संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ९८ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ९८ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ९८ Translation - भाषांतर इन्द्राय साम गायत विप्राय बृहते बृहत् ।धर्मकृते विपश्चिते पनस्यवे ॥१॥त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।विश्वकर्मा विश्वदेवो महाँ असि ॥२॥विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः ।देवास्त इन्द्र सख्याय येमिरे ॥३॥एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥४॥अभि हि सत्य सोमपा उभे बभूथ रोदसी ।इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥५॥त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥६॥अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे ।उदेव यन्त उदभिः ॥७॥वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।वावृध्वांसं चिदद्रिवो दिवेदिवे ॥८॥युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।इन्द्रवाहा वचोयुजा ॥९॥त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे ।आ वीरं पृतनाषहम् ॥१०॥त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।अधा ते सुम्नमीमहे ॥११॥त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।स नो रास्व सुवीर्यम् ॥१२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP