संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग ६ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग ६ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ६ Translation - भाषांतर देहवेधक्रमःप्रणम्य शिरसा शम्भुं पप्रच्छ गिरिजात्मजा ।श्रीभैरवी ।देहवेधस्त्वया पूर्वं संक्षेपात् कथितः प्रभो ॥१॥तं देहवेधम् आचक्ष्व सम्यक् जानाम्यहं यथा ।श्रीभैरवः ।देवि प्रवक्ष्यामि देवानामपि दुर्लभम् ॥२॥योगिनां भोगयुक्तानां देहवेधं सुरेश्वरि ।पाचनादि प्रकुर्वीत पञ्चकर्मविधानतः ॥३॥पञ्चकर्माणि॑ १. पाचनम्लवणादिसमुत्क्लिष्टान् दोषान् संशोधयेत् क्रमात् ।ततो जीर्णरसं चाद्यात् क्रमाद् एवं सुरेश्वरि ॥४॥लघ्वाहारो दिवा भूत्वा क्षुद्राधान्याकनागरम् ।एतत्त्रयं पलोन्मेयम् उदकेष्ववलोडयेत् ॥५॥अष्टावशिष्टं संक्वाथ्य प्रतिरात्रं पिबेत्त्र्यहम् ।अनन्तरं वराक्वाथं पूर्ववत् त्रिदिनं पिबेत् ॥६॥इति पाचनम् आतन्याद् अथ स्नेहनम् आचरेत् ।२. स्नेहनम्घृतौदनं छागरसं दिवा भुञ्जीत मात्रया ॥७॥आज्यान्नं वा मुद्गरसं लघ्वाशी स्याद्दिने सुधीः ।रात्रौ पिबेद्घृतं गव्यं सैन्धवेन समन्वितम् ॥८॥निष्कमेकं सैन्धवं च घृतं निष्कचतुष्टयम् ।भृङ्गामलकतैलेन सर्वाङ्गम् अभिषेचयेत् ॥९॥एवं सप्तदिनं कुर्यात् स्नेहनं परमं हितम् ।३. स्वेदनम्मत्स्यमांसं माषतिलयवजामलसक्तवः ॥१०॥सर्वम् एतद् भवेत् प्रस्थम् एकाष्ठीलागरूबला ।रास्ना व्याघ्री घनापत्रं कौशिकातिविषा निशा ॥११॥सर्वमेतद्द्वयपलं तक्रक्षीराम्बुकांजिकम् ।द्व्याढके निक्षिपेत् सर्वं मृत्पात्रे क्वाथयेत् सुधीः ॥१२॥कुर्यात् तस्योष्मणा गात्रं स्विन्नं द्विघटिकावधि ।एवं सप्तदिनं कुर्यात् स्वेदनं परमं हितम् ॥१३॥४ वमनम्मदनस्य फलं चैकं पाठा षोडशिकं जलम् ।पादावशिष्टं संक्वाथ्य तज्जले वस्त्रशोधिते ॥१४॥पिप्पलीन्द्रयवा यष्टिलवणं कर्षमात्रकम् ।निक्षिपेच्च पिबेत् प्रातर् वान्तिः स्यात् सर्वरोगहा ॥१५॥५. विरेचनम्सूतटङ्कणगन्धाश्म त्रिकटुं त्रिफलां समम् ।एतैः समं तु जेपालं श्लक्ष्णं तत् परिमर्दयेत् ॥१६॥गुञ्जाद्वितयमात्रं तु गुडेन सह भक्षयेत् ।विरेचनम् इति प्रोक्तं सर्वव्याधिविनाशनम् ॥१७॥पञ्चकर्मेति कथितं क्रमात् कुर्याद् विरेचने ।दोषशोधकयोगाःकेतकीस्तनजम्बीरं प्रत्यहं कुडुवं पिबेत् ॥१८॥सप्तवासरपर्यन्तं प्रातर् लवणदोषहृत् ।सलिले षोडशपले त्रिफलैकपलं क्षिपेत् ॥१९॥क्वाथयेत् पादशेषं तत् तस्मिन् शीते मधोः पलम् ।पिबेत् प्रभाते त्रिदिनं क्षारदोषहरं परम् ॥२०॥विडङ्गं सवचाकुष्ठं केतकीस्तनसंयुतम् ।क्वथितं त्रिदिनं पीतमम्लदोषहरं पिबेत् ॥२१॥अथवा तिन्त्रिणीक्षारसलिलं पलमात्रकम् ।यवक्षारसिताकर्षं संयोज्य त्रिदिनं पिबेत् ॥२२॥अम्लदोषविनाशो ऽयं कथितश्च रसायने ।वचाबिडालपालाशबीजजन्तुघ्नकर्षकम् ॥२३॥कर्षं गुडं च तत् सर्वं भक्षयेद् उष्णवारि च ।पिबेत् प्रातस्त्रिदिवसं भवेत् तत् क्रिमिपातनम् ॥२४॥श्यामावह्निविडङ्गानि वाशा त्र्यूषं फलत्रयम् ।सैन्धवं देवदारुं च मुस्ता चैतत्समं समम् ॥२५॥घृतैः कर्षं लिहेत् प्रातः सप्ताहात् सर्वरोगजित् ।एवं कृत्वा देहशुद्धिं शाल्यन्नं क्षीरभोजनम् ॥२६॥सम्यग्जातबलो भूत्वा ततः कुर्याद् रसायनम् ।रसायनोपयोगःक्षीराज्यामलकरसक्षौद्रैः सुरतरूद्भवम् ॥२७॥तैलं निर्मथ्य तत्सर्वं द्विपलं प्रत्यहं पिबेत् ।मासेन कान्तिर्मेधा च भवत्येव न संशयः ॥२८॥द्वितीयमासि पूर्वोक्तं तत् पिबेत् तच्चतुःपलम् ।तेन शाम्यन्ति दोषाश्च विकारा नेत्रसम्भवाः ॥२९॥पुनस्तृतीये मासे तु सेव्यं षट्पलमात्रकम् ।तेनामरवपुर् भूयान्महातेजा भवेद् ध्रुवम् ॥३०॥आरोटरससेवाक्रमःअथारोटरसः सेव्यः क्रमेण परमेश्वरि ।अयःशुल्बाभ्रताप्येभ्यः पातितो मारितः क्रमात् ॥३१॥अयमारोटकरसो देहसिद्धिकरः परः ।स्वेदनाद्यैश्च संस्कारैः सप्तभिः संस्कृतो रसः ॥३२॥मूर्छितो रञ्जितो देवि सूतस् त्वारोटकः स्मृतः ।रसायने रोगशान्त्यां श्रेष्ठः सर्वगुणप्रदः ॥३३॥कान्ताभ्रसत्वारोटाश्च समं गुञ्जाद्वयोन्मितम् ।मध्वाज्यत्रिफलाभिश्च मासमेकं भजेदिति ॥३४॥एवं क्रमेण संसेव्यं द्वित्रिवेदेषुषट्क्रमात् ।एवं षोडशमासान्तं गुञ्जाषोडशमात्रकम् ॥३५॥आरोटकरसे चेत्थं कुर्यान्मत्प्राणवल्लभे ।वलीपलितनिर्मुक्तो जीवेच्च शरदः शतम् ॥३६॥आरोटरसःकान्तसत्त्वाभ्रसत्त्वं च स्वर्णजीर्णरसस्तथा ।सर्वमेतत् समीकृत्य भजेद् आरोटकं तथा ॥३७॥क्षेत्रीकरणमेतद्धि सहस्रायुष्यकारकम् ।अभूमौ योजितः सूतो न प्ररोहति कुत्रचित् ॥३८॥तस्मात्क्षेत्रमकृत्वैव योजयेद् यस्तु सूतकम् ।न प्ररोहेदस्य शुभं बीजम् इवोषरे ॥३९॥खोटबद्धरससेवाक्रमःपूर्वोक्तखोटबद्धस्य सूतस्य विधिम् उत्तमम् ।क्रामणं च क्रमाद्वक्ष्ये तथा विधिनिषेधनम् ॥४०॥शृणु पार्वति यत्नेन त्वत्प्रीत्या कथयाम्यहम् ।कान्ताभ्रस्वर्णवज्राणि रसस्य क्रामणं परम् ॥४१॥क्रामणेन विना सूतो न सिध्येद् देहलोहयोः ।गुञ्जामात्रं खोटबद्धं क्रामणक्षौद्रसंयुतम् ॥४२॥मासमेकं भजेद् इत्थं पुनर् विधिक्रमेण वै ।मासषोडशपर्यन्तं यथारोटरसस्तथा ॥४३॥स शतायुष्यम् आप्नोति सर्वरोगविवर्जितः ।पलमात्रोपयोगेन व्याधिभिर् नाभिभूयते ॥४४॥द्वितीये शुक्रवृद्धिः स्यात् तृतीये बलवान् भवेत् ।चतुर्थे पलितं हन्ति वलिं जयति पञ्चमे ॥४५॥षष्ठे श्रुतिधरो वाग्मी सप्तमे नेत्ररोगहृत् ।अष्टमे तार्क्ष्यदृष्टिः स्याद् ब्रह्मायुर्ब्रह्मविक्रमः ॥४६॥उपयुञ्ज्यान्नवपलं सिद्धिमेलापकं भवेत् ।विनियुञ्ज्याद् दशपलं द्वितीयः शङ्करो भवेत् ॥४७॥सहस्रायुष्यकरं सूतं माषमात्रं भजेन्नरः ।अयुतायुष्करं सूतं यवमात्रं भजेत्प्रिये ॥४८॥लक्षायुष्यकरं सूतं व्रीहिमात्रं भजेत्सुधीः ।कोट्यां भजेत् सूतं खादयन् मुद्गमात्रकम् ॥४९॥एतत् सर्वं रसानां तु क्रामणं पूर्ववद् भवेत् ।सहस्रायुःप्रदः सूतो ब्रह्मत्वं विदधाति सः ॥५०॥अयुतायुष्करः सूतो विष्णुतां प्रददाति च ।लक्षायुष्यकरः सूतो रुद्रत्वम् उपपादयेत् ॥५१॥कोट्यायुष्यप्रदः सूतः शिवत्वं विदधाति च ।माक्षीकजीर्णसूतस्तु धनदत्वं ददाति वै ॥५२॥इन्द्रत्वं विमलाजीर्णस्त्वभ्रजीर्णोऽर्कतां ददेत् ।ब्रह्मतां शुल्बजीर्णश्च विष्णुतां तारजारितः ॥५३॥रुद्रता हेमजीर्णे स्यादीशत्वं वज्रजारिते ।सदाशिवत्वं च ददेत्पारदो द्रुतिजारितः ॥५४॥सच्चिदानन्दरूपत्वं सूतको बीजजारितः ।सामान्येन तु तीक्ष्णेन रुद्रत्वं प्राप्नुयान्नरः ॥५५॥एवं यो लोहजीर्णं तु भक्षयेद् भस्मसूतकम् ।जलेन जलरूपी स्यात्स्थलेन स्थलतां व्रजेत् ॥५६॥तेजस्त्वं तेजसा देवि वायुना वायुरूपभाक् ।कर्ता हर्ता स्वयं साक्षाच्छापानुग्रहकारकः ॥५७॥यत्र मूत्रपुरीषं तु साधकस्तु परित्यजेत् ।पाषाणं मृण्मयं तत्र स्पृष्टं भवति काञ्चनम् ॥५८॥प्रस्वेदात् तस्य गात्रस्य लोहान्यष्टौ च वेधयेत् ।तत्सर्वं कनकं दिव्यं भक्षिते द्वादशे पले ॥५९॥अथवा तारजीर्णं तु भक्षयेद् भस्मसूतकम् ।शुल्बारं वङ्गघोषं च तत्स्वेदात् तारता भवेत् ॥६०॥अथवा तीक्ष्णजीर्णं तु भक्षयेद् भस्मसूतकम् ।मूत्रेण तस्य स्पृष्टं तु वङ्गं व्रजति तारताम् ॥६१॥एकैकेन निषेकेन स्तम्भनं नागवङ्गयोः ।गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् ॥६२॥द्विगुञ्जं तारजीर्णस्य रविजीर्णस्य च त्रयम् ।तीक्ष्णाभ्रकान्तमाषैकं गुंजैका द्वेऽथवा भवेत् ॥६३॥वज्रवैक्रान्तजीर्णं तु भक्षयेत् सर्षपोन्मितम् ।नागवङ्गवसाकीटविषोपविषसंयुतम् ॥६४॥मूत्रयुक्तं हठाद् बद्धं त्यजेत् कल्कं रसायने ।हेमतारप्रवेशेन जातो योऽग्निसहः क्रमात् ॥६५॥बद्धश्च रसराजोऽयं देहसिद्धिप्रदो भवेत् ।वज्रायस्कान्तमाक्षीकवैक्रान्ताभ्रककाञ्चनम् ॥६६॥एतैर्जीर्णो यथालाभं रसः शस्तो रसायने ।षड् एवोपरसाश्चैव भक्षणार्थं रसायने ॥६७॥भस्मनस्तीक्ष्णजीर्णस्य पलम् एकं तु भक्षयेत् ।दशवर्षसहस्राणि वज्रकायः स जीवति ॥६८॥एवं च द्वादशपलं तीक्ष्णजीर्णस्य भक्षयेत् ।एवं जीवन्महाकल्पं प्रलयान्ते शिवं व्रजेत् ॥६९॥भस्मनः शुल्बजीर्णस्य पलेन ब्राह्ममायुषम् ।द्विपले वैष्णवायुष्यं रुद्रायुस्त्रिपलेन तु ॥७०॥चतुर्थे तु पले देवि शिवत्वं प्राप्नुयान्नरः ।हेमजीर्णे भस्मसूते त्रिपले भक्षिते क्रमात् ॥७१॥अष्टाशीतिसहस्राणि योगिन्यो मददर्पिताः ।तस्य तिष्ठन्ति किंकर्यः कामरूपी भवेन्नरः ॥७२॥यद् यद् भावयते रूपं तत्तद्रूपधरो भवेत् ।यत्र यत्र विलीयन्ते सिद्धिस्तत्रैव लीयते ॥७३॥मिते पले द्वादशभिर् हेमभस्मनि भक्षिते ।गुंजैकमात्रं देवेशि ज्ञात्वा चाग्निबलं निजम् ॥७४॥घृतेन मधुना चाद्यात् ताम्बूलं कामिनीं भजेत् ।एको हि दोषः सूक्ष्मोऽपि भक्षिते भस्मसूतके ॥७५॥त्रिःसप्ताहाद्वरारोहे कामान्धो जायते नरः ।कामिनीनां सहस्रं तु क्षोभयेद् दिवसान्तरे ॥७६॥नारीसङ्गाद् वरारोहे देहे क्रामति सूतकः ।नारीसङ्गाद् विना देवि ह्यजीर्णं तस्य जीर्यते ॥७७॥मैथुनाच्चलिते शुक्ले त्रिसप्ताहाद् अधः कृतात् ।जायते प्राणसंदेहस् तावन्मैथुनं त्यजेत् ॥७८॥युवत्या जल्पनं कार्यं युवत्या चाङ्गमर्दनम् ।यस्याः स्पर्शनमात्रेण रसः क्रामति विग्रहे ॥७९॥यथा तथा ह्लादयते सुस्त्रीरूपनिरीक्षणम् ।तथा क्रामति देवेशि सूतकोऽसौ ततः क्षणात् ॥८०॥अश्वत्थसदृशो यस्या आधारश्च समः शुभः ।तादृशस्तु भगो देवि भाजने तु रसायने ॥८१॥निर्मांसश्चैव दीर्घश्च भगः शुष्कशिरास्तथा ।दुःखदारिद्र्यकर्तारं वर्जयेत्तं रसायने ॥८२॥पक्षे शुक्ले शुभदिने चन्द्रताराबलान्विते ।सुमुहूर्ते चिन्त्य शिवानलविप्रगुरून्द्विजः ॥८३॥संतुष्टः सुमना भूत्वा रसं सेवेत सिद्धिदम् ।पयसा हेमशुण्ठीभ्यां नस्यं क्रामणमुत्तमम् ॥८४॥हेमादि षड्लोहकृतम् अञ्जनं क्रामणं परम् ।रससेवायां पथ्यापथ्यम्अतः परं प्रवक्ष्यामि रससेवाहिताहितम् ॥८५॥रक्तशाल्यन्नगोधूमं गव्यं क्षीरं घृतं दधि ।जाङ्गलं पललं मुद्गं शर्करा मधु सैन्धवम् ॥८६॥हंसोदकं वास्तुकं च मेघनादः पुनर्नवा ।पटोलालाबुकदलीधान्यकेक्षुकदाडिमम् ॥८७॥नालिकेराम्बु विश्वं च सदा ताम्बूलचर्वणम् ।गन्धसारं कुङ्कुमं च मृगनाभिं विलेपयेत् ॥८८॥सुरभीणि सुपुष्पाणि मृदुशय्येष्टकामिनीः ।शिवात्मज्ञानकथनं मृदुभाषा सुखासिका ॥८९॥दिव्याम्बराणि शुद्धानि छाया चाल्पविपर्यटम् ।मृत्युञ्जयजपो हर्षो मन्दहासश्च शुद्धता ॥९०॥नर्तनालोकनं गीतश्रवणं शिवपूजनम् ।देवाग्निगुरुविप्राणां वन्दनं श्रुतिपालनम् ॥९१॥समाधिः प्राणिकरुणा सत्यवाक्यं हितं प्रियम् ।वाग्देहमनसा चेष्टा यथा दुःखनिरोधिनी ॥९२॥एतत्सर्वं रसेन्द्रस्य क्रामणं कथितं प्रिये ।अहितं रससेवायाः कथयामि शृणु प्रिये ॥९३॥अत्यशनं चातिपानम् अतिनिद्रातिजागरम् ।अकाले भोजनं स्त्रीणामतिसङ्गोऽप्यसङ्गिता ॥९४॥अस्थानमदहासाश्च हर्षः कोपोऽधिकस्पृहा ।बहुजल्पो जलक्रीडा दुःखम् अत्यन्तचिन्तनम् ॥९५॥कलिङ्गं कारवेल्लं च कूष्माण्डः कर्कटी तथा ।काकमाची कुलत्थं च कार्कोटी च कुसुम्भिका ॥९६॥तिलातसीतैलमाषकपोतकमसूरकाः ।तक्रभक्तं च सौवीरं तिक्तकट्वम्ललावणम् ॥९७॥क्षारं क्षौद्रं पिच्छिलं च पित्तलं च परूषकम् ।माहिषीः क्षीरविकृतीर् विदरं सहकारकम् ॥९८॥नारङ्गबिल्वलिकुचशिग्रुनैवेद्यभोजनम् ।अग्निस्पर्शनम् अङ्घ्रिभ्यां ताडनं गोद्विजन्मनोः ॥९९॥कुमारीबालतुरगपश्वादीनां च ताडनम् ।पातकं प्राणिहिंसा च छेदनं भूरुहाम् अपि ॥१००॥अक्षादिसप्तव्यसनं छायाश्वत्थकपित्थयोः ।लिङ्गस्त्रीनरखट्वानां तथा द्वीपिविभीतयोः ॥१०१॥चतुष्पथातिनिर्विक्तस्थाने विण्मूत्रमोचनम् ।शिवद्विजगुरुस्त्रीणां वीरयोनियतात्मनाम् ॥१०२॥समयश्रुतिसूतानां नदीतीर्थाम्भसां नृणाम् ।पलाण्डुहिङ्गुलशुनराजिकाबृहतीद्वयम् ॥१०३॥निष्पावलङ्घनोद्वर्तिनिशाशाभरणन्दिता ।सुप्तिर् मद्यासवौ ताम्रचूडश्च जलजामिषम् ॥१०४॥तीक्ष्णोष्णगुरुविष्टम्भिरूक्षशुष्कामिषं मधु ।कदलीपत्रकांस्येषु भोजनं घर्मसेवनम् ॥१०५॥एतानि द्रव्यजालानि निषिद्धानि रसायने ।अपथ्यजनिता रोगाःसेवेत चेत्प्रमादेन विकृतिर्जायते क्षणात् ॥१०६॥रसाजीर्णे भवेत्कान्ते शोषो मूर्च्छा भ्रमो ज्वरः ।क्लमः कम्पः शकृन्मूत्ररोधनं शूलवेपथुः ॥१०७॥अनिद्रालस्यहिक्का च कासश्वासविजृम्भिकाः ।अरोचकातिसारश्च लिङ्गस्तम्भो ऽक्षिकुक्षिषु ॥१०८॥वक्षःकर्णोदराङ्घ्रौ च मेढ्रे शिरसि सन्धिषु ।दाहोऽङ्गभङ्गसर्वेऽन्ये व्याधयः सम्भवन्ति वै ॥१०९॥रसाजीर्णप्रशान्त्यर्थं योगोऽयं कथ्यते मया ।राजकोशातकी पुङ्खा गरुडी कारवल्लिका ॥११०॥कार्कोटी काकमाची च देवदाली पराजिता ।सर्वम् एतच्चैकपलं गोमूत्रे तु चतुष्पले ॥१११॥क्वाथयेत् पादशेषं तु कार्षिकं स्वच्छसैन्धवम् ।निक्षिपेत् तत् पिबेत् क्वाथं रसाजीर्णे हितंकरम् ॥११२॥सुखीभवेत् त्रिदिवसे रसस्य क्रामणं भवेत् ।रसो व्यथयते तत्तदङ्गं संपरिमर्दयेत् ॥११३॥वा स्तनेन च तन्वङ्ग्या निर्व्यथः क्रमते रसः ।सप्तधातुवेधःत्वग्वेधः प्रथमं देवि रक्तवेधो द्वितीयकः ॥११४॥तृतीयो मांसवेधः स्यान्मेदोवेधश्चतुर्थकः ।अस्थिवेधः पञ्चमः स्यात्षष्ठो मज्जात्मको भवेत् ॥११५॥सप्तमः शुक्लवेधः स्यात् नाडीवेधस्तथाष्टमः ।नवमश्चक्षुषो वेधो दशमः सर्ववेधकः ॥११६॥रसवेधेन भुजगः स्वर्णं स्याद् रक्तवेधतः ।त्रपु स्वर्णं भवेन्मांसवेधात् तीक्ष्णं च काञ्चनम् ॥११७॥मेदोवेधेन शुल्बं तु स्वर्णं स्यादस्थिवेधतः ।रूप्यं स्वर्णं भवेन्मज्जवेधाल्लोहानि कांचनम् ॥११८॥शुक्लवेधेन मृत्पात्रं काञ्चनं भवति प्रिये ।वज्रजीर्णो वीर्यवेधी मज्जामभ्रकजारितः ॥११९॥हेमजीर्णस्त्वस्थिवेधी रूप्यजीर्णो रसं प्रिये ।मेदोवेधी ताप्यजीर्णो मांसवेधी तु पारदः ॥१२०॥शुल्बजीर्णो रक्तवेधी कान्तजीर्णो रसात्मकः ।तीक्ष्णबद्धेन नीलाभस् ताम्रेणारुणसप्रभः ॥१२१॥रजतेनेन्दुसंकाशो हेम्ना काञ्चनसप्रभः ।धूमावलोकी वक्त्रस्थो मासात्खेचरतां नयेत् ॥१२२॥स्पर्शवेधी तु वक्त्रस्थो द्विमासात्सिद्धिदायकः ।शतकोटिस्त्रिभिर्मासैश् चतुर्भिर् दशकोटिकृत् ॥१२३॥पञ्चभिः कोटिवेधी स्याद् अष्टभिश्चायुतं पुनः ।साहस्रं नवभिर्मासैर् दशमासे शतं पुनः ॥१२४॥तस्य मूत्रपुरीषैस्तु श्लेष्मणाङ्गमलैस् तथा ।लेपाद्धेमत्वम् आयान्ति यानि लोहानि भूतले ॥१२५॥चतुःषष्ट्यंशतो वेधी मासम् एकादशस्य तु ।द्वात्रिंशकवेधी तु वर्षाद् देहं तु वेधयेत् ॥१२६॥सर्वरोगैर् विनिर्मुक्तो वलीपलितवर्जितः ।नासौ छिद्येत शस्त्रैश्च पावकेन न दह्यते ॥१२७॥वायुवेगी महातेजाः कामदेव इवापरः ।इच्छया जायते दृश्योऽप्यदृश्यचैव जायते ॥१२८॥यस्य संस्पर्शमात्रेण सर्वलोहानि काञ्चनम् ।तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥१२९॥देवा यत्र विलीयन्ते सिद्धस्तत्रैव लीयते ॥१३०॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP