संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|सूत्रस्थान| अध्याय २२ सूत्रस्थान अध्याय ०१ अध्याय ०२ अध्याय ०३ अध्याय ०४ अध्याय ०५ अध्याय ०६ अध्याय ०७ अध्याय ०८ अध्याय ०९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० सूत्रस्थान - अध्याय २२ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय २२ Translation - भाषांतर चतुः-प्रकारो गण्डूषः स्निग्धः शमन-शोधनौ ।रोपणश् च त्रयस् तत्र त्रिषु योज्याश् चलादिषु ॥१॥अन्त्यो व्रण-घ्नः स्निग्धो ऽत्र स्वाद्व्-अम्ल-पटु-साधितैः ।स्नेहैः संशमनस् तिक्त-कषाय-मधुरौषधैः ॥२॥शोधनस् तिक्त-कट्व्-अम्ल-पटूष्णै रोपणः पुनः ।कषाय-तिक्तकैस् तत्र स्नेहः क्षीरं मधूदकम् ॥३॥शुक्तं मद्यं रसो मूत्रं धान्याम्लं च यथा-यथम् ।कल्कैर् युक्तं विपक्वं वा यथा-स्पर्शं प्रयोजयेत् ॥४॥दन्त-हर्षे दन्त-चाले मुख-रोगे च वातिके ।सुखोष्णम् अथ-वा शीतं तिल-कल्कोदकं हितम् ॥५॥गण्डूष-धारणे नित्यं तैलं मांस-रसो ऽथ-वा ।ऊषा-दाहान्विते पाके क्षते चागन्तु-संभवे ॥६॥२२.६ - क्षते वागन्तु-संभवे विषे क्षाराग्नि-दग्धे च सर्पिर् धार्यं पयो ऽथ-वा ।वैशद्यं जनयत्य् आशु संदधाति मुखे व्रणान् ॥७॥२२.७ - विष-क्षाराग्नि-दग्धे च २२.७ - वैशद्यं जनयत्य् आस्ये २२.७ - संदधाति मुख-व्रणान् दाह-तृष्णा-प्रशमनं मधु-गण्डूष-धारणम् ।धान्याम्लम् आस्य-वैरस्य-मल-दौर्गन्ध्य-नाशनम् ॥८॥तद् एवा-लवणं शीतं मुख-शोष-हरं परम् ।आशु क्षाराम्बु-गण्डूषो भिनत्ति श्लेष्मणश् चयम् ॥९॥सुखोष्णोदक-गण्डूषैर् जायते वक्त्र-लाघवम् ।निवाते सातपे स्विन्न-मृदित-स्कन्ध-कन्धरः ॥१०॥गण्डूषम् अ-पिबन् किञ्-चिद्-उन्नतास्यो विधारयेत् ।कफ-पूर्णास्य-ता यावत् स्रवद्-घ्राणाक्ष-ताथ-वा ॥११॥अ-संचार्यो मुखे पूर्णे गण्डूषः कवडो ऽन्य-था ॥११ऊ̆अब् ॥२२.११ऊ̆अव् अ-संचार्यो मुखे ऽ-पूर्णे मन्या-शिरः-कर्ण-मुखाक्षि-रोगाः प्रसेक-कण्ठामय-वक्त्र-शोषाः ।हृल्-लास-तन्द्रा-रुचि-पीनसाश् च साध्या विशेषात् कवड-ग्रहेण ॥१२॥कल्को रस-क्रिया चूर्णस् त्रि-विधं प्रतिसारणम् ॥१३अब् ॥२२.१३ - कल्को रस-क्रिया चूर्णं युञ्ज्यात् तत् कफ-रोगेषु गण्डूष-विहितौषधैः ।मुखालेपस् त्रि-धा दोष-विष-हा वर्ण-कृच् च सः ॥१४॥२२.१४ - मुख-लेपस् त्रि-धा दोष- व्याधेर् अपचयः पुष्टिर् वैशद्यं वक्त्र-लाघवम् ।इन्द्रियाणां प्रसादश् च कवडे शुद्धि-लक्षणम् ॥१४.१-१॥हीनाज् जाड्य-कफोत्क्लेशाव् अ-रस-ज्ञानम् एव च ।अति-योगान् मुखे पाकः शोष-तृष्णा-रुचि-क्लमः ॥१४.१-२॥२२.१४.१-२ - हीनाद् ध्मान-कफोत्लेशाव् उष्णो वात-कफे शस्तः शेषेष्व् अत्य्-अर्थ-शीतलः ।त्रि-प्रमाणश् चतुर्-भाग-त्रि-भागार्धाङ्गुलोन्नतिः ॥१५॥अ-शुष्कस्य स्थितिस् तस्य शुष्को दूषयति च्छविम् ।तम् आर्द्रयित्वापनयेत् तद्-अन्ते ऽभ्यङ्गम् आचरेत् ॥१६॥विवर्जयेद् दिवा-स्वप्न-भाष्याग्न्य्-आतप-शुक्-क्रुधः ।न योज्यः पीनसे ऽ-जीर्णे दत्त-नस्ये हनु-ग्रहे ॥१७॥२२.१७ - दत्ते नस्ये हनु-ग्रहे अ-रोचके जागरिते स तु हन्ति सु-योजितः ।अ-काल-पलित-व्यङ्ग-वली-तिमिर-नीलिकाः ॥१८॥२२.१८ - स च हन्ति सु-योजितः कोल-मज्जा वृषान् मूलं शाबरं गौर-सर्षपाः ।सिंही-मूलं तिलाः कृष्णा दार्वी-त्वङ् निस्-तुषा यवाः ॥१९॥दर्भ-मूल-हिमोशीर-शिरीष-मिशि-तण्डुलाः ।कुमुदोत्पल-कल्हार-दूर्वा-मधुक-चन्दनम् ॥२०॥कालीयक-तिलोशीर-मांसी-तगर-पद्मकम् ।तालीश-गुन्द्रा-पुण्ड्राह्व-यष्टी-काश-नतागुरु ॥२१॥इत्य् अर्धार्धोदिता लेपा हेमन्तादिषु षट् स्मृताः ।-मुखालेपन-शीलानां दृढं भवति दर्शनम् ॥२२॥वदनं चा-परिम्लानं श्लक्ष्णं तामरसोपमम् ।अभ्यङ्ग-सेक-पिचवो वस्तिश् चेति चतुर्-विधम् ॥२३॥मूर्ध-तैलं बहु-गुणं तद् विद्याद् उत्तरोत्तरम् ।तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्य-कण्डू-मलादिषु ॥२४॥२२.२४ - रूक्ष-कण्डू-मलादिषु अरूंषिका-शिरस्-तोद-दाह-पाक-व्रणेषु तु ।परिषेकः पिचुः केश-शात-स्फुटन-धूपने ॥२५॥२२.२५ - दाह-पाक-व्रणेषु च नेत्र-स्तम्भे च वस्तिस् तु प्रसुप्त्य्-अर्दित-जागरे ।नासास्य-शोषे तिमिरे शिरो-रोगे च दारुणे ॥२६॥विधिस् तस्य निषण्णस्य पीठे जानु-समे मृदौ ।शुद्धाक्त-स्विन्न-देहस्य दिनान्ते गव्य-माहिषम् ॥२७॥द्वा-दशाङ्गुल-विस्तीर्णं चर्म-पट्टं शिरः-समम् ।आ-कर्ण-बन्धन-स्थानं ललाटे वस्त्र-वेष्टिते ॥२८॥चैल-वेणिकया बद्ध्वा माष-कल्केन लेपयेत् ।ततो यथा-व्याधि शृतं स्नेहं कोष्णं निषेचयेत् ॥२९॥ऊर्ध्वं केश-भुवो यावद् अङ्गुलं धारयेच् च तम् ।आ-वक्त्र-नासिकोत्क्लेदाद् दशाष्टौ षट् चलादिषु ॥३०॥२२.३० - आ-वक्त्र-नासिका-क्लेदाद् मात्रा-सहस्राण्य् अ-रुजे त्व् एकं स्कन्धादि मर्दयेत् ।मुक्त-स्नेहस्य परमं सप्ताहं तस्य सेवनम् ॥३१॥२२.३१ - सप्ताहं तस्य सेचनम् धारयेत् पूरणं कर्णे कर्ण-मूलं विमर्दयन् ।रुजः स्यान् मार्दवं यावन् मात्रा-शतम् अ-वेदने ॥३२॥२२.३२ - कर्ण-मूलं विमर्दयेत् यावत् पर्येति हस्ताग्रं दक्षिणं जानु-मण्डलम् ।निमेषोन्मेष-कालेन समं मात्रा तु सा स्मृता ॥३३॥२२.३३ - निमेषोन्मेष-मात्रेण कच-सदन-सित-त्व-पिञ्जर-त्वं परिफुटनं शिरसः समीर-रोगान् ।जयति जनयतीन्द्रिय-प्रसादं स्वर-हनु-मूर्ध-बलं च मूर्ध-तैलम् ॥३४॥२२.३४ - कच-शदन-सित-त्व-पिञ्जर-त्वं २२.३४ - कच-शदन-सित-त्व-पिञ्जर-त्व- २२.३४ - कच-सदन-सित-त्व-पिञ्जर-त्व- N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP