सूत्रस्थान - अध्याय २०

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


ऊर्ध्व-जत्रु-विकारेषु विशेषान् नस्यम् इष्यते ।
नासा हि शिरसो द्वारं तेन तद् व्याप्य हन्ति तान् ॥१॥

विरेचनं बृंहणं च शमनं च त्रि-धापि तत् ।
विरेचनं शिरः-शूल-जाड्य-स्यन्द-गलामये ॥२॥

२०.२ - शमनं च त्रि-धा भवेत् मर्श-ध्मानावपीडाख्यैस् तत् पुनः षड्-विधं स्मृतम् ॥२.१-१॥

२०.२.१-१ - मर्श-ध्मानावपीडाख्यात् शोफ-गण्ड-कृमि-ग्रन्थि-कुष्ठापस्मार-पीनसे ।
बृंहणं वात-जे शूले सूर्यावर्ते स्वर-क्षये ॥३॥

स्नेहेन तीक्ष्णैः सिद्धेन कल्क-क्वाथादिभिश् च तत् ॥३.१-१॥

नासास्य-शोषे वाक्-सङ्गे कृच्छ्र-बोधे ऽव-बाहुके ।
शमनं नीलिका-व्यङ्ग-केश-दोषाक्षि-राजिषु ॥४॥

२०.४ - केश-दोषाक्षि-रोगिषु २०.४ - केश-दोषाक्षि-रोग-जित् यथा-स्वं यौगिकैः स्नेहैर् यथा-स्वं च प्रसाधितैः ।
कल्क-क्वाथादिभिश् चाद्यं मधु-पट्व्-आसवैर् अपि ॥५॥

बृंहणं धन्व-मांसोत्थ-रसासृक्-खपुरैर् अपि ।
शमनं योजयेत् पूर्वैः क्षीरेण सलिलेन वा ॥६॥

२०.६ - क्षीरेण सलिलेन च २०.६ - क्षीरेण च जलेन च मर्शश् च प्रतिमर्शश् च द्वि-धा स्नेहो ऽत्र मात्रया ।
कल्काद्यैर् अवपीडस् तु स तीक्ष्णैर् मूर्ध-रेचनः ॥७॥

२०.७ - तीक्ष्णैर् मूर्ध-विरेचनः ध्मानं विरेचनश् चूर्णो युञ्ज्यात् तं मुख-वायुना ।
षड्-अङ्गुल-द्वि-मुखया नाड्या भेषज-गर्भया ॥८॥

२०.८ - ध्मानं विरेचनैश् चूर्णैर् २०.८ - नाड्या भैषज्य-गर्भया स हि भूरि-तरं दोषं चूर्ण-त्वाद् अपकर्षति ।
प्रदेशिन्य्-अङ्गुली-पर्व-द्वयान् मग्न-समुद्धृतात् ॥९॥

यावत् पतत्य् असौ बिन्दुर् दशाष्टौ षट् क्रमेण ते ।
मर्शस्योत्कृष्ट-मध्योना मात्रास् ता एव च क्रमात् ॥१०॥

बिन्दु-द्वयोनाः कल्कादेर् योजयेन् न तु नावनम् ।
तोय-मद्य-गर-स्नेह-पीतानां पातुम् इच्छताम् ॥११॥

भुक्त-भक्त-शिरः-स्नात-स्नातु-काम-स्रुतासृजाम् ।
नव-पीनस-वेगार्त-सूतिका-श्वास-कासिनाम् ॥१२॥

२०.१२ - भुक्ताभ्यक्त-शिरः-स्नात- शुद्धानां दत्त-वस्तीनां तथान्-आर्तव-दुर्-दिने ।
अन्य-त्रात्ययिकाद् व्याधेर् अथ नस्यं प्रयोजयेत् ॥१३॥

प्रातः श्लेष्मणि मध्याह्ने पित्ते सायन्-निशोश् चले ।
स्वस्थ-वृत्ते तु पूर्वाह्णे शरत्-काल-वसन्तयोः ॥१४॥

शीते मध्यन्-दिने ग्रीष्मे सायं वर्षासु सातपे ।
वाताभिभूते शिरसि हिध्मायाम् अपतानके ॥१५॥

मन्या-स्तम्भे स्वर-भ्रंशे सायं प्रातर् दिने दिने ।
एकाहान्तरम् अन्य-त्र सप्ताहं च तद् आचरेत् ॥१६॥

स्निग्ध-स्विन्नोत्तमाङ्गस्य प्राक्-कृतावश्यकस्य च ।
निवात-शयन-स्थस्य जत्रूर्ध्वं स्वेदयेत् पुनः ॥१७॥

अथोत्तानर्जु-देहस्य पाणि-पादे प्रसारिते ।
किञ्-चिद्-उन्नत-पादस्य किञ्-चिन् मूर्धनि नामिते ॥१८॥

नासा-पुटं पिधायैकं पर्यायेण निषेचयेत् ।
उष्णाम्बु-तप्तं भैषज्यं प्रणाड्या पिचुनाथ-वा ॥१९॥

२०.१९ - प्रणाल्या पिचुनाथ-वा दत्ते पाद-तल-स्कन्ध-हस्त-कर्णादि मर्दयेत् ।
शनैर् उच्छिद्य निष्ठीवेत् पार्श्वयोर् उभयोस् ततः ॥२०॥

२०.२० - शनैर् उच्छिन्द्य निष्ठीवेत् आ-भेषज-क्षयाद् एवं द्विस् त्रिर् वा नस्यम् आचरेत् ।
मूर्छायां शीत-तोयेन सिञ्चेत् परिहरन् शिरः ॥२१॥

स्नेहं विरेचनस्यान्ते दद्याद् दोषाद्य्-अपेक्षया ।
नस्यान्ते वाक्-शतं तिष्ठेद् उत्तानो धारयेत् ततः ॥२२॥

२०.२२ - स्नेहं रेचन-नस्यान्ते धूमं पीत्वा कवोष्णाम्बु-कवडान् कण्ठ-शुद्धये ।
सम्यक्-स्निग्धे सुखोच्छ्वास-स्वप्न-बोधाक्ष-पाटवम् ॥२३॥

रूक्षे ऽक्षि-स्तब्ध-ता शोषो नासास्ये मूर्ध-शून्य-ता ।
स्निग्धे ऽति कण्डू-गुरु-ता-प्रसेका-रुचि-पीनसाः ॥२४॥

२०.२४ - स्निग्धे ऽति कण्डूर् गुरु-ता २०.२४ - प्रसेका-रुचि-पीनसाः सु-विरिक्ते ऽक्षि-लघु-ता-वक्त्र-स्वर-विशुद्धयः ।
दुर्-विरिक्ते गदोद्रेकः क्षाम-ताति-विरेचिते ॥२५॥

प्रतिमर्शः क्षत-क्षाम-बाल-वृद्ध-सुखात्मसु ।
प्रयोज्यो ऽ-काल-वर्षे ऽपि न त्व् इष्टो दुष्ट-पीनसे ॥२६॥

मद्य-पीते ऽ-बल-श्रोत्रे कृमि-दूषित-मूर्धनि ।
उत्कृष्टोत्क्लिष्ट-दोषे च हीन-मात्र-तया हि सः ॥२७॥

२०.२७ - हीन-मान-तया हि सः निशाहर्-भुक्त-वान्ताहः-स्वप्नाध्व-श्रम-रेतसाम् ।
शिरो-ऽभ्यञ्जन-गण्डूष-प्रस्रावाञ्जन-वर्चसाम् ॥२८॥

दन्त-काष्ठस्य हासस्य योज्यो ऽन्ते ऽसौ द्वि-बिन्दुकः ।
पञ्चसु स्रोतसां शुद्धिः क्लम-नाशस् त्रिषु क्रमात् ॥२९॥

दृग्-बलं पञ्चसु ततो दन्त-दार्ढ्यं मरुच्-छमः ।
न नस्यम् ऊन-सप्ताब्दे नातीताशीति-वत्सरे ॥३०॥

न चोनाष्टा-दशे धूमः कवडो नोन-पञ्चमे ।
न शुद्धिर् ऊन-दशमे न चातिक्रान्त-सप्ततौ ॥३१॥

२०.३१ - कवडो न्यून-पञ्चमे आ-जन्म-मरणं शस्तः प्रतिमर्शस् तु वस्ति-वत् ।
मर्श-वच् च गुणान् कुर्यात् स हि नित्योपसेवनात् ॥३२॥

न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्श-वद् भयम् ।
तैलम् एव च नस्यार्थे नित्याभ्यासेन शस्यते ॥३३॥

२०.३३ - तैलम् एव च नस्यार्थं शिरसः श्लेष्म-धाम-त्वात् स्नेहाः स्वस्थस्य नेतरे ।
आशु-कृच्-चिर-कारि-त्वं गुणोत्कर्षापकृष्ट-ता ॥३४॥

२०.३४ - गुणोत्कृष्टापकृष्ट-ता २०.३४ - गुणोत्कृष्टापकर्ष-ता २०.३४ - गुणोत्कर्षापकर्ष-ता मर्शे च प्रतिमर्शे च विशेषो न भवेद् यदि ।
को मर्शं स-परीहारं सापदं च भजेत् ततः ॥३५॥

२०.३५ - सापदं च वदेत् ततः अच्छ-पान-विचाराख्यौ कुटी-वातातप-स्थिती ।
अन्वास-मात्रा-वस्ती च तद्-वद् एव विनिर्दिशेत् ॥३६॥

२०.३६ - तद्-वद् एव च निर्दिशेत् पटोल-मुद्ग-वार्ताक-ह्रस्वमूलक-जाङ्गलैः ।
रसैः शालि-यवान् अद्यान् नस्य-कर्मणि षड्-विधे ॥३६-१॥

उच्चैर्-भाषणम् आयासम् अ-जीर्णा-सात्म्य-भोजनम् ।
दत्त-नस्यो नरः क्रोधं यानादींश् च विवर्जयेत् ॥३६-२॥

जीवन्ती-जल-देवदारु-जलद-त्वक्-सेव्य-गोपी-हिमं ॥३७अ ॥
दार्वी-त्वङ्-मधुक-प्लवागुरु-वरी-पुण्ड्राह्व-बिल्वोत्पलम् ॥३७ब् ॥
धावन्यौ सुरभिं स्थिरे कृमिहरं पत्त्रं त्रुटीं रेणुकां ॥३७च् ॥
किञ्जल्कं कमलाद् बलां शत-गुणे दिव्ये ऽम्भसि क्वाथयेत् ॥३७द् ॥
तैलाद् रसं दश-गुणं परिशेष्य तेन तैलं पचेत सलिलेन दशैव वारान् ।
पाके क्षिपेच् च दशमे समम् आज-दुग्धं नस्यं महा-गुणम् उशन्त्य् अणु-तैलम् एतत् ॥३८॥

२०.३८ - तैलं पचेच् च सलिलेन दशैव वारान् घनोन्नत-प्रसन्न-त्वक्-स्कन्ध-ग्रीवास्य-वक्षसः ।
दृढेन्द्रियास्त-पलिता भवेयुर् नस्य-शीलिनः ॥३९॥

२०.३९ - दृढेन्द्रियास् त्व् अ-पलिता

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP