कामाख्या स्तुतिः - सप्तमः पटलः

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।

॥ श्रीदेव्युवाच ॥

श्रुतं रहस्यं देवेश ! कामाख्याया महेश्वर !
महा - शत्रु - विनाशाय, साधनं किं वद प्रभो ! ॥१॥

॥ श्रीशिव उवाच ॥

अति - गुह्यतरं देवि ! तब स्नेहाद् वितन्यते ।
महावीरः साधकेन्द्रः, प्रयोगं तु समाचरेत् ॥२॥
पूजयित्वा महादेवी, पञ्चतत्त्वेन साधकः ।
महाऽऽनन्दमयो भूत्वा, साधयेत् साधनं महत् ॥३॥
स्व - मूत्रं तु समादाय, कूर्च - बीजेन शोधयेत् ।
तर्पयेद् भैरवीं घोरां, शत्रु - नाम्ना पिवेत् स्वयम् ॥४॥
दश - दिक्षु महापीठे, प्रक्षिपेदाननेऽपि च ।
नग्नो भूत्वा भ्रमेत् तत्र, शत्रु - नाशो भवेद् ध्रुवम् ॥५॥
शुक्र - शोणित - मूत्रेषु, वीरो यदि घृणी भवेत् ।
भैरवी कुपिता तस्य, सत्यं सत्यं वदाम्यहम् ॥६॥
दृष्ट्वा श्रुत्वा महेशानि ! निन्दां करोति यो नरः ।
स महानरकं याति, यावच्चन्द्र - दिवाकरौ ॥७॥

॥ श्रीकामाख्या - तन्त्रे पार्वतीश्वर - सम्वादे सप्तमः पटलः ॥


References : N/A
Last Updated : July 06, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP