संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ३५ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ३५ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ३५ Translation - भाषांतर अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा ।सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥१॥विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा ।सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥२॥विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा ।सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥३॥जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् ।सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥४॥स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् ।सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥५॥गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् ।सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥६॥हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः ।सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥७॥हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गच्छथः ।सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥८॥श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः ।सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥९॥पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् ।सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥१०॥जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् ।सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥११॥हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् ।सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥१२॥मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥१३॥अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥१४॥ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥१५॥ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः ।सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥१६॥क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः ।सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥१७॥धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः ।सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥१८॥अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता ।सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥१९॥सर्गाँ इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता ।सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥२०॥रश्मीँरिव यच्छतमध्वराँ उप श्यावाश्वस्य सुन्वतो मदच्युता ।सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥२१॥अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु ।आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२२॥नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये ।आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२३॥स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः ।आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP