नारद उवाच
ब्रह्माचरी गुरुकुले वसन्दान्तो गुरोर्हितम ।
आचरन्दासवन्नीचो गुरौ सुदृढसौहृदः ॥१॥
सायं प्रतरुपासीत गुर्वग्न्यर्कसुरोत्तमान ।
उभे सन्ध्ये च यतवाग जपन्ब्रह्मा समाहितः ॥२॥
छन्दास्यधीयीत गुरोराहुतश्चेत सुयन्त्रितः ।
उपक्रमेऽवसाने च चरणौ शिरसा नमेत ॥३॥
मेखलाजिनवासांसि जटादण्डकमन्डलुन ।
बिभृयादुपवीतं च दर्भपाणिर्यथोदितम ॥४॥
सायं प्रतश्चरेद्भैक्षं गुरवे तन्निवेदयेत ।
भुत्र्जीत यद्यनुज्ञातो नो चेदुपवसेत क्वचित ॥५॥
सुशोलो मितभुग दक्षः श्रद्दधानो जितेन्द्रियः ।
यावदर्थं व्यवहरेत स्त्रीषु स्त्रीनिर्जितेषु च ॥६॥
वर्जयेत प्रमदागाथामगृहस्थो बृहदव्रतः ।
इन्द्रियाणि प्रमाथीनि हरन्त्यापि यतेर्मनः ॥७॥
केशप्रसाधनोन्मर्दस्नपनाभ्यत्र्जनादिकम ।
गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा ॥८॥
नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान ।
सुतामनि रहो जह्यादन्यदा यावदर्थकृत ॥९॥
कल्पयित्वाऽऽत्मना यावदाभासमिदमीश्वरः ।
द्वैतं तावन्न विरमेत ततो ह्रास्य विपर्ययः ॥१०॥
एतत सर्वं गृहस्थस्य समाम्रतं यतेरपिः ।
गुरुवृत्तिर्विकल्पेन गृहस्थास्यर्तुगामिनः ॥११॥
अत्र्जनाभ्यत्र्जनोन्मर्दस्त्र्यवलेखामिषं मधु ।
स्रग्गन्धलेपालंकारांस्त्यजेयुर्ये धृतव्रताः ॥१२॥
उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च ।
त्रयीं सांगोपनिषदं यावदर्थं यथाबलम ॥१३॥
दत्त्वा वरमनुज्ञातो गुरो ; कामं यदीश्वरः ।
गृहं वनं प्राविशेत प्रव्रजेत तत्र वा वसेत ॥१४॥
अग्नौ गुरावात्मनि च सर्व भुतेष्वधोक्षजम ।
भुतैः स्वधामाभिः पश्येदप्रविष्ट प्रविष्टवत ॥१५॥
एवंविधो ब्रह्माचारी वानप्रस्थो यतिर्गृही ।
चरण्विदितविज्ञानः परं ब्रह्माधिगच्छति ॥१६॥
वानप्रस्थस्य वक्ष्यामि नियमान्मुनिसम्मतान ।
यानातिष्ठन मुनिर्गच्छेदृषिलोकमिहात्र्जसा ॥१७॥
न कृष्टपच्यमश्रीयादकृष्टं चाप्यकालतः ।
अग्निप्रक्वमथामं वा अर्कपक्वमुताहरेत ॥१८॥
वन्यैश्चरुपुरोडाशान निर्वेपेत कालचिदितान ।
लब्धे नवे नवेऽन्नाद्ये पुराणं तु परित्यजेत ॥१९॥
अगन्यर्थमेव शरणमुटजं वाद्रिकन्दाराम ।
श्रयेत हिमवाय्वग्निवर्षार्तातपषाट स्वयम ॥२०॥
केशरोमनखश्म लानि जटिलो दधत ।
कमन्डल्वजिने दण्डवल्कलाग्निपरिच्छदान ॥२१॥
चरेद वने द्वादशाब्दानष्टौ वा चतुरो मुनिः
द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः ॥२२॥
यदाकल्पः स्वाक्रियायां व्याधिभिर्जरयाथवा ।
आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम ॥२३॥
आत्मन्यगीन समारोप्य संन्यस्याहममात्मताम ।
कारणेषु न्यसेत सम्यक संघांततु यथार्हतः ॥२४॥
खे खानि वायौ निःश्वासांस्तेजस्युष्माणमत्मवान ।
अप्स्वसृक्ल्श्लेष्मपुयानि क्षितौ शेषं यथोद्भवम ॥२५॥
वाचमग्नो सवक्तव्यामिन्द्रे शिल्पं करावपि ।
पदानि गत्या वयासि रत्योपस्थं प्रजापतौ ॥२६॥
मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत ।
दिक्षु श्रोत्रं सनादेन स्पर्शमध्यात्मनि त्वचम ॥२७॥
रूपाणि चक्षुषा राजन ज्योतिष्यभिनिवेशयेत ।
अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत ॥२८॥
मनो मनोरथैस्चन्द्रे बुद्धीं बोध्यैः कवौ परे ।
कर्माण्यध्यात्मना रुद्रे यदहंममताक्रिया ॥
सत्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥२९॥
अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम ।
कुटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत ॥३०॥
इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम ।
ज्ञात्वाद्वयोऽथ विरमेद दग्धयोनिरिवानलः ॥३१॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यांसंहितायां युधिष्ठिरनारदंसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः ॥१२॥