सूत्रस्थान - अध्याय ०६

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


रक्तो महान् स-कलमस् तूर्णकः शकुनाहृतः ।
सारा-मुखो दीर्घशूको लोध्रशूकः सुगन्धिकः ॥१॥

पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौर-शारिवौ ।
काञ्चनो महिषः शूकः दूषकः कुसुमाण्डकः ॥२॥

६.२ - पाण्डुकः पुण्डरीकश् च ६.२ - पौण्ड्रकः पुण्डरीकश् च ६.२ - प्रमोदो गौर-शालिकः लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः ।
पतङ्गास् तपनीयाश् च ये चान्ये शालयः शुभाः ॥३॥

६.३ - जाङ्गला लोहवालाख्याः ६.३ - लाङ्गला लोहवालाश् च ६.३ - लाङ्गलो लोहवालाख्यः ६.३ - कर्दमः शीतभीरुकः स्वादु-पाक-रसाः स्निग्धा वृष्या बद्धाल्प-वर्चसः ।
कषायानु-रसाः पथ्या लघवो मूत्रला हिमाः ॥४॥

शूक-जेषु वरस् तत्र रक्तस् तृष्णा-त्रि-दोष-हा ।
महांस् तम् अनु कलमस् तं चाप्य् अनु ततः परे ॥५॥

६.५ - महांस् तस्यानु कलमस् यवका हायनाः पांसु-बाष्प-नैषधकादयः ।
स्वादूष्णा गुरवः स्निग्धाः पाके ऽम्लाः श्लेष्म-पित्तलाः ॥६॥

६.६ - वाप्य-नैषधकादयः सृष्ट-मूत्र-पुरीषाश् च पूर्वं पूर्वं च निन्दिताः ।
स्निग्धो ग्राही लघुः स्वादुस् त्रि-दोष-घ्नः स्थिरो हिमः ॥७॥

षष्टिको व्रीहिषु श्रेष्ठो गौरश् चासित-गौरतः ।
ततः क्रमान् महा-व्रीहि-कृष्ण-व्रीहि-जतूमुखाः ॥८॥

कुक्कुटाण्डक-लावाख्य-पारावतक-शूकराः ।
वरकोद्दालकोज्ज्वाल-चीन-शारद-दर्दुराः ॥९॥

६.९ - कुक्कुटाण्डक-पालाक्ष- ६.९ - कुक्कुटाण्डक-पालाख्य- ६.९ - कुक्कुटाण्डक-लावाक्ष- ६.९ - चीन-शारद-दुर्दराः गन्धनाः कुरुविन्दाश् च गुणैर् अल्पान्तराः स्मृताः ।
स्वादुर् अम्ल-विपाको ऽन्यो व्रीहिः पित्त-करो गुरुः ॥१०॥

बहु-मूत्र-पुरीषोष्मा त्रि-दोषस् त्व् एव पाटलः ।
कङ्गु-कोद्रव-नीवार-श्यामाकादि हिमं लघु ॥११॥

तृण-धान्यं पवन-कृल् लेखनं कफ-पित्त-हृत् ।
भग्न-संधान-कृत् तत्र प्रियङ्गुर् बृंहणी गुरुः ॥१२॥

कोरदूषः परं ग्राही स्पर्शो शीतो विषापहः ।
रूक्षः शीतो गुरुः स्वादुः सरो विड्-वात-कृद् यवः ॥१३॥

६.१३ - स्पर्शो शीतो गरापहः ६.१३ - स्पर्श-शीतो विषापहः वृष्यः स्थैर्य-करो मूत्र-मेदः-पित्त-कफाञ् जयेत् ।
पीनस-श्वास-कासोरु-स्तम्भ-कण्ठ-त्वग्-आमयान् ॥१४॥

न्यूनो यवाद् अनु-यवो रूक्षोष्णो वंश-जो यवः ।
वृष्यः शीतो गुरुः स्निग्धो जीवनो वात-पित्त-हा ॥१५॥

६.१५ - न्यूनो यावद् अन्य-यवो संधान-कारी मधुरो गोधूमः स्थैर्य-कृत् सरः ।
पथ्या नन्दीमुखी शीता कषाय-मधुरा लघुः ॥१६॥

निः-सारा वातला रूक्षा जूर्णाध्मान-करा सरा ॥१६-१॥

मुद्गाढकी-मसूरादि शिम्बी-धान्यं विबन्ध-कृत् ।
कषायं स्वादु संग्राहि कटु-पाकं हिमं लघु ॥१७॥

मेदः-श्लेष्मास्र-पित्तेषु हितं लेपोपसेकयोः ।
वरो ऽत्र मुद्गो ऽल्प-चलः कलायस् त्व् अति-वातलः ॥१८॥

असृक्-पित्त-हरो रूक्षो वातलश् चणकः स्मृतः ॥१८.१-१॥

राज-माषो ऽनिल-करो रूक्षो बहु-शकृद् गुरुः ।
उष्णाः कुलत्थाः पाके ऽम्लाः शुक्राश्म-श्वास-पीनसान् ॥१९॥

कासार्शः-कफ-वातांश् च घ्नन्ति पित्तास्र-दाः परम् ।
निष्पावो वात-पित्तास्र-स्तन्य-मूत्र-करो गुरुः ॥२०॥

६.२० - निष्पावो वात-पित्तासृक्- सरो विदाही दृक्-शुक्र-कफ-शोफ-विषापहः ।
माषः स्निग्धो बल-श्लेष्म-मल-पित्त-करः सरः ॥२१॥

गुरूष्णो ऽनिल-हा स्वादुः शुक्र-वृद्धि-विरेक-कृत् ।
फलानि माष-वद् विद्यात् काकाण्डोलात्मगुप्तयोः ॥२२॥

उष्णस् त्वच्यो हिमः स्पर्शे केश्यो बल्यस् तिलो गुरुः ।
अल्प-मूत्रः कटुः पाके मेधाग्नि-कफ-पित्त-कृत् ॥२३॥

६.२३ - उष्णस् त्वच्यो हिम-स्पर्शः स्निग्धोमा स्वादु-तिक्तोष्णा कफ-पित्त-करी गुरुः ।
दृक्-शुक्र-हृत् कटुः पाके तद्-वद् बीजं कुसुम्भ-जम् ॥२४॥

माषो ऽत्र सर्वेष्व् अवरो यवकः शूक-जेषु च ।
नवं धान्यम् अभिष्यन्दि लघु संवत्सरोषितम् ॥२५॥

६.२५ - यवकः शूक-जेष्व् अपि ६.२५ - लघु वर्षोषितं च यत् शीघ्र-जन्म तथा सूप्यं निस्-तुषं युक्ति-भर्जितम् ।
मण्ड-पेया-विलेपीनाम् ओदनस्य च लाघवम् ॥२६॥

यव-गोधूम-माषाश् च तिलाश् चाभिनवा हिताः ।
पुराणा वि-रसाः सूक्ष्मा न तथार्थ-करा मताः ॥२६.१-१॥

यथा-पूर्वं शिवस् तत्र मण्डो वातानुलोमनः ।
तृड्-ग्लानि-दोष-शेष-घ्नः पाचनो धातु-साम्य-कृत् ॥२७॥

स्रोतो-मार्दव-कृत् स्वेदी संधुक्षयति चानलम् ।
क्षुत्-तृष्णा-ग्लानि-दौर्बल्य-कुक्षि-रोग-ज्वरापहा ॥२८॥

मलानुलोमनी पथ्या पेया दीपन-पाचनी ।
विलेपी ग्राहिणी हृद्या तृष्णा-घ्नी दीपनी हिता ॥२९॥

व्रणाक्षि-रोग-संशुद्ध-दुर्-बल-स्नेह-पायिनाम् ।
सु-धौतः प्रस्रुतः स्विन्नो ऽ-त्यक्तोष्मा चौदनो लघुः ॥३०॥

यश् चाग्नेयौषध-क्वाथ-साधितो भृष्ट-तण्डुलः ।
विपरीतो गुरुः क्षीर-मांसाद्यैर् यश् च साधितः ॥३१॥

६.३१ - यश् चाग्नेयौषध-क्वाथे ६.३१ - साधितो भृष्ट-तण्डुलैः इति द्रव्य-क्रिया-योग-मानाद्यैः सर्वम् आदिशेत् ।
बृंहणः प्रीणनो वृष्यश् चक्षुष्यो व्रण-हा रसः ॥३२॥

मौद्गस् तु पथ्यः संशुद्ध-व्रण-कण्ठाक्षि-रोगिणाम् ।
वातानुलोमी कौलत्थो गुल्म-तूणी-प्रतूणि-जित् ॥३३॥

अ-कृतं कृत-यूषं च तनु संस्कारितं रसम् ।
सूपम् अम्लम् अन्-अम्लं च गुरु विद्याद् यथोत्तरम् ॥३३-१॥

तिल-पिण्याक-विकृतिः शुष्क-शाकं विरूढकम् ।
शाण्डाकी-वटकं दृङ्-घ्नं दोषलं ग्लपनं गुरु ॥३४॥

रसाला बृंहणी वृष्या स्निग्धा बल्या रुचि-प्रदा ।
श्रम-क्षुत्-तृट्-क्लम-हरं पानकं प्रीणनं गुरु ॥३५॥

विष्टम्भि मूत्रलं हृद्यं यथा-द्रव्य-गुणं च तत् ।
लाजास् तृट्-छर्द्य्-अतीसार-मेह-मेदः-कफ-च्छिदः ॥३६॥

कास-पित्तोपशमना दीपना लघवो हिमाः ।
पृथुका गुरवो बल्याः कफ-विष्टम्भ-कारिणः ॥३७॥

धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः ।
सक्तवो लघवः क्षुत्-तृट्-श्रम-नेत्रामय-व्रणान् ॥३८॥

६.३८ - श्रम-नेत्र-गलामयान् घ्नन्ति संतर्पणाः पानात् सद्य एव बल-प्रदाः ।
नोदकान्तरितान् न द्विर् न निशायां न केवलान् ॥३९॥

न भुक्त्वा न द्वि-जैश् छित्त्वा सक्तून् अद्यान् न वा बहून् ।
पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टि-दूषणः ॥४०॥

रौक्ष्याद् विष्टम्भते कोष्ठे विष्टम्भि-त्वाद् विदह्यते ।
विदाहात् कुरुते ग्लानिं पिण्याको निशि सेवितः ॥४०-१॥

वेसवारो गुरुः स्निग्धो बलोपचय-वर्धनः ।
मुद्गादि-जास् तु गुरवो यथा-द्रव्य-गुणानुगाः ॥४१॥

कुकूल-कर्पर-भ्राष्ट्र-कन्द्व्-अङ्गार-विपाचितान् ।
एक-योनीō̃ लघून् विद्याद् अपूपान् उत्तरोत्तरम् ॥४२॥

६.४२ - कुकूल-खर्पर-भ्राष्ट्र- ६.४२ - कट्व्-अङ्गार-विपाचितान् ६.४२ - अपूपांस् तु यथोत्तरम् हरिणैण-कुरङ्गर्क्ष-गोकर्ण-मृगमातृकाः ।
शश-शम्बर-चारुष्क-शरभाद्या मृगाः स्मृताः ॥४३॥

लाव-वार्तीक-वर्तीर-रक्तवर्त्मक-कुक्कुभाः ।
कपिञ्जलोपचक्राख्य-चकोर-कुरुबाहवः ॥४४॥

६.४४ - रक्तवर्त्मक-कुर्कुभाः वर्तको वर्तिका चैव तित्तिरिः क्रकरः शिखी ।
ताम्र-चूडाख्य-बकर-गोनर्द-गिरि-वर्तिकाः ॥४५॥

६.४५ - कुक्कुटो बकरः कङ्क- ६.४५ - ताम्र-चूडाख्य-वरक- तथा शारपदेन्द्राभ-वरटाद्याश् च विष्किराः ।
जीवञ्जीवक-दात्यूह-भृङ्गाह्व-शुक-सारिकाः ॥४६॥

६.४६ - वारटाद्याश् च विष्किराः ६.४६ - वारटाश् चेति विष्किराः ६.४६ - वरटाश् चेति विष्किराः लट्वा-कोकिल-हारीत-कपोत-चटकादयः ।
प्रतुदा भेक-गोधाहि-श्वाविद्-आद्या बिले-शयाः ॥४७॥

गो-खराश्वतरोष्ट्राश्व-द्वीपि-सिंहर्क्ष-वानराः ।
मार्जार-मूषक-व्याघ्र-वृक-बभ्रु-तरक्षवः ॥४८॥

लोपाक-जम्बुक-श्येन-चाष-वान्ताद-वायसाः ।
शशघ्नी-भास-कुरर-गृध्रोलूक-कुलिङ्गकाः ॥४९॥

६.४९ - शशारि-भास-कुरर- धूमिका मधुहा चेति प्रसहा मृग-पक्षिणः ।
वराह-महिष-न्यङ्कु-रुरु-रोहित-वारणाः ॥५०॥

सृमरश् चमरः खड्गो गवयश् च महा-मृगाः ।
हंस-सारस-कादम्ब-बक-कारण्डव-प्लवाः ॥५१॥

बलाकोत्क्रोश-चक्राह्व-मद्गु-क्रौञ्चादयो ऽप्-चराः ।
मत्स्या रोहित-पाठीन-कूर्म-कुम्भीर-कर्कटाः ॥५२॥

शुक्ति-शङ्खोद्र-शम्बूक-शफरी-वर्मि-चन्द्रिकाः ।
चुलूकी-नक्र-मकर-शिशुमार-तिमिङ्गिलाः ॥५३॥

६.५३ - शुक्ति-शङ्खोद्रु-शम्बूक- ६.५३ - चुल्लकी-नक्र-मकर- राजी-चिलिचिमाद्याश् च मांसम् इत्य् आहुर् अष्ट-धा ।
योनिष्व् अजावी व्यामिश्र-गो-चर-त्वाद् अ-निश्चिते ॥५४॥

मृग्यं वैष्किरिकं किं च प्रातुदं च बिले-शयम् ।
प्रासहं च महा-मृग्यम् अप्-चरं मात्स्यम् अष्ट-धा ॥५४.१-१॥

आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ ।
तत्र बद्ध-मलाः शीता लघवो जाङ्गला हिताः ॥५५॥

पित्तोत्तरे वात-मध्ये संनिपाते कफानुगे ।
दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः ॥५६॥

ईषद्-उष्ण-गुरु-स्निग्धा बृंहणा वर्तकादयः ।
तित्तिरिस् तेष्व् अपि वरो मेधाग्नि-बल-शुक्र-कृत् ॥५७॥

ग्राही वर्ण्यो ऽनिलोद्रिक्त-संनिपात-हरः परम् ।
नाति-पथ्यः शिखी पथ्यः श्रोत्र-स्वर-वयो-दृशाम् ॥५८॥

तद्-वच् च कुक्कुटो वृष्यो ग्राम्यस् तु श्लेष्मलो गुरुः ।
मेधानल-करा हृद्याः क्रकराः सोपचक्रकाः ॥५९॥

गुरुः स-लवणः काण-कपोतः सर्व-दोष-कृत् ।
चटकाः श्लेष्मलाः स्निग्धा वात-घ्नाः शुक्रलाः परम् ॥६०॥

६.६० - वात-घ्नाः शुक्रलाः भृशम् गुरूष्ण-स्निग्ध-मधुरा वर्गाश् चातो यथोत्तरम् ।
मूत्र-शुक्र-कृतो बल्या वात-घ्नाः कफ-पित्तलाः ॥६१॥

शीता महा-मृगास् तेषु क्रव्याद-प्रसहाः पुनः ।
लवणानु-रसाः पाके कटुका मांस-वर्धनाः ॥६२॥

६.६२ - क्रव्यादाः प्रसहाः पुनः जीर्णार्शो-ग्रहणी-दोष-शोषार्तानां परं हिताः ।
नाति-शीत-गुरु-स्निग्धं मांसम् आजम् अ-दोषलम् ॥६३॥

६.६३ - नाति-शीतं गुरु स्निग्धं शरीर-धातु-सामान्याद् अन्-अभिष्यन्दि बृंहणम् ।
विपरीतम् अतो ज्ञेयम् आविकं बृंहणं तु तत् ॥६४॥

शुष्क-कास-श्रमात्य्-अग्नि-विषम-ज्वर-पीनसान् ।
कार्श्यं केवल-वातांश् च गो-मांसं संनियच्छति ॥६५॥

उष्णो गरीयान् महिषः स्वप्न-दार्ढ्य-बृहत्-त्व-कृत् ।
तद्-वद् वराहः श्रम-हा रुचि-शुक्र-बल-प्रदः ॥६६॥

मत्स्याः परं कफ-कराश् चिलिचीमस् त्रि-दोष-कृत् ।
लाव-रोहित-गोधैणाः स्वे स्वे वर्गे वराः परम् ॥६७॥

मत्स्यादि-पक्षिणां चैव गुरूण्य् अण्डानि चादिशेत् ।
तानि स्निग्धानि वृष्याणि स्वादु-पाक-रसानि च ॥६७.१-१॥

६.६७.१-१ - गुरूण्य् अण्डान्य् अतो दिशेत् ६.६७.१-१ - गुरूण्य् अण्डानि चान्यतो मांसं सद्यो-हतं शुद्धं वयः-स्थं च भजेत् त्यजेत् ।
मृतं कृशं भृशं मेद्यं व्याधि-वारि-विषैर् हतम् ॥६८॥

पुं-स्त्रियोः पूर्व-पश्चार्धे गुरुणी गर्भिणी गुरुः ।
लघुर् योषिच् चतुष्-पात्सु विहङ्गेषु पुनः पुमान् ॥६९॥

शिरः-स्कन्धोरु-पृष्ठस्य कट्याः सक्थ्नोश् च गौरवम् ।
तथाम-पक्वाशययोर् यथा-पूर्वं विनिर्दिशेत् ॥७०॥

शोणित-प्रभृतीनां च धातूनाम् उत्तरोत्तरम् ।
मांसाद् गरीयो वृषण-मेढ्र-वृक्क-यकृद्-गुदम् ॥७१॥

शाकं पाठा-शठी-सूषा-सुनिषण्ण-सतीन-जम् ।
त्रि-दोष-घ्नं लघु ग्राहि स-राज-क्षव-वास्तुकम् ॥७२॥

६.७२ - शाकं पाठा-शठी-शूषा- सुनिषण्णो ऽग्नि-कृद् वृष्यस् तेषु राज-क्षवः परम् ।
ग्रहण्य्-अर्शो-विकार-घ्नो वर्चो-भेदि तु वास्तुकम् ॥७३॥

हन्ति दोष-त्रयं कुष्ठं वृष्या सोष्णा रसायनी ।
काकमाची सरा स्वर्या चाङ्गेर्य् अम्लाग्नि-दीपनी ॥७४॥

६.७४ - वृष्या सोष्णा रसायनम् ग्रहण्य्-अर्शो-ऽनिल-श्लेष्मन्-हितोष्णा ग्राहिणी लघुः ।
पटोल-सप्तलारिष्ट-शार्ङ्गष्टावल्गुजामृताः ॥७५॥

६.७५ - पटोलं सप्तलारिष्ट- वेत्राग्र-बृहती-वासा-कुतिली-तिलपर्णिकाः ।
मण्डूकपर्णी-कर्कोट-कारवेल्लक-पर्पटाः ॥७६॥

६.७६ - वेत्राग्रं बृहती-वासा- ६.७६ - कुन्तिली-तिलपर्णिकाः ६.७६ - कुन्तली-तिलपर्णिकाः नाडी-कलाय-गोजिह्वा-वार्ताकं वनतिक्तकम् ।
करीरं कुलकं नन्दी कुचैला शकुलादनी ॥७७॥

कठिल्लं केम्बुकं शीतं स-कोशातक-कर्कशम् ।
तिक्तं पाके कटु ग्राहि वातलं कफ-पित्त-जित् ॥७८॥

६.७८ - कठिल्ल-केम्बुकं शीतं हृद्यं पटोलं कृमि-नुत् स्वादु-पाकं रुचि-प्रदम् ।
पित्तलं दीपनं भेदि वात-घ्नं बृहती-द्वयम् ॥७९॥

वृषं तु वमि-कास-घ्नं रक्त-पित्त-हरं परम् ।
कारवेल्लं स-कटुकं दीपनं कफ-जित् परम् ॥८०॥

वार्ताकं कटु-तिक्तोष्णं मधुरं कफ-वात-जित् ।
स-क्षारम् अग्नि-जननं हृद्यं रुच्यम् अ-पित्तलम् ॥८१॥

करीरम् आध्मान-करं कषायं स्वादु तिक्तकम् ।
कोशातकावल्गुजकौ भेदिनाव् अग्नि-दीपनौ ॥८२॥

६.८२ - भेदनाव् अग्नि-दीपनौ तण्डुलीयो हिमो रूक्षः स्वादु-पाक-रसो लघुः ।
मद-पित्त-विषास्र-घ्नो मुञ्जातं वात-पित्त-जित् ॥८३॥

स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्र-कृत् परम् ।
गुर्वी सरा तु पालङ्क्या मद-घ्नी चाप्य् उपोदका ॥८४॥

पालङ्क्या-वत् स्मृतश् चञ्चुः स तु संग्रहणात्मकः ।
विदारी वात-पित्त-घ्नी मूत्रला स्वादु-शीतला ॥८५॥

६.८५ - पालङ्क्या-वत् स्मृतश् चुच्चुः ६.८५ - पालङ्क्या-वत् स्मृतश् चुञ्चुः जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम् ।
चक्षुष्या सर्व-दोष-घ्नी जीवन्ती मधुरा हिमा ॥८६॥

कूष्माण्ड-तुम्ब-कालिङ्ग-कर्कार्व्-एर्वारु-तिण्डिशम् ।
तथा त्रपुस-चीनाक-चिर्भटं कफ-वात-कृत् ॥८७॥

भेदि विष्टम्भ्य् अभिष्यन्दि स्वादु-पाक-रसं गुरु ।
वल्ली-फलानां प्रवरं कूष्माण्डं वात-पित्त-जित् ॥८८॥

वस्ति-शुद्धि-करं वृष्यं त्रपुसं त्व् अति-मूत्रलम् ।
तुम्बं रूक्ष-तरं ग्राहि कालिङ्गैर्वारु-चिर्भटम् ॥८९॥

बालं पित्त-हरं शीतं विद्यात् पक्वम् अतो ऽन्य-था ।
शीर्णवृन्तं तु स-क्षारं पित्तलं कफ-वात-जित् ॥९०॥

रोचनं दीपनं हृद्यम् अष्ठीलानाह-नुल् लघु ।
मृणाल-बिस-शालूक-कुमुदोत्पल-कन्दकम् ॥९१॥

नन्दी-माषक-केलूट-शृङ्गाटक-कसेरुकम् ।
क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु ॥९२॥

कदम्ब-नालिका-मार्ष-कुटिञ्जर-कुतुम्बकम् ।
चिल्ली-लट्वाक-लोणीका-कुरूटक-गवेधुकम् ॥९३॥

६.९३ - कलम्बु-नालिका-मार्ष- ६.९३ - कुटिञ्जर-कुरुम्बकम् ६.९३ - कुलिञ्जर-कुरुम्बकम् ६.९३ - कुरूढक-गवेधुकाः ६.९३ - कुरण्टक-गवेधुकाः ६.९३ - कुरण्टक-गवेधुकम् जीवन्त-झुञ्झ्व्-एडगज-यव-शाक-सुवर्चलाः ।
आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम् ॥९४॥

६.९४ - यव-शाक-सुवर्चलम् ६.९४ - तथा सूप्यानि लाक्ष्मणम् ६.९४ - तथा सूप्यानि लक्ष्मणा स्वादु रूक्षं स-लवणं वात-श्लेष्म-करं गुरु ।
शीतलं सृष्ट-विण्-मूत्रं प्रायो विष्टभ्य जीर्यति ॥९५॥

स्विन्नं निष्पीडित-रसं स्नेहाढ्यं नाति-दोषलम् ।
लघु-पत्त्रा तु या चिल्ली सा वास्तुक-समा मता ॥९६॥

तर्कारी-वरुणं स्वादु स-तिक्तं कफ-वात-जित् ।
वर्षाभ्वौ काल-शाकं च स-क्षारं कटु-तिक्तकम् ॥९७॥

६.९७ - तर्कारी-वरणं स्वादु दीपनं भेदनं हन्ति गर-शोफ-कफानिलान् ।
दीपनाः कफ-वात-घ्नाश् चिरिबिल्वाङ्कुराः सराः ॥९८॥

संग्राहि शाल्मली-पुष्पं पित्तास्र-घ्नं विशेषतः ॥९८.१-१॥

शतावर्य्-अङ्कुरास् तिक्ता वृष्या दोष-त्रयापहाः ।
रूक्षो वंश-करीरस् तु विदाही वात-पित्तलः ॥९९॥

पत्तूरो दीपनस् तिक्तः प्लीहार्शः-कफ-वात-जित् ।
कृमि-कास-कफोत्क्लेदान् कासमर्दो जयेत् सरः ॥१००॥

रूक्षोष्णम् अम्लं कौसुम्भं गुरु पित्त-करं सरम् ।
गुरूष्णं सार्षपं बद्ध-विण्-मूत्रं सर्व-दोष-कृत् ॥१०१॥

यद् बालम् अ-व्यक्त-रसं किञ्-चित्-क्षारं स-तिक्तकम् ।
तन् मूलकं दोष-हरं लघु सोष्णं नियच्छति ॥१०२॥

गुल्म-कास-क्षय-श्वास-व्रण-नेत्र-गलामयान् ।
स्वराग्नि-सादोदावर्त-पीनसांश् च महत् पुनः ॥१०३॥

रसे पाके च कटुकम् उष्ण-वीर्यं त्रि-दोष-कृत् ।
गुर्व् अभिष्यन्दि च स्निग्ध-सिद्धं तद् अपि वात-जित् ॥१०४॥

६.१०४ - स्विन्नं तद् अपि वात-जित् वात-श्लेष्म-हरं शुष्कं सर्वम् आमं तु दोषलम् ।
कटूष्णो वात-कफ-हा पिण्डालुः पित्त-वर्धनः ॥१०५॥

कुठेर-शिग्रु-सुरस-सुमुखासुरि-भूस्तृणम् ।
फणिज्जार्जक-जम्बीर-प्रभृति ग्राहि शालनम् ॥१०६॥

विदाहि कटु रूक्षोष्णं हृद्यं दीपन-रोचनम् ।
दृक्-शुक्र-कृमि-हृत् तीक्ष्णं दोषोत्क्लेश-करं लघु ॥१०७॥

हिध्मा-कास-विष-श्वास-पार्श्व-रुक्-पूति-गन्ध-हा ।
सुरसः सुमुखो नाति-विदाही गर-शोफ-हा ॥१०८॥

६.१०८ - हिध्मा-कास-वमि-श्वास- ६.१०८ - हिध्मा-कास-श्रम-श्वास- आर्द्रिका तिक्त-मधुरा मूत्रला न च पित्त-कृत् ।
लशुनो भृश-तीक्ष्णोष्णः कटु-पाक-रसः सरः ॥१०९॥

हृद्यः केश्यो गुरुर् वृष्यः स्निग्धो रोचन-दीपनः ।
भग्न-संधान-कृद् बल्यो रक्त-पित्त-प्रदूषणः ॥११०॥

६.११० - स्निग्धो दीपन-पाचनः किलास-कुष्ठ-गुल्मार्शो-मेह-कृमि-कफानिलान् ।
स-हिध्मा-पीनस-श्वास-कासान् हन्ति रसायनम् ॥१११॥

६.१११ - कासान् हन्त्य् अस्र-पित्त-कृत् पलाण्डुस् तद्-गुण-न्यूनः श्लेष्मलो नाति-पित्तलः ।
कफ-वातार्शसां पथ्यः स्वेदे ऽभ्यवहृतौ तथा ॥११२॥

तीक्ष्णो गृञ्जनको ग्राही पित्तिनां हित-कृन् न सः ।
दीपनः सूरणो रुच्यः कफ-घ्नो विशदो लघुः ॥११३॥

विशेषाद् अर्शसां पथ्यो भू-कन्दस् त्व् अति-दोषलः ।
पत्त्रे पुष्पे फले नाले कन्दे च गुरु-ता क्रमात् ॥११४॥

६.११४ - पुष्पे पत्त्रे फले नाले वरा शाकेषु जीवन्ती सार्षपं त्व् अवरं परम् ।
द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्ट-मूत्र-विट् ॥११५॥

६.११५ - सार्षपस् त्व् अवरः परम् ६.११५ - सर्षपास् त्व् अवराः परम् स्वादु-पाक-रसा स्निग्धा स-कषाया हिमा गुरुः ।
निहन्त्य् अनिल-पित्तास्र-तिक्तास्य-त्व-मदात्ययान् ॥११६॥

६.११६ - निहन्त्य् अनिल-पित्तासृक्- तृष्णा-कास-श्रम-श्वास-स्वर-भेद-क्षत-क्षयान् ।
उद्रिक्त-पित्ताञ् जयति त्रीन् दोषान् स्वादु दाडिमम् ॥११७॥

पित्ता-विरोधि नात्य्-उष्णम् अम्लं वात-कफापहम् ।
सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचन-दीपनम् ॥११८॥

मोच-खर्जूर-पनस-नारिकेल-परूषकम् ।
आम्रात-ताल-काश्मर्य-राजादन-मधूक-जम् ॥११९॥

सौवीर-बदराङ्कोल्ल-फल्गु-श्लेष्मातकोद्भवम् ।
वातामाभिषुकाक्षोट-मुकूलक-निकोचकम् ॥१२०॥

उरुमाणं प्रियालं च बृंहणं गुरु शीतलम् ।
दाह-क्षत-क्षय-हरं रक्त-पित्त-प्रसादनम् ॥१२१॥

स्वादु-पाक-रसं स्निग्धं विष्टम्भि कफ-शुक्र-कृत् ।
फलं तु पित्तलं तालं सरं काश्मर्य-जं हिमम् ॥१२२॥

६.१२२ - श्लेष्मलं वात-पित्त-जित् शकृन्-मूत्र-विबन्ध-घ्नं केश्यं मेध्यं रसायनम् ।
वातामाद्य् उष्ण-वीर्यं तु कफ-पित्त-करं सरम् ॥१२३॥

परं वात-हरं स्निग्धम् अन्-उष्णं तु प्रियाल-जम् ।
प्रियाल-मज्जा मधुरो वृष्यः पित्तानिलापहः ॥१२४॥

कोल-मज्जा गुणैस् तद्-वत् तृट्-छर्दिः-कास-जिच् च सः ।
पक्वं सु-दुर्-जरं बिल्वं दोषलं पूति-मारुतम् ॥१२५॥

दीपनं कफ-वात-घ्नं बालं ग्राह्य् उभयं च तत् ।
कपित्थम् आमं कण्ठ-घ्नं दोषलं दोष-घाति तु ॥१२६॥

६.१२६ - बालं ग्राह्य् उभयं तु तत् पक्वं हिध्मा-वमथु-जित् सर्वं ग्राहि विषापहम् ।
जाम्बवं गुरु विष्टम्भि शीतलं भृश-वातलम् ॥१२७॥

संग्राहि मूत्र-शकृतोर् अ-कण्ठ्यं कफ-पित्त-जित् ।
वात-पित्तास्र-कृद् बालं बद्धास्थि कफ-पित्त-कृत् ॥१२८॥

६.१२८ - अ-कण्ठ्यं कफ-पित्त-नुत् गुर्व् आम्रं वात-जित् पक्वं स्वाद्व् अम्लं कफ-शुक्र-कृत् ।
वृक्षाम्लं ग्राहि रूक्षोष्णं वात-श्लेष्म-हरं लघु ॥१२९॥

तृष्णा-घ्नम् उष्णम् अम्लायाः फलं पित्त-करं सरम् ॥१२९.१-१॥

शम्या गुरूष्णं केश-घ्नं रूक्षं पीलु तु पित्तलम् ।
कफ-वात-हरं भेदि प्लीहार्शः-कृमि-गुल्म-नुत् ॥१३०॥

स-तिक्तं स्वादु यत् पीलु नात्य्-उष्णं तत् त्रि-दोष-जित् ।
त्वक् तिक्त-कटुका स्निग्धा मातुलुङ्गस्य वात-जित् ॥१३१॥

बृंहणं मधुरं मांसं वात-पित्त-हरं गुरु ।
लघु तत्-केसरं कास-श्वास-हिध्मा-मदात्ययान् ॥१३२॥

आस्य-शोषानिल-श्लेष्म-विबन्ध-च्छर्द्य्-अ-रोचकान् ।
गुल्मोदरार्शः-शूलानि मन्दाग्नि-त्वं च नाशयेत् ॥१३३॥

मधुरं किञ्-चिद् अम्लं च हृद्यं भक्त-प्ररोचकम् ।
गुरु वात-प्रशमनं विद्यान् नारङ्ग-जं फलम् ॥१३३-१॥

भल्लातकस्य त्वङ्-मांसं बृंहणं स्वादु शीतलम् ।
तद्-अस्थ्य्-अग्नि-समं मेध्यं कफ-वात-हरं परम् ॥१३४॥

स्वाद्व् अम्लं शीतम् उष्णं च द्वि-धा पालेवतं गुरु ।
रुच्यम् अत्य्-अग्नि-शमनं रुच्यं मधुरम् आरुकम् ॥१३५॥

६.१३५ - हृद्यं मधुरम् आरुकम् पक्वम् आशु जरां याति नात्य्-उष्ण-गुरु-दोषलम् ।
द्राक्षा-परूषकं चार्द्रम् अम्लं पित्त-कफ-प्रदम् ॥१३६॥

६.१३६ - नात्य्-उष्णं गुरु दोषलम् गुरूष्ण-वीर्यं वात-घ्नं सरं स-करमर्दकम् ।
तथाम्लं कोल-कर्कन्धु-लिकुचाम्रातकारुकम् ॥१३७॥

६.१३७ - तद्-वच् च कोल-कर्कन्धु- ६.१३७ - लिकुचाम्रातम् आरुकम् ऐरावतं दन्तशठं स-तूदं मृगलिण्डिकम् ।
नाति-पित्त-करं पक्वं शुष्कं च करमर्दकम् ॥१३८॥

दीपनं भेदनं शुष्कम् अम्लीका-कोलयोः फलम् ।
तृष्णा-श्रम-क्लम-च्छेदि लघ्व् इष्टं कफ-वातयोः ॥१३९॥

स्वाद्व् अम्लं लघु कोलं तु शुष्कं जीर्णं च दीपनम् ॥१३९.१-१॥

फलानाम् अवरं तत्र लिकुचं सर्व-दोष-कृत् ।
हिमानलोष्ण-दुर्-वात-व्याल-लालादि-दूषितम् ॥१४०॥

६.१४० - हिमानिलोष्ण-दुर्-वात- वात-घ्नं दुर्-जरं प्रोक्तं नारङ्गं कफ-कृद् गुरु ।
तृष्णा-शूल-कफोत्क्लेद-च्छर्दि-श्वास-निवारणम् ॥१४०.१-१॥

नारिकेलं गुरु स्निग्धं पित्त-घ्नं स्वादु शीतलम् ।
बल-मांस-करं हृद्यं बृंहणं वस्ति-शोधनम् ॥१४०.१-२॥

जन्तु-जुष्टं जले मग्नम् अ-भूमि-जम् अन्-आर्तवम् ।
अन्य-धान्य-युतं हीन-वीर्यं जीर्ण-तयाति च ॥१४१॥

६.१४१ - वीर्यं जीर्ण-तयापि च धान्यं त्यजेत् तथा शाकं रूक्ष-सिद्धम् अ-कोमलम् ।
अ-संजात-रसं तद्-वच् छुष्कं चान्य-त्र मूलकात् ॥१४२॥

प्रायेण फलम् अप्य् एवं तथामं बिल्व-वर्जितम् ।
विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्ट-मलं विदुः ॥१४३॥

६.१४३ - सूक्ष्मं सृष्ट-मलं मृदु वात-घ्नं पाकि तीक्ष्णोष्णं रोचनं कफ-पित्त-कृत् ।
सैन्धवं तत्र स-स्वादु वृष्यं हृद्यं त्रि-दोष-नुत् ॥१४४॥

लघ्व् अन्-उष्णं दृशः पथ्यम् अ-विदाह्य् अग्नि-दीपनम् ।
लघु सौवर्चलं हृद्यं सु-गन्ध्य् उद्गार-शोधनम् ॥१४५॥

कटु-पाकं विबन्ध-घ्नं दीपनीयं रुचि-प्रदम् ।
ऊर्ध्वाधः-कफ-वातानुलोमनं दीपनं विडम् ॥१४६॥

६.१४६ - कटु पाके विबन्ध-घ्नं विबन्धानाह-विष्टम्भ-शूल-गौरव-नाशनम् ।
विपाके स्वादु सामुद्रं गुरु श्लेष्म-विवर्धनम् ॥१४७॥

स-तिक्त-कटुक-क्षारं तीक्ष्णम् उत्क्लेदि चौद्भिदम् ।
कृष्णे सौवर्चल-गुणा लवणे गन्ध-वर्जिताः ॥१४८॥

रोमकं लघु पांसूत्थं स-क्षारं श्लेष्मलं गुरु ।
लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत् ॥१४९॥

६.१४९ - सैन्धवादीन् प्रयोजयेत् गुल्म-हृद्-ग्रहणी-पाण्डु-प्लीहानाह-गलामयान् ।
श्वासार्शः-कफ-कासांश् च शमयेद् यव-शूक-जः ॥१५०॥

६.१५० - श्वासार्शः-कफ-वातांश् च ६.१५० - शमयेद् याव-शूक-जः क्षारः सर्वश् च परमं तीक्ष्णोष्णः कृमि-जिल् लघुः ।
पित्तासृग्-दूषणः पाकी छेद्य् अ-हृद्यो विदारणः ॥१५१॥

अ-पथ्यः कटु-लावण्याच् छुक्रौजः-केश-चक्षुषाम् ।
हिङ्गु वात-कफानाह-शूल-घ्नं पित्त-कोपनम् ॥१५२॥

कटु-पाक-रसं रुच्यं दीपनं पाचनं लघु ।
कषाया मधुरा पाके रूक्षा वि-लवणा लघुः ॥१५३॥

दीपनी पाचनी मेध्या वयसः स्थापनी परम् ।
उष्ण-वीर्या सरायुष्या बुद्धीन्द्रिय-बल-प्रदा ॥१५४॥

कुष्ठ-वैवर्ण्य-वैस्वर्य-पुराण-विषम-ज्वरान् ।
शिरो-ऽक्षि-पाण्डु-हृद्-रोग-कामला-ग्रहणी-गदान् ॥१५५॥

स-शोष-शोफातीसार-मेद-मोह-वमि-कृमीन् ।
श्वास-कास-प्रसेकार्शः-प्लीहानाह-गरोदरम् ॥१५६॥

६.१५६ - मेह-मोह-वमि-कृमीन् विबन्धं स्रोतसां गुल्मम् ऊरु-स्तम्भम् अ-रोचकम् ।
हरीतकी जयेद् व्याधींस् तांस् तांश् च कफ-वात-जान् ॥१५७॥

तद्-वद् आमलकं शीतम् अम्लं पित्त-कफापहम् ।
कटु पाके हिमं केश्यम् अक्षम् ईषच् च तद्-गुणम् ॥१५८॥

६.१५८ - कटु पाके ऽ-हिमं केश्यम् इयं रसायन-वरा त्रि-फलाक्ष्य्-आमयापहा ।
रोपणी त्वग् गद-क्लेद-मेदो-मेह-कफास्र-जित् ॥१५९॥

स-केसरं चतुर्-जातं त्वक्-पत्त्रैलं त्रि-जातकम् ।
पित्त-प्रकोपि तीक्ष्णोष्णं रूक्षं रोचन-दीपनम् ॥१६०॥

सु-गन्धि सर्व-पेयानां व्यञ्जनानां च वासनम् ।
लेहानां खाद्य-पाकानां चूर्णानां च प्रयोजयेत् ॥१६०.१-१॥

रसे पाके च कटुकं कफ-घ्नं मरिचं लघु ।
श्लेष्मला स्वादु-शीतार्द्रा गुर्वी स्निग्धा च पिप्पली ॥१६१॥

सा शुष्का विपरीतातः स्निग्धा वृष्या रसे कटुः ।
स्वादु-पाकानिल-श्लेष्म-श्वास-कासापहा सरा ॥१६२॥

न ताम् अत्य् उपयुञ्जीत रसायन-विधिं विना ।
नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्ध-नुत् ॥१६३॥

रुच्यं लघु स्वादु-पाकं स्निग्धोष्णं कफ-वात-जित् ।
तद्-वद् आर्द्रकम् एतच् च त्रयं त्रि-कटुकं जयेत् ॥१६४॥

स्थौल्याग्नि-सदन-श्वास-कास-श्लीपद-पीनसान् ।
चविका-पिप्पली-मूलं मरिचाल्पान्तरं गुणैः ॥१६५॥

चित्रको ऽग्नि-समः पाके शोफार्शः-कृमि-कुष्ठ-हा ।
पञ्च-कोलकम् एतच् च मरिचेन विना स्मृतम् ॥१६६॥

६.१६६ - पञ्च-कोलकम् एतत् तु गुल्म-प्लीहोदरानाह-शूल-घ्नं दीपनं परम् ।
बिल्व-काश्मर्य-तर्कारी-पाटला-टुण्टुकैर् महत् ॥१६७॥

६.१६७ - शूल-घ्नं दीपनं लघु जयेत् कषाय-तिक्तोष्णं पञ्च-मूलं कफानिलौ ।
ह्रस्वं बृहत्य्-अंशुमती-द्वय-गोक्षुरकैः स्मृतम् ॥१६८॥

६.१६८ - जयेत् कषाय-तीक्ष्णोष्णं स्वादु-पाक-रसं नाति-शीतोष्णं सर्व-दोष-जित् ।
बला-पुनर्नवैरण्ड-शूर्पपर्णी-द्वयेन तु ॥१६९॥

६.१६९ - बला-पुनर्नवैरण्डैः ६.१६९ - शूर्पपर्णी-द्वयेन च ६.१६९ - शूर्पपर्णी-द्वयेन च ६.१६९ - शूर्पपर्णी-द्वयेन तु मध्यमं कफ-वात-घ्नं नाति-पित्त-करं सरम् ।
अभीरु-वीरा-जीवन्ती-जीवकर्षभकैः स्मृतम् ॥१७०॥

जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम् ।
तृणाख्यं पित्त-जिद् दर्भ-काशेक्षु-शर-शालिभिः ॥१७१॥

६.१७१ - जीवनाख्यं च चक्षुष्यं शूक-शिम्बी-ज-पक्वान्न-मांस-शाक-फलौषधैः ।
वर्गितैर् अन्न-लेशो ऽयम् उक्तो नित्योपयोगिकः ॥१७२॥

६.१७२ - उक्तो नित्यौपयोगिकः


References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP