कामाख्या स्तुतिः - पंञ्चमः पटलः

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।

N/A॥ श्रीदेव्युवाच ॥

गुरु - तत्त्वं महादेव ! विशेषेण वद प्रभो !
दुर्वहा गुरुता यातुं सम्भवेन्मानुषे कथम् ॥१॥
तत्रैव सदगुरुः को वा श्रेष्ठः को वा वद प्रभो !
दूरीकुरु महादेव ! संशयो मे महोत्कटम् ॥२॥
इति देव्याः वचं श्रुत्त्वा प्रोवाच शंकरः प्रभुः ।
श्रृणु सारतरं ज्ञानं साधूनां हितकारणम् ॥३॥
गुरुः सदाशिवः प्रोक्त आदि - नाथ स उच्यते ।
महाकाल्या युतो देवः सच्चिदानन्द - विग्रहः ॥४॥
सनातनः परंब्रह्म श्रीधर्न्मस्त्रिगुणः प्रभुः ।
त्वतप्रसादान्महादेवी ! शिवोऽहमजरामरः ॥५॥
अतएव गुरुर्नैव मनुजः किंतु कल्पना ।
दीक्षायै साधकानां वृक्षादौ पूजनं यथा ॥६॥
अतएव महेशानि ! कुतो हि मानुषो गुरुः ?
मानुषी गुरुता देवी ! कल्पना न तु तथ्यता ॥७॥
मन्त्र - दाता शिरः - पदमे यद् ध्यानं कुरुते गुरोः ।
तद् ध्यानं शिष्य - शिरसि चोपदिष्टं न चान्यथा ॥८॥
अखण्ड - मण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥९॥
प्रसिद्धमिति यद् देवी ! तत् - पदं दर्शको नरः ।
अतएव नरे देवी ! गुरुता कल्पनैव हि ॥१०॥
न तु गुरुः स्वयं च मूर्खता चोभयोरपि ।
अयं गुरुरिति ज्ञानं शिष्योऽयं खलु मे सदा ॥११॥
दर्शका पटलस्यैव न स्वयं मानुषो गुरुः ।
मोक्षो न जायते सत्यं मानुषे गुरु - भावनात् ॥१२॥
यथा भोक्तारि भोज्यं हि स्वर्णादि - पात्रकेन च ।
दीयते च तथा देवी ! तस्मै सर्वं समर्पणम् ॥१३॥
यदि निन्द्यं च तत् भग्नं वापि महेश्वरि !
तदा त्यजेत् तु तत् - पात्रमन्य - पात्रेण तोषयेत् ॥१४॥
अतो हि मनुजं लुब्धं दुष्टं शिष्योऽपि सन्त्यजेत् ।
असम्मतस्तु लोकैर्यस्तत्र रुष्टः सदाशिवः ॥१५॥
राजस्वं दीयते राज्ञे प्रजाभिर्मण्डलादिभिः ।
तथा तथैव तस्मै तु शिष्य - दानं समर्पणम् ॥१६॥
अत्रैव ग्राहका हिंस्रा मण्डलाद्याः स्मृता यदि ।
अन्य - द्वारेण दातव्यं तांस्तान् सन्त्यज्य सर्वदा ॥१७॥
सर्वेषां भुवने सत्यं ज्ञानाय गुरु - सेवनम् ।
ज्ञानान्मोक्षमवाप्नुयात् तस्मान् ज्ञानं परात्परम् ॥१८॥
अतो यो ज्ञान - दाने हि न क्षमस्तं त्यजेद् गुरुम् ।
अन्नकांक्षी निरन्नं च यथा सन्त्यजति प्रिये ! ॥१९॥
ज्ञान - त्रयं यदा भाति स गुरुः शिव एव हि ।
अज्ञानिनं वर्जयित्वा शरणं ज्ञानिनो व्रजेत् ॥२०॥
ज्ञानाद, धर्मों भवेन्नित्यं ज्ञानादर्थो हि पार्वति !
ज्ञानात् कामवाप्नोति ज्ञानान्मोक्षो हि निर्मलः ॥२१॥
ज्ञानं हि परमं वस्तु ज्ञानात् सार - तरं नहि ।
ज्ञानाय भजते देवं ज्ञानं हि तपसः फलम् ॥२२॥
मधु - लुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् ।
ज्ञान - लुब्धस्थतथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥२३॥
गुरवो बहवः सन्ति शिष्य - वित्तापहारकः ।
दुर्लभः सद् - गुरुर्देवि ! शिष्य - वित्तापहारकः ॥२४॥
अज्ञान - तिमिरान्धस्य ज्ञानाञ्जन - शलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥२५॥
इति मत्वा साधकेन्द्रों गुरुतां कल्पयेत् सदा ।
ज्ञानिन्येव शिष्य - भक्तया केवलं कल्पना शिवे ! ॥२६॥
शान्तो दान्तः कुलीनश्च शुद्धान्तकरणः सदा ।
पञ्च - तत्त्वार्चको यस्तु सदगुरुः स प्रकीर्तितः ॥२७॥
सिद्धोऽसाविति चेत ख्यातो बहुभिः शिष्य - पालकः ।
चमत्कारी दैव - शक्त्यया सद् - गुरुः कथितः प्रिये ! ॥२८॥
अश्रुतं सम्मतं वाक्यं व्यक्ति साधु मनोहरम् ।
तन्त्रं मन्त्रं समं वक्ति य एव सद् - गुरुश्च सः ॥२९॥
सदा यः शिष्य - बोधेन हिताय च समाकुलः ।
निग्रहानुग्रहे शक्तः सद् - गुरुर्गीयते बुधैः ॥३०॥
परमार्थे सदा दृष्टिः परमार्थ प्रकीर्तितम् ।
गुरु - पादाम्बुजे भक्तिर्यस्यैव सद् - गुरुः स्मृतः ॥३१॥
इत्यादि गुण - सम्पत्ति दृष्टवा देवी ! गुरुं व्रजेत् ।
त्यक्त्वाऽक्षमं गुरुं शिष्यो नात्र काल विचारणा ॥३२॥
केवलं शिष्य - सम्पत्तिर्ग्राहको बहु - याचकः ।
व्यङ्गितश्च समक्षे यो लोकैर्निन्द्यो गुरुर्यतः ॥३३॥
कायेन मनसा वाचा शिष्यो भक्ति - युतं यदि ।
दृष्टवाऽनुमोदनं नास्ति यस्य तद् - वस्तु कामतः ॥३४॥
कर्मणा गर्हितेनैव हन्ति शिष्य - धनादिकम् ।
शिष्य - हितैषिणं लोक वर्जयेत तं नराधमम् ॥३५॥
महा - विद्यां समादाय वीराचारं ददाति न ।
स याति नरकं घोरं शिष्योऽपि पतितो ध्रुवम् ॥३६॥
पशु - भावे स्थितो यो हि कालिका - तारिणी - मनुम् ।
दत्त्वाऽऽचारं वदेन्नैव नरकान्त निवर्तते ॥३७॥
तस्मात् पशु - गुरुस्त्यक्तः साधकैः सर्वदा प्रिये !
पशोर्दीक्षाऽधमा प्रोक्ता चतुर्वर्ग - विघातिनी ॥३८॥
यदि दैवात् पशोर्दीक्षां लभते शक्तिमान् नरः ।
कौलात् तु कौलिकीं प्रार्थ्य तन्मनुं पुनरालभेत् ॥३९॥
तदा विद्या प्रसन्ना स्यात् फलदा जननी सदा ।
अन्यथा विमुखी देवी कुतस्तस्यैव सदगतिः ॥४०॥
पूर्वोक्त - दोष - युक्तश्च दिव्यो वा वीर एव वा ।
तयोरपि न कर्त्तव्या शिष्येण गुरु भावना ॥४१॥
किन्तु भाव्यं हितैषित्वं गुरुता - कल्पनां त्यजेत् ।
दिव्ये वीर - वरे वापि न दोषोऽत्र शिवाज्ञया ॥४२॥

॥ श्रीदेव्युवाच ॥

दिव्यतो वीरतो देव ! पशुतः किं विशेषतः ।
वद मे परमेशान ! श्रोतुं मे चित्तमुत्सुकम् ॥४३॥

॥ श्रीशिव उवाच ॥

श्रृणु देवी, जगद् - वन्द्ये ! यत् - पृष्टं तत्त्वमुत्तमम् ।
दिव्यः सर्व - मनोहारी मितवादी स्थिरासनः ॥४४॥
गम्भीरः शिष्ट वक्ता च सभाव - ध्यान - तत्परः ।
गुरु - पादाम्बुजे भीरुः सर्वत्र भय - वर्जितः ॥४५॥
सर्व - दर्शी सर्व - वक्ता सर्व - दुष्ट - निवारकः ।
सर्व - गुणान्वितो दिव्य सोऽहं किं बहुत - वाक्यतः ॥४६॥
निर्भयोऽभयदो वीरो गुरु - भक्ति - परायणः ।
वाचालो बलवान् शुद्धः पञ्चतत्त्वे सदा रतिः ॥४७॥
महोत्साहो महा - बुद्धिर्महा - साहसिकोऽपि च ।
महाशयः सदा देवी ! साधूनां पालने रतः ॥४८॥
तत्त्व - मयः सदा वीरो विनयेन महोत्सुकः ।
एवं बहु - गुर्णर्युक्तो वीरो रुद्रः स्वयं प्रिये ! ॥४९॥
पशून् श्रृणु महादेवी ! सर्व - देव - बहिष्कृतान् ।
अधमान् पाप - चित्तांश्च पञ्च - तत्त्व - विनिन्दकान् ॥५०॥
केचिच्छगोपमा देवी ! केचिन्मेषोपमा इव ।
केचित् खरोपमा भ्रष्टाः केचिच्च शूकरोपमाः ॥५१॥
इत्याद्याः पशवो देवी ! ज्ञेया दुष्टा नराधमाः ।
एषां देव्यार्चनं सिद्धिर्गमनं वा कुतो भवेत् ॥५२॥
अतो ही पशवश्छेद्या भेद्याः खाद्याश्च वीरकैः ।
वर्जिताः सर्वथा भद्रे ! परमार्थ बहिष्कृताः ॥५३॥
किं चित्रं कथितं नाथ ! सन्देहः प्रबली - कृतः ।
क्षुद्रो हि पशु - भावश्च गदितो यत् स्वयं सदा ॥५४॥
अर्चितं पशु - भावेन वरं साधारणं वद ।
देवता नैव जानाति तस्मात् समर्पितं नहि ॥५५॥
भञ्ज भञ्जाशु सन्देहं करुणा - सागर प्रभो !
सूर्यो यथ सदा हन्ति चान्धकारं क्षणादपि ॥५६॥

॥ श्रीशिव उवाच ॥

भद्रमुक्तं त्वया विज्ञे ! तत्त्वं तु श्रृणु संस्कृतम् !
य उक्तः पशुभावो हि कलौ कस्तस्य पालकः ॥५७॥
पञ्चतत्त्वं न गृह्णाति तत्र निन्दां करोति न ।
शिवेन गदितं यत् तु तत् सत्यमिति भावयन् ॥५८॥
निन्दायाः पातकं वेत्ति पाशवः स प्रकीर्तितः ।
तस्याचारं वदाम्याशु श्रृणु संशय नाशनम् ॥५९॥
हविष्यं भक्षयेन्नित्यं ताम्बूलं न स्पृशेदपि ।
ऋतु - स्नातां बिना नारीं काम - भावे न हि स्पृशेत् ॥६०॥
परस्त्रियं कामभावो दृष्ट्वा स्वर्ण सम्युत्सृजेत् ।
सन्त्यजेन्मत्स्य मांसानि पाशवो नित्यमेव च ॥६१॥
गन्ध माल्यानि वस्त्राणि चीराणि प्रभजेन्न च ।
देवालये सदा तिष्ठेदाहारार्थं गृहं व्रजेत् ॥६२॥
कन्या - पुत्रादि - वात्सल्यं कुर्यान्नित्यं समाकुलः ।
ऐश्वर्यं प्रार्थयेन्नैव यद्यस्ति तत् न त्यजेत् ॥६३॥
सदा दानं समाकुर्याद् यदि सन्ति धनानि च ।
कार्पण्यं नैव कर्तव्यं यदीच्छेदात्मनो हितम् ॥६४॥
कार्य - द्रोहान् क्षिपेत् सर्वानहङ्कारादिकांस्ततः ।
विशेषेण महादेवी ! क्रोधं संवर्जयेदपि ॥६५॥
सेवनं परमं कुर्यात् पित्रोर्नित्यं समाहितः ।
परनिन्दां परद्रोहानहङ्कारादिकान् क्षिपेत् ॥६६॥
कदाचिद् दीक्षयेन्नैव पाशवः परमेश्वरिः ।
सत्यं सत्यं पुनः सत्यं नान्यथा वचनं मम ॥६७॥
अज्ञानाद् यदि वा लोभान्मन्त्र - दानं करोति च ।
सत्यं सत्यं महादेवी ! देवी - शापं प्रजायते ॥६८॥
इत्यादि बहुधाऽऽचाराः क्वचिद् ब्रूमः पशोर्मतेः ।
तथापि च न मोक्षः स्यात् सिद्धिश्चैव कदाचन ॥६९॥
यदि चक्रमणे शक्तिः खङ्ग - धारे सदा नरः ।
पश्वाचारं सदा कुर्यात् किन्तु सिद्धिर्न जायते ॥७०॥
जम्बू - द्वीपे कलौ देवी ! ब्राह्मणो हि कदाचन ।
पशुर्न स्यात् पशुर्न स्यात् पशुर्न स्यात् शिवाज्ञया ॥७१॥
सत्ये क्रमाच्चतुर्वर्णैः क्षीराज्य - मधु - पिष्टकैः ।
त्रेतायां पूज्यते देवी ! घृतेन सर्व - जातिभिः ॥७२॥
मधुभिः सर्व - वर्णैश्च पूजिता द्वापरे युगे ।
पूजनीया कलौ देवी ! केवलैरासवैः शवैः ॥७३॥
नानुकल्पः कलौ दुर्गे ! नानुकल्पः कलौ युगे ।
नानुकल्पो ब्राह्मणानां शूद्रादीनां कलौ युगे ॥७४॥
सत्यमेतत् सत्यमेतत् सत्यमेतच्छिवोदितम् ।
सदगुरोः शरणं नीत्वा कुलाचारं भजेन्नरः ॥७५॥
दिव्यत्वं लभते किम्वा वीरत्वं लभते शुभे !
असाध्यं साधयेद् वीरोऽप्यनायासेन यद् भुवि ॥७६॥
वीरत्वं क्लेशतो देवी ! प्राप्नोतीह न चान्यथा ।
पशु - कल्प - शतैर्वापि साधितुं न च तत् क्षमः ॥७७॥
लङ्घित्तुं नैव शक्नोति यथा पशुर्गिरिं क्वचित् ।
अति - गुह्यमिदं प्रोक्तं रहस्यं त्वयि सुन्दरि ! ॥७८॥
गोपनीयं गोपनीयं गोपनीयं सदाऽनघे ! ॥७९॥

॥ श्रीकामाख्या - तन्त्रे देवीश्वर - सम्वादे पञ्चमः पटलः ॥


References : N/A
Last Updated : July 06, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP