सप्तमः स्कन्धः - अथ त्रयोदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

कल्पस्त्वेवं परिव्रज्य दैहमात्रावशेषितः ।

ग्रामैकरात्रिविधिना निरपेक्षश्चरेन्महीम ॥१॥

बिभृयाद यद्यसौ वासः कौपीनाच्छादनंपरम ।

त्यक्तं न दण्डलिगंदेरन्यत कंचिदनापदि ॥२॥

एक एव चरेद भिक्षुरात्मारामोऽनपाश्रयः ।

सर्वभुतसुह्रुच्छन्तो नारायणपरायणः ॥३॥

पश्येदात्मन्यदो विश्वं परे सदसतो‍ऽव्ययो ।

आत्मानं च परं ब्रह्मा सर्वत्र सदसन्मये ॥४॥

सुप्तप्रबोधयोः सन्धावात्मनो गतिमात्मदृक ।

पश्यन्बन्धं च मोक्षं च मायामात्रं न वस्तुतः ॥५॥

नाभिनन्देद ध्रुवं मृत्युमध्रुवं आस्य जीवितम ।

कालं परं प्रतीक्षेत भुतांनां प्रभावाप्ययम ॥६॥

नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम ।

वादवादांस्त्यजेत तर्कान्पक्षं कं च न संश्रयेत ॥७॥

न शिष्याननुबध्रीत ग्रन्थानैवाभ्यसेद बहुन ।

न व्याख्यामुपयुत्र्जीत नारम्भानारभेद क्वचित ॥८॥

न यतेश्रमः प्रायो धर्मेहेतुर्महात्मनः ।

शान्तस्य समचित्तस्य बिभृयादुत वा त्यतेत ॥९॥

अव्यक्तलिंगो व्यक्तार्थो मनीष्युन्मत्तबालवत ।

कविर्मुकवदात्मानं स दृष्टा दर्शयेन्नृणाम ॥१०॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम ।

प्रह्लादस्य च संवाद मुनेराजगरस्य च ॥११॥

तं शयानं धरोपस्थे कावेर्या सह्यासानुनि ।

रजस्वलैस्तनुदेशैर्निगुढामलतेजसम ॥१२॥

ददर्श लोकन्विचरँल्लओकतत्त्वविवित्सया ।

वृतोऽमात्यैः कतिपयैः प्रह्लादो भगवत्प्रियः ॥१३॥

कर्मणाऽऽकृतिभिर्वाचा लिंर्वर्णाश्रमादिभिः ।

न विदन्ति जना यं वै सोऽसाविति न वेति च ॥१४॥

तं नत्वाभ्यर्च्य विधिवत पादयोः शिरसा स्पृशन ।

विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुरः ॥१५॥

बिभर्षि कायं पीवानं सोद्यमो भोगवान्यथा ।

वित्तं चैवोद्द्यमवतां भागो वित्तवतामिह ।

भोगिनां खलु देहोऽयं पीवा भर्वाते नान्यथा ॥१६॥

न ते शयानस्य निरुद्यमस्य ब्रह्मान नु हाथों यत एव भोगः ।

अभागिनोऽयं तव विप्र देहः पीवा यतस्तद्वद् नः क्षमं चेत ॥१७॥

कविः कल्प निपुणदृक चित्रप्रियकथः समः ।

लोकस्य कुर्वतः कर्म शेषे तव्दीक्षितापि वा ॥१८॥

नारद उवाच

स इत्थं दैत्यपतिना परिपुष्टो महामुनिः ।

स्मयमानस्तमभ्याह तद्वगमृतयन्त्रितः ॥१९॥

ब्राह्मण उवाच

वेदेदमसुरश्रेष्ठ भवान नन्वार्यसम्मतः ।

ईहोपरमयोर्नृणां पदान्यध्यात्मचक्षुषा ॥२०॥

यस्य नारायणो देवो भगवान्हृद्रतः सदा ।

भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत ॥२१॥

अथापि ब्रुमहे प्रश्चांस्तव राज्यन्यथाश्रुतम ।

सम्भावनीयो हि भवानात्मनः शुद्धिमिच्छताम ॥२२॥

तृष्णया भववाहिन्या योग्यैः कामैरपुरया ।

कर्माणि कार्यमाणोऽहं नानायोन्षु योजितः ॥२३॥

यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रुमन ।

स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥२४॥

अत्रापि दम्पतींनाम च सुखायान्यापतुत्तये ।

कर्माणि कुर्वतां दृष्टा निवृत्तोऽस्मि विपर्ययम ॥२५॥

सुखमस्यात्मनो रुपं सर्वहोपरतिस्तनुः ।

मनः संस्पर्शजान दृष्ट्वा भोगान्स्वप्स्यामि संविशन ॥२६॥

इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान ।

विचित्रामसति द्वैते घोरामाप्रोति संसृतिम ॥२७॥

जलं तदुद्भावैश्छन्नं हित्वाज्ञो जलकाम्यया ।

मृगतृष्णामुपाधावेद यथान्यत्रार्थदृक स्वतः ॥२८॥

देहादिभिर्दैवतन्त्रैरात्मानः सुखमीहतः ।

दुःखात्ययं चानीशस्य क्रिया मोघाःकृताः कृताः ॥२९॥

आध्यात्म्क्कादिभिर्दुः खैरविमुक्तस्य कर्हिचित ।

मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम ॥३०॥

पश्यामि धनिना क्लेशं लुब्धानामजितात्मनाम ।

भयादलब्धनिद्राणां सर्वतोऽभिविशंकिनाम ॥३१॥

राजश्चोरतः शत्रोःस्वजनात्पशुपक्षितः ।

अर्थिभ्यःकालतः स्वस्मान्नित्य प्राणार्थवद्भयम ॥३२॥

शोकमोहभयक्रोधरागक्लैब्य श्रमादयः ।

यन्मुलाः स्युर्नृणा जह्यात स्पहां प्राणार्थोयोर्बुधः ॥३३॥

मधुकारमहासर्पी लोकेऽस्मिन्नो गुरुत्तमौः ।

वैराग्यं परितोषं च प्राप्त यच्छिक्षया वयम ॥३४॥

विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात ।

कृच्छ्राप्तं मधुवद वित्तं हत्वाप्यन्यो हरेत्पतिम ॥३५॥

अनीहः परितृष्टात्मा यदृच्छोपतादहम ।

नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान ॥३६॥

क्वचिद्ल्पं क्वचिद भुरि भुत्र्जेऽन्नं स्वाद्वस्वदुवा ।

क्वचिद भूरिगुणोपतं गुणहीनमुत क्वचित ॥३७॥

श्रद्धयोपाहृतं क्वपि कदाचिन्मानवर्जितम ।

भुत्र्चे भुक्त्वाथ कास्मिश्चिंद दिवा नक्तं यदृच्छया ॥३८॥

क्षौमं दुकुलमजिनं चीरं वक्ललमेव वा ।

वसेऽन्यदपि सम्प्राप्तं दिष्टभुक तृष्टधीरहम ॥३९॥

क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु ।

क्वचित प्रसादपर्यकें कशिपौ वा परेच्छया ॥४०॥

क्वचित स्नातोऽनुलित्पांग सुवासाः स्रग्व्यलंकृतः ।

रथेभाश्वैश्चरे क्वपि दिग्वासा ग्रहवद विभो ॥४१॥

नाहं निन्दे न च स्तौमि स्वभावविषमं जनम ।

एतेषा श्रेय आशासे उतैकात्म्यं महात्मनि ॥४२॥

विकल्पं जुहुयाच्चित्तौ तां मनस्यर्थविभ्रमे ।

मनो वैकारिके हुत्वा तन्मायायां जुहोत्यनु ॥४३॥

आत्मानुभुतौ तां मायां जुहुयत सत्यदृडमुनिः ।

ततो निरीहो विरमेत स्वानुभुत्याऽऽत्मानि स्थितः ॥४४॥

स्वात्मवृत्तं मयेत्थं ते सुगुत्पमपि वर्णितम ।

व्यपेतं लोकशास्त्राभ्यां भवान हि भगवत्परः ॥४५॥

नारद उवाच

धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः ।

पुजायित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम ॥४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां सप्तमस्कन्धे युधिष्ठिरानारदसंवादे यतिधर्मे त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP