संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ३१ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ३१ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ३१ Translation - भाषांतर यो यजाति यजात इत्सुनवच्च पचाति च ।ब्रह्मेदिन्द्रस्य चाकनत् ॥१॥पुरोळाशं यो अस्मै सोमं ररत आशिरम् ।पादित्तं शक्रो अंहसः ॥२॥तस्य द्युमाँ असद्रथो देवजूतः स शूशुवत् ।विश्वा वन्वन्नमित्रिया ॥३॥अस्य प्रजावती गृहेऽसश्चन्ती दिवेदिवे ।इळा धेनुमती दुहे ॥४॥या दम्पती समनसा सुनुत आ च धावतः ।देवासो नित्ययाशिरा ॥५॥प्रति प्राशव्याँ इतः सम्यञ्चा बर्हिराशाते ।न ता वाजेषु वायतः ॥६॥न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः ।श्रवो बृहद्विवासतः ॥७॥पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः ।उभा हिरण्यपेशसा ॥८॥वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् ।समूधो रोमशं हतो देवेषु कृणुतो दुवः ॥९॥आ शर्म पर्वतानां वृणीमहे नदीनाम् ।आ विष्णोः सचाभुवः ॥१०॥ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः ।उरुरध्वा स्वस्तये ॥११॥अरमतिरनर्वणो विश्वो देवस्य मनसा ।आदित्यानामनेह इत् ॥१२॥यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः ।सुगा ऋतस्य पन्थाः ॥१३॥अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम् ।सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥१४॥मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् ।देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१५॥न यजमान रिष्यसि न सुन्वान न देवयो ।देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१६॥नकिष्टं कर्मणा नशन्न प्र योषन्न योषति ।देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१७॥असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् ।देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP