कामाख्या स्तुतिः - द्वितीयः पटलः

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।

॥ श्रीशिव - उवाच ॥
मन्त्रोद्धारं प्रवक्ष्यामि श्रृणु देवि ! परात् परम् ।
यजज्ञात्वया साधयेत् सिद्धि देवानामपि दुर्लभाम् ॥१॥
मन्त्रस्यास्य प्रतापेन मोहयेदखिलं जगत् ।
ब्रह्मादीन् मोहयेद् देवि ! बालकं जननी यथा ॥२॥
देव - दानव - गन्धर्व - किन्नरादीन् सुरेश्वरि !
मोहयेत् क्षण - मात्रेण प्रजासु नृपतिर्यथा ॥३॥
मन्त्रस्य पुरतो देवि ! राजानं सचिवादयः ।
अन्ये च मानवाः सर्वे मेषादि - जन्तवो यथा ॥४॥
मोहयेन्नगरं राज्ञः सहस्त्यश्वरथादिकम् ।
उर्वश्याद्यास्तु स्वर्वेश्या राज - पत्न्यादिकाः क्षणात् ॥५॥
स्तम्भनं मोहनं देवि ! क्षोभणं जृम्भणं तथा ।
द्रावणं भीषणं चैव विद्वेषोच्चाटने तथा ॥६॥
आकर्षणं च नारीणां विशेषेण महेश्वरि !
वशीकरणमन्यानि साधयेत् साधकोत्तमः ॥७॥
अग्निः स्तम्भति वायुश्च सूर्यो वारि - समूहकः ।
कटाक्षेणैव सर्वाणि साधकस्य न चान्यथा ! ॥९॥
जृम्भणान्तं त्यक्त - पाशं यात्रा - वारण - रोहकम् ।
वाम - कर्ण - युतं देवि ! नाद - बिन्दु - युतं पुनः ॥१०॥
एत्ततु त्रिगुणी - कृत्य कल्पवृक्ष - मनुं जपेत् ।
एकः वापि द्वयं वापि चतुर्थ वा जपेत् सुधीः ॥११॥
कामाख्या - साधनं कार्यं सर्व - विद्यासु साधकैः ।
अन्यथा सिद्धि - हानिः स्याद् विघ्नस्तेषां पदे - पदे ॥१२॥
किं शाक्ता वैष्णवाः किं वा शैवा गाणपत्यकाः ।
महा - मायाऽऽवृताः सरे तैल - यन्त्रे वृषा इव ॥१३॥
अस्याश्च साधनं देवि ! शाक्तानामेव सुन्दरि !
नात्र चक्रविशुद्धिस्तु कालादिशोधनं न च ॥१४॥
कृते च नरकं याति सर्वं तस्य विनश्यति ।
क्लेश - शून्यं परं देवि ! साधनं द्रुत - पोषकम् ॥१५॥

॥ इति श्रीकामाख्यातन्त्रे देवीश्वर - सम्वादे द्वितीयः पटलः ॥


References : N/A
Last Updated : July 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP