नारद उवाच
एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः ।
उवाच स्मयमानस्तान्स्मरन मदनुभाषितम ॥१॥
प्रह्लाद उवाच
पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम ।
युध्दोद्यमं परं चक्रुर्विबुधा दानवान्प्रति ॥२॥
पिपीलिकैरहिरवि दिष्ट्वा लोकोपतापनः ।
पापेन पापोऽभक्षीति वादिनी वासवादयः ॥३॥
तेषामतिबलोद्योगं निशम्यासुरयुथपाः ।
वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतोदिशम ॥४॥
कलत्रपुत्रमित्रात्पानुगान्पशुपरिच्चदान ।
नावेक्षमाणास्त्वरिताः सर्वे प्राणपरिप्सवः ॥५॥
व्यलुम्पन राजशिबिरममरा जयकांगिणः ।
इन्द्रुस्तु राजमहिषीं मातरं मम चाग्रहीत ॥६॥
नीयमानां भयोद्विग्नां रुदतीं कुररीमिव ॥
यदृच्छयाऽगतस्तत्र देवर्षिर्ददृशे पथि ॥७॥
प्राह मैनां सुरपतें नेतुमर्हस्यनागसम ।
मुत्र्च मुत्र्च महाभाग सतीं परपरिग्रहम ॥८॥
इन्द्र उवाच
आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः ।
आस्यतां यावत्प्रसवम मोक्ष्येऽर्थपदवीं गतः ॥९॥
नारद उवाच
अयं निष्किल्बिषः साक्षान्महाभागवतो महान ।
त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली ॥१०॥
इत्युक्तस्तां विहयेन्द्रो देवर्षेर्मानयन्वचः \
अनन्तप्रियभक्त्येनां परिक्रम्य दिवं ययौ ॥११॥
ततो नो मातरमृषिः समानीय निजाश्रमम ।
आश्वास्येहोष्यतां वत्सें यावत ते भर्तुरागमः ॥१२॥
तथेत्यवात्सीद देवर्शेरन्ति साप्यकुतोभया ।
यावद दैत्यपरिर्घोरात तपसो न न्यवर्तत ॥१३॥
ऋषिं पर्यचरत तत्र भक्त्या परमया सती ।
अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्चाप्रसुतये ॥१४॥
ऋषिः कारुणिकस्तस्याः प्रदादुभयमीश्वरः ।
धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम ॥१५॥
तत्तु कालस्य दीर्घत्वात स्त्रीत्वान्मातुस्तिरोदधे ।
ऋषिणानुगृहीतं मां नाधुनाप्यजहात स्मृतिः ॥१६॥
भवतामपि भुयान्मे यदि श्रद्धधते वचः ।
वैशरदी धीः श्रद्धातः स्त्री बालानां च यथा ॥१७॥
जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः ।
फलानामिव वृक्षस्य कालेनेश्वरमुर्तिना ॥१८॥
आत्मा नित्योऽव्ययः शुद्ध एकःक्षेत्रज्ञ आश्रयः ।
अविक्रियः स्वदृग हेतुर्व्यापकोऽसंग्यनावृतः ॥१९॥
एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः ।
अहं ममेत्यसद्भावं देहादी मोहजं त्यजेत ॥२०॥
स्वर्ण यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात ।
क्षेत्रेशु देहुषु तथाऽऽत्मयोगै रध्यात्मविद ब्रह्मगतिं लभेत ॥२१॥
अष्टौ प्रकृतयः प्रोक्तास्त्रय एव ही तदगुणाः ।
विकाराः षोडशाचार्यैः पुमानेकः समन्वयात ॥२२॥
देहस्तु सर्वसंघातो जगत तस्थुरिति द्विधा ।
अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत त्यजन ॥२३॥
अन्वयव्यतिरेकेण विवेकेनोशताऽऽत्मना ।
सर्गस्थानसमाम्रायैर्विमृशद्भिरसत्वरैः ॥२४॥
बुद्धेर्जागरणं स्वप्रः सुषुप्तिरति वृत्तयः ।
ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुष परः ॥२५॥
एभिस्त्रीवर्णैः पर्यस्तैर्बुद्धीभेदैः क्रीयोद्भवैः ।
स्वरुपमात्मनो बुध्येद गन्धैर्वायुमिवान्वयात ॥२६॥
एतदद्वारो हि संसारो गुणकर्मनिबन्धनः ।
अज्ञानमुलोऽपार्थोऽपि पुंसः स्वप्न इवेष्यते ॥२७॥
तस्माद्भवद्धिः कर्तव्यं कर्मणांत्रिगुनात्मनाम ।
बीजनिर्हरणं योगः प्रवाहोपरमो धियः ॥२८॥
तत्रोपायसहस्रानामयं भगवतोदितः ।
यदीश्वरे भगवति यथा यैरत्र्जसा रतिः ॥२९॥
गुरुशुश्रुषया भक्त्या सर्वलब्धार्पणेन च ।
संगेन सधुभक्तानामीश्वराराधनेन च ॥३०॥
श्रद्धया तत्कथायां च कीर्तनैर्गुणकार्मणाम ।
तत्पादाम्बुरुहध्यानात तल्लिंगेक्षार्हदिभिः ॥३१॥
हरिः सर्वेषु भुतेषु भगवानास्त ईश्वरः ।
इति भुतानि मनसा कामैस्तैः साधु मानयेत ॥३२॥
एवं निर्जितषंवर्गैः क्रियते भक्तिरीश्वरे ।
वासुदेवे भगवति यया संलभते रतिम ॥३३॥
निशम्य कर्माणि गुणानतुल्यान वीर्याणि लीलातनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रुगद्गदम प्रोक्ताण्ठ उद्गायति रौति नृत्याति ॥३४॥
यद ग्रहग्रस्त इव क्वचिद्धस त्याक्रन्दते ध्यायति वन्दते जनम ।
मुहुः श्वसन्वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ॥३५॥
तदा पुमान्मकुतसमस्तबन्धन स्तद्भावबहवानुकृताशयाकृतिः ।
निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम ॥३६॥
अधोक्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम ।
तद ब्रह्मा निर्वाणसुख विदुर्बधास्ततो भजध्वं हृद्अये हृदीश्वरम ॥३७॥
कोऽतिप्रयासोऽसुरबालक हरे रुपासने स्वे हृदि छिद्रवत सतः ।
स्वस्यत्मनः सख्यरशेषदेहिनां सामायतः किं विषयोपपादनैः ॥३८॥
रायः कलत्रं पशवः सुतादयो गृहा मही कुत्र्जरकोशभुतयः ।
सर्वेऽर्थकामाः क्षणभंगुरायुषः कुर्तन्ति मर्त्यस्य कियत प्रियं चलाः ॥३९॥
एवं हि लोकाः क्रतुभिःकृता अमी क्षयिष्णवह सातिशया न निर्मलाः ।
तस्मादाद्दष्टाश्रुतदुषणं परं भक्त्यैकयेशं भजतात्मलब्धये ॥४०॥
यदध्यर्थ्यह कर्माणि विद्वन्मान्यसक्रुन्नरः ।
करोत्यतो विपरासममोघं विन्दते फलम ॥४१॥
सुखाय दुःखमोक्षाय संकल्प इह कर्मिणः ।
सदाऽऽप्नोतीहया दुःखमनीहायाः सुखावृतः ॥४२॥
कामान्कामयते काम्यैर्यदर्थमिह पुरुषः ।
स वै देहस्तु पारक्यो भंगुरो यात्युपैति च ॥४३॥
किमु व्यवहितापत्यदारागारधानादयः ।
राज्यं कोशगजामात्यभृत्याप्ता ममतास्पदाः ॥४४॥
किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः ।
अनर्थैरर्थसंकाशैर्नित्यानन्दमहोदधेः ॥४५॥
निरुप्यतामिह स्वार्थः कियान्देहभृतोऽसुराः ।
निषेकादिष्ववस्थसु क्लिश्यमानस्यकर्मभिः ॥४६॥
कर्माण्यारभते देही देहेनात्मानुवर्तिना ।
कर्मभिस्तुन्ते देहमुभयं त्वविवेकेतः ॥४७॥
तस्मादर्थाश्च कामाश्च धर्माश्च यदपश्रयाः ।
भजतनीहयाऽऽत्मानमनीहं हरिमीश्वरम ॥४८॥
सर्वेषामपि भुतांना हरिरात्मेश्वरः प्रियः ।
भुतैर्महद्भिः स्वकृतैः कृतांनां जीवनसंज्ञितः ॥४९॥
देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव च ।
भजन मुकुन्दचरणं स्वस्तिमान स्याद यथा वयम ॥५०॥
नालं द्विजत्वम देवत्वमृषित्वं वासुरात्मजाः ।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥५१॥
न दानं न तपो नेज्या न शौचं च व्रतानि च ।
प्रीयतेऽमलया भक्त्या हरिरन्यद विडम्बनम ॥५२॥
ततो हरौ भगवति भक्तिं कुरुत दानवाः ।
आत्मौपम्येन सर्वत्र सर्वभुतात्मनीश्वरैः ॥५३॥
दैतेया यक्षरक्षांसि स्त्रियः शुद्राः व्रजौकसः ।
खगा मृगाः पापजीव सन्ति ह्याच्युततां गताः ॥५४॥
एतावानेव लोकेऽस्मिन्पुंसः स्वार्थः परः स्मृतः ।
एकान्तभक्तिर्गोविन्दे यत सर्वत्र तदीक्षणम ॥५५॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यपुत्रानुशासनं नाम सप्तमोऽध्यायः ॥७॥