संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं २० मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं २० ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं २० Translation - भाषांतर आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः ।स्थिरा चिन्नमयिष्णवः ॥१॥वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः ।इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः ॥२॥विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम् ।विष्णोरेषस्य मीळ्हुषाम् ॥३॥वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी ।प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः ॥४॥अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः ।भूमिर्यामेषु रेजते ॥५॥अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत् ।यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः ॥६॥स्वधामनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः ।वहन्ते अह्रुतप्सवः ॥७॥गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये ।गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥८॥प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् ।हव्या वृषप्रयाव्णे ॥९॥वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ।आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥१०॥समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु ।दविद्युतत्यृष्टयः ॥११॥त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे ।स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः ॥१२॥येषामर्णो न सप्रथो नाम त्वेषं शश्वतामेकमिद्भुजे ।वयो न पित्र्यं सहः ॥१३॥तान्वन्दस्व मरुतस्ताँ उप स्तुहि तेषां हि धुनीनाम् ।अराणां न चरमस्तदेषां दाना मह्ना तदेषाम् ॥१४॥सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु ।यो वा नूनमुतासति ॥१५॥यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ ।अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥१६॥यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः ।युवानस्तथेदसत् ॥१७॥ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये ।अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम् ॥१८॥यून ऊ षु नविष्ठया वृष्णः पावकाँ अभि सोभरे गिरा ।गाय गा इव चर्कृषत् ॥१९॥साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु ।वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह ॥२०॥गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः ।रिहते ककुभो मिथः ॥२१॥मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति ।अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ॥२२॥मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः ।यूयं सखायः सप्तयः ॥२३॥याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविम् ।मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ॥२४॥यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः ।यत्पर्वतेषु भेषजम् ॥२५॥विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत ।क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ॥२६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP