संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं २७ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं २७ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं २७ Translation - भाषांतर अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे ।ऋचा यामि मरुतो ब्रह्मणस्पतिं देवाँ अवो वरेण्यम् ॥१॥आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः ।विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितारः ॥२॥प्र सू न एत्वध्वरोऽग्ना देवेषु पूर्व्यः ।आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥३॥विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः ।अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः ॥४॥आ नो अद्य समनसो गन्ता विश्वे सजोषसः ।ऋचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि ॥५॥अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन ।आ बर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासः सदन्तु नः ॥६॥वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् ।सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः ॥७॥आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया ।इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे ॥८॥वि नो देवासो अद्रुहोऽच्छिद्रं शर्म यच्छत ।न यद्दूराद्वसवो नू चिदन्तितो वरूथमादधर्षति ॥९॥अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम् ।प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥१०॥इदा हि व उपस्तुतिमिदा वामस्य भक्तये ।उप वो विश्ववेदसो नमस्युराँ असृक्ष्यन्यामिव ॥११॥उदु ष्य वः सविता सुप्रणीतयोऽस्थादूर्ध्वो वरेण्यः ।नि द्विपादश्चतुष्पादो अर्थिनोऽविश्रन्पतयिष्णवः ॥१२॥देवंदेवं वोऽवसे देवंदेवमभिष्टये ।देवंदेवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥१३॥देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः ।ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥१४॥प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम् ।न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत् ॥१५॥प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ।प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते ॥१६॥ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः ।अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥१७॥अज्रे चिदस्मै कृणुथा न्यञ्चनं दुर्गे चिदा सुसरणम् ।एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु ॥१८॥यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध ।यन्निम्रुचि प्रबुधि विश्ववेदसो यद्वा मध्यंदिने दिवः ॥१९॥यद्वाभिपित्वे असुरा ऋतं यते छर्दिर्येम वि दाशुषे ।वयं तद्वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥२०॥यदद्य सूर उदिते यन्मध्यंदिन आतुचि ।वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥२१॥वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् ।अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै ॥२२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP