मण्डल ८ - सूक्तं ४५
ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति.
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ॥१॥
बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः ।
येषामिन्द्रो युवा सखा ॥२॥
अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।
येषामिन्द्रो युवा सखा ॥३॥
आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् ।
क उग्राः के ह शृण्विरे ॥४॥
प्रति त्वा शवसी वदद्गिरावप्सो न योधिषत् ।
यस्ते शत्रुत्वमाचके ॥५॥
उत त्वं मघवञ्छृणु यस्ते वष्टि ववक्षि तत् ।
यद्वीळयासि वीळु तत् ॥६॥
यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप ।
रथीतमो रथीनाम् ॥७॥
वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह ।
भवा नः सुश्रवस्तमः ॥८॥
अस्माकं सु रथं पुर इन्द्रः कृणोतु सातये ।
न यं धूर्वन्ति धूर्तयः ॥९॥
वृज्याम ते परि द्विषोऽरं ते शक्र दावने ।
गमेमेदिन्द्र गोमतः ॥१०॥
शनैश्चिद्यन्तो अद्रिवोऽश्वावन्तः शतग्विनः ।
विवक्षणा अनेहसः ॥११॥
ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता शता ।
जरितृभ्यो विमंहते ॥१२॥
विद्मा हि त्वा धनंजयमिन्द्र दृळ्हा चिदारुजम् ।
आदारिणं यथा गयम् ॥१३॥
ककुहं चित्त्वा कवे मन्दन्तु धृष्णविन्दवः ।
आ त्वा पणिं यदीमहे ॥१४॥
यस्ते रेवाँ अदाशुरिः प्रममर्ष मघत्तये ।
तस्य नो वेद आ भर ॥१५॥
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः ।
पुष्टावन्तो यथा पशुम् ॥१६॥
उत त्वाबधिरं वयं श्रुत्कर्णं सन्तमूतये ।
दूरादिह हवामहे ॥१७॥
यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत ।
भवेरापिर्नो अन्तमः ॥१८॥
यच्चिद्धि ते अपि व्यथिर्जगन्वांसो अमन्महि ।
गोदा इदिन्द्र बोधि नः ॥१९॥
आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस्पते ।
उश्मसि त्वा सधस्थ आ ॥२०॥
स्तोत्रमिन्द्राय गायत पुरुनृम्णाय सत्वने ।
नकिर्यं वृण्वते युधि ॥२१॥
अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
तृम्पा व्यश्नुही मदम् ॥२२॥
मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
माकीं ब्रह्मद्विषो वनः ॥२३॥
इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
सरो गौरो यथा पिब ॥२४॥
या वृत्रहा परावति सना नवा च चुच्युवे ।
ता संसत्सु प्र वोचत ॥२५॥
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे ।
अत्रादेदिष्ट पौंस्यम् ॥२६॥
सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम् ।
व्यानट् तुर्वणे शमि ॥२७॥
तरणिं वो जनानां त्रदं वाजस्य गोमतः ।
समानमु प्र शंसिषम् ॥२८॥
ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् ।
इन्द्रं सोमे सचा सुते ॥२९॥
यः कृन्तदिद्वि योन्यं त्रिशोकाय गिरिं पृथुम् ।
गोभ्यो गातुं निरेतवे ॥३०॥
यद्दधिषे मनस्यसि मन्दानः प्रेदियक्षसि ।
मा तत्करिन्द्र मृळय ॥३१॥
दभ्रं चिद्धि त्वावतः कृतं शृण्वे अधि क्षमि ।
जिगात्विन्द्र ते मनः ॥३२॥
तवेदु ताः सुकीर्तयोऽसन्नुत प्रशस्तयः ।
यदिन्द्र मृळयासि नः ॥३३॥
मा न एकस्मिन्नागसि मा द्वयोरुत त्रिषु ।
वधीर्मा शूर भूरिषु ॥३४॥
बिभया हि त्वावत उग्रादभिप्रभङ्गिणः ।
दस्मादहमृतीषहः ॥३५॥
मा सख्युः शूनमा विदे मा पुत्रस्य प्रभूवसो ।
आवृत्वद्भूतु ते मनः ॥३६॥
को नु मर्या अमिथितः सखा सखायमब्रवीत् ।
जहा को अस्मदीषते ॥३७॥
एवारे वृषभा सुतेऽसिन्वन्भूर्यावयः ।
श्वघ्नीव निवता चरन् ॥३८॥
आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा ।
यदीं ब्रह्मभ्य इद्ददः ॥३९॥
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
वसु स्पार्हं तदा भर ॥४०॥
यद्वीळाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् ।
वसु स्पार्हं तदा भर ॥४१॥
यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति ।
वसु स्पार्हं तदा भर ॥४२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP