संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ३ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ३ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ३ Translation - भाषांतर पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।आपिर्नो बोधि सधमाद्यो वृधेऽस्माँ अवन्तु ते धियः ॥१॥भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥२॥इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥३॥अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥४॥इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥५॥इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥६॥अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥७॥अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥८॥तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥९॥येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥१०॥शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम् ।शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥११॥शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः ।शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम् ॥१२॥कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः ।नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥१३॥कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः ॥१४॥उदु त्ये मधुमत्तमा गिर स्तोमास ईरते ।सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१५॥कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥१६॥युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः ।अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि ॥१७॥इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये ।स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥१८॥निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः ।निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥१९॥निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः ।निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम् ॥२०॥यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः ।विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम् ॥२१॥रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम् ।अदाद्रायो विबोधनम् ॥२२॥यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः ।अस्तं वयो न तुग्र्यम् ॥२३॥आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् ।तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् ॥२४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP