॥ श्रीदेव्युवाच ॥
श्रुतं रहस्यं देवेश ! चाभिषेचन - कर्मणः ।
गुरुः को वाऽधिकारी, स्यादत्र तन्मे वद प्रभो ! ॥१॥
॥ श्रीशिव उवाच ॥
महा - ज्ञानी कौलिकेन्द्रः, शुद्धो गुरु - परायणः ।
निग्रहानुग्रहे शक्तः, शिष्य - पालन - तत्परः ॥२॥
पुत्र - दारादिभिर्युक्तः, सज्जनस्तु प्रपूजितः ।
श्रद्धावानागमे नित्यं, सोऽधिकर्ता न चान्यथा ॥३॥
अन्धं खञ्जं तथा रुग्णं, स्वल्प - ज्ञानयुतं पुनः ।
सामान्य - कौलं वरदे ! वर्जयेन्मति - मान् सदा ॥४॥
उदासीनं विशेषेण, वजयेत् सिद्धि - कामुकः ।
उदासीन - मुखाद दीक्षा, वन्ध्या नारी यथा प्रिये ! ॥५॥
अज्ञानाद यदि वा मोहाद्, उदासीनात् तु पामरः ।
अभिषिक्तो भवेद् देवी ! विघ्नस्तस्य पदे - पदे ॥६॥
किं तस्य जप - पूजाभिः, किं ध्यानैः किं च भक्तितः ।
सर्व हि विफलं तस्य - नरकं यान्ति चान्तिमे ॥७॥
कल्प - कोटि - शतैर्देवि ! भुक्ते स नरकं सदा ।
ततो हि बहु - जन्मेभ्यो, देवी - मन्त्रमवाप्नुयात् ॥८॥
ततो हि विहितं शुद्धं गृहस्थं गुरुमालभेत् ।
अभिषेचन - कर्माणि, पुनः कुर्यात् प्रयत्नतः ॥९॥
सफलं हि सदा कर्म, सर्व तस्य भवेद् ध्रुवम् ।
विद्याऽपि जननी तुल्या, पालितं सततं प्रिये ! ॥१०॥
यथा पशुं परित्यज्य, कौलिकं गुरुमालभेत् ।
उदासीनं परित्यज्य, तथाभिषेचनु शतम ॥११॥
अभिषिक्ततः शिवः साक्षाद्, अभिषिक्तो हि दीक्षितः ।
स एवं ब्राह्मणो धन्यो, देवी - देव - परायणः ॥१२॥
तस्यैव सफलं जन्म, धरण्यां श्रृणु पार्वति ! ।
तस्यैव सफलं कर्म, तस्यैव सफलं धनम् ॥१३॥
तस्यैव सफलो धर्मः, कामश्च सफलो मनुः ।
दीक्षा हि सफला देवि ! क्रिया च सफला तनुः ॥१४॥
सर्व हि सफलं तस्य, गिरजे ! बहु किं वचः ।
यत्र देशे वसेत् साधुः, सोऽपि वाराणसी समः ॥१५॥
तस्य क्रोड़े वसन्तीह, सर्वतीर्थानि निश्चितं ।
सत्यं सत्यं महामाये, पुनः सत्यं मयोदितम् ॥१६॥
उक्तानि यानि यानीह, सेचनानि च पार्वती ! ।
सर्व - तन्त्रेषु तान्यत्र, कलां नार्हन्ति षोडशीम् ॥१७॥
योग्यं गुरुं तथा शिष्यं, विनैतत् पटलं न हि ।
जायते देव - देवेशि ! सत्यं सत्यं मयोदित्तम् ॥१८॥
इदं तु सेचनं देवि ! त्रिषु लोकेषु दुर्लभं ।
गणेशः पात्रमत्रैव, कार्तिकेयोऽपि पार्वति ! ॥१९॥
मम तुल्यो ब्रह्म - तुल्यो, विष्णु - तुल्योऽत्र भाजनं ।
पञ्च - वक्त्रैश्च शक्तो न, वर्णितुं परमेश्वरि ! ॥२०॥
इति ते कथितं गुप्तं, सेचनं महत् ।
गोपनीयं गोपनीयं, गोपनीयं प्रयत्नतः ॥२१॥
यथा रतिर्गोपनीया, तथाभिषेचनं परं ।
यथा योनिर्गोपनीया, तथाऽभिषेचनं परम् ॥२२॥
निखाते धनमागत्य, गोपयेत्तु यथा परं ।
तथैव तु महामाये, गोपनीयं ममाज्ञया ॥२३॥