सप्तमः स्कन्धः - अथ एकादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

श्रुत्वेहितं साधुसभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः ।

युधिष्ठिरो दैत्यपतेर्मुदा युतः पप्रच्छ भ्यस्तनयंक स्वयाम्भुवः ॥१॥

युधिष्ठिर उवाच

भगवत्र्छ्रोतुमिच्छामि नृणां धर्मं सनतनम ।

वर्नाश्रमाचारयुतं यत पुमान्विन्दते परम ॥२॥

भवान्प्रजापतेः साक्षादत्मजः परमेष्ठिनः ।

सुतानां सम्मतो ब्रह्मांस्तपोयोगसमाधिभिः ॥३॥

नारायणपरा विप्रा धर्मं गुह्यां परं विदुः ।

करुनाः माधवा शान्तास्त्वद्विधा न तथापरे ॥४॥

नत्वा भगवतेऽजाय लोकानां धर्मेहेतवे ।

वक्ष्ये सनातनं धर्में नारायणमुखाच्छुतम ॥५॥

योऽवतीर्यात्मनोऽशेंन दाक्षायण्यां तु धर्मतः ।

लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकश्रमे ॥६॥

धर्ममुलं हि भगवान्सर्ववेदमयो हरिः ।

स्मृतं च तद्विदां राजन्येन चात्मा प्रसीदति ॥७॥

सत्य दया तपः शौचं तितिक्षेक्षा शमो दमः ।

अहिंसा ब्रह्माचर्य च त्यागः स्वध्याय आर्जवम ॥८॥

सन्तोषः समदृक सेवा ग्राम्येहोपरमः शैनः ।

नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम ॥९॥

अन्नाद्यादेः संविभागो भुतेभ्यश्च यथार्थतः ।

तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥१०॥

श्रवणं कीर्तनं चास्यं स्मरण महतां गतेः ।

सेवेजावनतिर्दास्यं सख्यमात्मसमर्पणम ॥११॥

नृणामयं परो धर्मः सर्वेषां सम्दाहृतः ।

त्रिशल्लक्षणवान राजन्सर्वात्मा येन तुष्यति ॥१२॥

संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम ।

इज्याध्ययनसानानि विहितानि दिव्जन्मनाम ।

जन्मकर्मावदातानां क्रियाश्चाश्रमचोतिताः ॥१३॥

विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः ।

राज्ञो वृत्तिः प्रजगोप्तुरविप्राद वा करादिभिः ॥१४॥

वैश्यस्तु वार्तावृत्तिश्चु नित्यं ब्रह्माकुलानुगः ।

शुद्रस्य द्विजशुश्रुषा वृत्तिश्च स्वामिनो भवेत ॥१५॥

वार्ता विचित्रा शालीनयायावरशिलोत्र्छनमः ।

तिप्रव्रुत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥१६॥

जघन्यो नोत्तमं वृत्तिमानापदि भजेन्नरः ।

ऋते राजन्यमापत्सु सर्वेषामपि सर्वेशः ॥१७॥

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ।

सत्यानृताभ्यां जीवेत न श्ववृत्वा कथत्र्चन ॥१८॥

ऋतमुत्र्छशिलं प्रोक्तममृतं यदयाचितम ।

मृतं तु नित्ययात्र्चा स्यात प्रमृतं कर्षण स्मृतम ॥१९॥

सत्यानृतं तु वाणिज्यं श्र्ववृत्तिर्नीचसेवनम ।

वर्जयेत तां सदा विप्रो राजन्यश्च जुगुप्सिताम ।

सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥२०॥

शमो दमस्तपःशौच संतोषः क्षन्तिरार्जवम ।

ज्ञानं दयाच्युताम्तत्वं सत्यं च ब्रह्मालक्षणम ॥२१॥

शौर्यं वीर्यं धृतिस्तेजस्त्याग आत्मजयः क्षमा ।

ब्रह्माण्यता प्रसादश्च रक्षा च क्षत्रलक्षणम ॥२२॥

देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम ।

आस्तिक्यमुद्यमो नित्यं नैपुणं वैश्यलक्षणम ॥२३॥

शुद्रस्य संनतिः शौच सेवा स्वामिन्यमायया ।

अमन्त्रयज्ञो ह्रास्तेयं सत्यं गोविप्ररक्षणम ॥२४॥

शुद्रस्य संनतिः शौचं सेवा स्वामिन्यमायया ।

अमन्त्रयज्ञो ह्रास्तेयं सत्यं गोविप्ररक्षणम ॥२४॥

स्त्रीणां च पतिदेवनां तच्छुश्रुषानुकुलता ।

तद्वन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम ॥२५॥

संमार्जनोपलेपाभ्यां गृहमण्डलवर्तनैः ।

स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥२६॥

कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च ।

वाक्यैः सत्यैः प्रियैः प्रेम्णा कले काले भजेत पतिम ॥२७॥

संतुष्टालोलुपा दक्शा धर्मज्ञा प्रियसत्यवाक ।

अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत ॥२८॥

या पतिं हरिभावेन भजेच्छ्रीरिव तप्तरा ॥

हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥२९॥

वृत्तिः संकरजतीनां तत्तत्कुलकृता भवेत ।

अचौराणामपापानामन्त्यजान्तेऽवसायिनाम ॥३०॥

प्रायः स्वभावविहितो नृनां धर्मो युगे युगे ।

वेददृग्भिः स्मृतो राजन्प्रेत्य चेह च शर्मकृत ॥३१॥

वृत्या स्वभावकृतया वर्तमानः स्वकर्मकृत ।

हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात ॥३२॥

उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात ।

न कल्पते पुनः सुत्यै उप्तं बीजं न नश्यति ॥३३॥

एवं कामाशयं चित्तं कामानामतिसेवया ।

विरज्यते यथा राजन्नाग्निवत कामाबिन्दुभिः ॥३४॥

यस्य यल्लाक्षणं प्रोक्तं पुंसो वर्णाभिव्यजंकम ।

यदन्यत्रापि दृश्येत तत तेनैव विनिर्दिशेत ॥३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP