संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|सूत्रस्थान| अध्याय ०१ सूत्रस्थान अध्याय ०१ अध्याय ०२ अध्याय ०३ अध्याय ०४ अध्याय ०५ अध्याय ०६ अध्याय ०७ अध्याय ०८ अध्याय ०९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० सूत्रस्थान - अध्याय ०१ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ०१ Translation - भाषांतर रागादि-रोगान् सततानुषक्तान् अ-शेष-काय-प्रसृतान् अ-शेषान् ।औत्सुक्य-मोहा-रति-दाञ् जघान यो ऽ-पूर्व-वैद्याय नमो ऽस्तु तस्मै ॥१॥आयुः-कामयमानेन धर्मार्थ-सुख-साधनम् ।आयुर्-वेदोपदेशेषु विधेयः परम् आदरः ॥२॥ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिम् अजिग्रहत् ।सो ऽश्विनौ तौ सहस्राक्षं सो ऽत्रि-पुत्रादिकान् मुनीन् ॥३॥ते ऽग्निवेशादिकांस् ते तु पृथक् तन्त्राणि तेनिरे ।तेभ्यो ऽति-विप्रकीर्णेभ्यः प्रायः सार-तरोच्चयः ॥४॥क्रियते ऽष्टाङ्ग-हृदयं नाति-संक्षेप-विस्तरम् ।काय-बाल-ग्रहोर्ध्वाङ्ग-शल्य-दंष्ट्रा-जरा-वृषान् ॥५॥१.५ - नाति-संक्षिप्त-विस्तृतम् अष्टाव् अङ्गानि तस्याहुश् चिकित्सा येषु संश्रिता ।वायुः पित्तं कफश् चेति त्रयो दोषाः समासतः ॥६॥विकृता-विकृता देहं घ्नन्ति ते वर्तयन्ति च ।ते व्यापिनो ऽपि हृन्-नाभ्योर् अधो-मध्योर्ध्व-संश्रयाः ॥७॥१.७ - घ्नन्ति ते वर्धयन्ति च वयो-ऽहो-रात्रि-भुक्तानां ते ऽन्त-मध्यादि-गाः क्रमात् ।तैर् भवेद् विषमस् तीक्ष्णो मन्दश् चाग्निः समैः समः ॥८॥कोष्ठः क्रूरो मृदुर् मध्यो मध्यः स्यात् तैः समैर् अपि ।शुक्रार्तव-स्थैर् जन्मादौ विषेणेव विष-क्रिमेः ॥९॥तैश् च तिस्रः प्रकृतयो हीन-मध्योत्तमाः पृथक् ।सम-धातुः समस्तासु श्रेष्ठा निन्द्या द्वि-दोष-जाः ॥१०॥१.१० - सम-धातुः समैस् तासु तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश् चलो ऽनिलः ।पित्तं स-स्नेह-तीक्ष्णोष्णं लघु विस्रं सरं द्रवम् ॥११॥स्निग्धः शीतो गुरुर् मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः ।संसर्गः संनिपातश् च तद्-द्वि-त्रि-क्षय-कोपतः ॥१२॥रसासृङ्-मांस-मेदो-ऽस्थि-मज्ज-शुक्राणि धातवः ।सप्त दूष्या मला मूत्र-शकृत्-स्वेदादयो ऽपि च ॥१३॥वृद्धिः समानैः सर्वेषां विपरीतैर् विपर्ययः ।रसाः स्वाद्व्-अम्ल-लवण-तिक्तोषण-कषायकाः ॥१४॥षड् द्रव्यम् आश्रितास् ते च यथा-पूर्वं बलावहाः ।तत्राद्या मारुतं घ्नन्ति त्रयस् तिक्तादयः कफम् ॥१५॥कषाय-तिक्त-मधुराः पित्तम् अन्ये तु कुर्वते ।शमनं कोपनं स्वस्थ-हितं द्रव्यम् इति त्रि-धा ॥१६॥उष्ण-शीत-गुणोत्कर्षात् तत्र वीर्यं द्वि-धा स्मृतम् ।त्रि-धा विपाको द्रव्यस्य स्वाद्व्-अम्ल-कटुकात्मकः ॥१७॥गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः ।गुणाः स-सूक्ष्म-विशदा विंशतिः स-विपर्ययाः ॥१८॥कालार्थ-कर्मणां योगो हीन-मिथ्याति-मात्रकः ।सम्यग्-योगश् च विज्ञेयो रोगारोग्यैक-कारणम् ॥१९॥रोगस् तु दोष-वैषम्यं दोष-साम्यम् अ-रोग-ता ।निजागन्तु-विभागेन तत्र रोगा द्वि-धा स्मृताः ॥२०॥तेषां काय-मनो-भेदाद् अधिष्ठानम् अपि द्वि-धा ।रजस् तमश् च मनसो द्वौ च दोषाव् उदाहृतौ ॥२१॥१.२१ - ऽत्र द्वौ दोषाव् उदाहृतौ दर्शन-स्पर्शन-प्रश्नैः परीक्षेत च रोगिणम् ।रोगं निदान-प्राग्-रूप-लक्षणोपशयाप्तिभिः ॥२२॥१.२२ - संपरीक्षेत रोगिणम् १.२२ - परीक्षेताथ रोगिणम् भूमि-देह-प्रभेदेन देशम् आहुर् इह द्वि-धा ।जाङ्गलं वात-भूयिष्ठम् अनूपं तु कफोल्बणम् ॥२३॥साधारणं सम-मलं त्रि-धा भू-देशम् आदिशेत् ।क्षणादिर् व्याध्य्-अवस्था च कालो भेषज-योग-कृत् ॥२४॥शोधनं शमनं चेति समासाद् औषधं द्वि-धा ।शरीर-जानां दोषाणां क्रमेण परमौषधम् ॥२५॥वस्तिर् विरेको वमनं तथा तैलं घृतं मधु ।धी-धैर्यात्मादि-विज्ञानं मनो-दोषौषधं परम् ॥२६॥भिषग् द्रव्याण्य् उपस्थाता रोगी पाद-चतुष्टयम् ।चिकित्सितस्य निर्दिष्टं प्रत्य्-एकं तच् चतुर्-गुणम् ॥२७॥दक्षस् तीर्थात्त-शास्त्रार्थो दृष्ट-कर्मा शुचिर् भिषक् ।बहु-कल्पं बहु-गुणं संपन्नं योग्यम् औषधम् ॥२८॥अनुरक्तः शुचिर् दक्षो बुद्धि-मान् परिचारकः ।आढ्यो रोगी भिषग्-वश्यो ज्ञापकः सत्-त्व-वान् अपि ॥२९॥साध्यो ऽ-साध्य इति व्याधिर् द्वि-धा तौ तु पुनर् द्वि-धा ।सु-साध्यः कृच्छ्र-साध्यश् च याप्यो यश् चान्-उपक्रमः ॥२९-१- ॥सर्वौषध-क्षमे देहे यूनः पुंसो जितात्मनः ।अ-मर्म-गो ऽल्प-हेत्व्-अग्र-रूप-रूपो ऽन्-उपद्रवः ॥३०॥अ-तुल्य-दूष्य-देशर्तु-प्रकृतिः पाद-संपदि ।ग्रहेष्व् अनु-गुणेष्व् एक-दोष-मार्गो नवः सुखः ॥३१॥शस्त्रादि-साधनः कृच्छ्रः संकरे च ततो गदः ।शेष-त्वाद् आयुषो याप्यः पथ्याभ्यासाद् विपर्यये ॥३२॥अन्-उपक्रम एव स्यात् स्थितो ऽत्य्-अन्त-विपर्यये ।औत्सुक्य-मोहा-रति-कृद् दृष्ट-रिष्टो ऽक्ष-नाशनः ॥३३॥त्यजेद् आर्तं भिषग्-भूपैर् द्विष्टं तेषां द्विषं द्विषम् ।हीनोपकरणं व्यग्रम् अ-विधेयं गतायुषम् ॥३४॥चण्डं शोकातुरं भीरुं कृत-घ्नं वैद्य-मानिनम् ।तन्त्रस्यास्य परं चातो वक्ष्यते ऽध्याय-संग्रहः ॥३५॥आयुष्-काम-दिनर्त्व्-ईहा-रोगान्-उत्पादन-द्रवाः ।अन्न-ज्ञानान्न-संरक्षा-मात्रा-द्रव्य-रसाश्रयाः ॥३६॥दोषादि-ज्ञान-तद्-भेद-तच्-चिकित्सा-द्व्य्-उपक्रमाः ।शुद्ध्य्-आदि-स्नेहन-स्वेद-रेकास्थापन-नावनम् ॥३७॥धूम-गण्डूष-दृक्-सेक-तृप्ति-यन्त्रक-शस्त्रकम् ।सिरा-विधिः शल्य-विधिः शस्त्र-क्षाराग्नि-कर्मिकौ ॥३८॥१.३८ - सिरा-व्यधः शल्य-विधिः सूत्र-स्थानम् इमे ऽध्यायास् त्रिंशच् छारीरम् उच्यते ।गर्भावक्रान्ति-तद्-व्यापद्-अङ्ग-मर्म-विभागिकम् ॥३९॥विकृतिर् दूत-जं षष्ठं निदानं सार्वरोगिकम् ।ज्वरासृक्-श्वास-यक्ष्मादि-मदाद्य्-अर्शो-ऽतिसारिणाम् ॥४०॥मूत्राघात-प्रमेहाणां विद्रध्य्-आद्य्-उदरस्य च ।पाण्डु-कुष्ठानिलार्तानां वातास्रस्य च षो-डश ॥४१॥चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि ।वमौ मदात्यये ऽर्शःसु विषि द्वौ द्वौ च मूत्रिते ॥४२॥विद्रधौ गुल्म-जठर-पाण्डु-शोफ-विसर्पिषु ।कुष्ठ-श्वित्रानिल-व्याधि-वातास्रेषु चिकित्सितम् ॥४३॥द्वा-विंशतिर् इमे ऽध्यायाः कल्प-सिद्धिर् अतः परम् ।कल्पो वमेर् विरेकस्य तत्-सिद्धिर् वस्ति-कल्पना ॥४४॥सिद्धिर् वस्त्य्-आपदां षष्ठो द्रव्य-कल्पो ऽत उत्तरम् ।बालोपचारे तद्-व्याधौ तद्-ग्रहे द्वौ च भूत-गे ॥४५॥उन्मादे ऽथ स्मृति-भ्रंशे द्वौ द्वौ वर्त्मसु संधिषु ।दृक्-तमो-लिङ्ग-नाशेषु त्रयो द्वौ द्वौ च सर्व-गे ॥४६॥कर्ण-नासा-मुख-शिरो-व्रणे भङ्गे भगन्दरे ।ग्रन्थ्य्-आदौ क्षुद्र-रोगेषु गुह्य-रोगे पृथग् द्वयम् ॥४७॥विषे भुजङ्गे कीटेषु मूषकेषु रसायने ।चत्वारिंशो ऽन्-अपत्यानाम् अध्यायो बीज-पोषणः ॥४८॥१.४८ - अध्यायो बीज-पोषणे इत्य् अध्याय-शतं विंशं षड्भिः स्थानैर् उदीरितम् ॥४८ऊ̆ ॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP