संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग १६ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग १६ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग १६ Translation - भाषांतर १. अङ्कोलकल्पःअथ ब्रवीम्यहं देवि कल्पमङ्कोलबीजकम् ।चतुर्भिः साधकैर् धीरैर्विशुद्धैः शुद्धिकाङ्क्षिभिः ॥१॥समवेतः साधकेन्द्रैः पुण्यर्क्षेष्वारभेच्च तत् ।अङ्कोलमूलं वितृणं कृत्वा संमार्ज्य शोधनम् ॥२॥तत्र लिङ्गं च संस्थाप्य तदग्रे स्थापयेद्घटम् ।एकसूत्रेण बध्नीयाल्लिङ्गाङ्कोलघटान् प्रिये ॥३॥गन्धपुष्पादिभिः पूजामघोरेण प्रकल्पयेत् ।प्रतिमासं दिवा नक्तं पुष्पादि फलितावधि ॥४॥गृहीत्वा तत्फलं पक्वं पूरयेत्तद्घटं फलैः ।योगिनीभैरवीप्रीत्यै महापूजां विधाय च ॥५॥आनीय तद्घटं गेहे शोषयेदातपे फलम् ।वितुषाणि च बीजानि कुर्यात् तन्मुखघर्षणम् ॥६॥कुर्यात्ततो विशालास्ये पात्रे मृच्चूर्णलेपनम् ।एकैकशश्चोर्ध्वमुखं रोपयेद्भुजगाकृति ॥७॥ततस्तु टङ्कणं तद्वत् तत्तद्वक्त्रेषु लेपयेत् ।तत्पात्रं कांस्यपात्रे च स्थापयेत् तदधोमुखम् ॥८॥आतपे धारयेद्धीमान्पललैश्च तिरोदधेत् ।दिने दिने च्युतं तैलं गृह्णीयाद्दिनपञ्चकम् ॥९॥तत्तैलं काचकूप्यन्तः स्थापयेच्च समन्त्रकम् ।अर्धमात्राङ्कोलतैलं द्विगुणं तिलतैलकम् ॥१०॥नासारन्ध्रद्वये नस्यं जरामृत्युविनाशनम् ।स जीवेत्त्रिशतं वर्षं सर्वामयविवर्जितः ॥११॥रोगादिजलपाशाद्यैर् भ्रमाद्यैश्च विषेण च ।गतासूनां नृणां नस्यं कुर्यात्पुंशुक्लमिश्रितम् ॥१२॥मृतसूतं च तैलं ते जीवन्ति च न संशयः ।मृतसंजीवनी विद्या पूर्वोक्ता कथितानघे ॥१३॥अन्ये रसायनकल्पाःएलाभया वचा काकतुण्डीफलमरुष्करः ।सहदेवी निम्बपत्रं लाङ्गलीकन्दमेव च ॥१४॥समांशं शोषयेद्यन्त्रे पाताले तैलमाहरेत् ।तत्तैलं नस्यमादद्यात्सप्ताहान्तरितं प्रिये ॥१५॥एवं वर्षे कृते नस्ये सहस्रायुर्भवेन्नरः ।नीलिकामूलसंयुक्तं तैलं चार्धपलं पिबेत् ॥१६॥वत्सराज्जायते सिद्धो वलीपलितवर्जितः ।जीवेद्ब्रह्मदिनं त्र्यब्दाद्वायुवेगो महाबलः ॥१७॥भृङ्गीरसं कृष्णजीरं प्रस्थं प्रस्थं प्रकल्पयेत् ।नीलोत्पलं च मधुकं प्रस्थार्धं च पृथग्भवेत् ॥१८॥तिलतैलं पञ्चपलं पाचयेत्सर्वमेकतः ।तैलावशिष्टं तत्तैलं जरा मृत्युश्च नश्यति ॥१९॥अर्धनिष्कं चैकनिष्कं सार्धनिष्कं क्रमेण च ।तैलप्रमाणमित्युक्तम् अब्दाञ्जीवेच्छतत्रयम् ॥२०॥इष्टिकाक्षिपलं क्षिप्त्वा कर्षैकमुदकैः पिबेत् ।वत्सरात्पलितं हन्ति सहस्रायुर्भवेन्नरः ॥२१॥सर्पाक्षी काकमाची च सहदेवी च भृङ्गराट् ।काकतुण्डीफलं निम्बं पर्णं वाकुचिबीजकम् ॥२२॥समूलां देवदालीं च ब्राह्मीमूलं फलत्रयम् ।मूलं च वाजिगन्धाया नीलकोरण्डपत्रकम् ॥२३॥समं समं कन्यकाया द्रवैश्च परिभावयेत् ।सप्ताहं शोषयेच्चूर्णं छायायां त्रिमधुप्लुतम् ॥२४॥द्विकर्षं प्रत्यहं सेव्यं वत्सरेण जरां जयेत् ।आ चन्द्रतारकं जीवेन्महाबलयुतः सुखम् ॥२५॥महाकामेश्वरकल्पःचातुर्जातकचोरचन्दनजलद्राक्षातुगारेणुकं कस्तूरीतगरेन्दुकुङ्कुमजटाकुष्ठाश्वगन्धाब्दकम् ।कङ्कोलामरदारुचित्रकविषं द्वे जीरके सैन्धवं भार्ङ्गीगोक्षुरदेवपुष्पमुसलीयष्टीबलाफेनकम् ॥२६॥रंभाकन्दफलत्रयं त्रिकटुकं जातीफलं वाशकं तालीशं कटुकीफलं गजकणा माषामृताशर्करा ।पिच्छाभृङ्गविदारिकामदनकं बीजं च कच्छूद्भवं शाल्मल्यङ्घ्रिपुनर्नवागरुशतावर्यप्यथो दीप्यकम् ॥२७॥पादांशं मृतमभ्रकं च विजया तुल्यौषधानां समा सर्वेषां सदृशा सिता च मधुना चाज्येन संयोजिता ।जातीचम्पककेतकादिकुसुमैः सेवेत संवासितं कर्षार्धं निशि देहसिद्धिदमहाकामेश्वरः कामदः ॥२८॥पुंसां शुक्रविवृद्धिदार्ढ्यकरणे क्षीरानुपानं हितं शाल्मल्यङ्घ्रिजलानुपानम् अथवाप्यन्यच्च यच्छुक्रलम् ।प्रौढानां सुदृशां सुखातिसुखदो वश्यो महाद्रावकः सङ्गे भङ्गुरकामकौतुकरसः क्रीडाकलामोददः ॥२९॥संभोगे स्थविराग्नियोषिति मदे यूनां स्मरे दर्पहा नित्यानन्दनिदानम् आदिपुरुषैर् अप्याहितास्वादनः ।वाचां सिद्धिकरः प्रकृष्टकवितासंदर्भसंपादनः सौख्यारोग्यविशेषयौवनकलासामग्र्यसंधायकः ॥३०॥वृद्धत्वं हरते बलं च कुरुते मृत्युं निरस्येत्परं व्याधिव्रातम् अपाकरोति कुरुते कान्तिं नयत्यार्जवम् ।योगाभ्यासविधौ रतस्य सुलभा सिद्धिं विधत्तेतराम् अंहः संततिसंहृतिं कलयते स्त्रीणाम् अपत्यप्रदः ॥३१॥रोगाणां निचयं क्षयं क्षपयति क्षिप्रं महारुद्गणं व्याहन्ति श्वसनं लयं गमयते छिन्ते च कासोदयम् ।दुर्नामानि च षड्भिनत्ति हरते सर्वार्तिरोगोल्बणं मेहौघं च लुनाति शोणितदरं विध्वंसते सेवनात् ॥३२॥क्षीणे पोषमुपादधाति विपुलं पूर्णातिजीर्णोज्ज्वलं मन्दाग्निं ग्रहणीं निकृन्ततितरां दोषानशेषानपि ।श्रेष्ठः सर्वरसायनेषु विदुषां भोगार्थिनां योगिनां सिद्धिं सम्यगिहातनोति वपुषः संसेवनाद् अन्वहम् ॥३३॥मूलिकाकल्पेषु रसाभ्रकादिमेलनातिदेशःमहावृक्षादिकल्पेषु प्रोक्तेष्वेतेषु साधकैः ।एष साधारणो योगः कर्तव्यः सिद्धिकाङ्क्षिभिः ॥३४॥गुञ्जामात्रं शुद्धसूतं वाभ्रकं वा पणद्वयम् ।कान्तलोहं तथैवोपयोजयेद् भक्षयेन्नरः ॥३५॥रसाभ्रलोहयोगेन सद्यः सिद्धिमवाप्नुयात् ।जीवहीनो यथा देहो गन्धहीनं प्रसूनकम् ॥३६॥तथैव मूलिकाकल्पा रसहीना न सिद्धिदाः ।तस्माद्रसेन सहिताः सद्यः सिद्धिप्रदायकाः ॥३७॥अभ्यङ्गरसायनम्॑ महानीलीतैलम्महानीलीरसं प्रस्थं प्रस्थं भृङ्गरसं प्रिये ।धात्रीफलरसं प्रस्थं काकतुण्डीफलोद्भवम् ॥३८॥प्रस्थं कषायतिलजं तैलप्रस्थं च गोपयः ।आढकं योजयेत्सर्वं काकतुण्डीफलं पलम् ॥३९॥त्रिपलं चामलं भृङ्गनीलीपत्ररजः पलम् ।पिष्ट्वा तस्मिन् क्षिपेत् सर्वं पचेन्मन्दाग्निना प्रिये ॥४०॥तैलावशिष्टं विपचेत्ततो वस्त्रेण शोधयेत् ।तैलेनानेन चाभ्यज्य शिरोऽभ्यङ्गं समाचरेत् ॥४१॥प्रत्यहं कर्णपूरं च एवं कुर्याद्रसायनम् ।केशा भ्रमरसङ्काशाः श्रोत्रं दिगन्तपाटवम् ॥४२॥जत्रूर्ध्वरोगा नश्यन्ति तथा पादहितं भवेत् ।चन्दनाद्यं तैलम्चन्दनागरुकर्पूरकस्तूरीकुङ्कुमं तथा ॥४३॥उशीरद्वयकङ्कोलजातीफललवङ्गकम् ।नलिकानलदास्पृक्कातुरुष्कस्थाणुलोचनम् ॥४४॥हरेणुस्तगरं लाक्षा नखं स्थौणेयकं मुरा ।नलदामलकं कुष्ठं चोरकं कटुकीफलम् ॥४५॥प्रपौण्डरीकं खर्जूरं पद्मकं जातिपत्त्रिका ।शैलेयं धातकीपुष्पं सरलं चैलवालुकम् ॥४६॥पूगीफलं सप्तपर्णं तथा तामलकं प्रिये ।एकैकं कर्षमात्रं स्यात्प्रस्थं तैलं च गोपयः ॥४७॥आढकं तत्पचेत्सर्वं तैलशेषं समाहरेत् ।तस्मिन् मृगाण्डं कस्तूरीं कर्पूरं कुङ्कुमं क्षिपेत् ॥४८॥पृथक्कर्षं च जात्यादिकुसुमैर् वासयेद्बुधः ।तेनाभ्यङ्गम् अधःकाये कुर्याद् दौर्गन्ध्यनाशनम् ॥४९॥अशीतिवर्षदेशीयो ऽप्यसौ स्यात् षोडशाब्दकः ।कामिनीलोककन्ददर्पः सुभगः शुक्लवृद्धिमान् ॥५०॥योषिच्छतं च रमते स जीवेच्छरदः शतम् ।उद्वर्तनरसायनम्अथोद्वर्तनमाख्यामि वलीपलितभञ्जनम् ॥५१॥सूतं गन्धं समं मर्द्यं स्तनदुग्धेन योषितः ।मुण्डिका मेघनादश्च विष्णुक्रान्ता मुनिस्तथा ॥५२॥सर्पाक्षी च द्रवैरासां दिनमेकं विमर्दयेत् ।एतद्दशगुणं क्षारस्तिलस्य च यवस्य च ॥५३॥एतत्सर्वं समध्वाज्यमनेनोद्वर्तनं वपुः ।वलीपलितनाशः स्याद् वर्षात् त्रिशतवत्सरः ॥५४॥जीवेद्दिव्यवपुर् भूत्वा साधको नात्र संशयः ।सनालमुत्पलं सूतं सप्ताहं परिमर्दयेत् ॥५५॥आत्मीयशिवतोयेन ततश्चाङ्गं विमर्दयेत् ।वत्सराज्जायते सिद्धिः पूर्ववद् दिव्यविग्रहः ॥५६॥शिवांभसा च सूतेन्द्रं ब्रह्मदण्डीयमूलकम् ।मर्दयेत्सप्तदिवसं सम्यग्देवि विमर्दयेत् ॥५७॥वत्सराज्जायते सिद्धिः पूर्ववद्दिव्यविग्रहः ।कटुतैलेन सुरभिं भावयेद्दिनसप्तकम् ॥५८॥पलार्धं भक्षयेन्नित्यं वर्षाद् वज्रवपुर् भवेत् ।त्रिशतायुःस्वर्णवर्णो वलीपलितवर्जितः ॥५९॥समध्वाज्यं कुष्ठचूर्णं कर्षं प्रातर्लिहेन्नरः ।शतपुष्पसुगन्धाङ्गो जीवेद्वलिविवर्जितः ॥६०॥केशरञ्जनकल्पाःकाकतुण्डीफलं कान्तचूर्णमाम्राण्डतैलकम् ।आलोड्य भाण्डे निक्षिप्य मासं धान्यमये क्षिपेत् ॥६१॥उद्धृत्य लेपयेच्छीर्षं नस्यकर्मामुना भवेत् ।त्र्यहात् केशाः सुनीलाः स्युः षण्मासात् केशरञ्जनम् ॥६२॥हरीतकी निष्कमेकं द्विपलं कान्तचूर्णकम् ।पलमेकं नागचूर्णमम्लदध्ना प्रमर्दयेत् ॥६३॥अभ्यक्तो निक्षिपेन्मूर्ध्नि मर्दयेन्नाडिकार्धकम् ।एरण्डपत्रैः संवेष्ट्य पुनर्वस्त्रेण बन्धयेत् ॥६४॥स्नायात्पुनश्च त्रिदिनं पूर्ववत्केशरञ्जनम् ।समूलौ नीलिकाभृङ्गावयश्चूर्णं वरासमम् ॥६५॥चूर्णमेडकमूत्रेण दिनमेकं च भावयेत् ।स्नानादि पूर्ववत्कृत्वा पूर्ववत्केशरञ्जनम् ॥६६॥निस्त्वग्गुञ्जाफलं चैला देवदारु च कुष्ठकम् ।समं चूर्णं भृङ्गरसैर् भाव्यम् एकदिनं प्रिये ॥६७॥अन्यच्चूर्णं तैलं पचेन्मृद्वग्निना बुधः ।यस्य तैलघृताभ्यङ्गात्केशा भ्रमरसन्निभाः ॥६८॥हस्तिदन्तस्य दग्धस्य समभागं रसाञ्जनम् ।छागीदुग्धेन संपेष्य लेपनात्केशरञ्जनम् ॥६९॥कृष्णमृत्त्रिफलाभृङ्गरसायश्चूर्णकं समम् ।आलोड्यैनं समं भाण्डे मासमेकं निरोधयेत् ॥७०॥तल्लेपाच्चिकुराः कृष्णा भवेयुः पञ्चमासतः ।धात्रीफलं जपापुष्पं किट्टं पिष्ट्वा च मूर्धनि ॥७१॥लेपयेत्त्रिदिनं तेन केशाः स्युर् भ्रमरोपमाः ।चूर्णं सिन्दूरसदृशं तयोस्तुल्या च सांब्रणिः ॥७२॥पिष्ट्वांभसा प्रलेपेन तत्क्षणात् केशरञ्जनम् ।गोरोचनं कृष्णतिलान् शतपुष्पां शिवांबुना ॥७३॥काकमाचीमिदं सर्वमयःपात्रे विमर्दयेत् ।तेनैव दिवसादूर्ध्वं केशरञ्जनमुत्तमम् ॥७४॥चूर्णं सिद्धार्थकं सर्जो यवक्षारं च काञ्जिकैः ।नागपुष्परसैः पेष्यं लेपनं केशरञ्जनम् ॥७५॥कदलीकन्दचूर्णं च सिन्दूराङ्गारकौ तथा ।रसैर्जम्बीरजैर् लोहमुष्ट्यायःपात्रके पिषेत् ॥७६॥दिनैकलेपनात्तेन केशानां रञ्जनं भवेत् ।कासीसं नीलिकापत्रं दधिभृङ्गरसस्तथा ॥७७॥समांशं लोहचूर्णं च लेपनात्केशरञ्जनम् ।नागदण्डेन पत्राणि कोरण्टस्य च मर्दयेत् ॥७८॥दिनत्रयं च तल्लेपात् केशाः स्युर् भ्रमरोपमाः ।वरा भृङ्गी चूतबीजं मृणालं च प्रियङ्गुकम् ॥७९॥नीली निशा लोहनागौ चूर्णिता निंबतैलकैः ।कान्तपात्रे लोडयित्वा मासमेकं विभावयेत् ॥८०॥तेन लिप्ताः कचाः कृष्णा रञ्जिता भ्रमरोपमाः ।तिलाः कृष्णाः काकमाचीबीजानि समभागतः ॥८१॥तत्तैलयन्त्रतो ग्राह्यं तेन स्यात्केशरञ्जनम् ।कर्षं जपारसः क्षौद्रं सप्ताहं नस्यमाचरेत् ॥८२॥तदूर्ध्वं रञ्जयेत् केशान् सर्वनस्योत्तमो ह्ययम् ।भृङ्गराजरसैः पिष्ट्वा त्रिफलां लोहचूर्णकम् ॥८३॥तैलम् एतत्समं योज्यं तथा भृङ्गरसैः पुनः ।मृद्वग्निना पचेत्सर्वं तैलशेषं यथा भवेत् ॥८४॥स्निग्धभाण्डे च तत्तैलं मासं भूमौ विनिक्षिपेत् ।तैलेन लेपयेच्छीर्षं कारवल्लीदलैः पुरा ॥८५॥वेष्टयेत्तत्तु वस्त्रेण निवाते क्षीरभोजनम् ।क्षालयेत् त्रिफलाक्वाथैः कुर्यात् सप्तदिनं प्रिये ॥८६॥कपालरञ्जनं कुर्याद् यावज्जीवं न संशयः ।श्रियालीकाकतुण्ड्याश्च बीजं निर्गुण्डिकारसैः ॥८७॥जपापुष्परसैर् भाव्यं पृथक् दिनचतुष्टयम् ।पातालयन्त्रे तत्तैलं पातयेत्तेन लेपनम् ॥८८॥कुर्यान्मूर्ध्नि च गन्धर्वपत्त्रैश्च परिवेष्टयेत् ।वस्त्रेण च ततो वातशून्यदेशे वसन्सुधीः ॥८९॥क्षीराशी काञ्जिके स्नानं कुर्यात्सप्तदिनं त्विति ।केशा भ्रमरसङ्काशा यावज्जीवं न संशयः ॥९०॥जलमण्डनिकाकाकमाचीभृङ्गाः समाः समाः ।पिष्ट्वा तैलं पचेत्सूपं पुनस्तैलेन लेपयेत् ॥९१॥मूर्धानं लेपयेत्तेन सप्ताहं केशरञ्जनम् ।स्नानभोजनशय्यां च पूर्ववत्परिकल्पयेत् ॥९२॥वराभृङ्गरसैः पिष्ट्वा कान्तपात्रे विलेपयेत् ।अवाङ्मुखं विनिष्ठाप्य प्रातस्तं भृङ्गराड्रसैः ॥९३॥पुनः पिष्ट्वा लिहेच्छीर्षं क्षालयेत् त्रिफलांबुना ।एकविंशद्दिनं कुर्यात् पूर्ववत् फलम् आप्नुयात् ॥९४॥गरलं कृष्णजीरं च पिष्ट्वा रुद्ध्वा च तन्मुखम् ।गृहाङ्गणे पङ्किले च खनित्वा स्थापयेत् सुधीः ॥९५॥षण्मासात् तद्द्रवीभूतं कृष्णं साधु समुद्धरेत् ।शिरोमध्ये क्षिपेत् कर्षं पूर्ववद् वेष्टनादिकम् ॥९६॥आ जन्म रञ्जयेत्केशांस्तच्च कापालरञ्जनम् ।भृङ्गी नीली वरा कृष्णायसं मदनबीजकम् ॥९७॥कोरण्टकुसुमं चूर्णमर्जुनस्य त्वचोद्भवम् ।अम्भोजमूलं जम्ब्वाश्च तत्सर्वं च समांशकम् ॥९८॥लोहभाण्डगतं कुर्यात्पक्षं भूमौ विनिक्षिपेत् ।हरेद्भाण्डगतं कल्कं कल्कात्तैलं चतुर्गुणम् ॥९९॥तैलाच्चतुर्गुणं भृङ्गरसस् तस्माच्चतुर्गुणः ।वराक्वाथः सर्वमिदं मन्दवह्नौ विपाचयेत् ॥१००॥तैलावशिष्टं विपचेत् तत्पिष्ट्वायसपात्रके ।निक्षिपेच्च परीक्षार्थं काकपक्षं विलेपयेत् ॥१०१॥तैलेन यदि कृष्णं तदौषधं सिद्धिदं भवेत् ।साधको मासम् एकं तु तस्मिन्पात्रे विपाचितम् ॥१०२॥तेन लिप्ताः कचास्तस्य षण्मासाद्भ्रमरोपमाः ।चिञ्चाश्वत्थपलाशानां वासायाश्च द्रवैर्मुहुः ॥१०३॥द्रुतं पात्रगतं नागं चालयेद् भस्मतां व्रजेत् ।तावत् पचेन्नागभस्म पलं लोहस्य चूर्णकम् ॥१०४॥द्विपलं च वराचूर्णं त्रिपलं दाडिमत्वचः ।पलं चैतत्सर्वसमं काञ्जिकं लोहभाजने ॥१०५॥लोडयेत् पाचयेत् किंचित् क्षणं तल्लोहपात्रके ।आतपे धारयेद् भृङ्गकोरण्टरसभावितम् ॥१०६॥एकविंशद्दिनं भाव्यं भूयो भूयो द्रवं द्रवम् ।तेनैव लिप्ताश्चिकुराः पिञ्छतापिञ्छसन्निभाः ॥१०७॥कचरञ्जनयोगेषु कथिताकथितेषु च ।निशि लेपं तथैरण्डपत्रैश्च परिवेष्टनम् ॥१०८॥प्रातः स्नानमिदं कर्म सर्वसाधारणं स्मृतम् ।दिव्यौषधिग्रहणयोग्यस्थलनिर्देशःश्मशाने सलिले मार्गे गृहे देवालये तथा ॥१०९॥मलमूत्रयुतस्थाने ग्रामे गोष्ठे तरोरधः ।छायायां च विषप्राये कुशीते चान्यबाधिते ॥११०॥एवंप्रायेषु देशेषु न ग्राह्या सिद्धमूलिका ।अरण्ये पर्वते तीरे नद्या तपवने शुचौ ॥१११॥शिलासङ्गिशुचिक्षेत्रे सिद्धक्षेत्रे ऽब्धिरोधसि ।श्रीपर्वते हिमगिरौ तटाके विजने ह्रदे ॥११२॥गृह्णीयान्मूलिका जाता देहसिद्धिप्रदायिकाः ।दिव्यौषधिग्रहणविधिःसर्वेषां सिद्धमूलानां रक्षाबन्धनकर्मणि ॥११३॥खननेषूत्पाटनेषु ग्रहणेषु क्रमेण वै ।कथ्यन्ते मनवो दिव्याः सर्वसाधारणाः स्मृताः ॥११४॥पूर्वेद्युरेव सुस्नातः कृतदन्तविशोधनः ।अनुलिप्तः शुद्धवस्त्रो हृष्टः संयतमानसः ॥११५॥मौनी गन्धाक्षतोपेतो रक्षाबन्धनसूत्रिताम् ।पूर्वम् अन्वेषितां गत्वा मूलिकां स्वेष्टदायिकाम् ॥११६॥वितृणं परितः कृत्वा खात्वाम्बु परिषेचयेत् ।गन्धपुष्पाक्षतैः पूजां कृत्वा सूत्रेण बन्धयेत् ॥११७॥समन्त्रकं साधकेन्द्रः सोपवासो जितेन्द्रियः ।अत्रैव तिष्ठ कल्याणि मम कार्यकरी भव ॥११८॥मम कार्यकरी सिद्धा ततः स्वर्गं गमिष्यसि ।ओं ह्रीं नमस्ते ऽमृतसम्भूते बलवीर्यविवर्धिनि बलमायुश्च मे देहि पापं मे जहि दूरतः ।ह्रीं फट् ।अनेनैव तु मन्त्रेण त्रिधा सूत्रेण वेष्टितम् ॥११९॥रक्षां बध्नीत तां स्पृष्ट्वा जपेदष्टोत्तरं शतम् ।ततः प्रातः समुत्थाय कृत्वा नित्यविधिं शुचिः ॥१२०॥मूलिकां तां समासाद्य गन्धपुष्पाक्षतादिभिः ।सर्वोपचारैः सम्पूज्य बलिं दद्यात् सहेतुकाम् ॥१२१॥समन्त्रकं खनेद्धीमान्मन्त्रो ऽयमपि कथ्यते ।येन त्वां खनते ब्रह्मा येन त्वां खनते भृगुः ॥१२२॥येनेन्द्रो वरुणो विष्णुस्तेन त्वामुपचक्रमे ।त्वामेवाहं खनिष्यामि मन्त्रपूतेन पाणिना ॥१२३॥एवं सम्प्रार्थयित्वादौ पश्चान्मन्त्रं समुच्चरेत् ।ओं श्रीं ह्रीं तं अमृतेश्वरि एहि एहि मम सकलसिद्धिं कुरु हुं फट् ।अनेनैव तु मन्त्रेण निखनेत् सिद्धिमूलिकाम् ॥१२४॥अथ तूत्पाटयेत्तां तु प्राञ्जलिः प्रार्थयेदिति ।मा उत्पते मा निपते मा च ते चान्यथा भवेत् ।ओं ह्रीं चण्ड हुं फट् स्वाहा ।उत्पाटयेदनेनैव मन्त्रेण परमेश्वरि ।अच्छिन्नमूलामादाय शुद्धवस्त्राभिवेष्टिताम् ॥१२५॥क्षिप्त्वा पटलिकायां च स्ववेश्मनि शुचिस्थले ।निचये हृष्टमनसा निदध्यात् पारणं ततः ॥१२६॥ओं नमो भैरवाय महासिद्धिप्रदायकाय आपदुत्तरणाय हुं फट् ।अनेनैव तु मन्त्रेण गृहीत्वा गृहमानयेत् ॥१२७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP