सूत्रस्थान - अध्याय १७
आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.
स्वेदस् तापोपनाहोष्म-द्रव-भेदाच् चतुर्-विधः ।
तापो ऽग्नि-तप्त-वसन-फाल-हस्त-तलादिभिः ॥१॥
उपनाहो वचा-किण्व-शताह्वा-देवदारुभिः ।
धान्यैः समस्तैर् गन्धैश् च रास्नैरण्ड-जटामिषैः ॥२॥
उद्रिक्त-लवणैः स्नेह-चुक्र-तक्र-पयः-प्लुतैः ।
केवले पवने श्लेष्म-संसृष्टे सुरसादिभिः ॥३॥
पित्तेन पद्मकाद्यैस् तु शाल्वणाख्यैः पुनः पुनः ।
स्निग्धोष्ण-वीर्यैर् मृदुभिश् चर्म-पट्टैर् अ-पूतिभिः ॥४॥
१७.४ - पित्तेन पद्मकाद्यैश् च १७.४ - शाल्वलाख्यैः पुनः पुनः अ-लाभे वात-जित् पत्त्र-कौशेयाविक-शाटकैः ।
बद्धं रात्रौ दिवा मुञ्चेन् मुञ्चेद् रात्रौ दिवा-कृतम् ॥५॥
ऊष्मा तूत्कारिका-लोष्ट-कपालोपल-पांसुभिः ।
पत्त्र-भङ्गेन धान्येन करीष-सिकता-तुषैः ॥६॥
अनेकोपाय-संतप्तैः प्रयोज्यो देश-कालतः ।
शिग्रु-वारणकैरण्ड-करञ्ज-सुरसार्जकात् ॥७॥
शिरीष-वासा-वंशार्क-मालती-दीर्घवृन्ततः ।
पत्त्र-भङ्गैर् वचाद्यैश् च मांसैश् चानूप-वारि-जैः ॥८॥
दश-मूलेन च पृथक् सहितैर् वा यथा-मलम् ।
स्नेह-वद्भिः सुरा-शुक्त-वारि-क्षीरादि-साधितैः ॥९॥
कुम्भीर् गलन्तीर् नाडीर् वा पूरयित्वा रुजार्दितम् ।
वाससाच्छादितं गात्रं स्निग्धं सिञ्चेद् यथा-सुखम् ॥१०॥
१७.१० - वस्त्रावच्छादितं गात्रं तैर् एव वा द्रवैः पूर्णं कुण्डं सर्वाङ्ग-गे ऽनिले ।
अवगाह्यातुरस् तिष्ठेद् अर्शः-कृच्छ्रादि-रुक्षु च ॥११॥
निवाते ऽन्तर्-बहिः-स्निग्धो जीर्णान्नः स्वेदम् आचरेत् ।
व्याधि-व्याधित-देशर्तु-वशान् मध्य-वरावरम् ॥१२॥
१७.१२ - निर्-वाते ऽन्तर्-बहिः-स्निग्धो कफार्तो रूक्षणं रूक्षो रूक्षः स्निग्धं कफानिले ।
आमाशय-गते वायौ कफे पक्वाशयाश्रिते ॥१३॥
१७.१३ - कफे तं रूक्षणै रूक्षो रूक्ष-पूर्वं तथा स्नेह-पूर्वं स्थानानुरोधतः ।
अल्पं वङ्क्षणयोः स्व्-अल्पं दृङ्-मुष्क-हृदये न वा ॥१४॥
१७.१४ - अल्पं वङ्क्षणयोः स्वेदं शीत-शूल-क्षये स्विन्नो जाते ऽङ्गानां च मार्दवे ।
स्याच् छनैर् मृदितः स्नातस् ततः स्नेह-विधिं भजेत् ॥१५॥
पित्तास्र-कोप-तृण्-मूर्छा-स्वराङ्ग-सदन-भ्रमाः ।
संधि-पीडा ज्वरः श्याव-रक्त-मण्डल-दर्शनम् ॥१६॥
स्वेदाति-योगाच् छर्दिश् च तत्र स्तम्भनम् औषधम् ।
विष-क्षाराग्न्य्-अतीसार-च्छर्दि-मोहातुरेषु च ॥१७॥
स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तम्भनम् अन्य-था ।
द्रव-स्थिर-सर-स्निग्ध-रूक्ष-सूक्ष्मं च भेषजम् ॥१८॥
स्वेदनं स्तम्भनं श्लक्ष्णं रूक्ष-सूक्ष्म-सर-द्रवम् ।
प्रायस् तिक्तं कषायं च मधुरं च समासतः ॥१९॥
स्तम्भितः स्याद् बले लब्धे यथोक्तामय-संक्षयात् ।
स्तम्भ-त्वक्-स्नायु-संकोच-कम्प-हृद्-वाग्-घनु-ग्रहैः ॥२०॥
पादौष्ठ-त्वक्-करैः श्यावैर् अति-स्तम्भितम् आदिशेत् ।
न स्वेदयेद् अति-स्थूल-रूक्ष-दुर्-बल-मूर्छितान् ॥२१॥
स्तम्भनीय-क्षत-क्षीण-क्षाम-मद्य-विकारिणः ।
तिमिरोदर-वीसर्प-कुष्ठ-शोषाढ्य-रोगिणः ॥२२॥
१७.२२ - कुष्ठ-शोफाढ्य-रोगिणः पीत-दुग्ध-दधि-स्नेह-मधून् कृत-विरेचनान् ।
भ्रष्ट-दग्ध-गुद-ग्लानि-क्रोध-शोक-भयार्दितान् ॥२३॥
१७.२३ - क्रोध-शोक-भयान्वितान् १७.२३ - क्रोध-रक्त-क्षयान्वितान् क्षुत्-तृष्णा-कामला-पाण्डु-मेहिनः पित्त-पीडितान् ।
गर्भिणीं पुष्पितां सूतां मृदु चात्ययिके गदे ॥२४॥
१७.२४ - मृदु त्व् आत्ययिके गदे श्वास-कास-प्रतिश्याय-हिध्माध्मान-विबन्धिषु ।
स्वर-भेदानिल-व्याधि-श्लेष्माम-स्तम्भ-गौरवे ॥२५॥
अङ्ग-मर्द-कटी-पार्श्व-पृष्ठ-कुक्षि-हनु-ग्रहे ।
महत्-त्वे मुष्कयोः खल्याम् आयामे वात-कण्टके ॥२६॥
मूत्र-कृच्छ्रार्बुद-ग्रन्थि-शुक्राघाताढ्य-मारुते ।
स्वेदं यथा-यथं कुर्यात् तद्-औषध-विभागतः ॥२७॥
स्वेदो हितस् त्व् अन्-आग्नेयो वाते मेदः-कफावृते ।
निवातं गृहम् आयासो गुरु-प्रावरणं भयम् ॥२८॥
उपनाहाहव-क्रोधा भूरि-पानं क्षुधातपः ॥२८ऊ̆ ॥
१७.२८ऊ̆अव् उपनाहाहव-क्रोध- १७.२८ऊ̆ब्व् -भूरि-पानं क्षुधातपः १७.२८ऊ̆ब्व् भूरि-पान-क्षुद्-आतपः स्वेदयन्ति दशैतानि नरम् अग्नि-गुणाद् ऋते ॥२८ऊ̆-१॥
स्नेह-क्लिन्नाः कोष्ठ-गा धातु-गा वा स्रोतो-लीना ये च शाखास्थि-संस्थाः ।
दोषाः स्वेदैस् ते द्रवी-कृत्य कोष्ठं नीताः सम्यक् शुद्धिभिर् निर्ह्रियन्ते ॥२९॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP