संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|सूत्रस्थान| अध्याय २५ सूत्रस्थान अध्याय ०१ अध्याय ०२ अध्याय ०३ अध्याय ०४ अध्याय ०५ अध्याय ०६ अध्याय ०७ अध्याय ०८ अध्याय ०९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० सूत्रस्थान - अध्याय २५ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय २५ Translation - भाषांतर नाना-विधानां शल्यानां नाना-देश-प्रबोधिनाम् ।आहर्तुम् अभ्युपायो यस् तद् यन्त्रं यच् च दर्शने ॥१॥२५.१ - नाना-देश-विबाधिनाम् अर्शो-भगन्दरादीनां शस्त्र-क्षाराग्नि-योजने ।शेषाङ्ग-परिरक्षायां तथा वस्त्य्-आदि-कर्मणि ॥२॥घटिकालाबु-शृङ्गं च जाम्बवौष्ठादिकानि च ।अनेक-रूप-कार्याणि यन्त्राणि विविधान्य् अतः ॥३॥विकल्प्य कल्पयेत् बुद्ध्या यथा-स्थूलं तु वक्ष्यते ।तुल्यानि कङ्क-सिंहर्क्ष-काकादि-मृग-पक्षिणाम् ॥४॥मुखैर् मुखानि यन्त्राणां कुर्यात् तत्-संज्ञकानि च ।अष्टा-दशाङ्गुलायामान्य् आयसानि च भूरि-शः ॥५॥मसूराकार-पर्य्-अन्तैः कण्ठे बद्धानि कीलकैः ।विद्यात् स्वस्तिक-यन्त्राणि मूले ऽङ्कुश-नतानि च ॥६॥२५.६ - मूले ऽङ्कुश-निभानि च तैर् दृढैर् अस्थि-संलग्न-शल्याहरणम् इष्यते ।कील-बद्ध-विमुक्ताग्रौ संदंशौ षो-डशाङ्गुलौ ॥७॥त्वक्-सिरा-स्नायु-पिशित-लग्न-शल्यापकर्षणौ ।षड्-अङ्गुलो ऽन्यो हरणे सूक्ष्म-शल्योप-पक्ष्मणाम् ॥८॥मुचुण्डी सूक्ष्म-दन्तर्जुर् मूले रुचक-भूषणा ।गम्भीर-व्रण-मांसानाम् अर्मणः शेषितस्य च ॥९॥२५.९ - मुचुटी सूक्ष्म-दन्तर्जुर् द्वे द्वा-दशाङ्गुले मत्स्य-ताल-वत् द्व्य्-एक-तालके ।ताल-यन्त्रे स्मृते कर्ण-नाडी-शल्यापहारिणी ॥१०॥२५.१० - तालु-वत् द्व्य्-एक-तालुके २५.१० - तालु-यन्त्रे स्मृते कर्ण- २५.१० - नाडी-शल्यापहारणे २५.१० - नाडी-शल्यापकर्षणी नाडी-यन्त्राणि सुषिराण्य् एकानेक-मुखानि च ।स्रोतो-गतानां शल्यानाम् आमयानां च दर्शने ॥११॥२५.११ - एकानेक-मुखानि तु क्रियाणां सु-कर-त्वाय कुर्याद् आचूषणाय च ।तद्-विस्तार-परीणाह-दैर्घ्यं स्रोतो-ऽनुरोधतः ॥१२॥दशाङ्गुलार्ध-नाहान्तः-कण्ठ-शल्यावलोकिनी ।नाडी पञ्च-मुख-च्छिद्रा चतुष्-कर्णस्य संग्रहे ॥१३॥२५.१३ - कण्ठ-शल्यावलोकने वारङ्गस्य द्वि-कर्णस्य त्रि-च्छिद्रा तत्-प्रमाणतः ।वारङ्ग-कर्ण-संस्थानानाह-दैर्घ्यानुरोधतः ॥१४॥नाडीर् एवं-विधाश् चान्या द्रष्टुं शल्यानि कारयेत् ।पद्म-कर्णिकया मूर्ध्नि सदृशी द्वा-दशाङ्गुला ॥१५॥चतुर्थ-सुषिरा नाडी शल्य-निर्घातिनी मता ।अर्शसां गो-स्तनाकारं यन्त्रकं चतुर्-अङ्गुलम् ॥१६॥नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षड्-अङ्गुलम् ।द्वि-च्छिद्रं दर्शने व्याधेर् एक-च्छिद्रं तु कर्मणि ॥१७॥मध्ये ऽस्य त्र्य्-अङ्गुलं छिद्रम् अङ्गुष्ठोदर-विस्तृतम् ।अर्धाङ्गुलोच्छ्रितोद्वृत्त-कर्णिकं च तद्-ऊर्ध्वतः ॥१८॥२५.१८ - कर्णिकं तु तद्-ऊर्ध्वतः शम्य्-आख्यं तादृग् अ-च्छिद्रं यन्त्रम् अर्शः-प्रपीडनम् ।सर्व-थापनयेद् ओष्ठं छिद्राद् ऊर्ध्वं भगन्दरे ॥१९॥घ्राणार्बुदार्शसाम् एक-च्छिद्रा नाड्य्-अङ्गुल-द्वया ।प्रदेशिनी-परीणाहा स्याद् भगन्दर-यन्त्र-वत् ॥२०॥अङ्गुली-त्राणकं दान्तं वार्क्षं वा चतुर्-अङ्गुलम् ।द्वि-च्छिद्रं गो-स्तनाकारं तद्-वक्त्र-विवृतौ सुखम् ॥२१॥योनि-व्रणेक्षणं मध्ये सुषिरं षो-डशाङ्गुलम् ।मुद्रा-बद्धं चतुर्-भित्तम् अम्भो-ज-मुकुलाननम् ॥२२॥२५.२२ - मुद्रा-बद्धं चतुर्-भिन्नम् २५.२२ - मुद्रा-बद्धं चतुष्-कोणम् चतुः-शलाकम् आक्रान्तं मूले तद् विकसेन् मुखे ।यन्त्रे नाडी-व्रणाभ्यङ्ग-क्षालनाय षड्-अङ्गुले ॥२३॥वस्ति-यन्त्राकृती मूले मुखे ऽङ्गुष्ठ-कलाय-खे ।अग्रतो ऽ-कर्णिके मूले निबद्ध-मृदु-चर्मणी ॥२४॥द्वि-द्वारा नलिका पिच्छ-नलिका वोदकोदरे ।धूम-वस्त्य्-आदि-यन्त्राणि निर्दिष्टानि यथा-यथम् ॥२५॥त्र्य्-अङ्गुलास्यं भवेच् छृङ्गं चूषणे ऽष्टा-दशाङ्गुलम् ।अग्रे सिद्धार्थक-च्छिद्रं सु-नद्धं चूचुकाकृति ॥२६॥स्याद् द्वा-दशाङ्गुलो ऽलाबुर् नाहे त्व् अष्टा-दशाङ्गुलः ।चतुस्-त्र्य्-अङ्गुल-वृत्तास्यो दीप्तो ऽन्तः श्लेष्म-रक्त-हृत् ॥२७॥तद्-वद् घटी हिता गुल्म-विलयोन्नमने च सा ।शलाकाख्यानि यन्त्राणि नाना-कर्माकृतीनि च ॥२८॥२५.२८ - नाना-कर्माकृतीनि तु यथा-योग-प्रमाणानि तेषाम् एषण-कर्मणी ।उभे गण्डू-पद-मुखे स्रोतोभ्यः शल्य-हारिणी ॥२९॥२५.२९ - तेषाम् एषण-कर्मणि मसूर-दल-वक्त्रे द्वे स्याताम् अष्ट-नवाङ्गुले ।शङ्कवः षड् उभौ तेषां षो-डश-द्वा-दशाङ्गुलौ ॥३०॥व्यूहने ऽहि-फणा-वक्त्रौ द्वौ दश-द्वा-दशाङ्गुलौ ।चालने शर-पुङ्खास्याव् आहार्ये बडिशाकृती ॥३१॥नतो ऽग्रे शङ्कुना तुल्यो गर्भ-शङ्कुर् इति स्मृतः ।अष्टाङ्गुलायतस् तेन मूढ-गर्भं हरेत् स्त्रियाः ॥३२॥अश्मर्य्-आहरणं सर्प-फणा-वद् वक्रम् अग्रतः ।शर-पुङ्ख-मुखं दन्त-पातनं चतुर्-अङ्गुलम् ॥३३॥२५.३३ - अश्मर्य्-आहरणे सर्प- २५.३३ - फणा-वद् वक्त्रम् अग्रतः कार्पास-विहितोष्णीषाः शलाकाः षट् प्रमार्जने ।पायाव् आसन्न-दूरार्थे द्वे दश-द्वा-दशाङ्गुले ॥३४॥द्वे षट्-सप्ताङ्गुले घ्राणे द्वे कर्णे ऽष्ट-नवाङ्गुले ।कर्ण-शोधनम् अश्वत्थ-पत्त्र-प्रान्तं स्रुवाननम् ॥३५॥शलाका-जाम्बवौष्ठानां क्षारे ऽग्नौ च पृथक् त्रयम् ।युञ्ज्यात् स्थूलाणु-दीर्घाणां शलाकाम् अन्त्र-वर्ध्मनि ॥३६॥मध्योर्ध्व-वृत्त-दण्डां च मूले चार्धेन्दु-संनिभाम् ।कोलास्थि-दल-तुल्यास्या नासार्शो-ऽर्बुद-दाह-कृत् ॥३७॥अष्टाङ्गुला निम्न-मुखास् तिस्रः क्षारौषध-क्रमे ।कनीनी-मध्यमानामी-नख-मान-समैर् मुखैः ॥३८॥२५.३८ - कनिष्ठा-मध्यमानामी- स्वं स्वम् उक्तानि यन्त्राणि मेढ्र-शुद्ध्य्-अञ्जनादिषु ।अनु-यन्त्राण्य् अयस्-कान्त-रज्जू-वस्त्राश्म-मुद्गराः ॥३९॥२५.३९ - अणु-यन्त्राण्य् अयस्-कान्त- वध्रान्त्र-जिह्वा-वालाश् च शाखा-नख-मुख-द्वि-जाः ।कालः पाकः करः पादो भयं हर्षश् च तत्-क्रियाः ॥४०॥२५.४० - वध्र्य्-अन्त्र-जिह्वा-वालाश् च २५.४० - वर्ध्रान्त्र-जिह्वा-वालाश् च २५.४० - शाखा-नख-मुख-द्वि-जाः उपाय-वित् प्रविभजेद् आलोच्य निपुणं धिया ॥४०ऊ̆अब् ॥निर्घातनोन्मथन-पूरण-मार्ग-शुद्धि-संव्यूहनाहरण-बन्धन-पीडनानि ।आचूषणोन्नमन-नामन-चाल-भङ्ग-व्यावर्तनर्जु-करणानि च यन्त्र-कर्म ॥४१ऊ̆ ॥विवर्तते साध्व् अवगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात् ।यन्त्रेष्व् अतः कङ्क-मुखं प्रधानं स्थानेषु सर्वेष्व् अधिकारि यच् च ॥४२ऊ̆ ॥२५.४२ऊ̆अव् निवर्तते साध्व् अवगाहते च २५.४२ऊ̆द्व् स्थानेषु सर्वेष्व् अ-विकारि यच् च N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP