संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग २४ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग २४ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.र Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग २४ Translation - भाषांतर महारसैरुपरसैर्लोहैश्च रसस्य वेधोपयोगिनो बन्धाःश्रीभैरवः ।महारसैरुपरसैर् लोहैश्च परमेश्वरि ।आज्ञापय समस्तं तं रसराजस्य बन्धनम् ॥१॥वैक्रान्तबन्धाः॑ प्रथमः प्रकारःवैक्रान्तस्य तु भागैकमष्टभागं तु सूतकम् ।कनकस्य तु सप्तांशं द्विपदीरसटङ्कणम् ॥२॥नष्टपिष्टं च शुष्कं च ध्मातं खोटो भवेत्प्रिये ।सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा तु शोधयेत् ॥३॥समहेम्नि समावर्त्य मूषागतं ततः ।समांशभक्षणं तत्तु शुद्धसूतेन कारयेत् ॥४॥वैक्रान्तं षोडशांशेन पूर्वयोगेन धामयेत् ।दशसङ्कलिकायोगाद्वेधो दशगुणोत्तरः ॥५॥द्वितीयः प्रकारःपुनरन्यं प्रवक्ष्यामि प्रयोगं भुवि दुर्लभम् ।वैक्रान्तसत्त्वं देवेशि पारदेन समन्वितम् ॥६॥जारितं समहेम्ना तु शिलाभाण्डे निधापयेत् ।मासमात्रोषितं भूमौ समुद्धृत्य प्रयत्नतः ॥७॥एष देवि रसो दिव्यो देहद्रव्यकरो भवेत् ।तृतीयः प्रकारःवैक्रान्तकास्तु ये केचित् त्रिफलाया रसेन च ॥८॥एकैकं देवि सप्ताहं स्वेदिता मर्दितास्तथा ।सुध्माता मूकमूषायां खोटो भवति चाक्षयः ॥९॥कान्तं रूप्यं च कनकं पारदं चैव योजयेत् ।शुल्बं तृतीयभागं तु स्रोतोञ्जनसमन्वितम् ॥१०॥तद्ध्मातं खोटतां यातं देहलोहकरं भवेत् ।चतुर्थः प्रकारः श्वेतवैक्रान्तसिद्धःश्वेतवैक्रान्तचूर्णं तु हयमूत्रेण मर्दयेत् ॥११॥आदौ सुस्विन्नमादाय पले पलशतं क्षिपेत् ।तारस्य जायते भस्म विशुद्धस्फटिकाकृति ॥१२॥तद्भस्म मेलयेत्सूते समभागं विचक्षणः ।चारयेद्रजतं सूते हयमूत्रेण मर्दयेत् ॥१३॥पुटयेदन्धमूषायां क्रमेण मृदुवह्निना ।अहोरात्रं त्रिरात्रं वा भवेदग्निसहो रसः ॥१४॥स्पर्शनात्सर्वलोहानि रजतं च करिष्यति ।पञ्चमः प्रकारः रक्तवैक्रान्तसिद्धःरक्तस्य वक्ष्यते कर्म जरादारिद्र्यनाशनम् ॥१५॥सप्तधा भावयेत्तस्य व्याघ्रीकन्दांभसा रजः ।पलं तस्य पलं हेम्नः पलं शुद्धरसस्य च ॥१६॥शुद्धभस्म भवेत्सर्वं पुनर्हेम्नः शतं क्षिपेत् ।तद्भस्म जायते सर्वं शुद्धहेमसमप्रभम् ॥१७॥तद्भस्म रसराजे तु पुनर्हेम्ना तु मेलयेत् ।भवेदग्निसहो देवि ततो रसवरो भवेत् ॥१८॥सर्ववेधी भवेत्सूतः कोटिवेधी महारसः ।षष्ठः प्रकारःरक्तवैक्रान्तसत्त्वं तु हेम्ना तु सह मेलयेत् ॥१९॥समं तु जारयेत्सूते सारयित्वा समेन तु ।सहस्रांशेन लोहानि वेधयेन्नात्र संशयः ॥२०॥सप्तमः प्रकारः कृष्णवैक्रान्तसिद्धःकृष्णवैक्रान्तभागैकं शुद्धसूतं शतांशकम् ।एकत्र मर्दयेत् खल्वे चूर्णं भवति तद्द्वयम् ॥२१॥अस्य चूर्णस्य भागैकं हेमभागसहस्रकम् ।एकत्र मर्दयेत्तावद्यावद्भस्म तु जायते ॥२२॥धमेत्तदन्धमूषायां यावत्खोटो भविष्यति ।समांशभक्षणं तस्य पीठिकां तस्य कारयेत् ॥२३॥वेधयेत्सर्वलोहानि स्पर्शमात्रेण हेमताम् ।तच्चूर्णमभ्रकं चैव रसेन सह मर्दयेत् ॥२४॥स्वेदयेज्जारयेच्चैव ततो वह्निसहो भवेत् ।स रसश् चारितश्चैव सर्वलोहानि विध्यति ॥२५॥अष्टमः प्रकारः पीतवर्णवैक्रान्तसिद्धःपीतवर्णेऽपि वैक्रान्ते रक्तकृष्णविधिः स्मृतः ।पीतवैक्रान्तचूर्णं तु हेमचूर्णसमन्वितम् ॥२६॥पीताभ्रकस्य चूर्णं तु मेलयित्वा महारसः ।स्वेदितो मर्दितश्चैव मासादग्निसहो भवेत् ॥२७॥नीलवैक्रान्तभस्मरसायनम्नीलवर्णं तु वैक्रान्तं म्रियते रससंयुतम् ।कृष्णाभ्रकेण सहितं मधुसर्पिर्युतं च तत् ॥२८॥भक्षयेन्मण्डलं देवि जीवेच्चन्द्रार्कतारकम् ।यस्य यस्य हि यो योगस्तस्य तस्य प्रयोगतः ॥२९॥मेलयित्वा रसं गुञ्जामानं त्रिमधुसंयुतम् ।खादेत् क्षीराज्यशाल्यन्नं भोज्यमन्यच्च वर्जयेत् ॥३०॥नवमः प्रकारःवैक्रान्तसत्वसंयुक्तं लुङ्गाम्ले मर्दयेद्रसम् ।तापयेद् उष्णतोयेन जलेन परिपूरयेत् ॥३१॥सत्त्वं सूतं च संमिश्रं धमेत्स्याद्रसबन्धनम् ।बद्धं रसं मुखे क्षिप्त्वा भूमिच्छिद्राणि पश्यति ॥३२॥दशमः प्रकारःनिष्कमेकं रसं क्रान्तमश्वमूत्रेण मर्दयेत् ।दिनमेकमिदं देवि मर्दयित्वा मृतो भवेत् ॥३३॥चतुर्दिनमिदं कृत्वा समसूतं समं नयेत् ।मर्दनं स्वेदनं चैव पूर्ववच्छुद्धमानसः ॥३४॥सप्तद्वन्द्वजमेकैकं सप्तमेऽष्टपलं भवेत् ।शल्याविशल्यामूलस्य वारिणा मर्दयेद्दिनम् ॥३५॥भूधरीयन्त्रमध्यस्थं पुटं सप्तदिनं ददेत् ।तद्भस्म शुद्धं सेव्यं स्याद्गुञ्जामात्रं तु मण्डलम् ॥३६॥एकाद्यं पञ्चमं मध्यं पुनरेकं प्रशस्यते ।पूर्ववद्बन्धनं देवि कोटिवेधी भवेद्रसः ॥३७॥कान्तबन्धःरक्तवर्णमयस्कान्तं लाक्षारससमप्रभम् ।भिन्नस्त्रीरक्तसंकाशं तच्चूर्णं सूतसंयुतम् ॥३८॥मर्दयेच्छागरक्तेन ध्मातं खोटो भवेत्प्रिये ।स सूतः शतवेधी तु स तु व्याधिहरो भवेत् ॥३९॥गुलिकां धारयेद्वक्त्रे जीवेद्वर्षसहस्रकम् ।पीतवर्णमयस्कान्तं भिन्नहेमसमप्रभम् ॥४०॥वेधयेत् स्पर्शमात्रेण स तु लोहानि सुन्दरि ।चपलबन्धः॑ प्रथमः प्रकारःलाङ्गलीं करवीरं च चित्रकं गिरिकर्णिकाम् ॥४१॥स्त्रीस्तन्यटङ्कसौवीरं मूषालेपं तु कारयेत् ।चपलाद्द्विगुणं सूतं सूताद्द्विगुणकाञ्चनम् ॥४२॥नष्टपिष्टं च तत्कुर्यादन्धमूषागतं धमेत् ।तत्र स्थितो रसेन्द्रोऽयं खोटो भवति शोभनः ॥४३॥शतांशं वेधयेन्नागं गुञ्जावर्णस्तु जायते ।तेन नागशतांशेन शुल्बं रक्तनिभं भवेत् ॥४४॥तेन शुल्बशतांशेन तारं विध्यति काञ्चनम् ।द्वितीयः प्रकारःचपलस्य तु षड्भागास् तारभागास्तु सप्त च ॥४५॥अष्टौ कनकभागास्तु नव भागा रसस्य च ।त्रिंशद्भागा मिलित्वा तु भवन्ति सुरवन्दिते ॥४६॥चित्रकं कणवीरं च लाङ्गली गृध्रविट् तथा ।मर्दितं मातुलुङ्गाम्लैर्मूषालेपं तु कारयेत् ॥४७॥अन्धयित्वा धमेद्देवि खोटो भवति शोभनः ।तेन खोटदशांशेन विद्धो नागोऽरुणो भवेत् ॥४८॥तेन नागेन विद्धं तु शुल्बं गुञ्जारुणं भवेत् ।तेन शुल्बेन तारं तु विद्धं भवति काञ्चनम् ॥४९॥तृतीयः प्रकारःहेमाभ्रं चपलं देवि पारदार्धेन संयुतम् ।पारदेन कनकं दत्त्वा कुनट्या मर्दयेत्क्षणम् ॥५०॥लाङ्गली चित्रकं चैव स्त्रीस्तन्यं कणवीरकम् ।गृध्रविष्ठा तथा सर्वं मूषालेपं तु कारयेत् ॥५१॥तन्मध्ये तु स्थितं ध्मातं खोटो भवति शोभनः ।पूर्वोक्तं वेधयेदेतन्निर्बीजं कनकं भवेत् ॥५२॥सुतप्तलोहपात्रे च क्षिपेच्चपलचूर्णकम् ।सबीजं पारदं कृत्वा चपलस्य तु वापयेत् ॥५३॥लाक्षाभो बध्यते सूतोऽङ्कुशेनेव महागजः ।गन्धकबन्धः॑ प्रथमः प्रकारःशुद्धसूतपलैकं च पलैकं गन्धकस्य च ॥५४॥एकीकृत्याथ संमर्द्य धुत्तूरकरसेन च ।मारयेच्चक्रयोगेन भस्मीभवति सूतकः ॥५५॥अन्धमूषागतो ध्मातः खोटो भवति शोभनः ।सितं हेम च नागं च चन्द्रार्कं चापि वेधयेत् ॥५६॥द्वितीयः प्रकारःपलैकं शुद्धसूतस्य कर्षैकं गन्धकस्य च ।मर्दयेत्स्निग्धखल्वेन देवदालीरसप्लुतम् ॥५७॥मर्दयेत्तु कराङ्गुल्या गन्धपिष्टिस्तु जायते ।जम्बीरस्य रसेनैव दिनमेकं तु मर्दयेत् ॥५८॥पञ्चद्रावकसंयुक्तां वटिकां कारयेच्छुभाम् ।पलाशमूलकल्केन वटिकां तां प्रलेपयेत् ॥५९॥धमेत् खोटो भवेच्छ्वेतकाचटङ्कणयोगतः ।शोधयेत्तं प्रयत्नेन यावन्निर्मलतां व्रजेत् ॥६०॥स खोटो जायते देवि त्रिगुणं पन्नगं ततः ।शतशो रञ्जयेत्पश्चाच्छुल्बाभ्रककपालिना ॥६१॥शुल्बे तारे च खोटोऽयं सहस्रांशेन वेधकः ।तृतीयः प्रकारःगन्धकेन हते सूते मृतलोहानि वाहयेत् ॥६२॥पुनर्हेम समावर्त्य समांशं भक्षणं कुरु ।सारितः शुल्बतारैर् घोषं विध्यति सूतकः ॥६३॥चतुर्थः प्रकारःरसं हेमसमं कृत्वा पिष्टिकार्धेन गन्धकम् ।द्विपदीरजसा युक्तं मर्दयेट्टङ्कणान्वितम् ॥६४॥नष्टपिष्टं च शुष्कं च ध्मातः खोटो भवेत्ततः ।चन्द्रार्कषोडशांशेन विद्धं भवति काञ्चनम् ॥६५॥हेमार्धमिलितं तं तु मातृकासमतां व्रजेत् ।कुर्यात्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः ॥६६॥यथा हेम्नि तथा तारे व्याटिबीजेन योजितम् ।तृतीयसङ्कलाबद्धं षट्शते नागवेधकम् ॥६७॥चतुर्गुणेन तेनैव सहस्रांशेन काञ्चनम् ।अनेन क्रमयोगेन सप्त सङ्कलिका यदि ॥६८॥कुरुते काञ्चनं दिव्यमष्टलोहानि पार्वति ।तं पुनश्चूर्णयित्वा तु पुटयेद्भस्म जायते ॥६९॥सर्वव्याधिजयो देवि पलैकेन सुभक्षिते ।द्विपले ब्राह्ममायुष्यं त्रिपले वैष्णवं भवेत् ॥७०॥चतुष्पले च पञ्चत्वमीशः पञ्चपले भवेत् ।षट्पले भक्षिते देवि सदाशिवतनुर्भवेत् ॥७१॥पञ्चमः प्रकारःसूतकं गन्धकं तारं मेषवल्लीवसा समा ।त्रिदिनं मर्दयेल्लक्षं वङ्गं पादेन लेपयेत् ॥७२॥अन्धमूषागतं ध्मातं वङ्गं स्तम्भयति क्षणात् ।षष्ठः प्रकारः, गन्धपिष्टिविधिःचूर्णितं गन्धकं देवि मर्कटीरसभावितम् ॥७३॥भावयेच्छतवाराणि जीवभस्म तु गच्छति ।दापयेन्मृण्मये पात्रे रसेन सह संयुतम् ॥७४॥तापयेद्रवितापेन मर्कटीरससंयुतम् ।गन्धकं ग्रसते सूतः पिष्टिका भवति क्षणात् ॥७५॥तिलपर्णीरसेनैव गन्धकं भावयेत्ततः ।सप्तवारांस्तु देवेशि छायाशुष्कं पुनःपुनः ॥७६॥शोधितं पातितं सूतं पलैकप्रमितं प्रिये ।मूषामध्ये विनिक्षिप्य नरेन्द्रीरससंयुतम् ॥७७॥जारयेद्वालुकायन्त्रे भावितं गन्धकं पुनः ।त्रुटि त्रुटि प्रदातव्यं गन्धकं च पुनः पुनः ॥७८॥अनेन क्रमयोगेन जायते गन्धपिष्टिका ।गन्धपाषाणचूर्णं तु कनकस्य रसेन तु ॥७९॥भावयेत्सप्तवारांस्तु स्त्रीरजेन तु सप्तधा ।शुद्धसूतपलैकं च खर्परे दापयेत्ततः ॥८०॥भावितं गन्धकं दद्यान्नरपित्तेन संयुतम् ।दोलयेद् रवितापेन पिष्टिका भवति क्षणात् ॥८१॥गन्धकं सूक्ष्मचूर्णं तु चणकाम्लेन पार्वति ।भावयेत्सप्तवाराणि स्त्रीपुष्पेण च सप्तधा ॥८२॥द्रुतसूतकमध्ये तु कर्पूरं गन्धकं रसम् ।दापयेन्निक्षिपेद् गोष्ठे सप्ताहाद् गन्धपिष्टिका ॥८३॥गन्धकपिष्टीस्तंभनं वेधश्चकटुकोशातकीबीजं चाण्डालीकन्दमेव च ।स्तन्यक्षीरेण संपेष्य पिष्टिकां तेन लेपयेत् ॥८४॥पुटयेद्भूधरे यन्त्रे स्तम्भते नात्र संशयः ।हेमसम्पुटमध्ये तु समावर्तं तु कारयेत् ॥८५॥अष्टमांशेन तेनैव नागवेधं प्रदापयेत् ।षोडशांशेन तेनैव तारवेधं प्रदापयेत् ॥८६॥सप्तमः प्रकारःगन्धपिष्टिपलैकं तु नागपिष्टिपलाष्टकम् ।लेपयेन्नागपत्राणि छायायां शोषयेत्ततः ॥८७॥आटरूषकपिण्डेन नागपत्राणि लेपयेत् ।आरण्योत्पलकैर्देवि दापयेच्च पुटत्रयम् ॥८८॥तन्नागं म्रियते दिव्यं सिन्दूरारुणसप्रभम् ।तन्नागं पलमेकं तु शुल्बचूर्णपलाष्टकम् ॥८९॥वासकस्य रसेनैव प्रहरैकं तु मर्दयेत् ।मारयेत्पातनायन्त्रे शुल्बं तन्म्रियते क्षणात् ॥९०॥षोडशांशेन तेनैव तारवेधं प्रदापयेत् ।जायते कनकं दिव्यं देवाभरणभूषणम् ॥९१॥या काचिद्गन्धपिष्टी तु आदौ नागं तु मारयेत् ।नागेन वेधयेच्छुल्बं शुल्बे तारं तु वेधयेत् ॥९२॥कनकं जायते दिव्यं सिद्धयोग उदाहृतः ।अष्टमः प्रकारःगन्धकं मधुसंयुक्तं हरबीजेन मर्दितम् ॥९३॥भूमिस्थं मासमेकं तु तारमायाति काञ्चनम् ।उद्वर्तनेन तेनैव सर्वकुष्ठविनाशनम् ॥९४॥घनेन सह संयुक्तं व्रणरोगविनाशनम् ।संवत्सरप्रयोगेण सहस्रायुर्भवेन्नरः ॥९५॥तालकबन्धःशुद्धसूतपलैकं तु पलैकं तालकस्य च ।एकीकृत्याथ संमर्द्य उन्मत्तकरसेन च ॥९६॥मारयेच्चक्रयन्त्रेण भस्मीभवति सूतकः ।अन्धमूषागतं ध्मातं खोटो भवति शोभनः ॥९७॥वङ्गं तारं च शुल्बं च क्रमशो वेधयेद्रसः ।शुद्धवङ्गपलैकं च पलैकं सूतकस्य च ॥९८॥द्वे पले तालकं चैतद् उन्मत्तरसमर्दितम् ।मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत् ॥९९॥श्वेताभ्रकस्य सत्त्वं च तारं तीक्ष्णं च माक्षिकम् ।अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥१००॥तत्खोटपलमेकं च पलैकं सूतकस्य च ।तालकस्य पलं सर्वमेकीकृत्याथ मर्दयेत् ॥१०१॥मारयेत्पातनायन्त्रे धमनात् खोटतां नयेत् ।अन्ये लघुबन्धाःशुद्धसूतपलैकं च पलैकं पन्नगस्य च ॥१०२॥पलद्वयं कुनट्याश्च सर्वमेकत्र मर्दयेत् ।मारयेत्पातनायन्त्रे धमनात् खोटतां नयेत् ॥१०३॥हेमपिष्टिपलैकं च पलैकं गन्धकस्य तु ।एकीकृत्याथ संमर्द्य धुत्तूरकरसेन च ॥१०४॥मारयेत्पातनायन्त्रे धमनात् खोटतां नयेत् ।कृष्णाभ्रकस्य सत्वं च कान्तं तीक्ष्णं च हाटकम् ॥१०५॥शुद्धं तारं च माक्षीकं समभागानि कारयेत् ।अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥१०६॥तत्खोटपलमेकं तु पलैकं सूतकस्य च ।पलद्वयं कुनट्याश्च सर्वमेकत्र मर्दयेत् ॥१०७॥मारयेत्पातनायन्त्रे धमनात् खोटतां नयेत् ।कृष्णाभ्रकपलैकं तु रसकस्य पलं तथा ॥१०८॥सूतकस्य पलैकं तु सर्वमेकीकृतं प्रिये ।उन्मत्तकरसेनैव मर्दयेत्प्रहरद्वयम् ॥१०९॥मर्दयेद्दिनमेकं वा टङ्कणेन समन्वितम् ।घुटिकां कारयेत्पश्चाच्छायाशुष्कं तु कारयेत् ॥११०॥महावर्तिगतं ध्मातं खोटं भवति सूतकः ।तं खोटं शोधयेत्काचटङ्कणद्रवयोगतः ॥१११॥हेम्ना सह समावर्त्य सारणात्रयसारितम् ।सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ॥११२॥अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ।बीजद्वयं पलाशस्य पलमेकं तु सूतकम् ॥११३॥जम्बीराम्लेन संमर्द्य छायाशुष्कं तु कारयेत् ।तुम्बीका मेघनादी च काकजङ्घा च भूलिका ॥११४॥स्तन्यं च तैः प्रलिप्तायां मूषायां चैव निक्षिपेत् ।धमयेत्खदिराङ्गारैः खोटो भवति चाक्षयः ॥११५॥पलाशतैले संमर्द्यं यावत् स्याद् द्रवपिष्टिका ।अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥११६॥पूर्वशुद्धेन सूतेन समहेम्ना च पार्वति ।गोलकं कारयेत्तेन मर्दयित्वा दृढं कृतम् ॥११७॥ब्रह्मवृक्षस्य बीजानि कार्पासास्थि विभीतकम् ।यवचिञ्चा च वन्ध्या च राजिका च समन्वितम् ॥११८॥सूक्ष्मपिण्डीकृतं सर्वं तेन लिप्त्वा तु गोलकम् ।पुटनैः सप्तभिर् देवि पिष्टिकास्तम्भनं भवेत् ॥११९॥बृहत्पुटं ततो दत्त्वा मूषायां तु धमेत्ततः ।समावर्त्य तु तं सूतं समहेम्ना नियोजितम् ॥१२०॥शतांशेन तु चन्द्रार्कं वेधयेत् सुरवन्दिते ।पुनस्तेनैव योगेन पिष्टीस्तंभं तु कारयेत् ॥१२१॥सारयित्वा ततो हेम्ना वेधश्चैव सहस्रकः ।एवं लक्षाणि कोटिं च वेधयेत्क्रमयोगतः ॥१२२॥सप्तसंकलिकादूर्ध्वं कृत्वा वक्त्रं तु गोलकम् ।वर्षेणैकेन स भवेद्वलीपलितवर्जितः ॥१२३॥चाण्डालीराक्षसीपुष्पैरथ मध्वाज्यटङ्कणैः ।महारसाष्टमध्ये तमभ्रकं वापि योजयेत् ॥१२४॥नागवङ्गसमं सूतं हेमतारमथापि वा ।अभ्रकं द्रुतिसत्त्वं वा मर्दयेत्प्रहरद्वयम् ॥१२५॥छायाशुष्कं ततो गोलं मूकमूषागतं प्रिये ।दत्त्वा लघुपुटं ध्मातः खोटो भवति शोभनः ॥१२६॥रंभा वीरा स्नुहीक्षीरं कञ्चुकी यवचिञ्चिका ।दीनारी चैव गोरम्भा मीनाक्षी काकमाचिका ॥१२७॥एभिर्मर्दितसूतस्य पुनर्जन्म न विद्यते ।पूर्ववत् क्रमयोगेन खोटो भवति शोभनः ॥१२८॥विष्णुक्रान्ता च वक्राङ्काबला च तुलसी तथा ।महासोमाहिवल्ली च सूर्यावर्तं च सुन्दरि ॥१२९॥एभिस्तु मर्दितः सूतः पूर्ववत्खोटतां नयेत् ।स्नुहीक्षीरं च काञ्जीरं बीजानि कनकस्य च ॥१३०॥कञ्चुकी लाङ्गली चेन्द्रवारुणी विषमुष्टिका ।पालाशमूलतोयं च मर्दयेत्तेन सूतकम् ॥१३१॥समहेम्नि समं सूतं पिष्टिकां कारयेद्बुधः ।महारसान्पिष्टिकार्धं मर्दयेद् ओषधीरसैः ॥१३२॥यामत्रयं मर्दयित्वा गोलकं कारयेद्बुधः ।पिष्टिकां बन्धयित्वा तु गन्धतैले विपाचयेत् ॥१३३॥अन्धमूषागतं गोलं छायाशुष्कं तु कारयेत् ।ततो लघुपुटं दत्त्वा खदिराग्नौ तु धामयेत् ॥१३४॥खोटवज्जायते देवि सह हेम्ना तु धामयेत् ।अक्षीणो मिलते हेम्नि समावर्तश्च जायते ॥१३५॥तत्क्षणादेव सूतस्य दिव्यदेहो भवेन्नरः ।वेधयेत्सर्वलोहानि रञ्जितः क्रामितो रसः ॥१३६॥समांशभक्षणे सूते मर्दयेदोषधीरसैः ।नष्टपिष्टं तु तं कृत्वा पूर्वयोगेन धामयेत् ॥१३७॥खोटस्तु जायते दिव्यः षोडशांशेन वेधकः ।बद्धः सङ्कलिकायोगाद् विध्येद् दशगुणोत्तरम् ॥१३८॥अथवा चूर्णबद्धस्तु विध्येद्दशगुणोत्तरम् ।मृगदूर्वा चन्द्रवल्ली पक्वबिम्बा तथैव च ॥१३९॥काङ्क्षीला करवीरं च बीजं चोन्मत्तकस्य च ।काकाण्डीपलसंयुक्तं मर्दयेत्सुरसुन्दरि ॥१४०॥समहेम्नि समं सूतं पिष्टिकां कारयेद्बुधः ।अथवा सारयित्वा तु समेन समसूतकम् ॥१४१॥महारसपिष्टिकां च मर्दयेदोषधीरसैः ।यामत्रयं मर्दयित्वा गोलकं कारयेद्बुधः ॥१४२॥अन्धमूषागतं गोलं छायाशुष्कं तु कारयेत् ।ततो लघुपुटं दत्त्वा ध्मातः खोटो भवेत्प्रिये ॥१४३॥मृगदूर्वोत्तमासोमारसैः सूतकसारणम् ।मूलैस्त्रयाणां लाङ्गल्या रामठेन च हन्यते ॥१४४॥समेन हेम्ना संयुक्तं पिष्टिकां कारयेद्बुधः ।अथवा तारपिष्टिं च समसूतेन कारयेत् ॥१४५॥पूर्ववत्क्रमयोगेन खोटो भवति शोभनः ।अन्धमूषागतं भूमौ स्वेदयेत्कर्षकाग्निना ॥१४६॥अहोरात्रं त्रिरात्रं वा चूर्णबन्धं भवेत्ततः ।तच्चूर्णबन्धं कुरुते वेधं दशगुणोत्तरम् ॥१४७॥शूलिनीरससूतं च स्रोतोञ्जनसमन्वितम् ।पूर्ववत्पिष्टिकायोगात् खोटो भवति शोभनः ॥१४८॥स्रोतोञ्जनं सतगरं सृष्टित्रययुतं रसम् ।भवेद्वह्निसहः क्षिप्रं सूतकः सर्वकर्मकृत् ॥१४९॥हेमाभ्रं चैव ताराभ्रं शुल्बाभ्रं चाभ्रतीक्ष्णकम् ।वङ्गाभ्रं चैव नागाभ्रं सह सूतेन बन्धयेत् ॥१५०॥यथालाभौषधीघृष्टं महारससमन्वितम् ।हेम्ना तारेण शुल्वेन तीक्ष्णवङ्गोरगैस्तथा ॥१५१॥एभिर्व्यस्तैः समस्तैर्वा पिष्टिं कृत्वा समे समाम् ।मारयेत्पूर्वविधिना गर्भयन्त्रे तुषाग्निना ॥१५२॥समांशं सूतकं दत्त्वा वारं वारं पुनः पुनः ।जायते विविधः खोटः कान्तबद्धो महारसः ॥१५३॥भवेत्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः ।निगलबन्धःखोटः पोटस्तथा भस्म धूलीकल्पश्च पञ्चमः ॥१५४॥एते निगलयोगाभ्यां सर्वबन्धफलोदयः ।स्नुह्यर्कसंभवं क्षीरं बन्धबीजानि गुग्गुलुः ॥१५५॥सैन्धवं द्विगुणं दत्त्वा मर्दयेत विचक्षणः ।पिष्टिकाबन्धनं कृत्वा कल्केनानेन सुन्दरि ॥१५६॥बिल्वप्रमाणं कृत्वा तु मूषामतिदृढां शुभाम् ।ऊर्ध्वाधो लवणं दत्त्वा मूषामध्ये रसं क्षिपेत् ॥१५७॥मूषामध्ये प्रदातव्यं दग्धशङ्खादिचूर्णकम् ।मुखं तस्य दृढं बद्ध्वा लोणमृत्तिकया बुधः ॥१५८॥कारयेत्सन्धिलोणं च छायाशुष्कं तु कारयेत् ।उक्तो निगलबन्धोऽयं पुत्रस्यापि न कथ्यते ॥१५९॥तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ।अहोरात्रं त्रिरात्रं वा पुटं दत्त्वा प्रयत्नतः ॥१६०॥सुध्मातं खदिराङ्गारै रसेन्द्रं खोटतां नयेत् ।सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा तु शोधयेत् ॥१६१॥अक्षीणो मिलते हेम्नि समावर्तश्च जायते ।समांशभक्षणं तत्तु शुद्धसूतेन कारयेत् ॥१६२॥धमयेत् पूर्वयोगेन रसेन्द्रं खोटतां नयेत् ।भवेत्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः ॥१६३॥पलाशबीजनिर्यासं कोकिलोन्मत्तवारुणी ।शूलिनीरससंयुक्तं पेषयेत्सैन्धवान्वितम् ॥१६४॥पिष्टिकावेष्टनं कृत्वा निगलेन तु बन्धयेत् ।अभ्रकस्य तु पत्रेण वज्रार्कक्षीरसिन्धुना ॥१६५॥ताप्येन लोहकिट्टेन सिकतामृण्मयेन च ।एभिस्तु निगले बद्धः पारदीयो महारसः ॥१६६॥नातिक्रामति मर्यादा वेलामिव महोदधिः ।तैलार्कक्षीरकतकलाङ्गल्या निगलोत्तमः ॥१६७॥काकविट् ब्रह्मबीजानि लाङ्गली निगलोऽपरः ।वाकुची ब्रह्मबीजानि कर्कटास्थीनि सुन्दरि ॥१६८॥सामुद्रं शाम्बरं चैव लवणं निगलोत्तमः ।स्नुह्यर्कसम्भवं क्षीरं ब्रह्मबीजानि कारयेत् ॥१६९॥कनकस्य च बीजानि लोणाष्टेन च मर्दयेत् ।निगलोऽन्यस्तु गोजिह्वामूलानि स्त्रीरजोऽपरः ॥१७०॥वाकुची ब्रह्मबीजानि स्नुह्यर्कक्षीरसैन्धवम् ।ज्वालिनी काकविष्ठा च प्रशस्तो निगलोत्तमः ॥१७१॥लवणं टङ्कणं क्षारं शिलातालकगन्धकम् ।तथाम्लवेतसं ताप्यं हिङ्गुलं समभागिकम् ॥१७२॥स्नुह्यर्कपयसा युक्तं पेषयेन्निगलोत्तमम् ।पिष्टिकां वेष्टयेदेषामेकेन निगलेन तु ॥१७३॥लोणमूषागतं प्राग्वत् खोटं कृत्वा तु वेधयेत् ।द्वितीयं गोलकं वक्ष्ये पिष्टिकास्तम्भमुत्तमम् ॥१७४॥द्विपदीरजमूत्रेण सैन्धवाभ्रं सगुग्गुलम् ।पिष्टीं संवेष्ट्य कल्केन मृदा तु पुनरष्टधा ॥१७५॥तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ।अहोरात्रं त्रिरात्रं वा पूर्ववत्खोटतां नयेत् ॥१७६॥वाकुची ब्रह्मबीजानि गगनं विमलं मणिम् ।सौवर्चलं सैन्धवं च टङ्कणं गुग्गुलुं तथा ॥१७७॥द्विपदीरजसा मूत्रं सुश्लक्ष्णं तं च मर्दयेत् ।पिष्टीमावेष्ट्य कल्केन पूर्ववत्खोटतां नयेत् ॥१७८॥रसमूर्छाविधिः, प्रथमः प्रकारःअथ मूर्च्छां प्रवक्ष्यामि रसस्य परमेश्वरि ।बाह्लीकं सैन्धवं कन्या धूशरो लशुनं वचा ॥१७९॥मेघनादा काकमाची सर्वांशं मर्दयेद्रसम् ।श्लक्ष्णं तं गोलकं कृत्वा हिंगुना वेष्टयेद्बहिः ॥१८०॥समेन लोणयन्त्रस्थं कृत्वा तद्विपचेद्दिनम् ।चण्डाग्निना स्वाङ्गशीतमधः पात्रे स्थितं रसम् ॥१८१॥चूर्णीभूतं समादाय सान्द्रद्विगुणवाससा ।बद्ध्वा सोमानले यन्त्रे ह्यथोर्ध्वं गन्धकं समम् ॥१८२॥दत्त्वा पचेत्पुनर्गन्धमेवं गन्धं तु षड्गुणम् ।जारयेत्स रसो देवि मूर्छितः सर्वरोगहा ॥१८३॥द्वितीयः प्रकारःगन्धकं नवसारं च शुद्धसूतसमं समम् ।यामं संमर्दयेच्छ्लक्ष्णं काचकूप्यां विनिक्षिपेत् ॥१८४॥सप्तमृत्कर्पटैर् लिप्त्वा कूपीं घर्मे विशोषयेत् ।कूपिकां वालुकायन्त्रे द्वादशप्रहरं पचेत् ॥१८५॥स रसो जायते देवि मूर्छितो रञ्जितो भवेत् ।तृतीयः प्रकारःरसार्धं गन्धकं मर्द्यं यामयुग्मं खरातपे ॥१८६॥ततः सितजयन्त्याश्च रसैः संमर्दयेत्त्र्यहम् ।ततस्तु गोलकं कृत्वा मूषायां संनिरोधयेत् ॥१८७॥शोषयित्वा धमेत् किंचित् संतप्तां तां जले क्षिपेत् ।तं रसेन्द्रं समादाय भावयेद्गोक्षुरद्रवैः ॥१८८॥मूर्छितो जायते सूतः सर्वरोगहरः शुभः ।बद्धरसलक्षणम्अक्षयश्च लघुद्रावी तेजस्वी निर्मलो गुरुः ॥१८९॥स्फुटनः पुनरावर्तो बद्धः सूतः स उच्यते ।जलूकाबन्धाः॑ मर्दनजलूकारसस्याष्टमभागं तु स्वर्णं वा नागमेव वा ॥१९०॥श्लेष्मातकफलं पक्वं कोकिलाक्षकबीजकम् ।तिलपिण्याकचूर्णं च तप्तखल्वे विमर्दयेत् ॥१९१॥शाल्मल्याश्चैव पञ्चाङ्गं रसं तत्र विनिक्षिपेत् ।जलूका जायते यावत्तावन्मर्द्यात्ततः क्षिपेत् ॥१९२॥कर्पूरं वाकुचीतैलं सैन्धवं टङ्कणं कणाम् ।कपिकच्छुकरोमाणि तत्सर्वं पेषयेज्जलैः ॥१९३॥एतत्पूर्वजलूकां त्रिसप्ताहं तप्तखल्वके ।जलूका जायते दिव्या मर्दनाख्या सुरार्चिते ॥१९४॥नारीणामृतुकाले तु सा योज्या योनिगह्वरे ।मददर्पहरा तासां मदविह्वलकारका ॥१९५॥बाल्ये चाष्टाङ्गुला योज्या यौवने सा दशाङ्गुला ।द्वादशाङ्गुलिका योज्या प्रगल्भानां जलूकका ॥१९६॥यस्तु तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ।मन्मथजलूकारसेन्द्रस्याष्टमं भागं स्वर्णं वा नागमेव वा ॥१९७॥शाल्मलीत्वग्घस्तिकन्दनीलामूलमुनिच्छदम् ।एषां द्रवैस्तप्तखल्वे सर्वं मर्द्यमतन्द्रितः ॥१९८॥श्लेष्मातकफलं पक्वं कोकिलाक्षकबीजकम् ।सुपक्वबिल्वमज्जां च तस्मिन्क्षिप्त्वा विमर्दयेत् ॥१९९॥जलूका जायते यावत् कर्पूराद्यं च पूर्ववत् ।तस्मिन्क्षिप्त्वा त्रिसप्ताहं मर्दयेत्तप्तखल्वके ॥२००॥मन्मथाख्या जलूका स्यात्पूर्ववत् फलदायिनी ।कन्दर्पजलूकासूतकस्याष्टमं भागं हाटकं सीसमेव वा ॥२०१॥शुण्ठी भृङ्गी वरा क्षौद्री छागक्षीरघृतं गवाम् ।मूत्रं त्रिः सप्तदिवसं मर्दयेत्तप्तखल्वके ॥२०२॥जलूका जायते यावत्कर्पूराद्यं च पूर्ववत् ।एकविंशद्दिनं मर्द्यं जलूका जायते शुभा ॥२०३॥कन्दर्पाख्या सुरेशानि पूर्ववत्फलदायिनी ।मदनजलूकात्रिदिनं मर्दयेत् खल्वे सूतनिष्कचतुष्टयम् ॥२०४॥त्रिपलं चाम्रनिर्यासं स्तोकं स्तोकं विनिक्षिपेत् ।पयश्चैव महाशम्या दातव्यं मर्दनक्षमम् ॥२०५॥जलूका मदनाख्येयं जायते शुभदा नृणाम् ।रामाणां मददर्पाणां द्राविकाग्निघृतौ यथा ॥२०६॥पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरं भवेत् ।नानावर्णं तथा स्वच्छं धृतं योनौ जलूकवत् ॥२०७॥बध्यते सूतको यस्तु जलूकाबन्धलक्षणम् ॥२०८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP