संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग ४ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग ४ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ४ Translation - भाषांतर रससंकाराःश्रीभैरवी ।रससंस्कारमीश त्वं यथावत्कथयस्व मे ।श्रीभैरवः ।अष्टादश स्युः संस्कारा रसस्य परमेश्वरि ॥१॥तान्सिद्धसाधकाभ्यर्च्ये यथावत्कथयामि ते ।अथादौ स्वेदनं कर्म द्वितीयं मर्दनं प्रिये ॥२॥मूर्छा तृतीयमुत्थानं चतुर्थं पातनं शिवे ।पञ्चमं रोधनं षष्ठं नियामं सप्तमं स्मृतम् ॥३॥दीपनं चाष्टमं देवि नवमं चानुवासनम् ।दशमं चारणं देवि जारणं रुद्रसंख्यकम् ॥४॥गर्भद्रुतिर्द्वादशी स्यात् बाह्यद्रुतिस्त्रयोदशी ।चतुर्दशं स्याद्रागाख्यं सारणा दशपञ्चमी ॥५॥अनुसारणा षोडशी च विख्याता प्रतिसारणा ।सप्तदशी चाष्टदशं वेधनं देहलोहयोः ॥६॥रससंस्कारप्रकारःअथ वक्ष्यामि संस्कारान् रसराजस्य पार्वति ।लिङ्गस्य दक्षिणे भागे लिखेत् षट्कोणमण्डले ॥७॥तद्बहिश्चाष्टपत्रं च कमलं चतुरश्रकम् ।दिग्द्वारशोभितं तस्य कर्णिकायां न्यसेच्छिवे ॥८॥ताम्रजं कान्तजं वापि खल्वं तु स्वर्णरेखितम् ।तन्मध्ये रसराजं तु पलानां शतमात्रकम् ॥९॥तदर्धं वा तदर्धं वा क्षिप्त्वा भक्त्या प्रपूजयेत् ।साधको रसराजस्य ततः संस्कारमाचरेत् ॥१०॥स्वेदनम्, धान्याम्लसन्धानप्रकारःयवगोधूमकलममाषमुद्गचणादिभिः ।श्यामाककोद्रवाद्यैश्च नानाधान्यैश्च निस्तुषैः ॥११॥धान्यं चतुर्गुणजले मृद्घटे निक्षिपेत्प्रिये ।प्राप्नोति यावदम्लत्वं तावद्यत्नेन रक्षयेत् ॥१२॥तन्मध्ये हंसपादीं च मीनाक्षीं द्विपुनर्नवाम् ।चित्रकं भृङ्गराजं च विष्णुक्रान्तां शतावरीम् ॥१३॥सर्पाक्षीं गिरिकर्णीं च मुण्डीं च सहदेविकाम् ।त्रिफलां खण्डशः कृत्वा सर्वानेतान्विनिक्षिपेत् ॥१४॥धान्यस्य च चतुर्थांशान् धान्याम्लमिदमुत्तमम् ।स्वेदनादिषु कार्येषु पारदस्य विशिष्यते ॥१५॥आतप्ते कान्तजे खल्वे रसराजं विनिक्षिपेत् ।चूर्णं च गृहधूमं च चित्रकं त्रिफलां गुडम् ॥१६॥दग्धोर्णामिष्टकां कन्यां लवणं बृहतीद्वयम् ।मागधीं राजिकां चैव वन्ध्यां कर्कोटकीं तथा ॥१७॥एतान्कलांशान्सूतस्य तस्मिन्क्षिप्त्वा विमर्दयेत् ।दत्त्वा दत्त्वाथ धान्याम्लमेवं कृत्वा दिनत्रयम् ॥१८॥सम्यक् सोष्णारनालेन रसं प्रक्षालयेत्प्रिये ।पटुं राजीं त्रिकटुकं मूलकं चित्रकं वराम् ॥१९॥पुनर्नवां मेषशृङ्गीं मेघनादं दुरालभाम् ।आर्द्रकं रजनीं नागबलां च नवसारकम् ॥२०॥समं धान्याम्लकैः पिष्ट्वा श्लक्ष्णं वस्त्रे प्रलेपयेत् ।यावदङ्गुलिमात्रं च तस्मिन्पूर्वरसं क्षिपेत् ॥२१॥तद्बद्ध्वा ताम्रजे पात्रे क्षिप्त्वा धान्याम्लपूरिते ।घटे दोलाख्ययन्त्रे च स्वेदयेत्तमहर्निशम् ॥२२॥तमुद्धृत्य पुनः सोष्णैर् आरनालैः शरावके ।प्रक्षालयेत्सूतराजमेवं कुर्यात्त्रिसप्तधा ॥२३॥प्रस्वेदितं सूतराजं ततः संमर्दयेत् प्रिये ।मर्दनम्अथातो मर्दनं कर्म वक्ष्यामि शृणु भैरवि ॥२४॥चूर्णादिपूर्ववद्द्रव्यं विशालां राजवृक्षकम् ।अङ्कोलं कृष्णधुत्तूरं त्रिकटुं च समं समम् ॥२५॥सर्वं सूतकलांशं च तप्तखल्वे रसं क्षिपेत् ।मर्दयेत् पूर्वधान्याम्लैर् दिवारात्रं पुनश्च तम् ॥२६॥क्षालयेन्मृण्मये पात्रे ततः सोष्णारनालकैः ।मर्दनं क्षालनं चैवमेकविंशतिवासरम् ॥२७॥एवं विमर्दितं सूतं समादायाथ मूर्छयेत् ।अभ्रजीर्णोऽथवा बीजजीर्णः सूतोऽपि मर्द्यते ॥२८॥चूर्णादिपूर्वद्रव्यैश्च रागान् गृह्णाति निर्मलः ।मूर्च्छाअथ मूर्छां प्रवक्ष्यामि शृणु त्वं सावधानतः ॥२९॥राजिका मेषशृङ्गी च चित्रकं च फलत्रयम् ।क्षीरकन्दं सूरणं च सर्पाक्षी काकमाचिका ॥३०॥नीला वचा बला कन्या कृष्णोन्मत्तस्तथाकुली ।श्वेतापराजिताङ्कोलं गोजिह्वा गरुडी तथा ॥३१॥एतेषां स्वरसैर्मर्द्यो रविक्षीरेण पारदः ।व्यस्तानां वा समस्तानां रसैरेषां दिनावधि ॥३२॥मर्दयेत्तप्तखल्वे च मूषायां तं रसं क्षिपेत् ।निरुध्य भूधरे यन्त्रे विपचेत्तं पुनः प्रिये ॥३३॥राजिकाद्यौषधभवै रसैस् त्रिः सप्तवासरम् ।मर्दनं भूधरे पाकं कुर्यात्संमूर्छितो रसः ॥३४॥भवेत्तदुत्थानविधिं प्रकुर्वीत सुरार्चिते ।उत्थापनविधिःएवं संमूर्छितं सूतं क्षालयेत्कांजिकेन च ॥३५॥सोष्णेन वारिणा वापि सूतमुत्थापयेत्प्रिये ।पातनायन्त्रयोगे वा रसस्योत्थापनं भवेत् ॥३६॥पातनम्पातनं त्रिविधं प्रोक्तं रसराजस्य पार्वति ।ऊर्ध्वपातमधःपातं तिर्यक्पातनमुच्यते ॥३७॥ऊर्ध्वपातनविधिःरसस्य पातनं वक्ष्ये पाठा ब्राह्मी च चित्रकम् ।शाङ्गेरी काकमाची च मण्डूकी गिरिकर्णिका ॥३८॥कुमारी च जया भृङ्गी गोजिह्वा शङ्खपुष्पिका ।भूपाटली च निर्गुण्डी काकजङ्घा शतावरी ॥३९॥आर्द्रकं देवदाली च तिलपर्णी च नीलिका ।आरग्वधः क्षीरकन्दमङ्कोलो देवदारु च ॥४०॥एषां रसैः समस्तानां व्यस्तानां वा दिनं रसम् ।मर्दयेत्तप्तखल्वे तत् शुल्बं सूतचतुर्थकम् ॥४१॥तं पिष्ट्वा पातयेद्यन्त्रे ह्यूर्ध्वपातनके दिनम् ।ऊर्ध्वलग्नं रसं शुद्धं तमादायाथ मर्दयेत् ॥४२॥पूर्वोदितौषधरसैः पूर्ववत् शुल्बसंयुतम् ।पातयेन्मर्दयेदेवं सप्तधैवं पुनः पुनः ॥४३॥ऊर्ध्वपातनसंशुद्धं पारदं पातयेदधः ।अधःपातनविधिःअथाधःपातनं वक्ष्ये त्र्यूषणं लवणं वराम् ॥४४॥चित्रकं राजिकां शिग्रुं सर्वं सूतसमं क्षिपेत् ।मर्दयेत्तप्तखल्वे च रसं धान्याम्लकेन च ॥४५॥तत्कल्केन लिपेदूर्ध्वं भाण्डं सम्यक् निरोधयेत् ।ऊर्ध्वभाण्डस्य पृष्ठे तु दद्याल्लघुपुटं ततः ॥४६॥इत्यधःपातनं कुर्यात्सप्तवारं पुनः पुनः ।अधःपातनशुद्धस्य तिर्यक्पातनमाचरेत् ॥४७॥तिर्यक्पातनविधिःवक्ष्यामि तिर्यक्पतनं सूतं धान्याभ्रकं समम् ।धान्याम्लैर्मर्दयेद्यामं तिर्यक्पातनयन्त्रके ॥४८॥चण्डाग्निना पचेदेवं सप्तवारं पुनः पुनः ।एवं त्रिधा पातितं च ततः सूतं निरोधयेत् ॥४९॥अभ्रकं वाथ गन्धं वा माक्षिकं विमलामपि ।स्वर्णं वा रजतं वापि कान्तं वा तीक्ष्णमेव वा ॥५०॥प्रत्येकं शोधितं देयं ताम्रवत्पादमात्रकम् ।पाठादिकरसैः कुर्यान्मर्दनं पातनं क्रमात् ॥५१॥यद्यद्द्रव्यान्वितः सूतस् तत्तद्द्रव्यगुणप्रदः ।पातने ताम्रयोगेन नागवङ्गौ त्यजेद्रसः ॥५२॥अथवा दीपिकायन्त्रे शुद्धः स्यात्पातितो रसः ।निरोधनम्कदर्थितो भवेत्सूतः स्वेदाद्यैः पञ्चकर्मभिः ॥५३॥आप्यायनार्थं सूतस्य कर्म कुर्यान्निरोधनम् ।अथ कर्म निरोधाख्यं पेषयेल्लवणं जलैः ॥५४॥स्थालीमध्ये रसं क्षिप्त्वा तदूर्ध्वं लवणं क्षिपेत् ।किंचिज् जलं च निवपेत्तं शरावेण रोधयेत् ॥५५॥कुर्यात्सम्यक् सन्धिलेपं तदूर्ध्वं च पुटेल्लघु ।एवं निरोधनं कर्म विदध्यात्सप्तधा प्रिये ॥५६॥आप्यायितो भवेत्सूतोऽनेन षण्डत्ववर्जितः ।निरोधकर्मसिद्धोऽसौ वीर्यवान् सुनियम्यते ॥५७॥नियामनम्अथो नियामनं कर्म कथयामि वरानने ।यवचिञ्चा क्षीरकन्दं सर्पाक्षी पटु भृङ्गराट् ॥५८॥वन्ध्या कर्कोटकी निम्बः सर्वं धान्याम्लपेषितम् ।कृत्वालोड्यारनालेन तद्द्रवैः स्वेदयेद्दिनम् ॥५९॥यन्त्रे नियामके सप्तवासरं तं च दीपयेत् ।दीपनम्अथातो दीपनं कर्म वदामि तव पार्वति ॥६०॥स्वर्णपुष्पी च मरीचं त्रिक्षारं पञ्चपुष्पिका ।भूखगः पञ्चलवणं राजिका शिग्रुमूलकम् ॥६१॥कासीसं विजया कन्या पातालगरुडी कणा ।क्षीरकन्दं च कर्कोटी गिरिकर्णी जया मधु ॥६२॥चित्रकं काकजङ्घा च सर्वमम्लगणेन च ।कल्कयेत्पारदं तेन मर्दयेत्तद्द्रवैरपि ॥६३॥डोलायन्त्रे पचेदेकदिनमेवं च सप्तधा ।मर्दनं पाचनं कुर्यात् ग्रासार्थी दीपितो रसः ॥६४॥एवं प्रदीपितं सूतं शुद्धं तमनुवासयेत् ।अनुवासनम्अथानुवासनं कर्म मृत्पात्रे दीपितं रसम् ॥६५॥क्षिप्त्वा जम्बीरजद्रावैस्तीव्रघर्मेऽनुवासयेत् ।एवं सप्तदिनं कुर्यात्ततश्चारणमाचरेत् ॥६६॥नवभिः स्वेदनाद्यैश्च शुद्धः स्यात्कर्मभिः प्रिये ।पारदः सर्वरोगघ्नः सप्तकञ्चुकवर्जितः ॥६७॥श्रीभैरवी ।स्वेदनादीनि कर्माणि श्रुतानि वद शङ्कर ।त्वत्प्रसादाद् असंदेहं संशृण्वे चारणादिकम् ॥६८॥श्रीभैरवः ।साधु पृष्टं महाभागे शृणु तच्चारणादिकम् ।चारणविधिःअथाभ्रचारणं कर्म वक्ष्यामि परमेश्वरि ॥६९॥समुखे वा निर्मुखे वा रसे वा वासनामुखे ।गगनं चारयेद्गर्भपिष्टिग्रासक्रमैः क्रमात् ॥७०॥समुखचारणम्अत्रादौ कथ्यते देवि समुखं चारणं स्फुटम् ।समुखो ग्रसति ग्रासं निर्मुखो ग्रसनाक्षमः ॥७१॥तस्मात्परं रसेन्द्रस्य मुखीकरणमाचरेत् ।प्रथमो मुखीकरणप्रकारःइष्टकामध्यभागे तु गम्भीरं वर्तुलं समम् ॥७२॥गर्तं कृत्वा तत्र सूतं प्रक्षिपेदनुवासितम् ।निरुन्ध्यात्स्वच्छवस्त्रेण रसस्य दशमांशकम् ॥७३॥गन्धं तदूर्ध्वं निक्षिप्य शरावेण निरोधयेत् ।तत्पृष्ठेऽल्पपुटं दद्यात् गन्धे जीर्णे पुनः पुनः ॥७४॥क्षिप्त्वा क्षिप्त्वा शतगुणं चारयेत्पातयेदिति ।चतुर्गुणे सान्द्रवस्त्रे गालयेत्तं रसेश्वरम् ॥७५॥वेणौ क्षिप्त्वा निरुध्यास्यं पचेद्गोमूत्रपूरिते ।भाण्डे त्रिसप्तदिवसं पुनस्तं तप्तखल्वके ॥७६॥जम्बीरमातुलुङ्गाम्लवेतसैर् भूखगैस् त्र्यहम् ।भूनागैश्च त्र्यहं मर्द्यं तं पश्चादिष्टकोदरे ॥७७॥एकैकं गर्तमादद्याद्धान्याभ्रं गन्धकं तथा ।प्रत्येकं दशनिष्कं च यामं जम्बीरमर्दितम् ॥७८॥अनेन लेपयेद् गर्तद्वयम् एकेष्टकान्तरे ।गर्ते क्षिप्त्वाथ तं तं विंशन्निष्कं तदूर्ध्वतः ॥७९॥अपराम् इष्टकां दद्यात् तत्सन्धिं लोणमृत्स्नया ।दृढं लिप्त्वाथ दीपाग्नौ पचेत्सप्तदिनावधि ॥८०॥इष्टकां स्वाङ्गशीतां ताम् अवतार्य हरेद्रसम् ।किट्टहीनं पुनरपि कुर्यादित्थं त्रिवारकम् ॥८१॥एवं कृते रसेन्द्रस्य सुखं स्याद्देवसंज्ञकम् ।द्वितीयो मुखीकरणप्रकारःपुनरन्यं प्रवक्ष्यामि मुखीकरणमुत्तमम् ॥८२॥रसेन्द्रं जीविभूनागसमं संमर्दयेत्त्र्यहम् ।तत्क्षिपेत् भूलतालिप्तमूषायां संनिवेशयेत् ॥८३॥तदूर्ध्वं भूलताकल्कं क्षिप्त्वा रुद्ध्वा विशोषयेत् ।आर्द्रगोमयलिप्तां तां पादमग्नां निवेशयेत् ॥८४॥तद्गर्ते च पुटं देयं तुषकारीषवह्निना ।दिनान्ते तत्समुद्धृत्य पूर्ववन्मर्दयेत्पचेत् ॥८५॥त्रिंशद्वारं पुनः कुर्यादित्थं वह्निमुखो रसः ।ग्रसते गुह्यसूतोऽयं सर्वसिद्धिप्रदो भवेत् ॥८६॥तृतीयो मुखीकरणप्रकारःपुनरन्यं प्रवक्ष्यामि मुखीकरणमुत्तमम् ।गोमूत्रपूरिते भाण्डे डोलायन्त्रे पचेद्रसम् ॥८७॥त्रिः सप्तवारं सम्यक्च रन्ध्रितं वेणुनालके ।मुखं भवति सूतस्य चारणार्हं वरानने ॥८८॥चतुर्थो मुखीकरणप्रकारःइष्टकाद्वयमध्ये च गर्तं तु चतुरङ्गुलम् ।दशनिष्कं शुद्धगन्धं धान्याभ्रं दशनिष्ककम् ॥८९॥जम्बीरनीरैः संमर्द्य यामं कल्केन तेन च ।गर्तद्वयं समांशेन लिप्त्वा गर्ते विनिक्षिपेत् ॥९०॥वासितं रसराजं तं विंशन्निष्कं तदूर्ध्वतः ।इष्टकामपरां न्यस्य श्लक्ष्णमृल्लवणैर्दृढम् ॥९१॥लेपयेदथ दीपाग्निमधः प्रज्वालयेत्प्रिये ।अनुस्यूतं सप्तरात्रं स्वाङ्गशीतं समुद्धरेत् ॥९२॥किट्टं विहाय तं सूतं पूर्ववच्च त्रिवारकम् ।कुर्यादेवं हि सूतस्य मुखं भवति शोभनम् ॥९३॥निर्मुखचारणाप्रकारःदिव्यौषधिप्रभावेन रसश्चरति निर्मुखः ।अथवा वज्रवैक्रान्तस्पर्शाद् अभ्रादिकं चरेत् ॥९४॥पारदस्य चतुःषष्टिनिष्कं वैक्रान्तभस्म च ।चतुर्निष्कं वज्रभस्म निष्कं दिव्यौषधिद्रवैः ॥९५॥सर्वं सप्तदिनं मर्द्य स रसोऽभ्रादिकं चरेत् ।वासनामुखचारणम्गन्धकं जारयेत्सूते दोलाख्ये पूर्वभाषिते ॥९६॥यन्त्रे च षोडशगुणं रसः स्याद्वासनामुखः ।अभ्रकाभिषेकः चारणीयाभ्रकस्य संस्कारःचारणार्हाभ्रकस्याहम् अभिषेकं वदामि ते ॥९७॥प्रथमः प्रकारःमृतमभ्रं तु रुधिरैः क्षारैर् जलकणैर् अपि ।सृष्टित्रयैस् तुम्बुरुभिर् मर्दयेद् अम्लवर्गकैः ॥९८॥सप्ताहं तच्चरेत्सूतः समुखो निर्मुखोऽथवा ।द्वितीयः प्रकारःमृतमभ्रं च कदली मूलकं च शतावरी ॥९९॥पुनर्नवा मेघनादो यवचिञ्चा च शिग्रुकः ।सूरणं च रसैरेषां मर्दयेद्भावयेत्प्रिये ॥१००॥सप्ताहं तच्चरेत्सूतः समुखो निर्मुखोऽथवा ।तृतीयः प्रकारःशुल्वपात्रे तु लवणसर्जिटङ्कणभूखगान् ॥१०१॥क्षिप्त्वारनालं त्रिदिनं कुर्यात्पर्युषितं यथा ।तस्मिन्नागं तु विद्राव्य ढालयेच्छतधा प्रिये ॥१०२॥रौप्यकर्मणि वङ्गस्य तद्द्रवैर्भावयेद् घनम् ।सप्ताहं तच्चरेत् सूतः समुखो निर्मुखोऽथवा ॥१०३॥चतुर्थः प्रकारःधान्याभ्रमर्कक्षीरेण मर्दयेदेकवासरम् ।निरुध्य संपुटे पच्यात्कपोताख्ये पुटे पुनः ॥१०४॥चतुर्वारं पुटेदेवं मर्दयेच्च पुनस्तथा ।रम्भाद्रवैस्त्रिधा मर्द्यं मूलकस्य द्रवैस्त्रिधा ॥१०५॥काकमाची मेघनादो मत्स्याक्षी च पुनर्नवा ।अपामार्गश्चित्रकं च विदारी भृङ्गराण्मुनिः ॥१०६॥चतुर्वारं पचेदेवं मर्दयेच्च पुनस्तथा ।एतैरेकैकधा मर्द्यं पुटपाकं पृथक् पृथक् ॥१०७॥तदभ्रकं भावयेच्च मुसली यवचिञ्चिकाः ।तण्डुली कदली शिग्रुर्वरी चार्कः पुनर्नवा ॥१०८॥एकैकैश्च द्रवैर्भाव्यमेकैकं दिवसं पृथक् ।तदभ्रकं पारदेन्द्रश्चरत्येव सुरार्चिते ॥१०९॥पञ्चमः प्रकारःधान्याभ्रं रविदुग्धेन मर्दयेद्याममात्रकम् ।तदभ्रं संपुटे रुद्ध्वा कपोताख्यपुटे पचेत् ॥११०॥वारांश्चतुर्दशैवं स्यात्ततो रम्भार्कपीलुकाः ।नागवल्ली च मुसली कुबेराक्षी च शिग्रुकः ॥१११॥तुम्बी तुम्बुरुर् अङ्कोलबलापामार्गकाः प्रिये ।गृहीत्वैषामेकरसं सव्योषं च सकांजिकम् ॥११२॥भाण्डमध्ये विनिक्षिप्य डोलायन्त्रे पचेत्त्र्यहम् ।पूर्वाभ्रं च ततस्तस्मात्समुद्धृत्याथ साधयेत् ॥११३॥टङ्कणं तुवरी सिन्धुकासीसं च समं समम् ।अभ्रकस्य दशांशं तु सर्वमेतद्विमर्दयेत् ॥११४॥तदभ्रकं चरेत्सूतः समुखो निर्मुखोऽथवा ।षष्टः प्रकारःमुण्डीद्रवे तु शतधा द्रुतं नागं प्रढालयेत् ॥११५॥तद्द्रवेण च धान्याभ्रं मर्दयेत्संपुटे क्षिपेत् ।रुद्ध्वा पचेत्कपोताख्ये पुटे चैवं तु सप्तधा ॥११६॥आर्द्रकस्य द्रवैरेवं सप्तधा चित्रकद्रवैः ।तत्समं गन्धकं दत्त्वा मर्दयेद् भावयेत् क्रमात् ॥११७॥प्रागुक्तमुण्डीस्वरसैर् बीजपूररसेन च ।स्तन्यैरेकदिनं भाव्यं तदभ्रं च चरेद्रसः ॥११८॥एवं सर्वाणि बीजानि सत्त्वं चाभ्रकस्य च ।स्वर्णादिसर्वलोहानि सत्वानि विविधानि च ॥११९॥द्वन्द्वानि सर्वरत्नानि यद्यत्स्याच्चारणार्हकम् ।तत् तत् पिष्ट्वाभ्रवत् कार्यं तत्तच्चरति पारदः ॥१२०॥सप्तमः प्रकारःतिलपर्णीरसैः पिष्ट्वा धान्याभ्रं पुटयेत् त्रिधा ।सप्तधा भावयेदस्य मर्दनेन च पारदः ॥१२१॥पिष्टतां याति सहसा गगनं चरति क्षणात् ।अष्टमः प्रकारःत्रिक्षारं पञ्चलवणं काङ्क्षी कासीसटङ्कणम् ॥१२२॥भूखगं हेममाक्षीकं सौराष्ट्री वत्सनाभकम् ।तुवरी वेतसाम्लं च सर्वमेतत्समांशकम् ॥१२३॥तत्समांशं तु धान्याभ्रं धान्याम्लैर्मर्दयेद्दिनम् ।अर्कक्षीरं भृङ्गराजो मेघनादः पुनर्नवा ॥१२४॥मूलकं चित्रकं रंभा काकमाची शतावरी ।अपामार्गस्तालमूली विदारी तण्डुली मुनिः ॥१२५॥मीनाक्षी शिग्रु बृहती कुमारी यवचिञ्चिका ।बला तुम्बी कुबेराक्षी व्योषं तुम्बुरुपीलुनी ॥१२६॥अङ्कोलः फणिवल्ली च सर्वमेतत्समांशकम् ।संपेष्य कल्कयेद्देवि धान्याम्ले तच्चतुर्गुणे ॥१२७॥द्रुतं नागं शतं वारान्क्षिपेत्तस्मिन्पुनः पुनः ।कल्कद्रवेण पूर्वाभ्रं यामं संमर्दयेद्दृढम् ॥१२८॥कपोताख्ये पुटे पच्यादेवं विंशतिवारकम् ।तत्तुल्यं गन्धकं दत्त्वा पूर्वोक्तैरौषधद्रवैः ॥१२९॥सस्तन्यैर् बीजपूरोत्थैर् द्रवैर् भाव्यं त्रिवासरम् ।एतदभ्रं तु सूतस्य चारणे परमं हितम् ॥१३०॥द्वंद्वितं व्योमसत्वं च बीजानि विविधानि च ।हेमादिसर्वलोहानि रत्नानि विविधानि च ॥१३१॥द्वंद्वितं वज्रबीजं च चारणायां विधीयते ।समस्तमेतत्पूर्वोक्तप्रकारेणैव कारयेत् ॥१३२॥तदा रसेन्द्रश्चरति तत्सर्वं चारणोचितः ।नवमः प्रकारःपात्रे तु कासीसं कांक्षी माक्षीकगन्धकम् ॥१३३॥क्षारत्रयं पञ्चलोणम् अम्लयुक्तं क्षणं क्षिपेत् ।दिव्याभिषेकयोगोक्तं शतधा ढालयेदहिम् ॥१३४॥वङ्गं वानेन वस्तूनि चारणार्हाणि भावयेत् ।वरी पुनर्नवा रंभा गवाक्षी यवचिञ्चिका ॥१३५॥शिग्रुका मेघनादश्च रसैरेषां विभावयेत् ।वज्राभ्रकं क्रमेणैव सप्ताहं सुरवन्दिते ॥१३६॥तदभ्रकं नागवल्ल्या कोबेर्या शिग्रुकस्य वा ।बाणाङ्कोलबलारंभास्फोतानां पीलुकस्य वा ॥१३७॥अलम्बुषाहिमरुचामुसलीतुम्बुरोर् अपि ।अथवा खरमञ्जर्यास्तिक्तशाकस्य वा प्रिये ॥१३८॥एकेनैषां रसेनैव व्योषसर्षपसंयुतम् ।स्विन्नं त्रिदिवसं कुर्यात्तस्मिन्टङ्कणसैन्धवम् ॥१३९॥कासीसं तुवरीं क्षिप्त्वा पूर्वाभिषवयोगतः ।एतदभ्रं चरेत्सूतः समुखो निर्मुखोऽथवा ॥१४०॥तदभ्रकप्रभावेन गोलकः सिद्धिदो भवेत् ।दशमः प्रकारःधान्याम्लैरम्लवर्गैश्च स्वेदयेदभ्रकं दिनम् ॥१४१॥ततः स्नुक्क्षीरतो मर्द्यं कपोताख्ये पुटे दहेत् ।मुनित्रयं मेघनादं रम्भाकन्दं च मूलकम् ॥१४२॥मत्स्याक्षी शृङ्गिवेरं च काकमाची पुनर्नवा ।अपामार्गस् त्व् अरूपूगश्चैतेषां तु रसेन च ॥१४३॥एकैकेन पुनर्दद्यादेकैकं पूर्वमभ्रकम् ।डोलायन्त्रे स्नुहीक्षीरयुक्तमेकदिनं पचेत् ॥१४४॥ततश्छायागते शुष्के घनेऽस्मिन्नवसारकम् ।निम्बं वचां च कासीसं चणकाम्लं पृथक्पृथक् ॥१४५॥अभ्रस्य षोडशांशं च निक्षिपेत्ताम्रभाजने ।घर्षयेत्तच्चरेत्सूतो लोहपात्रस्य योगतः ॥१४६॥एकादशः प्रकारःधान्याभ्रं मर्दयेत्सोमवल्लीतोयैर्दिनं दृढम् ।पुटेदेवं त्रिधा पश्चात् सोमवल्ल्या रसेन च ॥१४७॥भावयेत्सप्तधा देवि रसश्चरति तद्घनम् ।द्वादशः प्रकारःसारनाले तु शतधा निषिच्य तमनेन च ॥१४८॥शतधा प्लावयेदभ्रं ताम्रवासनया सह ।खलल्यां तच्चरेत्सूतो नात्र कार्या विचारणा ॥१४९॥गन्धकभावनाचारणार्थस्य गन्धस्य भावनां शृणु पार्वति ।सौराष्ट्रं चाजमोदं च सर्जीं सीसमेव च ॥१५०॥मर्दयेच्छिग्रुतोयेन गन्धकं तेन भावयेत् ।सप्ताहं मर्दितं गन्धं चारयेत्पारदस्य च ॥१५१॥रागं धत्ते रसेन्द्रस्य बीजानां पाकजारणे ।पक्षच्छेदे रसेन्द्रस्य श्रेष्ठः स्यात् सर्वकर्मणि ॥१५२॥पलाशपुष्पस्वरसैः शाकवृक्षच्छदद्रवैः ।विष्णुक्रान्ताद्रवैर्गन्धं भावयेत्सप्तवासरम् ॥१५३॥तं गन्धं चारयेत्सूते इष्टकायन्त्रयोगतः ।अम्रचारणे श्रेष्ठा दिव्यमूल्यःअथाभ्रचारणे श्रेष्ठा दिव्यमूलीर्वदामि ते ॥१५४॥वज्री रंभा हंसपदी चिञ्चिका व्याघ्रपादिका ।मण्डूकी बृहती पुङ्खा कुमारी लाङ्गली तथा ॥१५५॥सर्पाक्षी चाग्निधमनी शङ्खपुष्पीन्द्रवारुणी ।षण्डजारी च कर्कोटी विख्याता दिव्यमूलिका ॥१५६॥गन्धकाभ्रकचारणम्अथातश्चारणं कर्म प्रवक्ष्यामि समासतः ।धान्याभ्रकं द्रुते गन्धे समं क्षिप्त्वा नियोजयेत् ॥१५७॥ख्यातो गन्धाभ्रयोगोऽयं श्रेष्ठश्चारणकर्मणि ।समुखं निर्मुखं वापि पारदं दशनिष्ककम् ॥१५८॥गन्धाभ्रयोगनिष्के द्वे पिष्टं कुर्याद्यथा तथा ।तं पिष्टं नागपिष्ट्याथ समया परिवेष्टयेत् ॥१५९॥हेमकर्मणि वङ्गस्य पिष्ट्या रजतकर्मणि ।ताम्रपिष्ट्या देहसिद्धौ वेष्टयेत्परमेश्वरि ॥१६०॥तां पिष्टिं विद्रुते गन्धे विपचेद्दिवसत्रयम् ।तां पिष्टिं दीपिकायन्त्रे पाचयेत्पातयेदधः ॥१६१॥तं रसं पूर्ववत्पिष्टिं कुर्याद्वेष्टनवर्जिताम् ।त्रिदिनं विद्रुते गन्धे विपचेत्पातयेदधः ॥१६२॥तं रसं तप्तखल्वे तु चतुःषष्टिगुणं क्षिपेत् ।भागैकमभिषिक्ताभ्रं मर्द्यं दिव्यौषधैर्दिनम् ॥१६३॥तत्क्षिपेच्चारणायन्त्रे जम्बीररससंयुते ।तीव्रातपे दिनं स्थाप्यं सूतश्चरति तद्घनम् ॥१६४॥एवं पुनः पुनर्गर्भपिष्टीग्रासक्रमात्मकम् ।पत्त्राभ्रचारणं प्रोक्तमेवं सत्वाभ्रचारणम् ॥१६५॥एवं कुर्याद् यथाशक्यं चारणं परमेश्वरि ।रसेऽभ्रं चारयेत्पूर्वं चतुःषष्टितमांशकम् ॥१६६॥द्वात्रिंशत्तमभागं स्यात्तदेतत्षोडशांशकम् ।अष्टमांशं चतुर्थांशं द्वितीयांशं समं क्रमात् ॥१६७॥द्विगुणं चतुर्गुणं चाष्टगुणं षोडशकं गुणम् ।द्वात्रिंशद्गुणमेवं स्यात्चतुःषष्टिगुणं क्रमात् ॥१६८॥पक्षच्छेदस्त्वदोषत्वं लघुता ग्रासयोग्यता ।मुखिताग्निसहत्वं च व्यापित्वं गतिहीनता ॥१६९॥रसेन्द्रस्यानवस्थत्वं च भवेदभ्रकचारणात् ।जारणायस्याहमपि तुष्टः स्यां तस्य सूतेन्द्रजारणे ॥१७०॥मतिर्भवेन्न सन्देहो जारणा भुक्तिमुक्तिदा ।दुर्लभा जारणा देवि विना भाग्यं न लभ्यते ॥१७१॥जारणा द्विविधा बालजारणा वृद्धजारणा ।जारणे क्रमःगगनं जारयेत्पूर्वं सर्वसत्वान्यतः परम् ॥१७२॥द्वंद्वानि सर्वलोहानि पक्वबीजानि भैरवि ।पद्मरागादिरत्नानि जारयेच्च यथाक्रमम् ॥१७३॥जारणाय अभ्रकसत्वनिर्माणप्रकारः, प्रथमः प्रकारःजारणार्हं व्योमसत्वं रसराजस्य वक्ष्यते ।धान्याभ्रकं च विधिवन्मारयेद्वज्रसंज्ञकम् ॥१७४॥अभिषेकं पूर्ववत् स्यात् तस्मिन् ताप्यं दशांशकम् ।पञ्चमाहिषगव्यश्च मर्दयेत्कर्षसन्निभाः ॥१७५॥कुर्वीत वटिकाः कोष्ठीयन्त्रे सत्वं विपातयेत् ।सत्वस्य च चतुर्थांशं ताप्ये मूषागतं धमेत् ॥१७६॥एवं कृत्वा चतुर्वारं तत्सत्वं रसजारणे ।रसायने च भैषज्ये श्रेष्ठं सकलकर्मणि ॥१७७॥द्वितीयः प्रकारःमृताभ्रं तच्चतुर्थांशं नागं तत्पादमाक्षिकम् ।पञ्चभिर्माहिषैर्गव्यैः पातयेत्सत्त्वमुज्ज्वलम् ॥१७८॥तत्सत्वं तच्चतुर्थांशं माक्षिकं तत्समां शिलाम् ।धमेत्प्रलिप्तमूषायां सत्वं स्याद्धेमसन्निभम् ॥१७९॥एवं कुर्याच्चतुर्वारं तत्सत्वं ग्रसते रसः ।तृतीयः प्रकारःमृताभ्रकं षोडशांशं तच्चतुर्थांशकं त्रपु ॥१८०॥तत्समं तालकं क्षिप्त्वा पञ्चमाहिषगव्यतः ।सत्त्वं निपातयेत्तच्च चतुर्थं हरितालकम् ॥१८१॥क्षिप्त्वा क्षिप्त्वा चतुर्वारं तत्सत्वं ग्रसते रसः ।चतुर्थः प्रकारः, अभ्रकसत्त्वमृदूकरणम्वज्रमूषागतं कृत्वा घनसत्वं च तत्समम् ॥१८२॥कचं च टङ्कणं क्षिप्त्वा रुद्ध्वा तीव्राग्निना धमेत् ।तत्क्षिपेदम्लवर्गेण चिञ्चाबीजं स्नुहीदलम् ॥१८३॥पिष्ट्वा तस्मिन्पुनस्तद्वत्काचटङ्कणयोगतः ।धमेदेवं सप्तवारं सेचनं च पुनः पुनः ॥१८४॥तदभ्रसत्त्वं शुभ्रं स्यान्मृदु स्याच्चारणोदितम् ।पञ्चमः प्रकारःरसेन्द्रं टङ्कणं ताप्यं भागैकैकं पृथक्पृथक् ॥१८५॥त्रिभागं शोधितं नागं मृताभ्रं दशभागकम् ।यवक्षारं च दग्धोर्णां सर्जक्षारं च गुग्गुलुम् ॥१८६॥अजापञ्चाङ्गसंयुक्तम् अम्लमूत्रगणैर्युतम् ।मर्दयेत्पूर्ववत्सत्वं पातयेन्मृदु निर्मलम् ॥१८७॥द्वन्द्वमेलापनाय मूषालेपः॒ प्रथमः प्रकारःद्वन्द्वमेलापने मूषालेपं वक्ष्यामि पार्वति ॥१८८॥मेषशृङ्गं खुरं गुञ्जा टङ्कणं च विषं समम् ।स्थूलभेकस्य वसया पिष्ट्वा मूषां प्रलेपयेत् ॥१८९॥मिलन्ति सर्वसत्वानि मूषायां चूर्णितानि च ।गुग्गुलुं धातकीपुष्पं गुडं क्षारत्रयं समम् ॥१९०॥स्तन्यैः पिष्ट्वाथ मूषायां लेपनं द्वन्द्वमेलनम् ।द्वितीयः प्रकारःअश्मभेदी लाङ्गली च भूलता च मरीचकः ॥१९१॥कार्पासस्य फलं शक्रगोपश्चैतांश्च मर्दयेत् ।नारीस्तन्येन तेनैव मूषामन्तः प्रलेपयेत् ॥१९२॥तस्यां मिलन्ति सत्वानि सर्वाणि च महारसाः ।हेममुख्यानि लोहानि चण्डाग्निधमनेन च ॥१९३॥तृतीयः प्रकारःचुचुन्दर्याश्च पिशितं टङ्कणं च विषं समम् ।मर्दयित्वा च मूषान्तर्लेपयेत्तत्र निक्षिपेत् ॥१९४॥द्वन्द्वयोग्यं तु यद्यत्स्यात्तत्सर्वं धमनान्मिलेत् ।चतुर्थः प्रकारःभस्मीकृतमपामार्गं कङ्गुणीतैलमर्दितम् ॥१९५॥मूषायां लेपयेत्तेन द्वन्द्वद्रव्यं विनिक्षिपेत् ।मिलेत्तीव्राग्निधमनात्तत्तन्मारकवापनात् ॥१९६॥द्वन्द्वमेलापनम्अत एव प्रवक्ष्यामि द्वन्द्वमेलापनं शृणु ।वर्षाभूकदलीकन्दकाकमाचीपुनर्नवम् ॥१९७॥स्वर्णं नरकपालं च गुञ्जा टङ्कणमभ्रकम् ।सत्वं मूषागतं ध्मातं हेमाभ्रं मिलति क्षणात् ॥१९८॥अभ्रकं चूर्णयित्वा तु काकमाचीरसप्लुतम् ।कपित्थतोयसंयुक्तं सूतटङ्कणसंयुतम् ॥१९९॥वङ्गपत्रान्तरे न्यस्तं ध्मातं वङ्गाभ्रकं मिलेत् ।आवर्त्य कटुतैलेन भस्मापामार्गजं क्षिपेत् ॥२००॥हेमाभ्रं नागताप्येन ताराभ्रं हरितालकात् ।गन्धकेन तु शुल्वाभ्रं तीक्ष्णाभ्रं सिन्धुहिङ्गुलात् ॥२०१॥वङ्गाभ्रं हरितालेन नागाभ्रं शिलया मिलेत् ।लाङ्गली चमरीकेशाः कार्पासास्थि कुलत्थकम् ॥२०२॥भूलता चाश्मदमनी स्त्रीस्तन्यं सुरगोपकः ।द्वन्द्वे प्रलिप्तमूषायां सुध्मातास्तीव्रवह्निना ॥२०३॥कान्ताभ्रशैलविमलाः मिलन्ति सकलाः क्षणात् ।अथ चुच्छुन्दरीमांसं विषटङ्कणयोजितम् ॥२०४॥मूषाप्रलेपात्कुरुते सर्वद्वन्द्वेषु मेलनम् ।जौरभ्रमरशृङ्गं च मण्डूकस्य वसामिषम् ॥२०५॥गुञ्जाटङ्कणलेपेन सर्वसत्वेषु मेलनम् ।टङ्कणोर्णागिरिजतुकर्णाक्षीमलकर्कटैः ॥२०६॥मिलन्ति सर्वद्रव्याणि स्त्रीस्तन्यपरिपेषितैः ।धातकीगुग्गुलुगुडसर्जयावकटङ्कणैः ॥२०७॥स्त्रीस्तन्यपेषितं शस्तं द्वन्द्वं स्यात्तु रसायने ।सूक्ष्मचूर्णं तु यत् किंचित् पूर्वकल्केन संयुतम् ॥२०८॥अन्धमूषागतं ध्मातं संकरं मिलति क्षणात् ।वापितं ताप्यरसकसस्यकैर्दरदेन च ॥२०९॥स सत्वं स्याद् अनिबिडं दृढं ध्मातं मिलेत्ततः ।रसोपरसलोहानि सर्वाण्येकत्र मेलयेत् ॥२१०॥प्रथमः प्रकारःअन्योन्यं द्वंद्वतां यान्ति द्रवन्ति सलिलं यथा ।वज्राभ्रसत्त्वचूर्णं तु यत् किंचिल् लोहचूर्णकम् ॥२११॥द्वयं समं तयोस्तुल्यम् अरिवर्गं विनिक्षिपेत् ।द्वन्द्वमेलनमूषायां धमनान्मेलनं भवेत् ॥२१२॥द्वितीयः प्रकारःमर्दयेट्टङ्कणं रम्भाकन्दतोयेन लेपयेत् ।मूषां श्वेताभ्रकं वङ्गं धमनान्मिलति प्रिये ॥२१३॥तृतीयः प्रकारःवनशिग्रुष्टङ्कणश्च गुञ्जा च नृकपालकम् ।पिष्ट्वा योषित्स्तन्यनीरैस्तेन मूषां प्रलेपयेत् ॥२१४॥वङ्गश्वेताभ्रसत्वं च चूर्णयित्वा क्षिपेद्धमेत् ।असंशयं मिलन्त्येव श्रेष्ठं रजतकर्मणि ॥२१५॥चतुर्थः प्रकारःश्वेताभ्रसत्वं संचूर्ण्य तच्चतुर्थांशपारदम् ।सूततुल्यं टङ्कणं च मर्दयेत् काकमाचिजैः ॥२१६॥द्रवैस्तद्गोलकं कृत्वा वङ्गपत्रेण वेष्टयेत् ।श्वेताभ्रसत्वतुल्येन लिप्तमूषागतं धमेत् ॥२१७॥भवेत् सम्मेलनं सम्यक् मुख्यः स्याद्रूप्यकर्मणि ।वज्रहेममेलापने मूषालेपः॒ प्रथमः प्रकारःअथातो वज्रकनकद्वन्द्वमेलाप्रलेपनम् ॥२१८॥गुञ्जा कान्तमुखं तुल्यं द्वन्द्वयोर्द्विगुणं बलिम् ।स्तन्येन योषितां पिष्ट्वा मूषायामन्तरे तथा ॥२१९॥मेलयेद्वज्रमेलापोऽयं कथितो मया ।द्वितीयः प्रकारःशिलाधातुः कान्तमुखं शशदन्ताश्च गन्धकः ॥२२०॥अम्लवेतसकं तुल्यं पिष्ट्वा मूषां प्रलेपयेत् ।हेमवज्रं मिलत्येव मूषायां नात्र संशयः ॥२२१॥तृतीयः प्रकारःकुलीरास्थि शिलाधातु महिषीकणदृङ्मलम् ।टङ्कणोर्णासमं सर्वं कान्तास्तन्येन मर्दयेत् ॥२२२॥अनेन लेपयेन्मूषां हेमवज्रं मिलत्यलम् ।चतुर्थः प्रकारःकान्तास्यं टङ्कणं बालवत्सविड्भ्रमरास्थि च ॥२२३॥मनुष्यचिकुरास्थीनि स्त्रीस्तन्येन विमर्दयेत् ।अनेन लिप्तमूषायां हेमवज्रं मिलेद्ध्रुवम् ॥२२४॥पञ्चमः प्रकारःताप्यटङ्कणभूनागकान्तकाचमधूनि च ।कुलीरास्थि स्नुहीक्षीरमर्कक्षीरं समं समम् ॥२२५॥स्तन्येन मर्दयेत्सर्वं मूषालेपं तु कारयेत् ।मूषालेपो भवेदेष वज्रहाटकमेलनः ॥२२६॥वज्रं भस्मीभवेद्यैस्तैर्मूषामन्तर्विलेपयेत् ।धमेत्तीव्राग्निना हेमवज्रमेलापनं भवेत् ॥२२७॥वज्रहेममेलापनम्॑ प्रथमः प्रकारःअथातो मेलनं वक्ष्ये वज्रहेम्नोः सुरेश्वरि ।स्वर्णं द्वादशभागं स्यात्तदर्धं शुद्धपारदम् ॥२२८॥रसेन्द्रार्धं नागभस्म नागार्धं मृतवज्रकम् ।एतच्चतुष्टयं चाम्लैर्मर्दयेत्तप्तखल्वके ॥२२९॥उद्धृत्य द्वन्द्वमेलापे मूषायां रोधयेद्धमेत् ।हठात्तच्च मिलत्येतन्नात्र कार्या विचारणा ॥२३०॥द्वितीयः प्रकारःभावयेच्छारिवाक्षीरे मृतं वज्रं दिनं ततः ।मर्दयेद्गोलकं कृत्वा शेषयेच्चैकभागकम् ॥२३१॥त्रिभागं रसराजं च चतुर्भागं सुवर्णकम् ।अम्लेन मर्दयेत्पिष्टिं कृत्वा तद्गोलकम् ॥२३२॥तत्पिष्ट्वा वेष्टयेत्तच्च भूर्जपत्रेण वेष्टयेत् ।पक्षं न्यसेद्धान्यराशौ तदुद्धृत्य पुनः पुनः ॥२३३॥धमेद्धठान्मिलत्येव नात्र कार्या विचारणा ।तृतीयः प्रकारःवज्रं षोडशभागेन हेमपत्रेण वेष्टयेत् ॥२३४॥तत्क्षिपेल्लिप्तमूषायां स्वर्णांशं श्वेतकाचजम् ।चूर्णं वा नृकपालं वा चूर्णं कृत्वा विनिक्षिपेत् ॥२३५॥निरुध्य च धमेत्तीव्रमेवं कुर्यात्पुनः पुनः ।क्षिप्त्वा क्षिप्त्वा श्वेतकाचं नृकपालमथापि वा ॥२३६॥सप्तधैवं मिलत्येव पुनरेवं विधीयते ।अस्य हेम्नः षोडशांशं मृतं वज्रं विनिक्षिपेत् ॥२३७॥पूर्ववल्लिप्तमूषायां काचं वा नृकपालकम् ।क्षिप्त्वा क्षिप्त्वा धमेत्तीव्रं सप्तवारं मिलत्यलम् ॥२३८॥एवं तृतीयवारं च कुर्यादेवं चतुर्थकम् ।द्वन्द्वितानामभिषेकःअथातो द्वंद्वितानां च प्रवक्ष्याम्यभिषेचनम् ॥२३९॥कासीसं पञ्चलवणं माक्षीकं गन्धकं तथा ।कांक्षी क्षारत्रयं तुल्यमारनालेन मर्दयेत् ॥२४०॥तत्कल्कम् आतपे ताम्रपात्रे संस्थापयेत्त्र्यहम् ।तस्मिन्क्षिपेद्द्रुतं नागंशतधा तद्द्रुतं द्रुतम् ॥२४१॥ताम्रपात्रस्थसौवीरैर् भावयेच्छतवारकम् ।द्वंद्वितं तच्चरेत्सूतो यत् किंचिज् जारणार्हकम् ॥२४२॥रूप्यकर्मणि वङ्गं स्यान्नागं स्याद्धेमकर्मणि ।पक्वबीजविधानम्अथातः सम्प्रवक्ष्यामि पक्वबीजं सुरार्चिते ॥२४३॥प्रथमं विधानम्सुवर्णे विद्रुते तुल्यं नागाभ्रं द्वंद्वितं प्रिये ।वाहयेद्द्वादशगुणं स्वर्णशेषं यथा धमेत् ॥२४४॥पक्वबीजम् इदं ख्यातं जारयेत्पारदे क्रमात् ।द्वितीयं विधानम्पीताभ्रसत्वं स्वर्णं च समांशं द्वंद्वितं धमेत् ॥२४५॥वाहयेद् द्वादशगुणं स्वर्णशेषं यथा धमेत् ।पुनः पीताभ्रसत्वं च वहेद्दशगुणं शनैः ॥२४६॥स्वर्णशेषं भवेद् यावत् पक्वबीजम् इदं भवेत् ।तृतीयं विधानम्नागार्कव्योमरसकं चतुस्त्रिर्द्व्येकभागिकम् ॥२४७॥चूर्णयेल्लिप्तमूषायाम् अन्धयेच्च धमेद्दृढम् ।माक्षिकेण च तत्खोटं संपेष्याम्लैः पुटे पचेत् ॥२४८॥पुनस्तत्सममाक्षीकमम्लैः पिष्ट्वा पुटे पचेत् ।एवं पञ्चपुटं दत्त्वा तद्द्रुते हेम्नि वाहयेत् ॥२४९॥धमेद्दशगुणं यावत् तावत् स्यात् पक्वबीजकम् ।चतुर्बीजक्रमःअथातः सम्प्रवक्ष्यामि चतुर्बीजं वरानने ॥२५०॥हेमताराहिकुटिलबीजान्येतानि तत्त्वतः ।हेमबीजं नागबीजं शस्यते हेमकर्मणि ॥२५१॥तारबीजं वङ्गबीजं कथिते रूप्यकर्मणि ।हेमबीजं तारबीजं भवेतां च रसायने ॥२५२॥नागबीजं वङ्गबीजं न रसायनकर्मणि ।चत्वार्येतानि बीजानि भवेयू रोगशान्तये ॥२५३॥अन्यथा नैव योज्यानि बीजान्येतानि शाम्भवि ।हेमबीजविधानम्, प्रथमं हेमबीजम्गन्धकं सस्यकं वापि माक्षीकं वाथ तालकम् ॥२५४॥शिलां च विमलां वापि वैक्रान्तं वाञ्जनं च वा ।खर्परं वा कान्तमुखं वा चूर्णयित्वा समांशकम् ॥२५५॥शतवारान्द्रुते हेम्नि वाहयेच्च पुनः पुनः ।द्वितीय नागभस्मसिद्धं हेमबीजम्सूतहिंगुलकंकुष्ठलोहपर्पटिकाभ्रकम् ॥२५६॥मृतार्कमाक्षीकशिलाविमलांश्च समांशकान् ।एतान्नागकलाभागान् स्नुह्यर्कपयसा प्रिये ॥२५७॥मर्दयेत्तेन पत्राणि शुद्धनागस्य लेपयेत् ।पुटेद्द्वात्रिंशतिपुटे नागो भस्मति तद्वहेत् ॥२५८॥समं समं च शतधा विद्रुते पूर्ववाहिते ।सुवर्णे च तथा हेमशेषं तावद्धमेद्दृढम् ॥२५९॥तृतीयं वङ्गभस्मसिद्धं हेमबीजम्अथवा भस्मयेद्वङ्गं तालशङ्खाभ्रपारदैः ।चिञ्चाक्षारैस्त्रपुसमैः स्नुह्यर्कक्षीरमर्दितैः ॥२६०॥पुटेत् षोडशभिस्तच्च शतधा हेम्नि वाहयेत् ।चतुर्थं ताम्रभस्मसिद्धं हेमबीजम्अथवा मारयेच्छुल्बमूर्ध्वाधो गन्धकं समम् ॥२६१॥क्षिप्त्वा पुटेद् अष्टवारं तत्ताम्रं हेम्नि वाहयेत् ।पञ्चमं तीक्ष्णभस्मसिद्धं हेमबीजम्अथवा मारयेत्तीक्ष्णं तीक्ष्णतुल्यं च हिंगुलम् ॥२६२॥स्त्रीस्तन्यैर् मर्दयित्वा तु पुटेदथ कलांशकम् ।तीक्ष्णस्य हिंगुलं दत्त्वा मर्दयेत् पुटयेत् क्रमात् ॥२६३॥एवं तत् षोडशपुटैः तत्तीक्ष्णं हेम्नि वाहयेत् ।शतधा हेम तदिशं विद्रुते हेम्नि वाहयेत् ॥२६४॥षष्ठं हेमबीजम्तद्धेम्नि द्विगुणं ताप्यं पूर्णितं तद्धमेद्दृढम् ।तच्चूर्णयेद् द्वित्रिपुटैः पञ्चभिर् मारितं भवेत् ॥२६५॥तद्वाहयेद्दशगुणं द्रुते हेम्नि धमन् धमन् ।तदेव जायते दिव्यं सर्वसिद्धिप्रदायकम् ॥२६६॥हेमबीजमिदं ख्यातं हितं स्याद्रसजारणे ।सप्तमं हेमबीजम्सस्यकाभ्रकवैक्रांतसत्वं स्वर्णमहिं रविम् ॥२६७॥तीक्ष्णं च चूर्णयेल्लिप्तमूषायां चान्ध्रितं धमेत् ।पुनः प्रकटमूषायां धमेत्तस्मिन्द्रुते सति ॥२६८॥माक्षिकं निक्षिपेत् किंचित् किंचिद् दत्त्वा पुनः पुनः ।यावत्स्वर्णावशेषं स्यात् ततस्तस्मिन् विनिक्षिपेत् ॥२६९॥स्वर्णं नागं रविं तीक्ष्णं पूर्ववच्च धमेत्क्रमात् ।वाहयेन्माक्षिकं तद्वद्धमेत् स्वर्णावशेषकम् ॥२७०॥हेमबीजमिदं ख्यातं हितं स्याद्रसजारणे ।अष्टमं हेमबीजम्समांशं चूर्णयेदभ्रं सत्वं ताम्रमयं शुभम् ॥२७१॥अभ्रकाद्द्विगुणं धौतं ताप्यं सर्वं धमेद्धठात् ।मूषायां द्वन्द्वलिप्तायां तत्खोटं चूर्णयेत्ततः ॥२७२॥मर्द्यं दिव्यौषधिरसैः संपुटे रोधयेद्दृढम् ।पचेद्गजपुटे तद्वच्चूर्णयेन्मर्दयेत्पुटेत् ॥२७३॥एवं पञ्चपुटैः पक्वं तद्वहेत्कनके द्रुते ।यावद्दशगुणं तावन्मूषायां प्रकटे धमेत् ॥२७४॥ततस्तस्मिन् शुद्धताप्यं क्षिप्त्वा क्षिप्त्वा धमेद्धमेत् ।यावत्स्वर्णावशेषं स्यात्स्वर्णबीजमिदं प्रिये ॥२७५॥नवमं हेमबीजम्तीक्ष्णार्कनागभस्मानि ताप्यचूर्णं समं समम् ।एतद्द्रुते वहेद्धेम्नि यावद्दशगुणं भवेत् ॥२७६॥तावत्स्वर्णावशेषं स्यात्स्वर्णबीजमिदं प्रिये ।दशमं हेमबीजम्मृततारार्कतीक्ष्णायः समं सर्वं धमेद्दृढम् ॥२७७॥मूषायां द्वन्द्वलिप्तायां तत्खोटं चूर्णयेत्ततः ।तच्चूर्णं द्राविते स्वर्णे वाहयेच्च शनैः शनैः ॥२७८॥यावद्दशगुणं पश्चात्ताप्यचूर्णं क्षिपन्क्षिपन् ।धमेत्स्वर्णावशेषं स्याद्धेमबीजमिदं प्रिये ॥२७९॥एकादशं हेमबीजम्नागमेकं चतुस्ताम्रं सत्त्वं रसकसम्भवम् ।मूषायां द्वन्द्वलिप्तायां सर्वं ध्मातं विचूर्णयेत् ॥२८०॥तच्चूर्णं वाहयेत्स्वर्णे विद्रुते षड्गुणं शनैः ।स्वर्णशेषं भवेद् यावत् तावत् स्यात् स्वर्णबीजकम् ॥२८१॥द्वादशं हेमबीजम्ताप्येन मारयेत्ताम्रं तन्नागे वाहयेच्छनैः ।यावच्छतगुणं ताप्यं चूर्णं क्षिप्त्वा धमन्धमन् ॥२८२॥तद्वाहयेद्धमेद्धेम्नि क्रमाद् द्वात्रिंशतं गुणम् ।स्वर्णशेषं भवेद्यावत् तावत्स्याद्धेमबीजकम् ॥२८३॥त्रयोदशं हेमबीजम्भागैकं खर्परीसत्वं द्विभागं चाभ्रसत्वकम् ।त्रिभागं ताम्रचूर्णं च लिप्तमूषागतं धमेत् ॥२८४॥तत्खोटं चूर्णयेत्ताप्यं तुल्यमम्लैर्विमर्दयेत् ।तत्क्षिपेत्संपुटे रुद्ध्वा पुटेल्लघुपुटे पुनः ॥२८५॥एवं पञ्चपुटैः पक्वं तच्चूर्णं वाहयेद्द्रुते ।सहस्रगुणितं हेम्नि यावत्स्वर्णावशेषितम् ॥२८६॥तावत्ताप्यं वहेद्युक्त्या स्यादिदं हेमबीजकम् ।चतुर्दशं हेमवीजम्भागैकमभ्रसत्वं च द्विभागं शुद्धताम्रकम् ॥२८७॥चूर्णयेल्लिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्दृढम् ।ततस्तं चूर्णयेत्ताप्यं तुल्यमम्लेन मर्दयेत् ॥२८८॥तद् रुद्ध्वा संपुटे पच्यात्पुटे तच्चूर्णयेत्पुनः ।पूर्ववन्माक्षिके क्षिप्त्वा मर्दयेत्पातयेत्प्रिये ॥२८९॥एवं पञ्चपुटे कार्ये तच्चूर्णं वाहयेत्प्रिये ।स्वर्णे शतगुणं यावत्तावत्स्याद्धेमबीजकम् ॥२९०॥पञ्चदशं हेमबीजम्माक्षिकं गन्धपाषाणं हरितालं मनःशिलाम् ।वैक्रान्तकं कान्तमुखं सस्यकं विमलांजने ॥२९१॥रसकं चापि शतशश्चूर्णितं हेम्नि वाहयेत् ।लोहपर्पटिकाताप्यकङ्कुष्ठविमलाभ्रकैः ॥२९२॥मृतशुल्बशिलासूतस्नुह्यर्कक्षीरहिङ्गुलैः ।नागो निर्जीवतां याति योगैः पुनः पुनः ॥२९३॥रसतालकशुद्धचिंचाक्षारैस्तथा त्रपु ।मृतं नागं मृतं वङ्गं शुल्बं तीक्ष्णं च वा मृतम् ॥२९४॥एकैकम् उत्तमे हेम्नि वाहयेत्सुरवन्दिते ।निरुद्धे पन्नगे हेम्नि निर्व्यूढे शतसंगुणैः ॥२९५॥हेम्नि नागादिनिर्वहणेन वर्णव्यत्यासःनागजीर्णं रोचनाभं हारीतं ताम्रवाहितम् ।तीक्ष्णजीर्णं रविसमं वङ्गजीर्णं जपानिभम् ॥२९६॥प्रथमं तारबीजम्श्वेताभ्रसत्वं तीक्ष्णं च ताप्यं च विमलां तथा ।खर्परं च समं सर्वं कुटिलं च चतुर्गुणम् ॥२९७॥धमेत्सर्वं चूर्णयेच्च भस्मयेत् पुटपञ्चकैः ।तारे द्रुते शतगुणं वाहयेच्च शनैः शनैः ॥२९८॥तारबीजम् इदं ख्यातं जारणे परमं हितम् ।द्वितीयं तारबीजम्यथा ताप्येन कुटिलं तथा ताप्येन मारयेत् ॥२९९॥तद्भागं च समं तालं तत्समं रजते द्रुते ।त्रिंशद्गुणं भवेद् यावत् तावद् वाह्यं क्रमेण च ॥३००॥तारबीजमिदं ख्यातं पारदे तच्च जारयेत् ।तृतीयं तारबीजम्तीक्ष्णं वङ्गं च विमलां समांशं चूर्णयेत्प्रिये ॥३०१॥द्वन्द्वमेलोपलिप्तायां धमेत् तत्खोटकं भवेत् ।तत्खोटं चूर्णयेद् अम्लैर् मर्दयेत् पुटयेदिति ॥३०२॥पञ्चवारं प्रकुर्वीत भस्म तज्जायते प्रिये ।तद्भस्म विद्रुते तारे वाहयेच्च समं समम् ॥३०३॥धमन् धमन् दशगुणं यावद् भवति भैरवि ।तारबीजम् इदं श्रेष्ठं रसराजस्य जारणे ॥३०४॥चतुर्थं तारबीजम्श्वेताभ्रसत्वं कुटिलं तारमाक्षीकसत्वकम् ।त्रयं समांशं संचूर्ण्य लिप्तमूषागतं धमेत् ॥३०५॥तच्चूर्णं वाहयेत्तारे तारतुल्यं विनिक्षिपेत् ।यावद्दशगुणं तावत् तारमाक्षीकवापतः ॥३०६॥तारबीजम् इदं प्रोक्तं जारणे परमं हितम् ।पञ्चर्मं तारबीजम्त्रिद्व्येकभागान् देवेशि तीक्ष्णतालामलान् क्रमात् ॥३०७॥चूर्णितान् लिप्तमूषायां क्षिप्त्वा तीव्राग्निना धमेत् ।तत्खोटं चूर्णयेद् अम्लैर् मर्दयेत् पुटयेदिति ॥३०८॥सप्तधा तद्द्रुते तारे वाह्यं दशगुणं ततः ।क्षिप्त्वा क्षिप्त्वा तालचूर्णं तारशेषं यथा धमेत् ॥३०९॥तारबीजमिदं श्रेष्ठं जारणे परमं हितम् ।षष्ठं तारबीजम्खर्परी तालशुभ्राभ्रसत्त्वकं तारमाक्षिकम् ॥३१०॥तुल्यं सर्वसमं वङ्गं सर्वं मूषागतं धमेत् ।चूर्णयेन्मर्दयेदम्लैः पुटेदेवं तु सप्तधा ॥३११॥तच्चूर्णं वाहयेत्तारे द्रुते दशगुणं धमन् ।तारशेषं भवेद् यावत् तावत् स्यात् तारबीजकम् ॥३१२॥सप्तमं तारबीजम्श्वेताभ्रसत्वं वङ्गं च द्वन्द्वं कुर्याच्च पूर्ववत् ।तच्चूर्णे तालकं दत्त्वा पादमम्लैर्विमर्दयेत् ॥३१३॥पुटेत्तस्मिन्क्षिपेत्तालं पूर्ववन्मर्दनं पुटम् ।एवं पञ्चपुटं कुर्यात्तच्चूर्णं वाहयेद्द्रुते ॥३१४॥रजते द्वादशगुणं तद्भवेत्तारबीजकम् ।अष्टमं तारबीजम्श्वेताभ्रसत्वं वङ्गं च वङ्गार्धं तीक्ष्णचूर्णकम् ॥३१५॥तीक्ष्णांशा तारविमला सर्वं मूषागतं धमेत् ।ततस्तच्चूर्णयेदम्लैः पिष्ट्वा रुद्ध्वा पुटेत्पचेत् ॥३१६॥पञ्चवारं पुनस्तच्च वाहयेद्रजते द्रुते ।यावच्छतगुणं तावत्तालकं च क्षिपन् धमेत् ॥३१७॥तारशेषं भवेद्यावत् तावत्स्यात्तारबीजकम् ।ताम्रबीजम्ताम्रबीजं प्रवक्ष्यामि जारणार्थं रसस्य तु ॥३१८॥स्वर्णं ताम्रं समं देवि तयोस्तुल्यं च माक्षिकम् ।ऊर्ध्वाधो निक्षिपेल्लिप्तमूषायां तद्धमेद्दृढम् ॥३१९॥धमेदेवं च दशधा दत्त्वा दत्त्वाथ माक्षिकम् ।ताम्रबीजमिदं ख्यातं भास्वत्किरणसंनिभम् ॥३२०॥प्रथमं नागबीजम्अभ्रकं रसकं तुल्यं नागभस्म चतुर्गुणम् ।धमयेच्चूर्णयेत्तच्च माक्षिकेण च मारयेत् ॥३२१॥एतत्समं शिलाचूर्णमेकीकृत्याथ वापयेत् ।तद्धमेत्सदृशे हेम्नि विद्रुते शतधा प्रिये ॥३२२॥नागबीजमिदं प्रोक्तमेतत्सूते तु जारयेत् ।द्वितीयं नागबीजम्नागबीजं प्रवक्ष्यामि श्रेष्ठं तद्रसजारणे ॥३२३॥रसकाभ्रकताम्रेऽहिं भागवृद्ध्या धमेत्ततः ।माक्षिकेण हतं तच्च बीजं निर्वाहयेत्प्रिये ॥३२४॥द्वात्रिंशांशगुणं हेम्नि वङ्गं ताप्यहतं वहेत् ।त्रिंशद्गुणं शिलावाप्यं नागबीजमुदाहृतम् ॥३२५॥वङ्गबीजक्रमःबीजं प्रवक्ष्यामि वङ्गं तालं च ताप्यकम् ।समं धमेच्चूर्णयेच्च तत्समं ताप्यतालकम् ॥३२६॥मर्दयेत्पुटयेदम्लैर्भस्म स्यात्षोडशैः पुटैः ।तारे द्रुते शतगुणं वाहयेद्वङ्गभस्म च ॥३२७॥तत्तारे तालकं देवि द्वात्रिंशद्गुणमावहेत् ।वङ्गबीजमिदं ज्ञेयमेतत्सूते तु जारयेत् ॥३२८॥जारणे बिडयोगाःविडयोगान्प्रवक्ष्यामि जारणार्हान् सुरार्चिते ।१. वडवानलविडःसौवीरं गन्धकं कांक्षी कासीसं व्योषसैन्धवम् ॥३२९॥सौवर्चलं सर्जिका च मालतीतीरसम्भवम् ।शिग्रुमूलरसैः सर्वं भावयेत्सप्तवासरम् ॥३३०॥बिडोऽयं जारणे श्रेष्ठो नाम्ना च वडबानलः ।२. वैश्वानरविडःअर्कक्षीरैर्दग्धशङ्खं भावयेत्पुटयेत्प्रिये ॥३३१॥शतधायं विडः प्रोक्तो नाम्ना वैश्वानरो महान् ।३. ज्वालामुखबिडःगन्धकं शङ्खचूर्णं च सैन्धवं च विषं समम् ॥३३२॥शतवारं गवां मूत्रैः शिग्रुमूलरसैस्तथा ।भावितो ऽयं बिडः प्रोक्तो नाम्ना ज्वालामुखः स्मृतः ॥३३३॥४. अग्निजिह्वकबिडःपलाशस्य रसैर्भाव्यं टङ्कणं शतधा प्रिये ।लोहानां जारणे श्रेष्ठो बिडो नाम्नाग्निजिह्वकः ॥३३४॥५ वडबाबिडःकान्तास्यं गन्धकं चूली चैकैकं लोहजारकम् ।चूलीगन्धकसिन्धूत्थतालभूखगटङ्कणान् ॥३३५॥सक्षारमूत्रैर् विपचेन्नाम्नायं वडबामुखः ।६. महावैश्वानरो विडःदेवदालिं मोक्षकं च निचुलं च पुनर्नवाम् ॥३३६॥पलाशं काञ्चनं वासामेरण्डं वास्तुकं तिलम् ।कदलीमपि सर्वाङ्गं खण्डितं नाति शोषयेत् ॥३३७॥मूत्रवर्गे चाष्टगुणे प्रक्षिपेत्तदनन्तरम् ।समूलं मूलकं दग्ध्वा तिलकाण्डं च तत्समम् ॥३३८॥क्षारद्वयं पूर्वरसे क्षिप्त्वा स्थाप्यं त्र्यहं खरे ।आतपे तद्वस्त्रपूतं लोहपात्रे द्रवं पचेत् ॥३३९॥बहवो बुद्बुदा बाष्पा उद्भवन्ति यदा यदा ।त्रिक्षारं त्रिकटुं गन्धं कासीसं लोणपञ्चकम् ॥३४०॥सौराष्ट्रीं रामठं चूलिं समं चूर्णीकृतं क्षिपेत् ।प्रचालयेल्लोहदर्व्या गुडपाको यथा भवेत् ॥३४१॥समुत्तार्य क्षिपेल्लोहसंपुटे सप्तवासरम् ।भूगर्भे धान्यराशौ च सप्ताहं धारयेत्पुनः ॥३४२॥सप्ताहं धारयेद्घर्मे महावैश्वानरो बिडः ।७. वह्निबिडःजम्बीराम्लेन शतधा वनशिग्रुरसेन च ॥३४३॥गन्धकं भावयेदेष बिडः स्याद् वह्निसंज्ञकः ।नवसारोऽपि च तथा गन्धवत्स बिडो भवेत् ॥३४४॥८. चित्रभानुबिडःगन्धकं निचुलक्षारं गुंजाबीजं च टङ्कणम् ।मूलबीजं देवदाल्याः समं सर्वं च भावयेत् ॥३४५॥तिक्तकोशातकीनीरैः सप्तधाम्लगणैस् तथा ।बिडोऽयं चित्रभानुः स्यात् प्रधानं हेमजारणे ॥३४६॥९. महाबिडःमूलकं शृङ्गिवेरं च वह्निं दग्ध्वा त्रयं समम् ।गोमूत्रे निक्षिपेत्तच्च वस्त्रपूतं च कारयेत् ॥३४७॥अनेन भावितो गन्धः शतधा स्यान्महाबिडः ।१०. अन्यो महाबिडःतालं शिला टङ्कणं च शङ्खं लवणशुक्तिके ॥३४८॥मूत्राम्लैर्विपचेन्मन्दं वह्नावेष बिडो महान् ।११. वज्रानलबिडःअर्कक्षीरैर्दग्धशङ्खं शतधा भावयेत्ततः ॥३४९॥मर्दयित्वाम्लवर्गेण रुद्ध्वा पञ्चपुटैः पचेत् ।तत्समं टङ्कणक्षारं क्षिप्त्वाम्लगणभावितम् ॥३५०॥कृत्वा मनःशिलां गन्धं दरदं विद्रुमं ततः ।नृपावर्तं तु पञ्चानां शंखचूर्णं समं प्रिये ॥३५१॥भावयेदम्लवर्गेण त्रिदिनं स्यान्महाबिडः ।नाम्ना वज्रानलः प्रोक्तः खोटः सूतस्य जारणे ॥३५२॥द्वन्द्वमेलापमूषायां सारणे योजयेत्सदा ।पारदस्तु क्षणादेव वज्रादीन्यपि जारयेत् ॥३५३॥१२. अन्यो विडःनिर्दग्धशङ्खचूर्णं च रविक्षीरशताप्लुतम् ।पुटितं बहुशो देवि प्रशस्तो जारणे बिडः ॥३५४॥१३. बडबामुखो बिडःशतशो वा प्लुतं चूर्णं गन्धकस्य गवां जलैः ।निर्दग्धशङ्खचूर्णं तु शिग्रुमूलाम्बुभावितम् ॥३५५॥शतशो विषसिन्धूत्थसंयुतं वडबामुखः ।१४. सर्वजारकबिडःगन्धकं भावयेत्कन्याधुत्तूरकरवीरजैः ॥३५६॥द्रवैस्तु शतधा घर्मे विडोऽसौ सर्वजारकः ।१५. अन्यो बिडःताम्रवल्लीदलरसैः प्लावयेद् गन्धसैन्धवम् ॥३५७॥सप्ताहेन भवेदेनं नियुञ्ज्याद्धेमजारणे ।१६. सिद्धबिडःसैन्धवं कुनटी गन्धं प्रत्येकं च पलं पलम् ॥३५८॥भूलता त्रिपलं सर्वं मर्दयेच्छोषयेत् पचेत् ।एवं कुर्यादष्टवारम् अयं सिद्धबिडः स्मृतः ॥३५९॥अभ्रकजारणम्अथाभ्रजारणं कर्म वक्ष्यामि शृणु पार्वति ।तप्तखल्वे चतुःषष्टिनिष्कसूतं सुचारितम् ॥३६०॥भावितं गगनं चैकं निष्कं तत्र विनिक्षिपेत् ।त्रिक्षारं पञ्चलवणं भूखगाम्लजवेतसान् ॥३६१॥षोडशांशान् रसेन्द्रस्य क्षिपेज्जम्बीरवारिणा ।मर्दयेद्याममात्रं तु कूर्मयन्त्रे विडान्विते ॥३६२॥पचेद्दिनं विनिक्षिप्य जीर्णग्रासो भवेद्रसः ।एतत्सूतं तप्तखल्वे क्षिप्त्वा राजीगुडोर्णकम् ॥३६३॥इष्टिकां गृहधूमं च सैन्धवं पारदस्य तु ।एतत्सर्वं षोडशांशं मर्द्यमम्लगणैर्दिनम् ॥३६४॥चण्डातपे पिण्डितं तद्रसे बद्ध्वाथ पोटलम् ।अम्लवर्गेण भरिते डोलायन्त्रे पचेद्दिनम् ॥३६५॥प्रतिग्रासे त्विदं कुर्यात्पुनर्ग्रासम् अपेक्षते ।ग्रासो ऽजीर्णो यदि भवेत्पाच्यः कच्छपयन्त्रके ॥३६६॥एवं ग्रासक्रमेणैव जारयेद्गगनादिकम् ।चतुःषष्टितमांशादि चतुःषष्टिगुणावधि ॥३६७॥रसेन्द्रे जारयेद्ग्रासं दत्त्वा दत्त्वा पुनः ।जीर्णाभ्रकरसलक्षणम्चतुःषष्ट्यंशके सूतो व्योमसत्वे तु जारिते ॥३६८॥दण्डधारी जलूकाभो वैष द्वात्रिंशदंशके ।षोडशांशे वायसस्य विष्ठातुल्योऽष्टमांशके ॥३६९॥दधिमण्डसमो देवि चतुर्थांशे तु जारिते ।नवनीतसमो द्व्यंशे गोलाभो जारितो भवेत् ॥३७०॥अभ्रके समजीर्णे तु शतवेधी भवेद्रसः ।घने द्विगुणजीर्णे तु सहस्रांशेन वेधयेत् ॥३७१॥चतुर्गुणेऽभ्रके जीर्णे त्वयुतायुर्भवेत्प्रिये ।गगनेऽष्टगुणे जीर्णे ब्रह्मायुर् लक्षवेधकः ॥३७२॥विष्ण्वायुः षोडशगुणे जीर्णेऽभ्रे कोटिवेधकः ।द्वात्रिंशद्गुणिते जीर्णे रुद्रायुर् दशकोटिभिः ॥३७३॥चतुःषष्टिगुणे जीर्णे नित्यायुः शतकोटिभिः ।अभ्रके समजीर्णे तु रसो दोषान्विमुञ्चति ॥३७४॥जहाति स्वगतान्सर्वान् सर्वलोहानि भक्षयेत् ।पक्षच्छेदयन्त्रादधो न पतति नैवोत्पतति चोर्ध्वतः ॥३७५॥नोद्गारी कपिलो वर्णे वह्नौ तिष्ठति निश्चलः ।विप्रुषो मुञ्चते देवि छिन्नपक्षो भवेद्रसः ॥३७६॥समजीर्णे तु बालः स्याद्युवा जीर्णचतुर्गुणः ।व्योमषड्गुणजीर्णस्तु वृद्धसंज्ञो भवेद्रसः ॥३७७॥बालो विध्यति कल्केन युवा पत्रप्रलेपतः ।जारितस्तु रसेन्द्रोऽयं वृद्धो लोहानि विध्यति ॥३७८॥बालः सूतो रुजं हन्ति न समर्थो रसायने ।युवा रसायने दक्षो वृद्धः स्याद्देहलोहयोः ॥३७९॥अन्यजारणप्रकारःअभावे घनसत्वस्य कान्तसत्वं प्रदीयते ।तदभावे भवेत्तीक्ष्णमेवं द्वन्द्वानि जारयेत् ॥३८०॥घनजीर्णस्य सूतस्य ततो द्वन्द्वानि जारयेत् ।रसेन्द्रो द्वन्द्वरहितं न चरेदभ्रसत्वकम् ॥३८१॥तस्माद्धेमादिलोहेन युक्तमभ्रं चरेद्ध्रुवम् ।नागाभ्रं वापि वङ्गाभ्रं ताम्राभ्रं वा सुरार्चिते ॥३८२॥ताराभ्रं वापि हेमाभ्रं ताप्याभ्रं वापि जारयेत् ।घनसत्वं यथा जीर्णं तथा द्वन्द्वानि जारयेत् ॥३८३॥द्वन्द्वबीजरसस्याथ पक्वबीजानि जारयेत् ।जारणाफलम्खल्वं तु पीठिका देवि रसेन्द्रो लिङ्ग उच्यते ॥३८४॥मर्दनं चन्दनं तस्य ग्रासः पूजा विधीयते ।क्षीयमाणे पातकौघे सुलभा रसजारणा ॥३८५॥जारणायां च लब्धायां ज्ञानं कैवल्यदं भवेत् ।तावन्मुक्तिः कुतः कान्ते यावन्नो वेत्ति जारणाम् ॥३८६॥जारणा साधकेन्द्रस्य मुक्तिव्यक्तिकरा प्रिये ।जारणार्थं रसो यावद्दिनं वह्नौ तु धार्यते ॥३८७॥शिवलोके सुखं भुङ्क्ते तावत्कल्पसहस्रकम् ।धारयेद्यो रसं वह्नावेकाहं वा तदर्धकम् ॥३८८॥क्षीयन्ते तस्य पापानि बहुजन्मार्जितानि च ।सुवर्णरेतसो मित्रं स्वर्णदेहस्तथा रसः ॥३८९॥असहत्वं सूतवह्नौ तोये मैत्रं सुवर्णतः ।चतुर्गुणेन वस्त्रेण पीडितो निर्मलश्च सः ॥३९०॥गालनक्रियया ग्रासे सति निःशेषनिर्गते ।स भवेद्दण्डधारी च जीर्णग्रासस्तदा रसः ॥३९१॥ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् रसेश्वराय सर्वसत्त्वोपहाराय ग्रासं गृह्ण गृह्ण ह्रीं स्वाहा ।गर्भद्रुतिः॑ गर्भद्रावणयोग्यबीजसिद्धिः॑ प्रथमः प्रकारःगर्भद्रुतिं प्रवक्ष्यामि जारितस्य रसस्य च ।गर्भद्रावणयोग्यानि बीजानि शृणु भैरवि ॥३९२॥नागभस्म च माक्षीकं गन्धकं च समं समम् ।चूर्णितं वाहयेत्स्वर्णे त्रिगुणं द्राविते धमन् ॥३९३॥पूतिबीजमिदं सूतगर्भे द्रवति तत्क्षणात् ।द्वितीयः प्रकारःस्वर्णे नागं समावर्त्य शिलाचूर्णं क्षिपन्क्षिपन् ॥३९४॥नागक्षये पुनर्नागं दत्त्वा दत्त्वा त्रिवारकम् ।स्वर्णशेषं भवेद्यावत्तावद्धाम्यं पुनः पुनः ॥३९५॥एतद्बीजं द्रवत्येव रसगर्भे तु मर्दनात् ।तृतीयः प्रकारःसुवर्णं ताप्यसत्वं तु समं मूषागतं धमेत् ॥३९६॥तस्मिन्द्रुते ताप्यचूर्णं तुल्यं तुल्यं क्षिपन्क्षिपन् ।माक्षीकसत्वं त्रिगुणमेवं वाह्यं पुनः पुनः ॥३९७॥एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ।चतुर्थः प्रकारःसुवर्णस्य समं ताप्यसत्वमावर्तयेत्ततः ॥३९८॥कुर्यात्कण्टकवेध्यानि पत्राणि च विलेपयेत् ।लवणेनाम्लपिष्टेन गन्धतुल्येन पार्वति ॥३९९॥तानि पत्राणि च पुटे पचेद्धेमावशेषितम् ।एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥४००॥पञ्चमः प्रकारःताप्यतुल्यं च सिन्धूत्थं मर्दयेदम्लकेन च ।तत्संपुटे पुटे पच्यात् पुनः संमर्दयेत् पुटेत् ॥४०१॥पुनः पुनर्द्विषड्वारमस्य तुल्यं च नागजम् ।भस्म संमर्दयेदम्लैरनेन स्वर्णपत्रकम् ॥४०२॥लिप्त्वा लिप्त्वा धमेत्सप्तवारं तद्वाहयेत्ततः ।द्रुतं तं वापयेत्पूर्वं कल्कितैः सप्तवारकम् ॥४०३॥एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ।षष्ठः प्रकारःकासीसं टङ्कणं गन्धं ताप्यं सौवर्चलं शिलाम् ॥४०४॥तुल्यं संमर्दयेत्सर्वांश्चणकाम्लैर्दिनावधि ।एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥४०५॥गर्भद्रावणे मूषायन्त्रसिद्धिःसुवर्चलं च कासीसं यवक्षारं च टङ्कणम् ।माक्षिकं सैन्धवं चुल्ली सामुद्रं राजिका तथा ॥४०६॥तुल्यं कांक्षीं च कर्पूरम् अर्कस्नुक्क्षीरमर्दितम् ।अनेन लेपयेन्मूषां बिडेनांगुलमात्रकम् ॥४०७॥मूषायन्त्रमिदं श्रेष्ठं गर्भद्रावणकर्मणि ।गर्भद्रुतिप्रकाराः॑ प्रथमः प्रकारःस्वर्णं ताम्रं मृतं तीक्ष्णं रञ्जितं पक्वबीजकम् ॥४०८॥गर्भद्रावणबीजं च सर्वमावर्तयेद्दृढम् ।द्रुतेऽस्मिंस्ताप्यचूर्णं च क्षिप्त्वा क्षिप्त्वा धमन्धमन् ॥४०९॥यावत्क्षयं गते ताम्रतीक्ष्णे तावत्सुरेश्वरि ।एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥४१०॥द्वितीयः प्रकारःहेम गन्धहतं नागं पक्वबीजस्य साधनम् ।तद्द्वयं लिप्तमूषायाम् अन्ध्रयित्वा धमेद्दृढम् ॥४११॥तच्चूर्णम् अभिषिक्तं च रसगर्भे द्रवत्यलम् ।तृतीयः प्रकारःसुवर्णे विद्रुते शुल्बं मृतं तीक्ष्णं शनैः शनैः ॥४१२॥वाहयेत् षड्गुणं यावत्तद्रसे द्रवति प्रिये ।चतुर्थः प्रकारःमहारसाननुरसान्क्षीणलोहानि चाक्षये ॥४१३॥समांशं सममाक्षीकगन्धकावापयोगतः ।शतशो वाहयेदेतदक्षीणांशावशेषितम् ॥४१४॥समांशं रसराजस्य गर्भे द्रवति निश्चितम् ।पञ्चमः प्रकारःजारितस्य रसेन्द्रस्य चतुःषष्टितमांशकम् ॥४१५॥गर्भद्रावणबीजं च तप्तखल्वे विनिक्षिपेत् ।शिलारुचकमाक्षीकगन्धकासीसटङ्कणैः ॥४१६॥मर्दयेच्चणकाम्लेन सर्वमेतद्दिनावधि ।रसस्यैतत्षोडशांशं दत्त्वा बीजं च दापयेत् ॥४१७॥मुच्यते यत्र यत्रैव तत् तद् द्रवति तत्क्षणात् ।षष्ठः प्रकारःअपामार्गपलाशोत्थभस्मक्षारं समाहरेत् ॥४१८॥टङ्कणं सयवक्षारं कासीसं च सुवर्चलम् ।सामुद्रं सैन्धवं राजीं माक्षिकं नवसारकम् ॥४१९॥कर्पूरं माक्षिकं तुल्यं स्नुह्यर्कक्षीरमर्दितम् ।मूषालेपमनेनैव कृत्वा कुर्याद्बिडेन च ॥४२०॥लेपम् अङ्गुलमानेन प्राक्सूतं चात्र निक्षिपेत् ।रुद्ध्वा स्वेद्यं दिनैकं तु करीषाग्नौ द्रवत्यलम् ॥४२१॥इत्येवं द्रावितं जार्यं यावद् बीजं तु षड्गुणम् ।१३. बाह्यद्रुतिःशिवे वक्ष्यामि ते बाह्यद्रुतिकर्म यथाक्रमम् ॥४२२॥येनोपायेनाभ्रकादिद्रुतिर् भवति तच्छृणु ।अभ्रकद्रुतिःअथाभ्रकद्रुतिं वक्ष्ये कञ्चुकीकन्दमेव च ॥४२३॥कपितिन्दौ केशतैले प्रत्येकं तु त्रिधा वपेत् ।मूषायां द्रावयित्वा तदभ्रसत्वं द्रुतिर् भवेत् ॥४२४॥स्वर्णद्रुतिःफलपांशुर् देवदाल्याः शकगोपो ऽश्वलालकाः ।टङ्कणं जालिनीनीरैर् भावयेद् बहुधा प्रिये ॥४२५॥द्रावयेत् काञ्चनं तत्र वपेत् सूतसमा द्रुतिः ।सर्वरत्नद्रुतिःत्रिक्षारं चणकाम्लं च रामठं चाम्लवेतसम् ॥४२६॥तथा ज्वालामुखीक्षारं स्थलकुम्भीरसेन च ।पिष्ट्वा स्नुह्यर्कयोः क्षीरैस्तद्गोले मृदु हीरकम् ॥४२७॥निक्षिपेत्तच्च जम्बीरे डोलायन्त्रे त्र्यहं पचेत् ।एवं कृते हीरकस्य द्रुतिर् भवति सूतवत् ॥४२८॥पद्मरागादिरत्नानां द्रुतिरेव कृते भवेत् ।द्रुतिमेलापनम्द्रुतीनां मेलनं वक्ष्ये शृणु भैरवि तत्त्वतः ॥४२९॥कृष्णागरुश्च कस्तूरी ब्रह्मबीजं च माक्षिकम् ।नारीपुष्पं विषं हिंगु लशुनं टङ्कणं निशा ॥४३०॥एतैः समं द्रुतिं सूतं तप्तखल्वे विमर्दयेत् ।पाठा वन्ध्या तालमूली नीली त्रिविधचित्रकम् ॥४३१॥पद्मकन्दं क्षीरकन्दं बला गुञ्जामृतार्द्रकम् ।अश्वलाला निम्बपत्रं स्त्रीस्तन्यं च समं समम् ॥४३२॥एतेषां ग्राहयेत्स्वच्छं रसं वस्त्रेण गालितम् ।एतद्द्रुतियुते सूते क्षिप्त्वा क्षिप्त्वा विमर्दयेत् ॥४३३॥मिलन्ति द्रुतयः सर्वाः पारदे नात्र संशयः ।द्रुतयो मिलिता येन यन्त्रं तेनैव कच्छपम् ॥४३४॥लिम्पेच्च बिडयोगेन मेलयेज्जारयेत्क्रमात् ।इत्येवं रसराजस्य षड्गुणां जारयेद्द्रुतिम् ॥४३५॥१४. रञ्जनम्द्रुतिजीर्णस्य सूतस्य रञ्जनं शृणु पार्वति ।तस्माद्रञ्जकबीजानां रञ्जनं च वदामि ते ॥४३६॥रञ्जनतैलविधिःपलाशपुष्पं मञ्जिष्ठा लोहितं करवीरजम् ।पुष्पं च खदिरं रक्तचन्दनं कुक्कुटी तथा ॥४३७॥निशाद्वयं च सरलं देवदारुं जपासुमम् ।अन्यानि रक्तपुष्पाणि लाक्षातोयेन मर्दयेत् ॥४३८॥एतच्चतुर्गुणं तैलं तैलाद्रक्तप्रसूनजम् ।द्रवं चतुर्गुणं देयं तैलशेषं यथा भवेत् ॥४३९॥तस्मिन् निषेचयेद् बीजम् एकविंशतिवारकम् ।रञ्जयेत्पक्वबीजानि सर्वाण्येवं सुरार्चिते ॥४४०॥नागबीजरञ्जनम्खर्परे नागमादाय चण्डाग्निं ज्वालयेदधः ।पलाशपर्णबीजानि क्षिपेत्तस्मिन्प्रचालयेत् ॥४४१॥पलाशदण्डेनामर्द्यं चतुर्यामेन भस्मति ।तद्भस्म गन्धकं तुल्यमम्ले यामं प्रपेषयेत् ॥४४२॥रुद्ध्वा पुटेद्गजपुटे स्वाङ्गशीतं तदुद्धरेत् ।तच्चतुर्थांशकं गन्धं दत्त्वा पिष्ट्वा पुटे पचेत् ॥४४३॥एवं द्विसप्तवारेण नागं स्याद्रक्तवर्णकम् ।वाशापञ्चाङ्गचूर्णं च तच्चूर्णं ककुभस्य च ॥४४४॥शिग्रुकिंशुककोरण्डशाकपुष्पाणि नागिनीम् ।अहिमारं कुमारीं च नागकन्यां च चूर्णयेत् ॥४४५॥एतत्सर्वं चैकभागं द्विभागं च मनःशिलाम् ।भाण्डे सर्वं विनिक्षिप्य गवां मूत्रे चतुर्गुणे ॥४४६॥पचेत्पादावशेषं तु पूर्वनागे क्षिपन्क्षिपन् ।चुल्ल्यां पचेद्ब्रह्मदण्डैश्चालयेत्सप्तवासरम् ॥४४७॥इदं नागं पक्वबीजे द्रुते निर्वाहयेत्त्रिधा ।रञ्जितं जायते बीजं मुख्यं स्याद्रसरञ्जने ॥४४८॥बीजरञ्जनप्रकारःताप्यसत्वं च कृष्णाभ्रसत्वचूर्णं धमेत्समम् ।तस्मिन्द्रुते ताप्यचूर्णं मृतशुल्बं क्रमाद्वहेत् ॥४४९॥त्रिगुणं तद्भवेद्बीजं रञ्जकं परमेश्वरि ।अन्यः प्रकारःकुनटी माक्षिकं गन्धं दरदं पेषयेत्समम् ॥४५०॥रक्तवर्गस्य गोमूत्रे पेषितस्य रसे प्रिये ।पेषयेच्छोषयेत् सप्तवारं तच्चूर्णयेत्क्षिपेत् ॥४५१॥द्वंद्विते तीक्ष्णताम्रे च तुल्यं क्षिप्त्वा धमेद्दृढम् ।ज्योतिष्मतीतैलयुक्ते रक्तवर्गे निषेचयेत् ॥४५२॥पुनश्च पूर्वचूर्णं तु तुल्यं क्षिप्त्वा धमेत् प्रिये ।सेचयेत् सप्तधा त्वेवं स्याद्बीजं रसरञ्जकम् ॥४५३॥अन्यः प्रकारःतारं च विमलासत्त्वं समांशं द्रावयेत् ततः ।सरक्तवर्गे गोमूत्रे भावितं दरदं त्रिधा ॥४५४॥तत्तुल्यं निक्षिपेत् तस्मिन् धमेद् एवं तु सप्तधा ।क्षिप्त्वा क्षिप्त्वा च दरदं स्याद्बीजं रसरञ्जकम् ॥४५५॥अन्यः प्रकारःघनसत्त्वम् अहिं स्वर्णं समांशं द्वंद्वितं धमेत् ।खर्परे रक्तवर्गं च माक्षिकं गैरिकं शिलाम् ॥४५६॥समं संचूर्णयेत् तस्मिन् वापयेच्च समं समम् ।दशवारं भवेद् एतद् बीजं सूतेन्द्ररञ्जकम् ॥४५७॥अन्यः प्रकारःयवचिञ्चारसैर्भाव्या रक्तवर्णा मनःशिला ।विंशद्वारं प्रयत्नेन तेन कल्केन लेपयेत् ॥४५८॥नागपत्रं पुटे पच्याद्यावच्चूर्णमुपागतम् ।रसकस्य तु भागांस्त्रीन् भागैकं दरदस्य च ॥४५९॥शिलागन्धविषाणां च त्रयाणामेकभागकम् ।सेचयेन्मातुलुङ्गाम्लैः तेन कल्केन लेपयेत् ॥४६०॥मूषागर्भे क्षिपेत् तत्तत्पूर्वनागं धमेत् ततः ।द्रुतं यावत् समुद्धृत्य लिप्त्वा मूषां पुनर् धमेत् ॥४६१॥इत्येवं सप्तधा धाम्यं नागं स्वर्णनिभं भवेत् ।अन्यः प्रकारःपीताभ्रकस्य सत्वं तु पूर्वनागं च तत्समम् ॥४६२॥द्वंद्वितं पूर्वयोगेन ह्यभिषिक्तं च कारयेत् ।अनेन द्वन्द्वयोगेन वापो देयो द्रुतस्य च ॥४६३॥पक्वबीजस्य वारांस्त्रीन् तद्बीजं रञ्जितं शुभम् ।तारबीजरञ्जनम्अथातस् तारबीजानां रञ्जनं शृणु पार्वति ॥४६४॥नानाभूरुहसम्भूतश्वेतपुष्परसे प्रिये ।चतुर्भागे चैकभागं कङ्गुणीतैलकं क्षिपेत् ॥४६५॥तैलावशेषं विपचेत्तारबीजानि तत्र वै ।भूयो भूयो द्रावयित्वा सेचयेदेकविंशतिम् ॥४६६॥बीजानि रञ्जितान्येवं भवेयू रसरञ्जने ।एवं वङ्गस्य बीजानि रञ्जयेत् परमेश्वरि ॥४६७॥रञ्जनक्रमःद्रुतिजीर्णस्य सूतस्य चतुःषष्टितमांशकम् ।निक्षिपेद्रञ्जकं बीजं तप्तखल्वे दिनावधि ॥४६८॥मर्दयेत् तप्तखल्वे तु पचेत् कच्छपयन्त्रके ।एवं ग्रासक्रमेणैव षड्गुणं जारयेत् प्रिये ॥४६९॥१५. - १७. सारणत्रयम्॑ सारणार्थे वज्रबीजसाधनम्॑ प्रथमः प्रकारःरञ्जितस्य रसेन्द्रस्य प्रवक्ष्ये सारणात्रयम् ।सारणा योग्यबीजानि दिव्यानि च सुरार्चिते ॥४७०॥स्वर्णं द्वादशभागं स्यात् तदर्धं शुद्धपारदम् ।रसेन्द्रार्धं नागभस्म चतुर्भागं मृतं पविम् ॥४७१॥एतच्चतुष्टयं चाम्लैर्मर्दयेत्तप्तखल्वके ।उद्धृत्य द्वन्द्वमेलापमूषायां रोधयेद्धमेत् ॥४७२॥हठात्तच्च मिलत्येव वज्रबीजम् इदं प्रिये ।द्वितीयः प्रकारःभावयेच्छारिबाक्षीरैर् मृतं वज्रं दिनं ततः ॥४७३॥मर्दयेद् गोलकं कृत्वा शोषयेच्चैकभागकम् ।त्रिभागं रसराजं च चतुर्भागं सुवर्णकम् ॥४७४॥अम्लेन मर्दयेत् पिष्टिं कृत्वा तद्वज्रगोलकम् ।तत्पिष्ट्या वेष्टयेत् तच्च भूर्जपत्रेण वेष्टयेत् ॥४७५॥पक्षं न्यसेद् धान्यराशौ तद् उद्धृत्य पुनः प्रिये ।धमेद्धठान्मिलत्येव वज्रबीजम् इदं भवेत् ॥४७६॥वज्रषोडशभागेन स्वर्णपत्रेण वेष्टयेत् ।तत्क्षिप्त्वा लिप्तमूषायां स्वर्णांशं श्वेतकाचजम् ॥४७७॥चूर्णं वा नृकपालं वा चूर्णं कृत्वा विनिक्षिपेत् ।निरुध्य च धमेत् तीव्रम् एवं कुर्यात् पुनः पुनः ॥४७८॥क्षिप्त्वा क्षिप्त्वा श्वेतकाचं नृकपालमथापि वा ।सप्तधैवं मिलत्येव वज्रबीजमिदं भवेत् ॥४७९॥सारणातैलम्अतः परं सारणायां प्रवक्ष्ये तैलसाधनम् ।ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् ॥४८०॥तैलं कूर्मवराहादिमेषमत्स्यसमुद्भवम् ।जलूकाभेकजाता च वसा ग्राह्या विधानतः ॥४८१॥रक्तवर्गः पीतवर्गः क्वाथ्यः क्षीरैश्चतुर्गुणैः ।पुष्पाणां रक्तपीतानाम् अनेकानां द्रवं हरेत् ॥४८२॥पाटलीकाकतुण्ड्युत्थमहाराष्ट्रीद्रवं तथा ।एकांशं तैलम् एकांशा वसा क्वाथश्चतुर्गुणः ॥४८३॥द्व्यंशैः पुष्पद्रवैर् द्व्यंशान् पाटल्यादिद्रवानपि ।सर्वं ताम्रमये पात्रे मृदुना वह्निना पचेत् ॥४८४॥तस्मिन्क्षिपेत् षोडशांशं भूलतामलताप्यकम् ।विख्यातं सारणातैलं रसराजस्य जारणे ॥४८५॥रञ्जितं रसराजं तु सारणातैलसंयुतम् ।निक्षिपेत्सारणायन्त्रे नालमूषां गतं द्रुतम् ॥४८६॥बीजं तु ढालयेत्सूते चतुःषष्टितमांशकम् ।उद्धृत्य तप्तखल्वे तु पट्वम्लैर् मर्दयेद्दिनम् ॥४८७॥ततः कच्छपयन्त्रे तु सविव्ये पाचयेद् दिनम् ।इत्येवं षड्गुणं सार्यं सारितो जायते रसः ॥४८८॥एवं द्वितीयवारे तु कृते सूतोऽनुसारितः ।तथा तृतीयवारे तु रसः स्यात् प्रतिसारितः ॥४८९॥१८. वेधःसारितस्य रसेन्द्रस्य हरितालं समांशकम् ।मर्दयेद् धूर्ततैलैश्च दिनं दिव्यौषधिद्रवैः ॥४९०॥तत उद्धृत्य क्षिपेद् वज्रमूषायां विपचेद्दिनम् ।करीषाग्नाविति पुनर् मर्द्यं पाच्यं त्रिधा प्रिये ॥४९१॥अनेन कर्मणा देवि सूतो बद्धमुखो भवेत् ।बद्धवक्त्रस्य सूतस्य भागमेकं सुरार्चिते ॥४९२॥सुतारताम्रतीक्ष्णानां चूर्णानाम् एकभागकम् ।सर्वं संमर्दयेद् देवदालीनीरैर् दिनं ततः ॥४९३॥मध्वाज्यैश्च दिनं मर्द्यं तेन कुर्यात् सुगोलकम् ।निक्षिपेद् वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥४९४॥स रसः खोटबद्धः स्यात् तत्खोटं काचटङ्कणैः ।तेजःपुञ्जो भवेद्यावत् तावत् कुर्याद् धमन् धमन् ॥४९५॥तं रसं योजयेद् देहे लोहे रोगे च पार्वति ।देहवेधक्रमःदेहवेधं प्रवक्ष्यामि सावधानं शृणु प्रिये ॥४९६॥पाचनस्नेहनस्वेदवमनारेचनैः क्रमात् ।शरीरं शोधयेल्लोणक्षाराम्लादिविवर्जितः ॥४९७॥ततस्त्वारोटकं सूतं भक्षयेत् परमेश्वरि ।क्षेत्रं कृत्वा शरीरं तु ततः सिद्धरसं क्षिपेत् ॥४९८॥शतवेधिरसं पूर्वं ततः साहस्रवेधकम् ।दशसाहस्रवेधं च लक्षवेधकरं रसम् ॥४९९॥वेधकं दशलक्षस्य कोटिवेधं सुरार्चिते ।गन्धकेन युतं सूतं क्रमेणानेन सुव्रते ॥५००॥स रसः क्रमते देहे सिद्धयः सम्भवन्ति हि ।रसायने तु याः प्रोक्ता मूलिका देहसिद्धिदाः ॥५०१॥ताभिर्युक्तो रसेन्द्रस्तु देहे संक्रमते प्रिये ।क्रामति तनौ हि सूतो जनयति पुत्रांश्चदेवतागर्भान् ॥५०२॥खे गमनेन च नित्यं संचरणं सकलभुवनेषु ।धाता भुवनत्रितये स्रष्टाद्यो ब्रह्मयोनिरिव ॥५०३॥विष्णुरिव पालनार्थे संहर्ता रुद्रदेववत्सत्कलम् ।लोहवेधक्रमःक्रामणं लोहवेधस्य वक्ष्यामि शृणु भैरवि ॥५०४॥दरदं माक्षिकं कान्तं शिलां गन्धं विषं घनम् ।रसकं भूलतां हिङ्गु कान्तास्यं टङ्कणं प्रिये ॥५०५॥गन्धकेन हतं ताम्रं भुजङ्गं शिलया हतम् ।दरदेन हतं तीक्ष्णं महिषीकर्णसम्भवम् ॥५०६॥मलं वायसविष्ठां च प्रथमार्तवरक्ततः ।अनेन वेष्टयेत् सिद्धसूतं लोहेषु वेधयेत् ॥५०७॥तारकृष्ट्यष्टनवतिः स्वर्णमेकं तथा रसः ।शतवेधी तु विख्यातस्त्वेवं साहस्रवेधकः ॥५०८॥वेधयेद्दशसाहस्रं लक्षं कोटिमथार्बुदम् ।जारणायां बलं यावत् तावल्लोहानि वेधयेत् ॥५०९॥१. क्रामणयोगःमाक्षिकं भूलतां सूतं कुनटीं टङ्कणं तथा ।स्त्रीस्तन्यरक्तं सम्पिष्टं क्रामणं क्षेपलेपयोः ॥५१०॥२. क्रामणयोगःहिङ्गुलं रसकं कान्तम् इन्द्रगोपं विषं तथा ।मर्दयेत् तैलरक्ताभ्यां क्रामणं क्षेपलेपयोः ॥५११॥३. क्रामणयोगःगण्डोलविषभेकास्यमहिषीनेत्रजं मलम् ।रुधिरेण समायुक्तं रससंक्रामणे हितम् ॥५१२॥४. क्रामणयोगःरोचनं गुग्गुलुं स्तन्यम् इन्द्रगोपं विषं तथा ।सर्वं संमर्दयेद् देवि रससंक्रामणे हितम् ॥५१३॥५. क्रामणयोगःविष्णुक्रान्ता मधूच्छिष्टं माहिषं कर्णजं मलम् ।भूलता काकविष्ठा च लाङ्गली द्विपदीरजः ॥५१४॥नररक्तं ब्रह्मसोमा सुरसा शैलजं प्रिये ।शृङ्गी च लक्ष्मणा गृध्रकर्णी च क्रामणं परम् ॥५१५॥६. क्रामणयोगःश्रीवेष्टनिम्बनिर्यासस्त्रीस्तन्यविषटङ्कणैः ।गोघृतेन समायुक्तो लोहे संक्रामते रसः ॥५१६॥७. क्रामणयोगःपरमं क्रामणं वङ्गं मृगनाभं च पार्वति ।मातृवाहः कुलीरश्च शङ्खाभ्यन्तरजो मलः ॥५१७॥तथा कपित्थनिर्यासो रससंक्रामणं परम् ।क्रामणं रसराजस्य वेधकाले प्रदापयेत् ॥५१८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP