सूत्रस्थान - अध्याय ०४

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


वेगान् न धारयेद् वात-विण्-मूत्र-क्षव-तृट्-क्षुधाम् ।
निद्रा-कास-श्रम-श्वास-जृम्भाश्रु-च्छर्दि-रेतसाम् ॥१॥

अधो-वातस्य रोधेन गुल्मोदावर्त-रुक्-क्लमाः ।
वात-मूत्र-शकृत्-सङ्ग-दृष्ट्य्-अग्नि-वध-हृद्-गदाः ॥२॥

स्नेह-स्वेद-विधिस् तत्र वर्तयो भोजनानि च ।
पानानि वस्तयश् चैव शस्तं वातानुलोमनम् ॥२-१॥

शकृतः पिण्डिकोद्वेष्ट-प्रतिश्याय-शिरो-रुजः ।
ऊर्ध्व-वायुः परीकर्तो हृदयस्योपरोधनम् ॥३॥

४.३ - ऊर्ध्वं वायुः परीकर्तो मुखेन विट्-प्रवृत्तिश् च पूर्वोक्ताश् चामयाः स्मृताः ।
अङ्ग-भङ्गाश्मरी-वस्ति-मेढ्र-वङ्क्षण-वेदनाः ॥४॥

मूत्रस्य रोधात् पूर्वे च प्रायो रोगास् तद्-औषधम् ।
वर्त्य्-अभ्यङ्गावगाहाश् च स्वेदनं वस्ति-कर्म च ॥५॥

अन्न-पानं च विड्-भेदि विड्-रोधोत्थेषु यक्ष्मसु ।
मूत्र-जेषु तु पाने च प्राग्-भक्तं शस्यते घृतम् ॥६॥

४.६ - मूत्र-जेषु च पानं तु ४.६ - मूत्र-जेषु प्रयुञ्जीत ४.६ - सर्पिषश् चावपीडकम् जीर्णान्तिकं चोत्तमया मात्रया योजना-द्वयम् ।
अवपीडकम् एतच् च संज्ञितं धारणात् पुनः ॥७॥

उद्गारस्या-रुचिः कम्पो विबन्धो हृदयोरसोः ।
आध्मान-कास-हिध्माश् च हिध्मा-वत् तत्र भेषजम् ॥८॥

शिरो-ऽर्तीन्द्रिय-दौर्बल्य-मन्या-स्तम्भार्दितं क्षुतेः ।
तीक्ष्ण-धूमाञ्जनाघ्राण-नावनार्क-विलोकनैः ॥९॥

प्रवर्तयेत् क्षुतिं सक्तां स्नेह-स्वेदौ च शीलयेत् ।
शोषाङ्ग-साद-बाधिर्य-संमोह-भ्रम-हृद्-गदाः ॥१०॥

तृष्णाया निग्रहात् तत्र शीतः सर्वो विधिर् हितः ।
अङ्ग-भङ्गा-रुचि-ग्लानि-कार्श्य-शूल-भ्रमाः क्षुधः ॥११॥

४.११ - कार्श्य-शूल-श्रम-भ्रमाः तत्र योज्यं लघु स्निग्धम् उष्णम् अल्पं च भोजनम् ।
निद्राया मोह-मूर्धाक्षि-गौरवालस्य-जृम्भिकाः ॥१२॥

४.१२ - वैवर्ण्यं च क्षुधस् तत्र ४.१२ - स्निग्धोष्णं लघु भोजनम् अङ्ग-मर्दश् च तत्रेष्टः स्वप्नः संवाहनानि च ।
कासस्य रोधात् तद्-वृद्धिः श्वासा-रुचि-हृद्-आमयाः ॥१३॥

शोषो हिध्मा च कार्यो ऽत्र कास-हा सु-तरां विधिः ।
गुल्म-हृद्-रोग-संमोहाः श्रम-श्वासाद् विधारितात् ॥१४॥

४.१४ - श्रम-श्वासा-विधारणात् हितं विश्रमणं तत्र वात-घ्नश् च क्रिया-क्रमः ।
जृम्भायाः क्षव-वद् रोगाः सर्वश् चानिल-जिद् विधिः ॥१५॥

४.१५च्च् जृम्भायाः क्षुति-वद् रोगाः पीनसाक्षि-शिरो-हृद्-रुङ्-मन्या-स्तम्भा-रुचि-भ्रमाः ।
स-गुल्मा बाष्पतस् तत्र स्वप्नो मद्यं प्रियाः कथाः ॥१६॥

विसर्प-कोठ-कुष्ठाक्षि-कण्डू-पाण्ड्व्-आमय-ज्वराः ।
स-कास-श्वास-हृल्-लास-व्यङ्ग-श्वयथवो वमेः ॥१७॥

गण्डूष-धूमान्-आहारा रूक्षं भुक्त्वा तद्-उद्वमः ।
व्यायामः स्रुतिर् अस्रस्य शस्तं चात्र विरेचनम् ॥१८॥

४.१८ - गण्डूष-धूमान्-आहारं ४.१८ - गण्डूष-धूमान्-आहारान् ४.१८ - रूक्षं भुक्त्वा तद् उद्वमेत् ४.१८ - रूक्षान् भुक्त्वा तद् उद्वमेत् स-क्षार-लवणं तैलम् अभ्यङ्गार्थं च शस्यते ।
शुक्रात् तत्-स्रवणं गुह्य-वेदना-श्वयथु-ज्वराः ॥१९॥

४.१९ - अभ्यङ्गार्थे च शस्यते हृद्-व्यथा-मूत्र-सङ्गाङ्ग-भङ्ग-वृद्ध्य्-अश्म-षण्ढ-ताः ।
ताम्र-चूड-सुरा-शालि-वस्त्य्-अभ्यङ्गावगाहनम् ॥२०॥

वस्ति-शुद्धि-करैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः ।
तृट्-शूलार्तं त्यजेत् क्षीणं विड्-वमं वेग-रोधिनम् ॥२१॥

रोगाः सर्वे ऽपि जायन्ते वेगोदीरण-धारणैः ।
निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥२२॥

ततश् चानेक-धा प्रायः पवनो यत् प्रकुप्यति ।
अन्न-पानौषधं तस्य युञ्जीतातो ऽनुलोमनम् ॥२३॥

धारयेत् तु सदा वेगान् हितैषी प्रेत्य चेह च ।
लोभेर्ष्या-द्वेष-मात्सर्य-रागादीनां जितेन्द्रियः ॥२४॥

यतेत च यथा-कालं मलानां शोधनं प्रति ।
अत्य्-अर्थ-संचितास् ते हि क्रुद्धाः स्युर् जीवित-च्छिदः ॥२५॥

दोषाः कदा-चित् कुप्यन्ति जिता लङ्घन-पाचनैः ।
ये तु संशोधनैः शुद्धा न तेषां पुनर्-उद्भवः ॥२६॥

४.२६ - ये तु संशोधनैः शुद्धास् ४.२६ - तेषां न पुनर्-उद्भवःच यथा-क्रमं यथा-योगम् अत ऊर्ध्वं प्रयोजयेत् ।
रसायनानि सिद्धानि वृष्य-योगांश् च काल-वित् ॥२७॥

४.२७ - यथा-क्रमं यथा-योग्यम् भेषज-क्षपिते पथ्यम् आहारैर् बृंहणं क्रमात् ।
शालि-षष्टिक-गोधूम-मुद्ग-मांस-घृतादिभिः ॥२८॥

४.२८ - मुद्ग-मांस-रसादिभिः हृद्य-दीपन-भैषज्य-संयोगाद् रुचि-पक्ति-दैः ।
साभ्यङ्गोद्वर्तन-स्नान-निरूह-स्नेह-वस्तिभिः ॥२९॥

तथा स लभते शर्म सर्व-पावक-पाटवम् ।
धी-वर्णेन्द्रिय-वैमल्यं वृष-तां दैर्घ्यम् आयुषः ॥३०॥

ये भूत-विष-वाय्व्-अग्नि-क्षत-भङ्गादि-संभवाः ।
राग-द्वेष-भयाद्याश् च ते स्युर् आगन्तवो गदाः ॥३१॥

४.३१ - काम-क्रोध-भायाद्याश् त्यागः प्रज्ञापराधानाम् इन्द्रियोपशमः स्मृतिः ।
देश-कालात्म-विज्ञानं सद्-वृत्तस्यानुवर्तनम् ॥३२॥

अथर्व-विहिता शान्तिः प्रतिकूल-ग्रहार्चनम् ।
भूताद्य-स्पर्शनोपायो निर्दिष्टश् च पृथक् पृथक् ॥३३॥

अन्-उत्पत्त्यै समासेन विधिर् एष प्रदर्शितः ।
निजागन्तु-विकाराणाम् उत्पन्नानां च शान्तये ॥३४॥

४.३४ - अन्-उत्पत्तौ समासेन शीतोद्भवं दोष-चयं वसन्ते विशोधयन् ग्रीष्म-जम् अभ्र-काले ।
घनात्यये वार्षिकम् आशु सम्यक् प्राप्नोति रोगान् ऋतु-जान् न जातु ॥३५॥

नित्यं हिताहार-विहार-सेवी समीक्ष्य-कारी विषयेष्व् अ-सक्तः ।
दाता समः सत्य-परः क्षमा-वान् आप्तोपसेवी च भवत्य् अ-रोगः ॥३६॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP