नारद उवाच
हिरण्यकशिपु राजन्नयेजमजरामरम ।
आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥१॥
स तेपे मन्दरद्रोण्यां तपः परमदारुणम ।
ऊर्ध्वेबाहुर्नभोदृष्टिः पादांगुष्ठाश्रितावनिः ॥२॥
जटादीधितिभी रेजे संवर्तर्क इवांशुभिः ।
तस्मिंस्तपस्तप्यमाने देवो स्थानानि भेजिते ॥३॥
तस्य मूर्ध्नः समुद्धतः सधुमोऽग्निस्तपोमयः ।
तिर्यगुर्ध्वमधोलोककानतपद्विष्वगीरितः ॥४॥
चुक्षुभुर्वद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः ।
निपेतुः सग्रहास्तारा जज्वलुक्ष दिशो दश ॥५॥
तेन तत्पा दिवं त्यक्त्त्वा ब्रह्मालोकं ययुः सुराः ।
धोत्रे विज्ञापयामासुर्देवदेव जगत्पतेः ॥६॥
दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः ।
तस्य चोपशमं भुमनं विधोहि यति मन्यसे ।
लोका न यावन्नंक्शन्ति बलिहारास्तवाभिभुः ॥७॥
तस्यायं किल संकल्प श्चरतो दुश्चरं तपः ।
श्रुयतां किं न विदितस्तवाथापि निवेदितः ॥८॥
सृष्टा चराचरमिदं तपोयोगस्माधिना ।
अध्यास्ते सर्वधिष्णेभ्यः परमेष्ठि निजासनम ॥९॥
तदहं वर्धमानेन तपोयोगसमाधिना ।
कालात्मनोश्च नित्यत्वात्साधयिष्ये तथाऽऽत्मनः ॥१०॥
अन्यथेदं विधास्तेऽहमयथापुर्वमोजसा ।
किमन्यैः कालनिधृतैः कल्पान्ते वैष्णवादिभिः ॥११॥
इति शुश्रुम निर्बन्धं तपः परमामास्थितः ।
विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वरः ॥१२॥
तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते ।
भवाय श्रेयसे भुत्यै क्षेमाय विजयाय च ॥१३॥
इति विज्ञापितो देवैर्भगवानात्मभुर्नॄप ।
परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वरश्रमम ॥१४॥
न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः ।
पिपीलिकाभिराचीर्णमेदस्त्वडमांसशोणितम ॥१५॥
तपन्तं तपस लोकान यथाब्रापिहितं रविम ।
विलक्ष्य विस्मितः प्राह प्रहसन हंसवाहनः ॥१६॥
ब्रह्मोवाच
उत्तिष्ठोत्तिष्ठ भद्रं ते तपः सिद्धोऽसि काश्यप ।
वरदोऽहमनुप्राप्तो व्रियतामीप्सीतो वरः ॥१७॥
अद्राक्षमहतेतत्ते हृत्सारं महदद्भुतम ।
दंशभक्शितदेहस्य प्राणा ह्यास्थिषु शेरते ॥१८॥
नैतत्पुर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे ।
निरम्बुर्धारयेत्प्राणान को वै दिव्यसमाः शतम ॥१९॥
व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम ।
तपोनिष्टेन भवता जितोऽहं दितिनन्दन ॥२०॥
ततस्त आशिषः सर्वा ददाम्यसुरुपंगव ।
मर्त्यस्य ते अमर्त्यस्य दर्शन नाफलं मम ॥२१॥
नारद उवाच
इत्युक्त्वाऽऽदिभवो देवो भक्षितांग पिपीलिकैः ।
कमन्डुलुजलेनौक्षद्दिव्येनामोघरधसा ॥२२॥
सतत्कीचकवल्मीकात सहओजोबलन्वितः ।
सर्वावयवसम्पन्नो वज्रंसंहननो युवा ।
उत्थितस्तप्तहेमाभो विभावसुरिवैधसः ॥२३॥
स निरीक्ष्याम्बरे देवं हंसवाहमवस्थितम ।
ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः ॥२४॥
उत्थाय प्रात्र्जलिः प्रह्ल ईक्षमाणो दृशा विभुम ।
हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात ॥२५॥
हिरण्यकशिपुरुवाच
कल्पान्ते कालसृष्टेन योऽन्धेत तमसाऽऽवृतम ।
अभिव्यनग जगदिदं स्वयंज्योतिः स्वरोचिषा ॥२६॥
आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ।
रजः सत्वतमोधाम्ने पराय महते नमः ॥२७॥
नम अद्याय बीजाय ज्ञानविज्ञानमूर्तये ।
प्राणेन्द्रियमनोबुद्धीविकारैर्व्यक्तिमीयुषे ॥२८॥
त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानम ।
चित्तस्य चित्तेर्मनैन्द्रियाणां पतिर्महान भूतगुणाशयेशः ॥२९॥
त्वं सप्तसन्तृन वितनोषि तन्वा त्रय्या चातुर्होत्रकविद्यया च ।
त्वमेक आत्माऽऽत्मवतामनादि रनन्तपारः कविरन्तरात्मा ॥३०॥
त्वमेव कालोऽनिमिशो जनानामायुर्लवाद्यावयवैः क्षिणोषि ।
कूटस्थ आत्मा परमेष्ठ्यजो महां स्त्वं जीवलोकस्य च जीव आत्मा ॥३१॥
त्वत्तः परं नापरमप्यनेजदेजच्च किचिंद व्यतिक्तमस्ति ।
विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि ब्रुहत्त्रिपृष्ठः ॥३२॥
व्यक्तं विभो स्थुलमिंद शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम ।
भुंगे स्थितो धामनि पारमेष्ठये अव्यक्त आत्मा पुरुषः पुराणः ॥३३॥
अनन्ताव्यक्तरुपेण तेनेदमखिलं ततम ।
चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ॥३४॥
यदि दास्यस्यभिमतान वरान्मे वरदोत्तम ।
भुतेभ्यस्त्वद्विशृष्टेभ्यो मृत्युर्मा भुन्मम प्रभो ॥३५॥
नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः ।
न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥३६॥
व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोर्गैः ।
अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम ॥३७॥
सर्वेषां लोकपालांना महिमानं यथाऽऽत्मनः ।
तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित ॥३८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितांयां सप्तमस्कन्धे हिरण्यकशिपोर्वरयाचनं नाम तृतीयोऽध्यायः ॥३॥