नारद उवाच
कर्मनिष्ठा दिव्जाः केचित तपोनिष्ठा नृपापरे ।
स्वाध्यायेऽन्ये प्रवचने ये के चिज्ज्ञानयोगयोः ॥१॥
ज्ञाननिष्ठाय देयानि कव्यान्यानत्यमिच्छता ।
दैवे च तदभावे स्यादितरेभ्यो यथार्हतः ॥२॥
द्वौ दैवे पितृकर्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम ॥३॥
देशकालोचितश्रद्धाद्रव्यपात्रार्हणानि च ।
सम्यग भवन्ति नैतानि विस्तरात स्वजनार्पणात ॥४॥
देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम ।
श्रद्धया विधिवत पात्र न्यस्त कामधुगक्षयम ॥५॥
देवर्शिपितृभुतेभ्य आत्मने स्वजनाय च ।
अन्नं संविभजन्पश्येत सर्वं तत पुरुषात्मकम ॥६॥
न दद्यादामिषं श्राद्धे न चाद्याद धर्मतत्ववित ।
मुन्यन्नैः स्याप्तरा प्रीतिर्यथा न पशुहिंसया ॥७॥
नैतादृशः परो धर्मों नृणां सद्धार्ममिच्छताम ।
न्यासो दण्डस्य भुतेषु मनोवाक्क्वयजस्य यः ॥८॥
एके कर्ममयान यज्ञान ज्ञानिनो यज्ञवित्तमा ।
आत्मसंयमनेऽनीहा जुह्राति ज्ञानदीपते ॥९॥
द्रव्ययज्ञैर्यक्ष्यमाणं दृष्टा भुतानि बिभ्यति ।
एष माकरुणो हन्त्यादतज्ज्ञो ह्रासुतृब ध्रुवम ॥१०॥
तस्माद दैवोपपन्नेन मुन्यन्नेनापि धर्मवित ।
सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीःक्रियाः ॥११॥
विधर्मः परधर्मश्च आभास उपमा छलः ।
अधर्मशाखाः पंचेमा धर्मज्ञोऽधर्मवत त्यजेत ॥१२॥
धर्मबाधो विधर्मः स्यात परधर्मोऽन्यचोदितः
उपधर्मस्तु पाखन्डो दम्भो वा शब्दभिच्छलः ॥१३॥
यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात पृथक ।
स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ॥१४॥
धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम ।
अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥१५॥
सन्तुष्टस्य निरिहस्य स्वात्मारामस्य यत सुखम ।
कुतस्तत कामलोभेन धावतोऽर्थेहया दिशः ॥१६॥
सदा सन्तुष्टमनसः सर्वाः सुखमया दिशः ।
शर्कराकण्टकादिभ्यो यथोपानप्तदः शिवम ॥१७॥
सन्तुष्टः केन वा राजन्न वर्तेतापि वारीणा ।
औपस्थयजैह्वयाकार्पण्याद गृहपालायते जनः ॥१८॥
असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः ।
स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥१९॥
कामस्यान्तं च क्षुत्तृंड्भ्यां क्रोधस्यैतत्फलोदयात ।
तनो याति न लोभस्य जित्वा भुक्त्या दिशो भुवः ॥२०॥
पण्डितो बहवो राजन्बहुज्ञाः संशयच्छिदः ।
सदसस्पतयोऽप्येके असन्तोषात पतन्त्यधः ॥२१॥
असंकल्पाज्जयेत कामं क्रोधं कामविवर्जनात ।
अर्थनर्थेक्षया लोभ भयं तत्त्वावमर्शनात ॥२२॥
आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया ।
योगान्तरायान मौनेन हिंस कयाद्यनीहया ॥२३॥
कॄपया भूतजं दुःखं दैवं जह्यात समाधिना ।
आत्मजं योगवीर्येण निद्रां सत्वनिषेवया ॥२४॥
रजस्तमश्च सत्वेन सत्वं चोपशमेन च ।
एतत सर्वे गुरौ भक्त्या पुरुषो ह्रात्र्जसा जयेत ॥२५॥
यस्य साक्षाद भगवति ज्ञानदेपप्रदे गुरौ ।
मर्त्यासद्धिः श्रुतं तस्य सर्व कुत्र्जरशौचवत ॥२६॥
एष वै भगवान्साक्षात प्रधानपुरुषैश्वरः ।
योगेश्वरैर्विमृग्याडघ्रिर्लोके यं मन्यतें नरम ॥२७॥
षडवर्गसंयमैकान्ताः सर्वा नियमचोदनाः ।
तदन्ता यदि नो योगानावहेयुः श्रमावहाः ॥२८॥
यथा वार्तादयो ह्रार्थो योगस्यार्थ न बिभ्रति ।
अनर्थाय भवेयुस्ते पुर्तमिष्टं तथासम ॥२९॥
यश्चित्तविजये यत्तः स्यन्निः संगोपरिग्रहः ।
एषो विविक्तशरणो भिक्षुर्भिक्षामिताशनः ॥३०॥
देशो शुचौ समे रजान्संस्थाप्यासनमात्मनः ।
स्थिरं समंसुखं तस्मिन्नासीतर्ज्वंग ओमिति ॥३१॥
प्राणापानौ सन्निरुन्ध्यात पुरकूम्भकरेचकैः ।
यावन्मनस्त्यजेत कामान स्वनासग्रनिरीक्षणः ॥३२॥
यतो यतो निःसरति मनः कमहतं भ्रमत ।
ततस्तत उपाहृत्य हृदि रुन्धाच्छनैर्बुधः ॥३३॥
एवमब्ब्यसतश्चित्तं कालेनाल्पीयसा यतेः ।
अनिषं तस्य निर्वाणंयात्यनिन्धनवह्रिवत ॥३४॥
कामदिभिरनाविद्धं प्रशान्ताखिलवृति यत ।
चित्तं ब्रह्मासुखस्पृष्ट नैवोत्तिष्ठेति कर्हिचित ॥३५॥
यः प्रव्र्ज्य ग्रुहात पुर्वं त्रिवर्गावपनात पुनः।
यदि स्वेत तान्भिक्षुह स वै वान्ताश्यपत्रपः ॥३६॥
यैः स्वदेहः स्मृतो नात्मा मर्त्यो विटकृभ्जिभस्मसात ।
त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यासत्तमाः ॥३७॥
गृहस्थस्त क्रियात्यागो व्रतत्यागो बटेरपि ।
तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ॥३८॥
आश्रमापसदा ह्रोते खल्वा श्रमविडम्बकाः ।
देवमायविमुंढांस्तानुपेक्षेतानुकम्पया ॥३९॥
आत्मानं चेद विजानीयात परं ज्ञानधुतशयः ।
किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पटः ॥४०॥
आहुः शरीरं रथमिन्द्रियाणि हयानभीषुन मन इन्द्रियेशम ।
वर्त्मानि मत्रा धिषणां च सुतं सत्वं बृहद बन्धुरमीशसृष्टम ॥४१॥
अक्षं दशप्राणमधर्मधर्मी चक्रेऽभिमानं रथिनं च जीवम ।
धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम ॥४२॥
रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः ।
मानोऽवमानोऽसुया माया हिम्सा च मत्सरः ॥४३॥
रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः ।
रजस्तमः प्रकृतयः सत्वप्रकृतयः क्वचित ॥४४॥
यावन्नृकायरथमात्मवशोपकल्पं धत्ते गरिष्ठचरणार्चनया निशातम ।
ज्ञानसिमच्युतबलो दधदस्त्तशत्रुः स्वाराज्यतुष्ट उपशान्त इदं विजह्यात ॥४५॥
नो चेत प्रमत्तमसदिन्द्रियवजित्सुता नीत्वोप्तथं विषयदस्युषु निक्षिपन्ति ।
ते दस्यवः सहयसुतममुं तमोऽन्धे संसारकुप उरुमृत्युभये क्षिपन्ति ॥४६॥
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम ।
आवर्तेत प्रवृत्तेन निवृत्तेनाश्रुतेऽमृतम ॥४७॥
हिंस्र द्रव्यमयं काम्यमग्र्निहोत्राद्यशान्तिदम ।
दर्शन्श्च पुर्णमसाश्च चातुर्मास्यं पशुः सुतः ॥४८॥
एतदिष्टं प्रवृत्तख्यं हुतं प्रहुतमेव च ।
पुर्तं सुरालयारामकुपाजीव्यादिलक्ष्णम ॥४९॥
द्रव्यसुक्ष्मविपाकश्च धुमो रात्रिरपक्षयः ।
अयनं दक्षिणं सोमोऽदर्श ओषधिवीरुधः ॥५०॥
अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः ।
एकैकश्येनानुपुर्वं भुत्वां भुत्वेह जायते ॥५१॥
निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः ।
इन्द्रियेषु क्रियायज्ञान ज्ञानदीपेषु जुह्वाति ॥५२॥
इन्द्रियाणि मनस्युर्मौ वाचि वैकारिकं मनः ।
वाचं वर्णसमाम्राये तमोकांरे स्वरे न्यसेत ।
ओंकारंबिन्द्रौ नादे तं तं तु प्राणे महत्यमुम ॥५३॥
अग्निः सुर्यो दिवा प्राह्वः शुक्लो राकोत्तरं स्वराट ।
विश्वश्व तेजसः प्रज्ञस्तुर्यं आत्मा समन्वयात ॥५४॥
देवयानमिदं प्राहुर्भुत्वा भुत्वानुपुर्वशः ।
आत्मयाज्युपशान्तात्मा ह्रात्मस्थो न निवर्तते ॥५५॥
य एते पितृदेवानामयने वेदनिर्मिते ।
शास्त्रेण चक्षुणा वेद जनस्थोऽपि न मुह्राति ॥५६॥
आदावन्ते जनांना सद बहिरन्तः परावरम ।
ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम ॥५७॥
आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः ।
दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम ॥५८॥
क्षित्यादिनामिहार्थानां छाया न कतमापि हि ।
न संघातो विकारोऽपि नृ पृथंग नान्वितो मृषा ॥५९॥
धावतोऽवयवित्वाच्च तन्मात्रावयवैर्विना ।
न स्युर्ह्योअत्यवयविन्यसन्नवयवोन्ततः ॥६०॥
स्यात सादृश्य्यब्रमस्तावद विकल्पे सति वस्तुनः ।
जाग्रस्त्वापौ यथा स्वप्रे तथा विधिनिषेधता ॥६१॥
भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथाऽऽत्मनः ।
वर्तयन्स्वानुभुत्येह त्रीन्स्वप्रान्धुनुते मुनिः ॥६२॥
कार्यकारणवस्त्वैक्यमर्शनं पटतन्तुवत ।
अवस्तुत्वाद विकल्पपस्य भावाद्वैतं तदुच्यते ॥६३॥
यद ब्रह्माणि परे साक्षात सर्वकर्मसमर्पणम ।
मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ॥६४॥
आत्मजायासुतादीनामन्येषा सर्वदेहिनाम ।
यत स्वार्थकामयौरेक्यं द्रव्याद्वैतं तदुच्यते ॥६५॥
यद यस्य वानिषिद्धं स्याद येन यत्र यतो नृप ।
स तेनेहेत कर्माणि नरो नान्यैरनापदि ॥६६॥
एतैरन्यैश्च वेदोक्तैर्वर्तमाः स्वकर्मभिः ।
गृहेऽप्यस्य गतिं यायाद राजंस्तद्भक्तिभांनरः ॥६७॥
यथा हि युयं नॄपदेव दुस्त्यजा दापद्गणादुत्तरतात्मनः प्रभोः ।
यत्पादपंकेरुहसेवया भवा नहार्षान्निर्जितादिग्गजः क्रतुन ॥६८॥
अहं पुराभवं कश्चिद गन्धर्व उपबर्हणः ।
नाम्रातीते महाकल्पे गन्धर्वाणो सुसम्मतः ॥६९॥
रुपपेशलमधुर्यसौगन्ध्यप्रियदर्शनः ।
स्त्रीणां प्रियतमो नित्यं मत्तस्तु पुरुलम्पटः ॥७०॥
एकदा देवसुते तु गन्धर्वाप्सरसां गणाः ।
उपहुत विश्वसृग्भिर्हरिगाथोपगायने ॥७१॥
अहं च गायंस्तद्विदान स्त्रिभिः परिवृतो गतः ।
ज्ञात्वा विश्वस्रुजस्तन्मे हेअनं शेपुरोजसा ।
याहि त्वं शुद्रतामाशु नष्टश्रीः कुतहेलनः ॥७२॥
तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मावादिनाम ।
शुश्रुषयानुषंगेण प्राप्तोऽहं ब्रह्मापुत्रताम ॥७३॥
धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः ।
गृहस्थो येन पदवीमत्र्जसा न्यासिनामियात ॥७४॥
युयं नृलोके बत भुरिभागा लोकं पुनाना मुनयोऽभियन्ति ।
येषां गृहानावसतीति साक्षाद गुढं परं ब्रह्मा मनुष्यलिंगम ॥७५॥
स वा अयं ब्रह्मा महाद्विमृग्यं कैवल्यनिर्वाणसुखानुभुतिः ।
प्रियः सुहृद वः खलु मातुलेय आत्मार्हणीयो विधिकृद गुरुश्च ॥७६॥
न यस्य साक्षद्भवपद्मजादिभि रुपं धिया वस्तुतयोपवर्णितम ।
मौनेन भक्त्योपशमेन पुजितः प्रसीदतामेष स सात्वतां पतिः ॥७७॥
श्रीशुक उवाच
इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः ।
पुजयमास सुप्रीतः कृष्णं च प्रेमविह्नलः ॥७८॥
कृष्णपार्थावुपामन्त्र्य पुजितः प्रययौ मुनिः ।
श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥७९॥
इति दाक्शायणीनां ते पृथग्वंशाः प्रकीर्तिताः ।
देवासुरमनुष्याद्या लोका यत्र चराचराः ॥८०॥
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्रयां पारमहंस्यं संहितायां सप्तमस्कन्धे
प्रह्लादानुचरिते युधिष्ठिरनारदसंवादे सदाचानिर्णयो नाम पंचदशोऽध्यायः ॥१५॥
॥ इति सप्तमः स्कन्धः ॥
॥ हरिः ॐ तत्सत ॥