नारद उवाच
एवं सुराद्यः सर्वे ब्रह्मारुद्रपुरः सराः
नोपैतुमशकन्मन्युसंरम्भं सुदुरासदम ॥१॥
साक्षाच्छ्रीः प्रेषिता देवैर्दृष्टा त्तन्महदद्भुतम ।
अदृष्टाश्रुतपुर्वत्वात सा नोपेयाय शंकिता ॥२॥
प्रह्लादं प्रेषयामा ब्रह्मावस्थितमन्तिके ।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम ॥३॥
तथेति शनकै राजन्महाभागवतोऽर्भक ।
उपेत्य भुवि कायेन ननाम विधृतात्र्जलिः ॥४॥
स्वपादमुले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः ।
उत्थाप्य तच्छीष्णर्यदधातु कराम्बुजं कालाहिवित्रस्तधियां कृताभयम ॥५॥
स तत्कस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः ।
तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥६॥
अस्तौषीद्धारिमेकाग्रमनसा सुसमाहितः ।
प्रेमगद्गदया वाचा तन्न्यास्तहृदयेक्षणः ॥७॥
प्रह्लाद उवाच
ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः ।
नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥८॥
मन्ये धनाभिजनरुपतपः श्रुतौज स्तेज प्रभावबलपौरुषबुद्धियोगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान्गजयुथपाय ॥९॥
विप्राद द्विषडगुणयुतादरविन्दानाभ पादारविन्दविमुखाच्छपंच वरिष्ठम ।
मन्ये तदर्पितमनोवचनेहितार्थ प्राणं पुनाति स कुलं न तु भुरिमानः ॥१०॥
नैवात्मनः प्रभरयं निजलाभपुर्णा मानं जनादविदुषः करुणो वृणीते ।
यद यज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥११॥
तस्मादहं विगतविक्लव इश्वरस्य सर्वात्मना महि गृणामि यथामनीषम ।
नीचोऽजय गुणविसर्गमनुप्रविष्टः पुयेत येन हि पुमाननृवर्णितेन ॥१२॥
सर्वे ह्मानी विधिकरास्तव सत्वधाम्रो ब्रह्मादयो वयमिवेश न चेद्विजन्त ।
क्षेमाय भुतय उतान्मसुखाय चास्य विक्रीडितं भगवतो रुचिरावतारैः ॥१३॥
तद यच्छ मन्यमसुरच्छ हतस्त्वयाद्य मोदेत साधुरति वृश्चिकसर्पहत्या ।
लोकास्चनिर्वितिमिताः प्रतियन्ति सर्वे रुपं नृसिंह विभयाय जनाः स्मरन्ति ॥१४॥
नाहं विभेम्यजित तेऽतिम्भयानकास्य जिह्लार्क नेत्र भ्रुकुटीरभसोग्रदंष्ट्रात ।
आन्त्र्स्रजः क्षत्रजकेसरशंकुकर्णा न्निर्हादभीतादिगिभादरिभिन्नखाग्रात ॥१५॥
त्रस्तोऽस्महं कॄपणवत्सल दुःसहोग्र संसारचक्रकदनाद ग्रसतां प्रणीतः ।
बद्धः स्वकर्मभ्जिरुशत्तम तेऽदघ्रिमलं प्रीतोऽपवर्गशरणं ह्रुयसे कदा नु ॥१६॥
यस्मात प्रियाप्रियवियोगसयोगजन्म शोकग्निना सक्लायोनिषु दुह्नामानः ।
दुःखौषधं तदपि दुःखमतद्धियाहं भुमन्भ्रमामिवद मे तव दास्ययोगम ॥१७॥
सोऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तव नृसिंह विरित्र्चगीताः ।
अत्र्जस्तितम्यनुनृणन्गुणाविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससंगः ॥१८॥
बालस्य नेह शरणं पितरौ न्रुसिह नार्तस्य चागदमुदन्वति मज्जतो नौः ।
तप्तस्य तप्रतिविधिर्य इह्गाज्जसेष्ट स्तावद विभो तनुभृतां त्वदुपेक्षितानाम ॥१९॥
यस्मिन्यतो यर्हि येन च यस्य यस्माद यस्मै यथा यदुत यस्त्वपरः परो वा ।
भावः करोनि विकरोति पृथकस्वभावः संचोदितस्तदखिलं भवतः स्वरुपम ॥२०॥
माया मनः सृजति कर्ममयं बलीयः कालेन चोदितगुणानुमतेन पुंसः ।
छन्दोमयं यदजयार्पितषोडशारं संसारचक्रमज कोऽतितरेज त्वदन्यः ॥२१॥
सत्वं हि नित्यविज्तात्मगुण स्वधाम्रा कालो वशीकृतविसृज्यविसर्गशक्तिः ।
चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीडयमानमुपकर्ष विभो प्रपन्नम ॥२२॥
दृष्ता मया दिवी विभोऽखिलधिष्ण्यपाणा मायुः श्रियो विभव इच्छ्ति यात्र्जनोऽयम ।
येऽस्मत्पितुः कुपितहासविजृम्भितभ्रु विस्फूर्जितेन लुलिताः स तु ते निरस्त ॥२३॥
तस्मादमुस्तनुभृतामहमाशषो ज्ञ आयुः श्रियं विभवमैन्द्रियमाइरित्र्चात ।
नेच्छामिक ते विलुलितानुरुविक्रमेण कालात्मनोपनय मां निजभृत्यपाश्वम ॥२४॥
कुत्राशिषुः श्रुतिसुखा मृगतृष्णिरुपाः क्वेदः कलेवरमशेषरुजां विरोहः ।
निर्विद्यते न तु जनो यदपीति विद्वान कामानलं मधुलवैः शमयन्दुरापैः ॥२५॥
क्वाहं रजः प्रभव ईश तमोऽधिकेऽस्मिन जातः सुरेतकुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया यन्मेऽर्पितः शिरसि पद्मकरः प्रसाद ॥२६॥
नैषा परावरमतिर्भवतो ननु स्या ज्जन्तोर्यथाऽऽत्मसुहदौ जगतस्तथापि ।
संसेवया सुरतरोरिव ते प्रसाध सेवानुरुपमुदयो न परावरत्वम ॥२७॥
एवं जनं निपतितं प्रभवाहिकूपे कामभिकाममनु यः प्रपतन्प्रसंगात ।
कृत्वाऽऽत्मसात सुरर्षित्णा भगव्न गृहीतः सोऽहं कथं नु विसृजे तव भृत्यसेवाम ॥२८॥
मत्प्राणरक्षणमन्त पितृर्वधश्च मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम ।
खंग प्रगृह्या यदवोचदसद्विहित्स्य स्वामीश्वरो मदपरोऽवतु कं हरामि ॥२९॥
एकस्त्वमेव जगदेतदमुष्य यत त्व माद्यन्तयोः पृथवस्यसि मध्यतश्च ।
सृष्ट्वा गुणव्यतिकरं निजमाययेदं नानेव तैरवसितस्तदनुप्रविष्टः ॥३०॥
त्वं वा इदं सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियं ह्यापार्था ।
यद यस्य जन्म निधनं स्थितिरीक्षणं च तद वै तदेव वसुकालवदष्टितर्वौः ॥३१॥
न्यस्येदमात्मनि जगद विलयाम्बुमध्ये शेषेऽऽत्मना निजसुखानुभवो निरीहः ।
योगेन मीलितदृगात्मनिपीतनिद्र स्तुर्य स्थितो न तु तमो न गुणांश्च यंक्षे ॥३२॥
तस्यैव ते विपुरिदं निजकालशक्त्या संत्चोदितप्रकऋतिधर्मण आत्मगुढम ।
अम्भस्यनन्तशयानाद विरमत्समाधे र्नाभेरभुत स्वकणिकावटवन्महाब्जम ॥३३॥
तत्सम्भवः कविरतोऽन्यदपश्यामानस्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य ।
नाविन्ददब्दशतमत्सु निमज्जमानो जातेऽड्कुरें कथमु होपलभेत बीजम ॥३४॥
सं त्वात्मायोनिरतिविस्मित आस्थितोऽब्जं कालेन तीव्रतपसा परिशुद्धभावः ।
त्वामात्मनीश भुवि गन्धमिवातिसुक्ष्मं भुतेन्द्रियाशयमये विततं ददर्श ॥३५॥
एवं सहस्त्रवदनांगघ्रिशिरः करोरु नासास्यकर्णनयानाभरणायुध्दाढ्याम ।
मायामयं स्दौपलक्षितसंनिवेशं दृष्टा महापुरुषमाप मुदं विरित्र्चः ॥३६॥
तस्मै भवान्हयशिरस्तनुवं च बिभ्रद वेददुर्हावतिबर्लौ मधुकैटभाख्यौ ।
हत्वाऽऽनयच्छुतिगणांस्तु रजस्तमश्च सत्त्वं तव प्रियतमां तनुमामनन्ति ॥३७॥
इत्थं नृतिर्यगृषिदेवझषावतारै र्लोकान विभावयसि हंसि जगत्प्रतीवान ।
धर्म महापुरुष पासि युगानुवृत्तं छन्नः कर्लो यदभवस्त्रियुगोऽथस त्वम ; ॥३८॥
नैतन्मस्त्व कथासु विकुण्ठनाथ सम्प्रीयतें दुरितदुष्टमसाधु तीव्रम ।
कामातुरं हर्षशोकभयैषणार्तं तस्मिन्कथं तव गतिं विमृशामि दीनः ॥३९॥
जिह्वैकतोऽच्युत विकर्षति मावितृप्ता शिश्नोऽन्यतस्त्वगुदरं श्रवणम कुतश्चित ।
घ्राणोऽन्यतश्चपलद्रुक क्व च कर्मशक्ति र्बह्यः सपन्य इव गेहपतिम लुनान्ति ॥४०॥
एवं स्वकर्मपतितं भववैतरण्या मन्योन्यजन्ममरणाशनभीतभीतम ।
पश्यत्र्जनं स्वपरविग्रहवैरमैत्रं हन्तोति पारचर पीपृहि मूढमद्य ॥४१॥
को न्वत्र तेऽखिलगुरो भगवन्प्रयास उत्तारणेऽस्य भवसम्भवलोपहेतोः ।
मुढेषु वै महदनुग्रह आर्तबन्धो किं तेन प्रिययजनानानुसेवतां नः ॥४२॥
नैवोद्विजे पर दुरत्ययवैतरण्या स्त्वद्वीर्यगायनमहामृतमग्नचित्तः ।
शोचे ततो विमुखचेतस इन्द्रियार्थ मायासुखाय भरमुद्वहतो विमुढान ॥४३॥
प्रायेण देव मुनयः स्वविमुक्तिकामा मौनं चरन्ति विजने न परार्थनिष्ठाः ।
नैतान्विहाय कॄपयन्विमुमुक्ष एको नान्यं त्वदस्य भ्रमतोऽनुपश्ये ॥४४॥
यन्मैथुनादि गृहमेधिसुखं हि तुच्छं कण्डुयनेन करयोरिव दुःखदूःखम ।
तृप्यन्ति नेह कॄपणा बहुदुःखभाज , कण्डुतिवन्मनसिजं विषहेत धीरः ॥४५॥
मौनव्रतश्रुततपोध्ययनस्वधर्म व्याख्यारहोजपसमाधय आपवर्ग्याः ।
प्रायः परं पुरुष ते त्वजितेन्द्रियाणां वार्ताभवन्त्युत न वात्र तु दम्भिकानाम ॥४६॥
रुपे इमे सदसती तव वेदसृष्टे बीजांकुरविव न चान्यदरुपकस्य ।
युक्ताः समक्षमुभयत्र विचिन्वते त्वां योगेन वहिमिव दारुषु नान्यतः स्यात ॥४७॥
त्वं वायुरग्निरवनिर्वियदम्बुमात्राः प्राणेन्दियाणि हृदयं चिदनुग्रहश्च ।
सर्व त्वमेव सगुणो विगृणश्च भुमन नान्यत त्वदस्त्यपि मनोवचसा निरुक्तम ॥४८॥
नैते गुणॊ न गुणितो महदादयो ये सर्वे मनः प्रभृतयः सहदेवमत्यां ।
आद्यन्तवन्त उरुगात विदन्ति हित्वा मेवं विमृश्य सुधियो विरमन्ति शब्दात ॥४९॥
तत तेऽर्हतम नमःसुतिकर्मपुजाः कर्म स्मृतिश्चरणयोः श्रवणं कथायाम ।
संसेवया त्वयि विनेति षडंयां किं भक्तिं जनः परमहंसगती लभेत ॥५०॥
नारद उवाच
एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः ।
प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥५१॥
श्रीभगवानुवच
प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।
वरं वृणीष्वाभिमंत कामपुरोऽस्म्यहं नृणाम ॥५२॥
मामप्रीणत आयुष्मदर्शनं दुर्लभ हि मे ।
दृष्ट्वा मांन पुनर्जन्तुरात्मानं तत्पुमर्हति ॥५३॥
प्रीणन्ति ह्राथ मां धीराः सर्वभावेन साधवः ।
श्रेयस्कामा महाभागः सर्वासामाशिषां पतिम ॥५४॥
नारद उवाच
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः ।
एकान्तित्वाद भगवति नैच्छत तानसुरोत्तमः ॥५५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां सप्तमस्कन्धे प्रह्लादचरिते भगवस्त्ववो नाम नवमोऽध्यायः ॥९॥