संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|सूत्रस्थान| अध्याय २६ सूत्रस्थान अध्याय ०१ अध्याय ०२ अध्याय ०३ अध्याय ०४ अध्याय ०५ अध्याय ०६ अध्याय ०७ अध्याय ०८ अध्याय ०९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० सूत्रस्थान - अध्याय २६ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय २६ Translation - भाषांतर षड्-विंशतिः सु-कर्मारैर् घटितानि यथा-विधि ।शस्त्राणि रोम-वाहीनि बाहुल्येनाङ्गुलानि षट् ॥१॥सु-रूपाणि सु-धाराणि सु-ग्रहाणि च कारयेत् ।अ-करालानि सु-ध्मात-सु-तीक्ष्णाव् अर्तिते ऽयसि ॥२॥समाहित-मुखाग्राणि नीलाम्भो-ज-च्छवीनि च ।नामानुगत-रूपाणि सदा संनिहितानि च ॥३॥स्वोन्मानार्ध-चतुर्थांश-फलान्य् एकैक-शो ऽपि च ।प्रायो द्वि-त्राणि युञ्जीत तानि स्थान-विशेषतः ॥४॥२६.४ - स्व-मानार्ध-चतुर्थांश- मण्डलाग्रं वृद्धि-पत्त्रम् उत्पलाध्य्-अर्ध-धारके ।सर्पैषण्यौ वेतसाख्यं शरार्य्-आस्य-त्रि-कूर्चके ॥४-१- ॥कुशास्यं साट-वदनम् अन्तर्-वक्त्रार्ध-चन्द्रके ।व्रीहि-मुखं कुठारी च शलाकाङ्गुलि-शस्त्रके ॥४-(२) ॥२६.४-(२)अव् कुशास्या साट-वदना २६.४-(२)ब्व् अन्तर्-वक्त्रार्ध-चन्द्रकम् २६.४-(२)ब्व् छन्न-वक्त्रार्ध-चन्द्रके २६.४-(२)ब्व् छन्न-वक्त्रार्ध-चन्द्रकम् बडिशं कर-पत्त्राख्यं कर्तरी नख-शस्त्रकम् ।दन्त-लेखनकं सूच्यः कूर्चो नाम खजाह्वयम् ॥४-(३) ॥आरा चतुर्-विधाकारा तथा स्यात् कर्ण-वेधनी ॥४-(४)अब् ॥२६.४-(४)ब्व् तथा स्यात् कर्ण-वेधनम् मण्डलाग्रं फले तेषां तर्जन्य्-अन्तर्-नखाकृति ।लेखने छेदने योज्यं पोथकी-शुण्डिकादिषु ॥५॥२६.५ - मण्डलाग्रं फलं तेषां वृद्धि-पत्त्रं क्षुराकारं छेद-भेदन-पाटने ।ऋज्व्-अग्रम् उन्नते शोफे गम्भीरे च तद् अन्य-था ॥६॥२६.६ - गम्भीरे तु ततो ऽन्य-था नताग्रं पृष्ठतो दीर्घ-ह्रस्व-वक्त्रं यथाश्रयम् ।उत्पलाध्य्-अर्ध-धाराख्ये भेदने छेदने तथा ॥७॥२६.७ - ह्रस्व-वक्त्रं यथाशयम् २६.७ - ह्रस्व-वक्त्रं यथा-क्रमम् २६.७ - ह्रस्व-वक्त्रं यथा-यथम् २६.७ - ह्रस्व-वक्त्रे यथा-यथम् सर्पास्यं घ्राण-कर्णार्शश्-छेदने ऽर्धाङ्गुलं फले ।गतेर् अन्वेषणे श्लक्ष्णा गण्डू-पद-मुखैषणी ॥८॥भेदनार्थे ऽपरा सूची-मुखा मूल-निविष्ट-खा ।वेतसं व्यधने स्राव्ये शरार्य्-आस्य-त्रि-कूर्चके ॥९॥कुशाटा-वदने स्राव्ये द्व्य्-अङ्गुलं स्यात् तयोः फलम् ।तद्-वद् अन्तर्-मुखं तस्य फलम् अध्य्-अर्धम् अङ्गुलम् ॥१०॥२६.१०अच् कुशाटा वदने स्राव्ये अर्ध-चन्द्राननं चैतत् तथाध्य्-अर्धाङ्गुलं फले ।व्रीहि-वक्त्रं प्रयोज्य च तत् सिरोदरयोर् व्यधे ॥११॥पृथुः कुठारी गो-दन्त-सदृशार्धाङ्गुलानना ।तयोर्ध्व-दण्डया विध्येद् उपर्य् अस्थ्नां स्थितां सिराम् ॥१२॥ताम्री शलाका द्वि-मुखी मुखे कुरुबकाकृतिः ।लिङ्ग-नाशं तया विध्येत् कुर्याद् अङ्गुलि-शस्त्रकम् ॥१३॥२६.१३ - ताम्री शलाका द्वि-मुखा मुद्रिका-निर्गत-मुखं फले त्व् अर्धाङ्गुलायतम् ।योगतो वृद्धि-पत्त्रेण मण्डलाग्रेण वा समम् ॥१४॥तत् प्रदेशिन्य्-अग्र-पर्व-प्रमाणार्पण-मुद्रिकम् ।सूत्र-बद्धं गल-स्रोतो-रोग-च्छेदन-भेदने ॥१५॥२६.१५ - प्रमाणार्पित-मुद्रिकम् ग्रहणे शुण्डिकार्मादेर् बडिशं सु-नताननम् ।छेदे ऽस्थ्नां करपत्त्रं तु खर-धारं दशाङ्गुलम् ॥१६॥२६.१६ - बडिशः सु-नताननः विस्तारे द्व्य्-अङ्गुलं सूक्ष्म-दन्तं सु-त्सरु-बन्धनम् ।स्नायु-सूत्र-कच-च्छेदे कर्तरी कर्तरी-निभा ॥१७॥वक्रर्जु-धारं द्वि-मुखं नख-शस्त्रं नवाङ्गुलम् ।सूक्ष्म-शल्योद्धृति-च्छेद-भेद-प्रच्छान-लेखने ॥१८॥२६.१८ - भेद-प्रच्छन्न-लेखने एक-धारं चतुष्-कोणं प्रबद्धाकृति चैकतः ।दन्त-लेखनकं तेन शोधयेद् दन्त-शर्कराम् ॥१९॥२६.१९ - प्रवृद्धाकृति चैकतः वृत्ता गूढ-दृढाः पाशे तिस्रः सूच्यो ऽत्र सीवने ।मांसलानां प्रदेशानां त्र्य्-अश्रा त्र्य्-अङ्गुलम् आयता ॥२०॥अल्प-मांसास्थि-संधि-स्थ-व्रणानां द्व्य्-अङ्गुलायता ।व्रीहि-वक्त्रा धनुर्-वक्रा पक्वामाशय-मर्मसु ॥२१॥सा सार्ध-द्व्य्-अङ्गुला सर्व-वृत्तास् ताश् चतुर्-अङ्गुलाः ।कूर्चो वृत्तैक-पीठ-स्थाः सप्ताष्टौ वा सु-बन्धनाः ॥२२॥२६.२२ - सा सार्ध-द्व्य्-अङ्गुला सर्वा २६.२२ - वृत्तास् ताश् चतुर्-अङ्गुलाः स योज्यो नीलिका-व्यङ्ग-केश-शातेषु कुट्टने ।अर्धाङ्गुल-मुखैर् वृत्तैर् अष्टाभिः कण्टकैः खजः ॥२३॥२६.२३ - केश-शातन-कुट्टने पाणिभ्यां मथ्यमानेन घ्राणात् तेन हरेद् असृक् ।व्यधनं कर्ण-पालीनां यूथिका-मुकुलाननम् ॥२४॥२६.२४ - व्यधने कर्ण-पालीनां २६.२४ - यूथिका-मुकुलानना आरार्धाङ्गुल-वृत्तास्या तत्-प्रवेशा तथोर्ध्वतः ।चतुर्-अश्रा तया विध्येच् छोफं पक्वाम-संशये ॥२५॥कर्ण-पालीं च बहलां बहलायाश् च शस्यते ।सूची त्रि-भाग-सुषिरा त्र्य्-अङ्गुला कर्ण-वेधनी ॥२६॥२६.२६ - तस्या एव च शस्यते जलौकः-क्षार-दहन-काचोपल-नखादयः ।अ-लौहान्य् अनु-शस्त्राणि तान्य् एवं च विकल्पयेत् ॥२७॥अपराण्य् अपि यन्त्रादीन्य् उपयोगं च यौगिकम् ।उत्पाट्य-पाट्य-सीव्यैष्य-लेख्य-प्रच्छान-कुट्टनम् ॥२८॥२६.२८ - उत्पाट्य-पाट्य-सेव्यैष्य- २६.२८ - लेख्य-प्रच्छन्न-कुट्टनम् छेद्यं भेद्यं व्यधो मन्थो ग्रहो दाहश् च तत्-क्रियाः ।कुण्ठ-खण्ड-तनु-स्थूल-ह्रस्व-दीर्घ-त्व-वक्र-ताः ॥२९॥शस्त्राणां खर-धार-त्वम् अष्टौ दोषाः प्रकीर्तिताः ।छेद-भेदन-लेख्यार्थं शस्त्रं वृन्त-फलान्तरे ॥३०॥तर्जनी-मध्यमाङ्गुष्ठैर् गृह्णीयात् सु-समाहितः ।विस्रावणानि वृन्ताग्रे तर्जन्य्-अङ्गुष्ठकेन च ॥३१॥तल-प्रच्छन्न-वृन्ताग्रं ग्राह्यं व्रीहि-मुखं मुखे ।मूलेष्व् आहरणार्थानि क्रिया-सौकर्यतो ऽपरम् ॥३२॥२६.३२ - मूलेष्व् आहरणार्थे तु २६.३२ - मूलेष्व् आहरणार्थेषु स्यान् नवाङ्गुल-विस्तारः सु-घनो द्वा-दशाङ्गुलः ।क्षौम-पत्त्रोर्ण-कौशेय-दुकूल-मृदु-चर्म-जः ॥३३॥विन्यस्त-पाशः सु-स्यूतः सान्तरोर्णा-स्थ-शस्त्रकः ।शलाका-पिहितास्यश् च शस्त्र-कोशः सु-संचयः ॥३४॥जलौकसस् तु सुखिनां रक्त-स्रावाय योजयेत् ।दुष्टाम्बु-मत्स्य-भेकाहि-शव-कोथ-मलोद्भवाः ॥३५॥२६.३५ - दुष्टाम्बु-मत्स्य-भेकादि- रक्ताः श्वेता भृशं कृष्णाश् चपलाः स्थूल-पिच्छिलाः ।इन्द्रायुध-विचित्रोर्ध्व-राजयो रोमशाश् च ताः ॥३६॥स-विषा वर्जयेत् ताभिः कण्डू-पाक-ज्वर-भ्रमाः ।विष-पित्तास्र-नुत् कार्यं तत्र शुद्धाम्बु-जाः पुनः ॥३७॥२६.३७ - विष-पित्तास्र-जित् कार्यं २६.३७ - तत्र शुद्धाम्बु-संभवाः निर्-विषाः शैवल-श्यावा वृत्ता नीलोर्ध्व-राजयः ।कषाय-पृष्ठास् तन्व्-अङ्ग्यः किञ्-चित्-पीतोदराश् च याः ॥३८॥ता अप्य् अ-सम्यग्-वमनात् प्रततं च निपातनात् ।सीदन्तिः सलिलं प्राप्य रक्त-मत्ता इति त्यजेत् ॥३९॥२६.३९ - सीदन्ति सलिलं प्राप्य अथेतरा निशा-कल्क-युक्ते ऽम्भसि परिप्लुताः ।अवन्ति-सोमे तक्रे वा पुनश् चाश्वासिता जले ॥४०॥२६.४० - काञ्जिके कालशेये वा लागयेद् घृत-मृत्-स्तन्य-रक्त-शस्त्र-निपातनैः ।पिबन्तीर् उन्नत-स्कन्धाश् छादयेन् मृदु-वाससा ॥४१॥२६.४१ - लागयेत् पल-मृत्-स्तन्य- संपृक्ताद् दुष्ट-शुद्धास्राज् जलौका दुष्ट-शोणितम् ।आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकाद् इव ॥४२॥२६.४२ - संसृष्टाद् दुष्ट-शुद्धास्राज् गुल्मार्शो-विद्रधीन् कुष्ठ-वात-रक्त-गलामयान् ।नेत्र-रुग्-विष-वीसर्पान् शमयन्ति जलौकसः ॥४२-१- ॥दंशस्य तोदे कण्ड्वां वा मोक्षयेद् वामयेच् च ताम् ।पटु-तैलाक्त-वदनां श्लक्ष्ण-कण्डन-रूषिताम् ॥४३॥२६.४३ - मोक्षयेद् वामयेच् च ताः २६.४३ - पटु-तैलाक्त-वदनाः २६.४३ - श्लक्ष्ण-कण्डन-रूक्षिताम् २६.४३ - श्लक्ष्ण-कण्डन-रूषिताः २६.४३ - श्लक्ष्ण-कण्डन-रूक्षिताः रक्षन् रक्त-मदाद् भूयः सप्ताहं ता न पातयेत् ।पूर्व-वत् पटु-ता दार्ढ्यं सम्यग्-वान्ते जलौकसाम् ॥४४॥क्लमो ऽति-योगान् मृत्युर् वा दुर्-वान्ते स्तब्ध-ता मदः ।अन्य-त्रान्य-त्र ताः स्थाप्या घटे मृत्स्नाम्बु-गर्भिणि ॥४५॥लालादि-कोथ-नाशार्थं स-विषाः स्युस् तद्-अन्वयात् ।अ-शुद्धौ स्रावयेद् दंशान् हरिद्रा-गुड-माक्षिकैः ॥४६॥शत-धौताज्य-पिचवस् ततो लेपाश् च शीतलाः ।दुष्ट-रक्तापगमनात् सद्यो राग-रुजां शमः ॥४७॥अ-शुद्धं चलितं स्थानात् स्थितं रक्तं व्रणाशये ।व्य्-अम्ली-भवेत् पर्युषितं तस्मात् तत् स्रावयेत् पुनः ॥४८॥२६.४८ - अम्ली-भवेत् पर्युषितं युञ्ज्यान् नालाबु-घटिका रक्ते पित्तेन दूषिते ।तासाम् अनल-संयोगाद् युञ्ज्यात् तु कफ-वायुना ॥४९॥२६.४९ - युञ्ज्याच् च कफ-वायुना कफेन दुष्टं रुधिरं न शृङ्गेण विनिर्हरेत् ।स्कन्न-त्वाद् वात-पित्ताभ्यां दुष्टं शृङ्गेण निर्हरेत् ॥५०॥२६.५० - न शृङ्गेणाति निर्हरेत् २६.५० - न शृङ्गेणाभिनिर्हरेत् गात्रं बद्ध्वोपरि दृढं रज्ज्वा पट्टेन वा समम् ।स्नायु-संध्य्-अस्थि-मर्माणि त्यजन् प्रच्छानम् आचरेत् ॥५१॥अधो-देश प्रविसृतैः पदैर् उपरि-गामिभिः ।न गाढ-घन-तिर्यग्भिर् न पदे पदम् आचरन् ॥५२॥२६.५२ - न पदे पदम् आचरेत् प्रच्छानेनैक-देश-स्थं ग्रथितं जल-जन्मभिः ।हरेच् छृङ्गादिभिः सुप्तम् असृग् व्यापि सिरा-व्यधैः ॥५३॥२६.५३ - ग्रन्थितं जल-जन्मभिः प्रच्छानं पिण्डिते वा स्याद् अवगाढे जलौकसः ।त्वक्-स्थे ऽलाबु-घटी-शृङ्गं सिरैव व्यापके ऽसृजि ॥५४॥वातादि-धाम वा शृङ्ग-जलौको-ऽलाबुभिः क्रमात् ।स्रुतासृजः प्रदेहाद्यैः शीतैः स्याद् वायु-कोपतः ॥५५॥स-तोद-कण्डुः शोफस् तं सर्पिषोष्णेन सेचयेत् ॥५५ऊ̆अब् ॥२६.५५ऊ̆अव् स-तोद-कण्डू-शोफस् तं N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP