् ॥२७॥काकमाचीद्रवं दत्त्वा वह्निमेवं पुनः पुनः ।अधस्ताद्गोमयं सान्द्रमुपरिष्टाच्च पावकम् ॥२८॥काकमाचीद्रवः सूतस्तैलं चैतत्त्रयं समम् ।जारयेत्षड्गुणं गन्धं रसस्येत्थं मुखीकृतिः ॥२९॥दिनं जम्बीरनीरेण मर्दयेत्तं रसं पुनः ।चतुः षष्ट्यंशकं हेम्नः पत्रं कण्टकभेदनम् ॥३०॥मयूरपित्तं तैलं च लिपेत्सर्षपसंभवम् ।अभावे तैलपित्तस्य चूलिकालवणं बलिम् ॥३१॥जम्बीरस्य रसैर्मर्द्यं तं रसं हेमपत्रकम् ।पाचयेत्पूर्ववद्वह्नौ जम्बीरस्य रसैः पुनः ॥३२॥सम्पूर्णां रोधयेन्मूषां पूर्ववज्जारयेत्पुनः ।द्वात्रिंशदंशकं हेम षोडशांशं तत उपरि ॥३३॥मर्दयेज्जारयेदेवं ततः सूतस्य मारणम् ।समूलां कुम्भिम् आदाय गवां मूत्रेण पेषयेत् ॥३४॥दिनमेकं तद्रसेन मर्दयेत्पारदं सुधीः ।संपुटे कान्तजे क्षिप्त्वा चोर्ध्वाधश्च नियामकान् ॥३५॥चुल्ल्यां मृद्वग्निना पाच्यं दिनं भस्म भवेद्रसः ।अक्षीणो मृत्युनाशी स्याज्जरादारिद्र्यनाशनः ॥३६॥द्वितीयः प्रकारःवासितं पारदं कर्षमष्टगुञ्जाः सुवर्णकम् ।मृतं वज्रं चतुर्गुञ्जं मर्द्यं हंसपदीरसैः ॥३७॥तप्तखल्वे वज्रमूषागतं कृत्वा निरोधयेत् ।पचेद्भूधरयन्त्रे च पुनरादाय तं रसम् ॥३८॥हंसपादीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ।पूर्ववद्भूधरे यन्त्रे पचेत्सूतं पुनः पुनः ॥३९॥एवं शतपुटं कृत्वा भस्म स्याद्रक्तवर्णकम् ।एतानि रसभस्मानि शस्तानि च रसायने ॥४०॥रसायनयोगाः॑ अभ्रकरसायनम्एकद्वित्रिचतुःपञ्चयोगयुक्तं रसायनम् ।क्रमाद्वक्ष्यामि देवेशि तत्राप्यभ्रकसेवनम् ॥४१॥वमनादिविशुद्धात्मा त्यक्तक्षाराम्लकादिकः ।पूर्ववद्भस्मयेद्व्योमसत्वं भृङ्गवरारसैः ॥४२॥त्रिः सप्तधा भावनीयं प्रातर्गुञ्जाद्वयं भजेत् ।ससितं तदनु क्षौद्रं घृतैः सत्रिफलं लिहेत् ॥४३॥द्वात्रिंशद्गुञ्जका वृद्धिः क्रामणं कर्षमात्रकम् ।एष षोडशमासान्ते सर्वरोगाद्विमुच्यते ॥४४॥स भवेत्कान्तसेवार्हस्त्वेवमभ्रकसेवया ।कान्तरसायनम्पूर्ववद्भस्मयेत्कान्तं वरानिर्गुण्डिभृङ्गजैः ॥४५॥रसैस्त्रिसप्तवाराणि मर्दयेद्भावयेत्क्रमात् ।क्षौद्राज्याभ्यां लिहेत्प्रातर्नित्यं गुञ्जाद्वयोन्मितम् ॥४६॥अनु भक्ष्यं सिन्दुवारवराभृङ्गभवं रजः ।मध्वाज्याभ्यां कर्षमात्रं शुद्धाङ्गो वमनादिभिः ॥४७॥द्वात्रिंशद्गुञ्जिका वृद्धिः परमावधिरीश्वरि ।भवेत् षोडशमासान्ताज्जराव्याधिभिरुज्झितः ॥४८॥कान्तस्य सेवया पश्चाद्भवेत्कान्ताभ्रकार्हकः ।कान्ताभ्ररसायनम्मृतं कान्तं घनं तुल्यं धात्रीभृङ्गपुनर्नवाः ॥४९॥द्रवैरेषां पृथङ्मर्द्यं कल्ये गुञ्जाद्वयं लिहेत् ।शर्करामधुसर्पिर्भिः शुद्धात्मा वमनादिभिः ॥५०॥भृङ्गामलकवर्षाभूचूर्णं क्रामणमुत्तमम् ।मध्वाज्यैरनु लेह्यं तद्द्वात्रिंशद्गुञ्जकावधि ॥५१॥मासषोडशयोगेन वलीपलितजिद्बली ।कान्ताभ्रसत्वभजनाद्धेमसेवार्हको भवेत् ॥५२॥स्वर्णरसायनम्पूर्ववद्भस्मयेत्स्वर्णं दशमूलकषायतः ।एकविंशतिवारं तं मर्दयेद्भावयेत्प्रिये ॥५३॥मध्वाज्याभ्यां मुद्गमानं लिहेत्प्रातर्विशुद्धधीः ।गुडूचीत्रिफलाक्वाथं पलं चानुपिबेत्सुधीः ॥५४॥अष्टगुञ्जावधिर् वृद्धिर् भवेत् षोडशमासतः ।तेजस्वी बलवान्धीमांश्चक्षुष्मान् रोगवर्जितः ॥५५॥वलीपलितनिर्मुक्तस्त्रिकालविषजिद्भवेत् ।स्वर्णाभ्रकरसायनम्पूर्ववन्मारयेत्स्वर्णं तस्माद् द्विगुणमभ्रकम् ॥५६॥दशमूलवराभृङ्गीक्वाथैर् भाव्यं त्रिसप्तधा ।प्रातर्माषत्रयं लेह्यं मध्वाज्यैः क्रामणं लिहेत् ॥५७॥पलं गुडूचीत्रिफलाक्वाथं तदनु पार्वति ।चतुर्विंशतिगुञ्जास्य वृद्धिः स्यात्परमावधिः ॥५८॥मासषोडशयोगेन दिव्यतेजा महाबलः ।घनकाञ्चनयोगेन स्वर्णकान्तार्हको भवेत् ॥५९॥स्वर्णकान्तरसायनम्पूर्ववन्मारयेत्स्वर्णं कान्तं स्वर्णद्विभागकम् ।धात्रीफलैर् द्विसप्तैव भावयेन्मर्दयेत्क्रमात् ॥६०॥सशर्करं भजेत् प्रातस्त्रिमाषं च पिबेदनु ।धात्रीसत्वं घृतं क्षौद्रं कर्षमात्रं सुरेश्वरि ॥६१॥चतुर्विंशतिका गुञ्जा वृद्धिः स्यात् परमावधिः ।मासषोडशयोगेन वलीपलितवर्जितः ॥६२॥तप्तकाञ्चनसच्छायः पञ्चबाण इवापरः ।हेमकान्तास्वादनेन कान्ताभ्रकनकार्हकः ॥६३॥स्वर्णाभ्रकान्तरसायनम्पूर्ववन्मारयेत्स्वर्णं कान्तसत्त्वाभ्रसत्वकम् ।समानि त्रीणि चैतानि भावयेच्च त्रिसप्तकम् ॥६४॥मुण्डिनिर्गुण्डिकाभृङ्गवरानीरेण पार्वति ।माषत्रयोन्मितं प्रातर्लिहेत्क्षौद्रघृताप्लुतम् ॥६५॥मुण्डीचूर्णं कर्षमात्रं मध्वाज्याभ्यां लिहेदनु ।गोक्षीरं पलमात्रं च पिबेत्तदनु पार्वति ॥६६॥वल्लद्वादशसंख्याता परा वृद्धिर् भवेत् प्रिये ।मासषोडशयोगे दिव्यकायो भवेन्नरः ॥६७॥हेमाभ्रकान्तभजनाद् योग्यः स्याद्वज्रभक्षणे ।वज्ररसायनम्पूर्ववद्भस्मयेद् वज्रं धात्रीनीरेण मर्दयेत् ॥६८॥भावयेत्सप्तधा धीमान्व्रीहिमात्रं लिहेत्प्रिये ।घृतक्षौद्रयुतं चानुपिबेद्धात्रीरसं पलम् ॥६९॥वल्लावधिर् भवेद्वृद्धिर्मासषोडशयोगतः ।चिरजीवी वज्रकायो दिव्यदृष्टिर् महाबलः ॥७०॥वज्रस्य सेवया योग्यो भवेद्वज्राभ्रभक्षणे ।वज्राभ्ररसायनम्पूर्ववन्मारयेद्व्योम वज्रं वज्राच्चतुर्गुणम् ॥७१॥घनं धात्र्याः शतावर्या रसैर् भाव्यं त्रिसप्तधा ।यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां लिहेदनु ॥७२॥धात्रीशतावरीनीरं क्रामणं पलमात्रकम् ।चतुर्गुञ्जा परा वृद्धिर्भवेत्षोडशमासतः ॥७३॥वाक्सिद्धिर् दिव्यदृष्टिः स्याद्देवतासदृशप्रभः ।सेवया घनवज्रस्य कान्तवज्रार्हको भवेत् ॥७४॥कान्तवज्ररसायनम्पूर्ववद्भस्मयेद्वज्रं कान्तं वज्राच्चतुर्गुणम् ।कान्तं त्रिसप्तधा भाव्यमश्वगन्धावरारसैः ॥७५॥यवमात्रं क्षौद्रघृतैर्युक्तं लेह्यं दिनोदये ।अश्वगन्धावराचूर्णं कर्षं गोपयसा पिबेत् ॥७६॥चतुर्गुञ्जावधिर्ज्ञेया वृद्धिः स्यात्परमावधिः ।मासषोडशयोगेन बालसूर्यसमद्युतिः ॥७७॥महाबलो महातेजा वाक्सिद्धः सिद्धतां व्रजेत् ।सेवया वज्रकान्तस्य वज्रकान्ताभ्रकार्हकः ॥७८॥वज्राभ्रकरसायनम्पूर्ववन्मारयेद्वज्रं कान्ताभ्राणि च हीरकात् ।चतुर्गुणे च कान्ताभ्रे वराभृङ्गकुरण्डजैः ॥७९॥रसैस्त्रिसप्तधा भाव्यं यवमात्रं लिहेत्प्रिये ।समध्वाज्यं भृङ्गवराकुरण्डकरजोयुतम् ॥८०॥पलं पिबेच्च गोक्षीरं चतुर्गुञ्जापरावधिः ।मासषोडशयोगेन गृध्रदृष्टिर् महाबलः ॥८१॥अव्याहतगतिर्धीरः सिद्धसंघेन वर्तते ।कान्ताभ्रवज्रभजनाद्योग्यः स्याद्धेमवज्रयोः ॥८२॥स्वर्णवज्ररसायनम्पूर्ववन्मारयेद्वज्रं स्वर्णं वज्राद्द्विभागकम् ।सुवर्णवज्रं वर्षाभूरसैर्भाव्यं त्रिसप्तधा ॥८३॥व्रीहिमेयं लिहेत्क्षौद्रघृताभ्यां च पुनर्नवाम् ।कर्षं पलं च गोक्षीरमनुपेयं सुरेश्वरि ॥८४॥द्विगुञ्जावधि वृद्धिः स्यान्मासषोडशयोगतः ।चिरकालं भवेज्जीवी वलीपलितवर्जितः ॥८५॥वज्रहेमोपयोगेन स्वर्णाभ्रकुलिशार्हकः ।स्वर्णाभ्रवज्ररसायनम्पूर्ववद्भस्मयेद्धेमघनवज्राणि पार्वति ॥८६॥हीरकाद् द्विगुणं स्वर्णं स्वर्णादभ्रं द्विभागकम् ।मुसलीकन्दसारेण भावनीयं त्रिसप्तधा ॥८७॥यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ।कर्षं स्यान्मुसलीचूर्णं गोक्षीरं पलमात्रकम् ॥८८॥चतुर्गुञ्जावधिर् वृद्धिर्मासषोडशयोगतः ।मृत्युं जयेज्जराहीनो वज्रकायो महाबलः ॥८९॥एतस्य सेवया वज्रहेमकान्तार्हको भवेत् ।स्वर्णवज्रकान्तरसायनम्वज्रकान्तसुवर्णानि पूर्ववन्मारितानि च ॥९०॥वज्रात्सुवर्णं द्विगुणं स्वर्णात्कान्तं द्विभागकम् ।धात्रीभृङ्गरसैर्मर्द्यमेकविंशतिवारकम् ॥९१॥यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ।धात्रीभृङ्गभवं चूर्णं कर्षं गोदुग्धकं पलम् ॥९२॥गुञ्जाचतुष्टयी वृद्धिर्मासषोडशयोगतः ।वलीपलितनिर्मुक्तो दिव्यतेजा महाबलः ॥९३॥एतस्य सेवया कान्तस्वर्णवज्राभ्रकार्हकः ।स्वर्णकान्तवज्राभ्रकरसायनम्भस्मयेत् स्वर्णकान्ताभ्रवज्राणि च यथोक्तवत् ॥९४॥ज्योतिष्मतीरसैर् भाव्यमेकविंशतिवारकम् ।यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ॥९५॥अश्वगन्धाकन्दचूर्णं कर्षं गोदुग्धकं पलम् ।गुञ्जाचतुष्टयी वृद्धिः परमावधिरीश्वरि ॥९६॥मासषोडशयोगेन साक्षादिन्द्रसमो भवेत् ।एतस्य सेवया देवि रसं सेवितुम् अर्हति ॥९७॥रसभस्मधान्याभ्रं पारदं मर्द्यं तप्तखल्वे दिनत्रयम् ।त्रिफलारग्वधनिशाकुमारीकृष्णधूर्तजैः ॥९८॥पुनर्नवाग्निजंबीरभवैर् नीरैर् विमर्दयेत् ।पातयेत्पातनायन्त्रे त्वेवं मर्दनपातनम् ॥९९॥कुर्यात्त्रिवारं शुद्धः स्यात्पारदो दोषवर्जितः ।नियामकैर्मर्दयेत्तं मूषालेपं नियामकैः ॥१००॥कृत्वा तं मर्दितं सूतं मूषायां निक्षिपेत्सुधीः ।अन्ध्रयित्वा भूधराख्ये यन्त्रे पाच्यं सुरेश्वरि ॥१०१॥एवं च सप्तधा कुर्यान्मर्दनं पुटपाचनम् ।रसभस्म भवेच्छुभ्रं योज्यं योगे रसायने ॥१०२॥आरोटकरसाः॑ अभ्रकजीर्णरसभस्मअथ चारोटकरसं देहसिद्ध्येककारणम् ।माषमात्रं लिहेत्प्रातर् मध्वाज्यत्रिफलैः सह ॥१०३॥धारोष्णं गोपयः पेयं मात्रमनु प्रिये ।अष्टगुञ्जावधिं वृद्धिं कृत्वा षोडशमासकम् ॥१०४॥वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ।एतस्य सेवया देवि ह्यभ्रसूतार्हको भवेत् ॥१०५॥मुखीकृते रसे देवि चतुःषष्टिकनिष्कके ।अभ्रसत्वं निष्कमात्रं क्षिप्त्वा जम्बीरजैर्द्रवैः ॥१०६॥तप्तखल्वे मर्दयेच्च दिनं कच्छपयन्त्रके ।सबिडं च पचेत्पश्चात्तमादाय विमर्दयेत् ॥१०७॥अभ्रसत्वं द्विनिष्कं च जम्बीराम्लेन पार्वति ।तप्तखल्वे कच्छपाख्ये यन्त्रे पचनकर्म च ॥१०८॥तृतीये च चतुर्निष्कं चतुर्थे पञ्चमे क्रमात् ।अष्टनिष्काभ्रसत्वं च दद्यात्पञ्चमपातने ॥१०९॥घनषोडशनिष्कं च षष्ठे द्वात्रिंशदंशकम् ।सत्त्वं सप्तमे स्यात्सममेव हि पार्वति ॥११०॥पारदेऽभ्रकसत्वस्य जारणा भवति प्रिये ।एवं जारितसूतेन्द्रं भस्मीकुर्याच्च पूर्ववत् ॥१११॥पलं चैतत्सूतभस्म व्योमसत्वं चतुष्पलम् ।भृङ्गराजद्रवैर् मर्द्यं मूषायामन्धयेद्दृढम् ॥११२॥कुक्कुटाख्ये पुटे पच्यात्स्वाङ्गशीतं समाहरेत् ।त्रिफलाभृङ्गजैर् नीरैर् भावयेत्तत्त्रिसप्तधा ॥११३॥मध्वाज्याभ्यां गुञ्जमात्रं लिहेत्प्रातर्विशुद्धधीः ।पिबेदनु वराक्वाथं पलं नियतमानसः ॥११४॥गुञ्जाषोडशिका वृद्धिः सेव्यं षोडशमासतः ।आचन्द्रतारकं जीवेद्वलीपलितवर्जितः ॥११५॥एतस्य सेवया कान्तसूतसेवार्हको भवेत् ।कान्तजीर्णरसभस्ममुखीकृते सूतराजे यथाभूदभ्रजारणा ॥११६॥तथैव कान्तसत्वस्य जारणा भवति प्रिये ।मारयेत् पूर्ववत्सूतं कान्तसत्वेन जारितम् ॥११७॥एवंविधं सभस्म भागमेकं भवेत्पुनः ।चतुर्भागं कान्तभस्म मर्दयेत्त्रिफलाम्बुना ॥११८॥मूषायाम् अन्ध्रयेत् पश्चात्पचेत्कौक्कुटिके पुटे ।तमादाय वरानीरैर् भावयेच्च त्रिसप्तधा ॥११९॥मध्वाज्याभ्यां लिहेद्गुञ्जामात्रं प्रातरतन्द्रितः ।अनुपेयं च गोक्षीरं पलमात्रं सुरेश्वरि ॥१२०॥गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ।दिव्यदृष्टिं खेचरत्वं प्राप्नुयाद् ऐन्द्रकं पदम् ॥१२१॥एतस्य सेवया सूतघनकान्तार्हको भवेत् ।मुखीकृतरसे कुर्यात्पूर्ववद्व्योमजारणम् ॥१२२॥कान्ताभ्रकजीर्णरसभस्मसमं सूतस्य देवेशि पश्चात्कार्यं विचक्षणैः ।पूर्ववत्कान्तसत्वस्य जारणा सूतराट्समा ॥१२३॥कान्तसत्वाभ्रसत्वाभ्यां जारितः पारदो यदि ।स रसः पक्षहीनः स्याच्चाञ्चल्यरहितः शिवः ॥१२४॥तं रसं पूर्ववद् दिव्यैर् औषधैर् मारितं रसम् ।पलं तद्द्विगुणं व्योमसत्वभस्म च तत्समम् ॥१२५॥भस्म वैक्रान्तसत्वस्य मर्द्यमेवं त्रयं त्रिधा ।भृङ्गधात्रीफलरसे ततो लघुपुटे पचेत् ॥१२६॥भृङ्गधात्रीफलरसैश्छायायां भावयेद्रसम् ।त्रिफलामधुसर्पिर्भिर् गुञ्जामात्रं लिहेदनु ॥१२७॥पिबेत्पलं च गोक्षीरं वृद्धिः षोडशगुञ्जिका ।मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥१२८॥एतस्य सेवया सूतस्वर्णसेवार्हको भवेत् ।स्वर्णजीर्णरसभस्महेमजीर्णं सूतराजं भस्मीकुर्याच्च पूर्ववत् ॥१२९॥एवंविधं सूतभस्म पलं स्वर्णपलद्वयम् ।भृङ्गधात्रीफलरसैश्छायायां भावयेत्त्रिधा ॥१३०॥रुद्ध्वा तं संपुटे पच्यात्कुक्कुटाख्ये पुटे पचेत् ।पुनस्त्रिसप्तधा भृङ्गधात्रीनीरैश्च भावयेत् ॥१३१॥माषमात्रं लिहेत् प्रातर् मध्वाज्याभ्यां युतं रसम् ।अनुपेयं च गोक्षीरं वृद्धिः षोडशमाषकम् ॥१३२॥मासषोडशयोगेन देवतुल्यश्चिरायुषः ।सेवया स्वर्णसूतस्य घनहेमरसार्हकः ॥१३३॥स्वर्णाभ्रकजीर्णरसभस्ममुखीकृतरसे चाभ्रसत्वं जार्यं समं पुरा ।ततः स्वर्णं समं जार्यं तं सूतं भस्मयेत्ततः ॥१३४॥पूर्वोक्तवत्सूतभस्म पलं स्वर्णपलद्वयम् ।चतुष्पलं व्योमसत्वभस्म चैकत्र योजयेत् ॥१३५॥नीलीपत्ररसे मर्द्यं वराक्वाथे दिनं प्रिये ।रुद्ध्वा तं संपुटे पच्यादन्यैर् विंशतिगोमयैः ॥१३६॥नीलीरसवराक्वाथैर् भावयेत्तं त्रिसप्तधा ।गुञ्जोन्मेयं लिहेत्कल्ये मध्वाज्याभ्यां पिबेदनु ॥१३७॥पलमात्रं वराक्वाथं वृद्धिः षोडशगुञ्जिका ।मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥१३८॥एतस्य सेवया कान्तहेमसूतार्हको भवेत् ।स्वर्णकान्तजीर्णरसभस्मसमुखे पारदे कान्तसत्वं जार्यं यथोक्तवत् ॥१३९॥जारयेच्च तथा स्वर्णं द्वाभ्यां जीर्णं समं समम् ।विधिना भस्मयेत्सूतं कान्तहाटकजारितम् ॥१४०॥तं रसं पलमेकं च हेमभस्म पलद्वयम् ।चलं कान्तसत्वभस्म युञ्ज्याद्यथाविधि ॥१४१॥शतावरीवरानीरे दिनं संमर्द्य संपुटे ।रुद्ध्वा तं कुक्कुटपुटे पचेदादाय तं रसम् ॥१४२॥त्रिः सप्तधा शतावर्या रसैर्भाव्यं वरारसैः ।गुञ्जामात्रं घृतक्षौद्रयुक्तं लेह्यं पिबेदनु ॥१४३॥शतावरीरसः पेयः पलमात्रं सुरेश्वरि ।गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ॥१४४॥वलीपलितनिर्मुक्तः प्रलयान्तं च जीवति ।एतस्य सेवया स्वर्णकान्ताभ्ररसभुग् भवेत् ॥१४५॥स्वर्णकान्ताभ्रजीर्णरसभस्मघनकान्तसुवर्णानि चैकैकानि समानि वै ।मुखीकृतस्य सूतस्य जारयेत्क्रमशः प्रिये ॥१४६॥घनादिजारितं सूतं मारयेत्पूर्ववत्सुधीः ।तस्माद्भस्मीकृतात् सूताद् द्विगुणं हेमभस्म च ॥१४७॥हेमतुल्यं मृतं कान्तं कान्ततुल्यं मृतं घनम् ।एतत् सर्वं वराक्वाथमुण्डीभृङ्गरसैर् दिनम् ॥१४८॥मर्दयेत्संपुटे रुद्ध्वा पचेत्कौक्कुटिके पुटे ।तदादाय वराभृङ्गमुण्डिनीरैश्च भावयेत् ॥१४९॥त्रिः सप्तवारं छायायां प्रातर्गुञ्जोन्मितं लिहेत् ।शर्करामधुसर्पिर्भिर् अनुपेयं च गोपयः ॥१५०॥गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ।वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥१५१॥एतस्य सेवया सूतवज्रसेवार्हको भवेत् ।वज्रजीर्णरसभस्मसमुखे पारदे कुर्यात्पूर्ववद्वज्रजारणाम् ॥१५२॥वज्रजीर्णं रसं देवि भस्मीकुर्याच्च पूर्ववत् ।भस्मीभूतरसाद् वज्रभस्म च द्विगुणं प्रिये ॥१५३॥कन्याभृङ्गवरानीरैर् दिनं मर्द्यं च संपुटे ।कुक्कुटाख्ये पुटे पच्यात्तमादायाथ भावयेत् ॥१५४॥कन्याभृङ्गवरानीरैर् भावयेच्च त्रिसप्तधा ।यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ॥१५५॥गोक्षीरं पलमात्रं तु वृद्धिर्गुञ्जाचतुष्टयम् ।मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥१५६॥एतस्य सेवया वज्रसूतव्योमार्हको भवेत् ।वज्राभ्रकजीर्णरसभस्मघनजीर्णं वज्रजीर्णं भस्मीकुर्याद्रसं सुधीः ॥१५७॥भस्मीभूताद् रसाद्वज्रं द्विगुणं व्योमभस्म च ।चतुर्गुणं च तत्सर्वमेकीकृत्य विमर्दयेत् ॥१५८॥वराक्वाथे रसैर्दिनं संपुटके पचेत् ।कृते लघुपुटे पश्चाद्भाव्यं भृङ्गवरारसैः ॥१५९॥त्रिसप्तधा समध्वाज्यं माषमात्रं पिबेदनु ।गव्यं क्षीरपलं पेयं वृद्धिर्गुञ्जाष्टकावधिः ॥१६०॥एवं षोडशमासेन जीवेदाचन्द्रतारकम् ।एतस्य सेवया कान्तवज्रसूतार्हको भवेत् ॥१६१॥कान्तवज्रजीर्णरसभस्मकान्तं वज्रं समं जार्यं समुखे पारदे प्रिये ।कान्तहीरकजीर्णं तं पारदं मारयेत्सुधीः ॥१६२॥पूर्वोक्तविधिना कान्ते एतत्पारदभस्म च ।पारदाद्द्विगुणं वज्रं वज्रात्कान्तं चतुर्गुणम् ॥१६३॥पलाशपुष्पस्वरसैर्दिनं मर्द्यं च संपुटे ।रुद्ध्वा कुक्कुटके पश्चात्तमादायाथ भावयेत् ॥१६४॥पलाशपुष्पनीरेण भावयेत्तं त्रिसप्तधा ।समध्वाज्यं माषमात्रं लिहेदनु पिबेत्पयः ॥१६५॥अष्टगुञ्जावधिर् वृद्धिर् भवेत्षोडशमासतः ।वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥१६६॥एतस्य सेवया वज्ररसकान्ताभ्रकार्हकः ।कान्तवज्राभ्रकजीर्णरसभस्मसमुखे पारदे व्योमकान्तवज्राणि च क्रमात् ॥१६७॥समानि जारयेत्पश्चाज्जीर्णं तं मारयेद्रसम् ।पूर्ववत्पारदाद्वज्रं समं वज्रचतुर्गुणम् ॥१६८॥कान्तं कान्तसमं व्योमसत्वं चैतानि मर्दयेत् ।त्रिफलाभृङ्गजरसै रुद्ध्वा संपुटके पचेत् ॥१६९॥लघुनाग्निपुटेनैव तमादायाथ भावयेत् ।वराभृङ्गरसैर् एकविंशतिं वारमातपे ॥१७०॥माषमात्रं समध्वाज्यं लिहेत्प्रातर्विशुद्धधीः ।अनुपेयं च गोक्षीरं वृद्धिर्गुञ्जाष्टकं भवेत् ॥१७१॥मासषोडशयोगेन जीवेदाचन्द्रतारकम् ।एतस्य सेवया हेमवज्रसूतार्हको भवेत् ॥१७२॥स्वर्णवज्रजीर्णरसभस्मसमुखे पारदे तुल्ये हेम वज्रं च जारयेत् ।तं रसं भस्मयेद्देवि रसं वज्रं समं समम् ॥१७३॥तयोः समं मृतं हेम वराक्वाथेन मर्दयेत् ।तत्सर्वं संपुटे क्षिप्त्वा भूधराख्ये पुटे पचेत् ॥१७४॥तमादाय वराक्वाथैर्भावयेच्च त्रिसप्तधा ।माषमात्रं लिहेत्प्रातस्तिलाज्यमधुसंयुतम् ॥१७५॥गोक्षीरमनुपेयं स्यादष्टगुञ्जावधि क्रमात् ।मासषोडशपर्यन्तं जीयाद् आचन्द्रतारकम् ॥१७६॥एतस्य सेवया व्योमहेमवज्ररसार्हकः ।स्वर्णवज्राभ्रकजीर्णरसभस्मसमुखे पारदे व्योमहेमवज्राणि जारयेत् ॥१७७॥पारदस्य समांशानि ततः सूतं विमारयेत् ।रसतुल्यं मृतं वज्रं तयोस्तुल्यं च हाटकम् ॥१७८॥सर्वतुल्यं रसं व्योम तत्सर्वं ब्रह्मबीजकैः ।तैलैस्त्र्यहं पेषयित्वा संपुटेद्भूधरे पुटे ॥१७९॥तं पलाशकषायेण भावनाश्चैकविंशतिः ।तं रसं माषमात्रं च तैलं ब्रह्मद्रुबीजकम् ॥१८०॥कर्षमात्रं पिबेच्चानु यावद्गुञ्जाष्टकावधि ।मासषोडशयोगेन सिद्धो भवति शाश्वतः ॥१८१॥एतस्य सेवया कान्तहेमवज्ररसार्हकः ।स्वर्णकान्तवज्रजीर्णरसभस्ममुखीकृते सूतराजे कान्तं स्वर्णं समं समम् ॥१८२॥जारयेद्भस्मयेत्तं च तत्समं वज्रभस्म च ।तयोस्तुल्यं मृतं हेम कान्तं सर्वसमं प्रिये ॥१८३॥वराभृङ्गरसे पिष्ट्वा भूधरे संपुटे पचेत् ।ततो भृङ्गवरानीरैरेकविंशतिभावनाः ॥१८४॥वराक्षौद्रैर् लिहेत् प्रातर्माषमात्रं रसं सुधीः ।गव्यं पयः पलं पेयं वृद्धिः षोडशमाषिका ॥१८५॥मासषोडशयोगेन भवेत् सिद्धसमः प्रभुः ।एतस्य सेवया व्योमकान्तहेमपवीरसम् ॥१८६॥सेवितुं जायतेऽर्होऽसौ संयतात्मा महेश्वरः ।स्वर्णकान्तवज्राभ्रकजीर्णरसभस्मघनकान्तस्वर्णवज्रं जारयेत् समुखे रसे ॥१८७॥प्रत्येकं पारदसममेव कार्यं सुरेश्वरि ।ततस्तं मारयेद्युक्त्या रसतुल्यं मृतं पविम् ॥१८८॥तयोस्तुल्यं मृतं हेम सर्वतुल्यं मृतं घनम् ।घनतुल्यमयस्कान्तं सर्वतुल्यं सुरद्रुजैः ॥१८९॥तैलैस्ततः संपुटे च क्षिप्त्वा भूधरके पचेत् ।गुञ्जामात्रं रसं चैतं लिहेत् प्रातः शुचिः सुधीः ॥१९०॥देवदारुजतैलेन कर्षमात्रं तु पार्वति ।धारोष्णं गोपयः पेयं पलमात्रमनु प्रिये ॥१९१॥गुञ्जाषोडशपर्यन्तं मासषोडशयोगतः ।य इमं पारदं दिव्यं सेवते पथ्यभुक्सदा ॥१९२॥व्याधिजन्मजरामृत्युवर्जितः सर्वसिद्धिभाक् ।सर्वज्ञः सर्वगः सिद्धः सृजतीव पितामहः ॥१९३॥विष्णुवत्त्रायते विश्वं हरतीव हरः स्वयम् ।वाञ्छितार्थान् स्वयं दत्ते कल्पद्रुम इवापरः ॥१९४॥कन्दर्प इव कामाक्षीः सहस्रं रमयेत् क्षणात् ।सच्चिदानन्दरूपोऽयं रससेवी भवेद्ध्रुवम् ॥१९५॥घनादिपञ्चयोगोत्थमेकत्रिंशद्रसायनम् ।भवत्स्नेहेन कथितं रहस्यं देवदुर्लभम् ॥१९६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP