कामाख्या स्तुतिः - उपसंहार

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।

ततो देवीं गुरुं चैव, प्रणमेद् बहुधा मुदा ।
दक्षिणां गुरवे दद्यात्, स्वर्ण - काञ्चन - मानतः ॥१॥
नाना - वस्त्रेरलङ्कारैर्गन्ध - माल्यादिभिस्तथा ।
तोषयेत् स्तुति - वाक्यैश्च, प्रणमेत् पुनरेव हि ॥२॥
कायेन मनसा वाचा, गुरुः कुर्यात् तथाऽऽशिषः ।
वचनैर्विविधैः शिष्यं, ग्राहयेत् तत्त्वमुत्तमम् ॥३॥
गुरुश्च भैरवैः सार्द्धं, शक्तिभिर्विहरेन्मुदा ।
भैरवाः शक्तयश्चापि, कुर्युराशीः सुयत्नतः ॥४॥
तथा त्रि - दिवसं व्याप्य, भोजयेद् भैरवान् बुधः ।
अष्टमे दिवसे शिष्यः, पुनः कुर्यात् तु सेचनम् ॥५॥
ताम्र - पात्रोदकैर्देवि ! विद्यां राज्ञां जपन् सुधीः ।
कुन्दुकां च तथा सप्त, सम्पत्ति - हेतवे प्रिये ! ॥६॥
शक्तिभ्यो भैरवेभ्योऽपि, ततो - वस्त्रादि - भूषणम् ।
दद्यात् प्रयत्नतः साधु विद्धि देवि ! समापनम् ॥७॥


References : N/A
Last Updated : July 08, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP