संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|सूत्रस्थान| अध्याय ०५ सूत्रस्थान अध्याय ०१ अध्याय ०२ अध्याय ०३ अध्याय ०४ अध्याय ०५ अध्याय ०६ अध्याय ०७ अध्याय ०८ अध्याय ०९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० सूत्रस्थान - अध्याय ०५ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ०५ Translation - भाषांतर जीवनं तर्पणं हृद्यं ह्लादि बुद्धि-प्रबोधनम् ।तन्व् अ-व्यक्त-रसं मृष्टं शीतं लघ्व् अमृतोपमम् ॥१॥गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्व् अर्केन्दु-मारुतैः ।हिता-हित-त्वे तद् भूयो देश-कालाव् अपेक्षते ॥२॥येनाभिवृष्टम् अ-मलं शाल्य्-अन्नं राजते स्थितम् ।अ-क्लिन्नम् अ-वि-वर्णं च तत् पेयं गाङ्गम् अन्य-था ॥३॥५.३ - शाल्य्-अन्नं राजत-स्थितम् ५.३ - अ-क्लिन्नम् अ-वि-वर्णं स्यात् ५.३ - अ-क्लिन्नम् अ-विवर्णं वा ५.३ - तत् तोयं गाङ्गम् अन्य-था सामुद्रं तन् न पातव्यं मासाद् आश्वयुजाद् विना ।ऐन्द्रम् अम्बु सु-पात्र-स्थम् अ-विपन्नं सदा पिबेत् ॥४॥तद्-अ-भावे च भूमि-ष्ठम् आन्तरिक्षानुकारि यत् ।शुचि-पृथ्व्-असित-श्वेते देशे ऽर्क-पवनाहतम् ॥५॥५.५ - तद्-अ-भावे च भूयिष्ठम् ५.५ - तद्-अ-भावे पिबेद् भौमम् न पिबेत् पङ्क-शैवाल-तृण-पर्णाविलास्तृतम् ।सूर्येन्दु-पवना-दृष्टम् अभिवृष्टं घनं गुरु ॥६॥फेनिलं जन्तु-मत् तप्तं दन्त-ग्राह्य् अति-शैत्यतः ।अन्-आर्तवं च यद् दिव्यम् आर्तवं प्रथमं च यत् ॥७॥लूतादि-तन्तु-विण्-मूत्र-विष-संश्लेष-दूषितम् ।पश्चिमोद-धि-गाः शीघ्र-वहा याश् चा-मलोदकाः ॥८॥पथ्याः समासात् ता नद्यो विपरीतास् त्व् अतो ऽन्य-था ।उपलास्फालनाक्षेप-विच्छेदैः खेदितोदकाः ॥९॥५.९ - पथ्याः समासतो नद्यो हिमवन्-मलयोद्भूताः पथ्यास् ता एव च स्थिराः ।कृमि-श्लीपद-हृत्-कण्थ-शिरो-रोगान् प्रकुर्वते ॥१०॥प्राच्यावन्त्य्-अपरान्तोत्था दुर्-नामानि महेन्द्र-जाः ।उदर-श्लीपदातङ्कान् सह्य-विन्ध्योद्भवाः पुनः ॥११॥५.११ - सह्य-विन्ध्य-भवाः पुनः कुष्ठ-पाण्डु-शिरो-रोगान् दोष-घ्न्यः पारियात्र-जाः ।बल-पौरुष-कारिण्यः सागराम्भस् त्रि-दोष-कृत् ॥१२॥५.१२ - सागराम्बु त्रि-दोष-कृत् आविलं स-मलं नीलं घनं पीतम् अथापि च ।स-क्षारं पिच्छिलं चैव सामुद्रं तन् निगद्यते ॥१२-१॥विद्यात् कूप-तडागादीन् जाङ्गलानूप-शैलतः ।नाम्बु पेयम् अ-शक्त्या वा स्व्-अल्पम् अल्पाग्नि-गुल्मिभिः ॥१३॥पाण्डूदरातिसारार्शो-ग्रहणी-शोष-शोथिभिः ।ऋते शरन्-निदाघाभ्यां पिबेत् स्वस्थो ऽपि चाल्प-शः ॥१४॥५.१४ - ग्रहणी-दोष-शोथिभिः सम-स्थूल-कृशा भुक्त-मध्यान्त-प्रथमाम्बु-पाः ।शीतं मदात्यय-ग्लानि-मूर्छा-छर्दि-श्रम-भ्रमान् ॥१५॥५.१५ - सम-स्थूल-कृशा भक्त- तृष्णोष्ण-दाह-पित्तास्र-विषाण्य् अम्बु नियच्छति ।दीपनं पाचनं कण्ठ्यं लघूष्णं वस्ति-शोधनम् ॥१६॥५.१६ - तृष्णोष्म-दाह-पित्तास्र- हिध्माध्मानानिल-श्लेष्म-सद्यः-शुद्धि-नव-ज्वरे ।कासाम-पीनस-श्वास-पार्श्व-रुक्षु च शस्यते ॥१७॥५.१७ - सद्यः-शुद्धे नव-ज्वरे अन्-अभिष्यन्दि लघु च तोयं क्वथित-शीतलम् ।पित्त-युक्ते हितं दोषे व्युषितं तत् त्रि-दोष-कृत् ॥१८॥५.१८ - रूक्षम् अन्-अभिष्यन्दि ५.१८ - लघु क्वथित-शीतलम् ५.१८ - ऽध्युषितं तत् त्रि-दोष-कृत् नारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु ।तृष्णा-पित्तानिल-हरं दीपनं वस्ति-शोधनम् ॥१९॥वर्षासु दिव्य-नादेये परं तोये वरावरे ।स्वादु-पाक-रसं स्निग्धम् ओजस्यं धातु-वर्धनम् ॥२०॥वात-पित्त-हरं वृष्यं श्लेष्मलं गुरु शीतलम् ।प्रायः पयो ऽत्र गव्यं तु जीवनीयं रसायनम् ॥२१॥क्षत-क्षीण-हितं मेध्यं बल्यं स्तन्य-करं सरम् ।श्रम-भ्रम-मदा-लक्ष्मी-श्वास-कासाति-तृट्-क्षुधः ॥२२॥५.२२ - श्वास-कासार्ति-तृट्-क्षुधः ५ .२२ - श्वास-कासाधि-तृट्-क्षुधः जीर्ण-ज्वरं मूत्र-कृच्छ्रं रक्त-पित्तं च नाशयेत् ।हितम् अत्य्-अग्न्य्-अ-निद्रेभ्यो गरीयो माहिषं हिमम् ॥२३॥अल्पाम्बु-पान-व्यायाम-कटु-तिक्ताशनैर् लघु ।आजं शोष-ज्वर-श्वास-रक्त-पित्तातिसार-जित् ॥२४॥ईषद्-रूक्षोष्ण-लवणम् औष्ट्राकम् दीपनं लघु ।शस्तं वात-कफानाह-कृमि-शोफोदरार्शसाम् ॥२५॥मानुषं वात-पित्तासृग्-अभिघाताक्षि-रोग-जित् ।तर्पणाश्च्योतनैर् नस्यैर् अ-हृद्यं तूष्णम् आविकम् ॥२६॥वात-व्याधि-हरं हिध्मा-श्वास-पित्त-कफ-प्रदम् ।हस्तिन्याः स्थैर्य-कृद् बाढम् उष्णं त्व् ऐकशफं लघु ॥२७॥शाखा-वात-हरं साम्ल-लवणं जड-ता-करम् ।पयो ऽभिष्यन्दि गुर्व् आमं युक्त्या शृतम् अतो ऽन्य-था ॥२८॥विना तु वनिता-स्तन्यम् आमम् एव हितं हि तत् ॥२८-१अब् ॥भवेद् गरीयो ऽति-शृतं धारोष्णम् अमृतोपमम् ।अम्ल-पाक-रसं ग्राहि गुरूष्णं दधि वात-जित् ॥२९॥मेदः-शुक्र-बल-श्लेष्म-पित्त-रक्ताग्नि-शोफ-कृत् ।रोचिष्णु शस्तम् अ-रुचौ शीतके विषम-ज्वरे ॥३०॥पीनसे मूत्र-कृच्छ्रे च रूक्षं तु ग्रहणी-गदे ।नैवाद्यान् निशि नैवोष्णं वसन्तोष्ण-शरत्सु न ॥३१॥५.३१ - शरद्-ग्रीष्म-वसन्तेषु ५.३१ - नाद्यान् नोष्णं न रात्रिषु ना-मुद्ग-सूपं ना-क्षौद्रं तन् ना-घृत-सितोपलम् ।न चान्-आमलकं नापि नित्यं नो मन्दम् अन्य-था ॥३२॥ज्वरासृक्-पित्त-वीसर्प-कुष्ठ-पाण्डु-भ्रम-प्रदम् ।तक्रं लघु कषायाम्लं दीपनं कफ-वात-जित् ॥३३॥शोफोदरार्शो-ग्रहणी-दोष-मूत्र-ग्रहा-रुचीः ।प्लीह-गुल्म-घृत-व्यापद्-गर-पाण्ड्व्-आमयाञ् जयेत् ॥३४॥तद्-वन् मस्तु सरं स्रोतः-शोधि विष्टम्भ-जिल् लघु ।नव-नीतं नवं वृष्यं शीतं वर्ण-बलाग्नि-कृत् ॥३५॥संग्राहि वात-पित्तासृक्-क्षयार्शो-ऽर्दित-कास-जित् ।क्षीरोद्भवं तु संग्राहि रक्त-पित्ताक्षि-रोग-जित् ॥३६॥शस्तं धी-स्मृति-मेधाग्नि-बलायुः-शुक्र-चक्षुषाम् ।बाल-वृद्ध-प्रजा-कान्ति-सौकुमार्य-स्वरार्थिनाम् ॥३७॥क्षत-क्षीण-परीसर्प-शस्त्राग्नि-ग्लपितात्मनाम् ।वात-पित्त-विषोन्माद-शोषा-लक्ष्मी-ज्वरापहम् ॥३८॥स्नेहानाम् उत्तमं शीतं वयसः स्थापनं परम् ।सहस्र-वीर्यं विधिभिर् घृतं कर्म-सहस्र-कृत् ॥३९॥५.३९ - सहस्र-वीर्यं विधि-वद् मदापस्मार-मूर्छाय-शिरः-कर्णाक्षि-योनि-जान् ।पुराणं जयति व्याधीन् व्रण-शोधन-रोपणम् ॥४०॥बल्याः किलाट-पीयूष-कूर्चिका-मोरणादयः ।शुक्र-निद्रा-कफ-करा विष्टम्भि-गुरु-दोषलाः ॥४१॥५.४१ - कूचिका-मोरणादयः गव्ये क्षीर-घृते श्रेष्ठे निन्दिते चावि-संभवे ।इक्षोः सरो गुरुः स्निग्धो बृंहणः कफ-मूत्र-कृत् ॥४२॥वृष्यः शीतो ऽस्र-पित्त-घ्नः स्वादु-पाक-रसो रसः ।सो ऽग्रे स-लवणो दन्त-पीडितः शर्करा-समः ॥४३॥मूलाग्र-जन्तु-जग्धादि-पीडनान् मल-संकरात् ।किञ्-चित्-कालं विधृत्या च विकृतिं याति यान्त्रिकः ॥४४॥५.४४ - किञ्-चित्-काल-विधृत्या च विदाही गुरु-विष्टम्भी तेनासौ तत्र पौण्ड्रकः ।शैत्य-प्रसाद-माधुर्यैर् वरस् तम् अनु वांशिकः ॥४५॥५.४५ - गुरुर् विदाही विष्टम्भी शतपर्वक-कान्तार-नैपालाद्यास् ततः क्रमात् ।स-क्षाराः स-कषायाश् च सोष्णाः किञ्-चिद्-विदाहिनः ॥४६॥५.४६ - शातपर्वक-कान्तार- ५.४६ - नेपालाद्यास् ततः क्रमात् फाणितं गुर्व् अभिष्यन्दि चय-कृन् मूत्र-शोधनम् ।नाति-श्लेष्म-करो धौतः सृष्ट-मूत्र-शकृद् गुडः ॥४७॥प्रभूत-कृमि-मज्जासृङ्-मेदो-मांस-कफो ऽपरः ।हृद्यः पुराणः पथ्यश् च नवः श्लेष्माग्नि-साद-कृत् ॥४८॥वृष्याः क्षीण-क्षत-हिता रक्त-पित्तानिलापहाः ।मत्स्यण्डिका-खण्ड-सिताः क्रमेण गुण-वत्-तमाः ॥४९॥तद्-गुणा तिक्त-मधुरा कषाया यास-शर्करा ।दाह-तृट्-छर्दि-मूर्छासृक्-पित्त-घ्न्यः सर्व-शर्कराः ॥५०॥शर्करेक्षु-विकाराणां फाणितं च वरावरे ।चक्षुष्यं छेदि तृट्-श्लेष्म-विष-हिध्मास्र-पित्त-नुत् ॥५१॥मेह-कुष्ठ-कृमि-च्छर्दि-श्वास-कासातिसार-जित् ।व्रण-शोधन-संधान-रोपणं वातलं मधु ॥५२॥रूक्षं कषाय-मधुरं तत्-तुल्या मधु-शर्करा ।उष्णम् उष्णार्तम् उष्णे च युक्तं चोष्णैर् निहन्ति तत् ॥५३॥यक्ष्मार्शो-ऽर्दित-पित्तासृङ्-नाशनं ग्राहि दीपनम् ॥५३.१-१॥प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते ।अ-लब्ध-पाकम् आश्व् एव तयोर् यस्मान् निवर्तते ॥५४॥५.५४ - अ-लब्ध-पाकम् एवाशु तैलं स्व-योनि-वत् तत्र मुख्यं तीक्ष्णं व्यवायि च ।त्वग्-दोष-कृद् अ-चक्षुष्यं सूक्ष्मोष्णं कफ-कृन् न च ॥५५॥कृशानां बृंहणायालं स्थूलानां कर्शनाय च ।बद्ध-विट्कं कृमि-घ्नं च संस्कारात् सर्व-रोग-जित् ॥५६॥५.५६ - संस्कारात् सर्व-दोष-जित् स-तिक्तोषणम् ऐरण्डं तैलं स्वादु सरं गुरु ।वर्ध्म-गुल्मानिल-कफान् उदरं विषम-ज्वरम् ॥५७॥रुक्-शोफौ च कटी-गुह्य-कोष्ठ-पृष्ठाश्रयौ जयेत् ।तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्व् अति ॥५८॥कटूष्णं सार्षपं तीक्ष्णं कफ-शुक्रानिलापहम् ।लघु पित्तास्र-कृत् कोठ-कुष्ठार्शो-व्रण-जन्तु-जित् ॥५९॥आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् ।नात्य्-उष्णं निम्ब-जं तिक्तं कृमि-कुष्ठ-कफ-प्रणुत् ॥६०॥उमा-कुसुम्भ-जं चोष्णं त्वग्-दोष-कफ-पित्त-कृत् ।वसा मज्जा च वात-घ्नौ बल-पित्त-कफ-प्रदौ ॥६१॥कषाय-तिक्त-कटुकं कारञ्जं व्रण-शोधनम् ॥६१.१-१॥मांसानुग-स्व-रूपौ च विद्यान् मेदो ऽपि ताव् इव ।दीपनं रोचनं मध्यं तीक्ष्णोष्णं तुष्टि-पुष्टि-दम् ॥६२॥स-स्वादु-तिक्त-कटुकम् अम्ल-पाक-रसं सरम् ।स-कषायं स्वरारोग्य-प्रतिभा-वर्ण-कृल् लघु ॥६३॥नष्ट-निद्राति-निद्रेभ्यो हितं पित्तास्र-दूषणम् ।कृश-स्थूल-हितं रूक्षं सूक्ष्मं स्रोतो-विशोधनम् ॥६४॥वात-श्लेष्म-हरं युक्त्या पीतं विष-वद् अन्य-था ।गुरु तद्-दोष-जननं नवं जीर्णम् अतो ऽन्य-था ॥६५॥द्राक्षेक्षवः स-खर्जूराः शालि-पिष्टम् यवस्य च ।पञ्च मद्याकाराः श्रेष्ठा द्राक्षा तेषां विशिष्यते ॥६५.१-१॥५.६५.१-१ - शालेः पिष्टम् यवस्य च पेयं नोष्णोपचारेण न विरिक्त-क्षुधातुरैः ।नात्य्-अर्थ-तीक्ष्ण-मृद्व्-अल्प-संभारं कलुषं न च ॥६६॥गुल्मोदरार्शो-ग्रहणी-शोष-हृत् स्नेहनी गुरुः ।सुरानिल-घ्नी मेदो-ऽसृक्-स्तन्य-मूत्र-कफावहा ॥६७॥तद्-गुणा वारुणी हृद्या लघुस् तीक्ष्णा निहन्ति च ।शूल-कास-वमि-श्वास-विबन्धाध्मान-पीनसान् ॥६८॥नाति-तीव्र-मदा लघ्वी पथ्या वैभीतकी सुरा ।व्रणे पाण्ड्व्-आमये कुष्ठे न चात्य्-अर्थं विरुध्यते ॥६९॥विष्टम्भिनी यव-सुरा गुर्वी रूक्षा त्रि-दोषला ।यथा-द्रव्य-गुणो ऽरिष्टः सर्व-मद्य-गुणाधिकः ॥७०॥ग्रहणी-पाण्डु-कुष्ठार्शः-शोफ-शोषोदर-ज्वरान् ।हन्ति गुल्म-कृमि-प्लीह्नः कषाय-कटु-वातलः ॥७१॥५.७१ - कषायः कटु-वातलः मार्द्वीकं लेखनं हृद्यं नात्य्-उष्णं मधुरं सरम् ।अल्प-पित्तानिलं पाण्डु-मेहार्शः-कृमि-नाशनम् ॥७२॥अस्माद् अल्पान्तर-गुणं खार्जूरं वातलं गुरु ।शार्करः सुरभिः स्वादु-हृद्यो नाति-मदो लघुः ॥७३॥५.७३ - शार्करं सुरभि स्वादु ५.७३ - हृद्यं नाति-मदं लघु सृष्ट-मूत्र-शकृद्-वातो गौडस् तर्पण-दीपनः ।वात-पित्त-करः सीधुः स्नेह-श्लेष्म-विकार-हा ॥७४॥मेदः-शोफोदरार्शो-घ्नस् तत्र पक्व-रसो वरः ।छेदी मध्व्-आसवस् तीक्ष्णो मेह-पीनस-कास-जित् ॥७५॥रक्त-पित्त-कफोत्क्लेदि शुक्तं वातानुलोमनम् ।भृशोष्ण-तीक्ष्ण-रूक्षाम्लं हृद्यं रुचि-करं सरम् ॥७६॥५.७६ - हृद्यं रुचि-करं परम् दीपनं शिशिर-स्पर्शं पाण्डु-दृक्-कृमि-नाशनम् ।गुडेक्षु-मद्य-मार्द्वीक-शुक्तं लघु यथोत्तरम् ॥७७॥५.७७ - पाण्डु-हृत् कृमि-नाशनम् ५.७७ - गुडेक्षु-मद्य-माध्वीक- कन्द-मूल-फलाद्यं च तद्-वद् विद्यात् तद्-आसुतम् ।शाण्डाकी चासुतं चान्यत् कालाम्लं रोचनं लघु ॥७८॥धान्याम्लं भेदि तीक्ष्णोष्णं पित्त-कृत् स्पर्श-शीतलम् ।श्रम-क्लम-हरं रुच्यं दीपनं वस्ति-शूल-नुत् ॥७९॥शस्तम् आस्थापने हृद्यं लघु वात-कफापहम् ।एभिर् एव गुणैर् युक्ते सौवीरक-तुषोदके ॥८०॥गण्डूष-धारणाद् वक्त्र-मल-दौर्गन्ध्य-शोष-जित् ॥८०.१-१॥कृमि-हृद्-रोग-गुल्मार्शः-पाण्डु-रोग-निबर्हणे ।ते क्रमाद् वि-तुषैर् विद्यात् स-तुषैश् च यवैः कृते ॥८१॥५.८१ - कृमि-हृद्-रोग-गुल्मार्शो- ५.८१ - ग्रहणी-पाण्डु-नाशने मूत्रं गो-ऽजावि-महिषी-गजाश्वोष्ट्र-खरोद्भवम् ।पित्तलं रूक्ष-तीक्ष्णोष्णं लवणानु-रसं कटु ॥८२॥कृमि-शोफोदरानाह-शूल-पाण्डु-कफानिलान् ।गुल्मा-रुचि-विष-श्वित्र-कुष्ठार्शांसि जयेल् लघु ॥८३॥५.८३ - शूल-पाण्डु-कफामयान् तोय-क्षीरेक्षु-तैलानां वर्गैर् मद्यस्य च क्रमात् ।इति द्रवैक-देशो ऽयं यथा-स्थूलम् उदाहृतः ॥८४॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP