संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ६१ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ६१ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ६१ Translation - भाषांतर उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥१॥तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः ।विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम् ॥३॥अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः ।सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः ॥४॥शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥५॥पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥६॥त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥७॥त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।आ पुरंदरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥८॥अविप्रो वा यदविधद्विप्रो वेन्द्र ते वचः ।स प्र ममन्दत्त्वाया शतक्रतो प्राचामन्यो अहंसन ॥९॥उग्रबाहुर्म्रक्षकृत्वा पुरंदरो यदि मे शृणवद्धवम् ।वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥१०॥न पापासो मनामहे नारायासो न जळ्हवः ।यदिन्न्विन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥११॥उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यम् ।वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत् ॥१२॥यत इन्द्र भयामहे ततो नो अभयं कृधि ।मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१३॥त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः ।तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥१४॥इन्द्र स्पळुत वृत्रहा परस्पा नो वरेण्यः ।स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः ॥१५॥त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः ।आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥१६॥अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।विश्वा च नो जरितॄन्सत्पते अहा दिवा नक्तं च रक्षिषः ॥१७॥प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् ।उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥१८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP