संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार १| भाग १७ रसविद्या प्रकार १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २४ भाग २५ भाग २६ रसविद्या - भाग १७ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग १७ Translation - भाषांतर उषःपानरसायनम्अथ प्रीतमना देवी पप्रच्छ परमेश्वरी ।श्रीभैरवी ।आदिभैरव देवेश सृष्टिस्थित्यन्तकारण ॥१॥सर्वज्ञ शिव लोकेश त्वत्प्रसादान्मया विभो ।रसायनानि दिव्यानि श्रुतानि विविधानि च ॥२॥सुसाध्यं सुलभं दिव्यं सद्यः प्रत्ययकारणम् ।बालस्त्रीषण्ढवृद्धानां रोगार्तानां विशेषतः ॥३॥योग्यं रसायनार्हाणां ब्रूहि देव कृपानिधे ।ततः स्मेराननाम्भोजो भैरवो भवभैरवः ॥४॥श्रीभैरवः ।शृणु देवि प्रवक्ष्यामि सर्वयोग्यं सुखङ्करम् ।पावनं सुलभं चान्तर्बहिरंहोविनाशनम् ॥५॥यस्माज्जगन्ति जातानि प्राणाः प्राणभृतामपि ।त्रायते विश्वमखिलं सर्वदेवात्मकं प्रिये ॥६॥त्रिदोषशमनं सौख्यं पथ्यं सर्वरसाधिकम् ।षड्जीवनादिगुणयुग्रसयुक्तं बलप्रदम् ॥७॥जीवनं च बलं प्रायः प्राणिनामग्निमूलकम् ।तस्याग्निरिन्धनं तोयं तस्मात्तोयं पिबेद्बुधः ॥८॥वैद्युतो बाडवो वह्निर्जाठरश्च त्रयोऽग्नयः ।अबिन्धनाः स्युरन्येषां काष्ठादीनीन्धनानि हि ॥९॥तस्माद्देवि शिवं वच्मि शृणु तोयरसायनम् ।पूरयेन्नूतनघटे प्रातः शोध्यैश्च वारिभिः ॥१०॥गाङ्गेयैर्वाथ नादेयैस् ताटाकैर्वापि सारसैः ।कौपैर्वा चापि वै घर्मैर्वार्षिकैर्वा यथाभवैः ॥११॥तद्घटं स्थापयेन्मञ्चे दिव्यभास्कररश्मिभिः ।नष्टदोषं निशायां च चन्द्रामृतकराप्लुतम् ॥१२॥एलोशीरककर्पूरचन्दनैरधिवासितम् ।पाटलीकेतकीजातिमल्लिकोत्पलवासितम् ॥१३॥उशीरतालवृन्तेन तोयसिक्तेन मन्द्रतः ।मुहुर्मुहुर्वीजितं तु हंसोदकमुदाहृतम् ॥१४॥अनुराधोदयात्पूर्वं नास्पृष्टमलमूत्रकम् ।पिबेत्तोयं ततः कुर्यान्मलमूत्रविसर्जनम् ॥१५॥सन्ध्यावन्दनकर्मादि कुर्वन्स्वेच्छाशनो भवेत् ।एकाब्दबालको नित्यं पिबेत्तोयं पलं पलम् ॥१६॥एवं षोडशवर्षान्तं प्रत्यब्दं च पलं पलम् ।वर्धयेत् क्रमशो धीमान्पलषोडशिकावधि ॥१७॥षोडशाब्दात्परं सेव्यं षोडशप्रसृतं जलम् ।एवं विंशतिवर्षान्तं नित्यं सेवेत सादरम् ॥१८॥अनेन व्याधयः सर्वे विनश्यन्ति न संशयः ।जीवेद्वर्षशतं बुद्धिबलेन्द्रियसुखान्वितः ॥१९॥प्रसृतं च पिबेदष्टपलं दीर्घायुषाय च ।यथा वह्निबलं तोयं त्र्यहाद्वा पञ्चवासरात् ॥२०॥सप्ताहाद्वा क्रमात्प्राज्ञः प्रसृतं प्रसृतं तथा ।पुनस्तु कुडवं वापि वर्धयेत्तच्छनैः शनैः ॥२१॥षोडशप्रसृतं यावत्तावत्सेव्यं ततः परम् ।यथा यथाम्बुनो वृद्धिस्तथा दोषः प्रशाम्यति ॥२२॥षण्मासं वा वत्सरं वा वाद्यन्तं वा पिबेज्जलम् ।यथा वृद्धिस्तथा ह्रासो यावच्चुलुकमात्रकम् ॥२३॥उपवासं दिवा रात्रौ पथ्याशी तत्परित्यजेत् ।आत्यन्तिके च व्यायामे सति वाञ्जलिमात्रकम् ॥२४॥पादमर्धं त्रिपादं वा यथा सेवाञ्जलिं पिबेत् ।मध्वाज्यतैलदुग्धाज्यजलाद्यन्यतमैर् युतम् ॥२५॥हन्याच्छीघ्रं वातरोगमथवास्यस्थभेषजैः ।तत्तद्रोगोपशमनं भक्षयित्वा च भेषजम् ॥२६॥ततो जलं वा प्रपिबेन्मुहूर्ते वा गते सति ।जीर्णे वा सलिले सेव्यं भोजनान्तेऽथवा निशि ॥२७॥ज्वरादिरोगे संजात उपवासो भवेद्यदि ।पिबेद् अर्धं च पूर्वस्माल्लघ्वाहारी यथासुखम् ॥२८॥उपवासो व्रतार्थं चेत् तत्क्षीरं वा पलं निशि ।रात्रावभोजनं देवि जठरे वारि शुष्यति ॥२९॥अर्धं वा प्राञ्जलिं वारि पिबेन्नित्यं प्रयत्नतः ।सर्वत्राहारसत्वाग्निसाम्यं वारि पिबेत्सुधीः ॥३०॥विण्मूत्रोत्सर्जनं ब्राह्मान्मुहूर्तात्पूर्वतो यदि ।ततः पीत्वैव सलिलं विण्मूत्रं च विसर्जयेत् ॥३१॥वारि पूतं विषं त्वल्पं विण्मूत्रोत्सर्जनात्परम् ।अज्ञातवेले रात्रौ चेत्पिबेत्तोयं पुनः प्रगे ॥३२॥पादं वाथ चतुर्थांशमञ्जलिं वा पिबेज्जलम् ।जलपानकल्पे पथ्यम् अपथ्यञ्चगोधूमषष्टिशाल्यन्नं यवजाङ्गलजामिषम् ॥३३॥गव्यं सर्पिर्दधि क्षीरमुदश्विन्नवनीतकम् ।मध्विक्षुदाडिमद्राक्षामोचखर्जूरशर्कराः ॥३४॥सहकारफलं धात्री नालिकेरजलं नवम् ।कूष्माण्डालाबुरुनिम्बपत्रफलानि च ॥३५॥पत्रपुष्पफलं शिग्रोर्मुद्गयूषरसौ कृतौ ।सुनिषण्णकगोरण्टी जीवन्तीद्वयकं तथा ॥३६॥राजवृक्षकशोथघ्नी चिल्ली वापि लघुच्छदा ।शतावरी तण्डुली च मत्स्याक्षी च विदारिका ॥३७॥उपोदकी च वार्त्ताकी कारवल्लीफलानि च ।लघुकोशातकी लक्ष्मी पटोलं तालमूलकम् ॥३८॥मोचायाः कुसुमं दण्डफलानि क्षुद्रदन्तिका ।सदाफलं च मत्स्याण्डी शृङ्गवेरं च सैन्धवम् ॥३९॥फलपूराम्लकं पक्वधात्रीफलम् अलर्ककः ।वायसी कुन्तली चैव वसुकन्यालिका तथा ॥४०॥कुस्तुम्बरी च सरसी शार्ङ्गेरी चक्रमर्दकः ।मण्डूकपर्णी पालक्याः पत्रं गाङ्गेरुकं तथा ॥४१॥आखुकर्णी कासमर्दपत्रं गाङ्गेरुकं तथा ।संस्कारार्थं च कैडर्यसैन्धवोषणजारकाः ॥४२॥सर्वेऽपि मधुरप्रायाः स्वादुशीताः सुखप्रदाः ।कतकस्य च पथ्यायाः शलाटुं लवणाक्तकम् ॥४३॥नीलोत्पलाब्जयोर् नालपुष्पशालूककेसराः ।स्नेहयुक्तं भजेत्स्नानं श्वेताम्बरधरः शुचिः ॥४४॥कस्तूरीचन्दनहिमकर्पूरैर् अनुलेपनम् ।मन्दानिलं पुष्पमाल्यं कौमुदीरत्नभूषणम् ॥४५॥पथ्यं रुच्यं जलीयं च स्वादुप्रायं च सद्रवम् ।घृतक्षीरयुतं भक्तं भुञ्जीतोदकसेवकः ॥४६॥ताम्बूलचर्वणं कुर्यात् सकर्पूरं सुखासनम् ।नारिकेलजलं सायं निशि क्षीरं सशर्करम् ॥४७॥शाल्मली तूलशय्या च निशि निद्रा यथासुखम् ।ऊनातिमात्रविष्टम्भिविबन्ध्युष्णखराणि च ॥४८॥रूक्षाहृद्यस्थिरगुरुपिच्छिलाकालभोजनम् ।कुल्माषबृहतीचोषद्वयालाबुनिरूढकम् ॥४९॥कुलुत्थयूषकालिङ्गगुञ्जावृक्षफलं तथा ।पलाण्डु लशुनं सर्वकन्दं सिद्धार्थकं तथा ॥५०॥अजाङ्गलं पलं मत्स्यं किंचित्क्षीरान्नभोजनम् ।अनुक्तशाकमन्नं च फलं क्षीरयुतं पलम् ॥५१॥सर्वक्षीरयुतान्सर्वान्रसानमधुरानपि ।तिलतैलं च तत्कल्कम् एतैः संयुक्तम् औषधम् ॥५२॥बहुभाष्यातपछायासमचिन्ताध्वरोषणम् ।शोकवाहनभीतिश् चालस्यात्यन्तरतं तथा ॥५३॥मूर्ध्नि भारवहश्चांभस्तरणं चोपवासकम् ।व्यायामेर्ष्यादिवास्वापो निशि जागरणं तथा ॥५४॥पुरोवातो हिमं धूलिर्वातप्रायस्थलं तथा ।धूमप्रायगृहं तल्पं कार्पासपरिकल्पितम् ॥५५॥अग्निः श्रमाम्बुजननं तथोष्णाम्बरधारणम् ।कौशेयधारणं तूर्वोस्ताडनं कठिनासनम् ॥५६॥उष्णालयक्षारकूपसलिलं कटुतिक्तकौ ।अम्लः कषायतिक्तश्च रामठं च विरूक्षकम् ॥५७॥मदिरा च वसा मज्जा मूत्रं दुष्टजलानि च ।मदं शीतमनारोग्यं भोजनं तैलवर्जितम् ॥५८॥अभ्यङ्गं काञ्जिकं शीतं रोगाभावे कषायकम् ।विदाहि शोषणं मूर्ध्नि स्नानमप्युष्णवारिभिः ॥५९॥कारणं दोषकोपानां निन्द्यमन्यद्विवर्जयेत् ।पीतजलजीर्णलक्षणम्स्वस्थः पीत्वा सुखासीनः सलिलं वाग्यतः शुचिः ॥६०॥विसर्जयेन्मलं मूत्रं ताम्बूलादींश्च वर्जयेत् ।यावज्जलं पिबेत्तावन्मूत्रं निर्याति चेत् तदा ॥६१॥जलं जीर्णं विजानीयादौषधेन विना यदा ।निर्गच्छेत्सलिलं पीतं तदा स्वस्थतरो मतः ॥६२॥निर्गते पीतसलिले निःशेषे क्षुत्प्रजायते ।तैलाभ्यङ्गं ततः कुर्याद्विहितं पथ्यमाचरेत् ॥६३॥जलाजीर्णलक्षणं तत्परिहारश्चपरिहारं विना रोगा जायन्ते नाविचारतः ।श्रमः क्लमश्च वमनं शिरस्तोदः शिरोभ्रमः ॥६४॥सलिलस्तम्भशोषौ चाभिष्यन्दो वेगरोधनम् ।गुल्मोदावर्तकौ वह्निसदनं गात्रभञ्जनम् ॥६५॥तोदो बस्तौ मेहने च वक्षणे हृदि लोचने ।जङ्घोद्वेष्टनकं श्वासो भुक्तिद्वेषस्त्वरोचकः ॥६६॥अश्मरी पीनसः कासस्त्वतिसारश्च दुस्तरः ।सकृदम्भोविशोषश् चेद् रूक्षायासादिकर्मभिः ॥६७॥स दोषो न तु विज्ञेयो दोषस्तंभोऽसकृद्यदि ।प्रपीते सलिले स्तब्धे चिकित्सात्र विधीयते ॥६८॥कूष्माण्डपत्रैर् उदरं बस्तिं चाच्छादयेत्सुधीः ।मूत्रमोचनकृल्लेपं विदध्याज्जलमुक्तये ॥६९॥यद्वाज्यधात्रीलिप्ताङ्गस्नानं कुर्याद्रसायनम् ।सगुडं वा पिबेत्क्षीरं तक्रं वा शर्करान्वितम् ॥७०॥नालिकेरोदकैर्वापि ससितोर्वारुबीजकम् ।कष्टाज्जीर्णं जलं यस्य भुक्तेः प्राक् सर्पिर् आददेत् ॥७१॥यद्वा तिष्ठेच्चिरं चाप्सु स्नायाद्धात्र्यादिभिर्हिमैः ।यद्वा स्तब्धे जले पीते स्वादुशीतैर्विशोधयेत् ॥७२॥कृष्णामदनसिन्धूत्थैः कल्कैर्मधुयुतैर्वमेत् ।पथ्याचूर्णं नालिकेरजलैः पीत्वा विरेचयेत् ॥७३॥यद्वा त्रिजातकव्योषक्रिमिघ्नामलकाब्दकैः ।त्रिवृत्सर्वसमा योज्या ह्येतत्सर्वसमा सिता ॥७४॥सक्षौद्रगुलिकां कृत्वा लिहेदम्भोविमुक्तये ।रात्रौ वरा सेविता चेत्सर्वदोषविनाशिनी ॥७५॥नाभेरधश्चार्द्रपटं क्षणमात्रं निधापयेत् ।अवगाहेन शीताम्भो मूर्ध्नि वा शीतवारि च ॥७६॥निक्षिपेदथवा सार्द्रसिकतातल्पशोभिते ।धारागृहे वा चासीत त्रपुसोर्वारुबीजकम् ॥७७॥वरीद्राक्षाम्बुना पेयं वा तु काश्मीरजं वृषम् ।द्राक्षारसेन वा पेयं कर्कटीबीजकानि च ॥७८॥तण्डुलक्षालनजलैर्मधुकं वाथ शर्कराम् ।सद्राक्षं च गुडं दार्वीं तण्डुलोदकयोगतः ॥७९॥यद्वा धात्रीफलरसैर्गोस्तनीं शर्करान्विताम् ।वरीं वा शर्करायुक्तां द्राक्षां वा मस्तुना सह ॥८०॥जलेन वा गुडं पेयं नालिकेरजलेन वा ।तुगाक्षीरीभवं कल्कं वापि कर्कारुबीजकम् ॥८१॥कल्पं वा तामलक्याश्च मूलं वा यष्टिकल्ककम् ।पिशाचकदलीपक्वफलं क्षौद्रसितान्वितम् ॥८२॥नालिकेरजलैर्वापि तक्रैर्वा मस्तुनापि वा ।रम्भाकन्दजलैर्वापि क्षीरैर्वामलकीरसैः ॥८३॥यद् वामृतारसैर् वापि कूष्माण्डस्वरसेन वा ।दाडिमस्य रसैर्वापि त्वभीरोश्च रसैस्तथा ॥८४॥अलाबोश्च रसैर्वापि पिबेदेलां सशर्कराम् ।कदलीकन्दयष्ट्याह्वश्वदंष्ट्राश्च कशेरुकाः ॥८५॥तृणपञ्चकमूलानि शुक्रा चैव शतावरी ।एतेषां कदलीकन्दप्रमुखानां कषायकम् ॥८६॥सक्षौद्रं ससितं वापि पेयं जलविमुक्तये ।उषःपानगुणाःएवं ब्राह्मे मुहूर्ते यत्पीतं वारि रसायनम् ॥८७॥दोषान् अशेषान् शमयेद् रोगानपि विनाशयेत् ।रक्तवातं च वातांश्च हृद्रोगं श्वासकासकम् ॥८८॥रक्तपित्तं च पित्तानि ग्रहणीछर्द्यरोचकान् ।क्षयमूर्च्छाकुष्ठमेहमोहगण्डार्बुदान् गदान् ॥८९॥गुल्मप्लीहाश्मरीशूलानाहाजीर्णविषूचिकाः ।क्रिमिं पाण्डुं कामिलां च हलीमकविसर्पकाः ॥९०॥व्रणं च श्वयथुं श्वित्रमग्निसादं त्रिधा विषम् ।जत्रूर्ध्वगुह्यकान् रोगान् अपस्मारं च विभ्रमम् ॥९१॥ज्वरान् आध्मानजठरमूत्राघातगुदाङ्कुरान् ।वलीपलितनिर्मुक्तो जीवेत्त्रिशतवत्सरम् ॥९२॥स्थिरधीर्बलवान्धीरः कान्तः कान्तामनोभवः ।नासापानरसायनम्नासापुटाभ्यां सलिलं यस्तु प्रातः पिबेन्नरः ॥९३॥शुक्तिमात्रं प्रतिदिनं पथ्याशी विजितेन्द्रियः ।इन्द्रियाणां पटुत्वं च वलीपलितनाशनम् ॥९४॥शतायुष्यम् अवाप्नोति नासारन्ध्ररसायनम् ॥९५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP