कामाख्या स्तुतिः - षष्ठम् पटलः

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।

॥ श्रीदेव्युवाच ॥

कस्या देव्याः साधकानामेकान्त - निन्दनं महत् ।
न कृत्वा पञ्च - तत्त्वैश्च पूजनं परमेश्वर ! ॥१॥

॥ श्रीशिव उवाच ॥

कलौ तु सर्व - शक्तानां ब्राह्मणानां विशेषतः ।
पञ्चतत्त्व विहीनानां निन्दनं परमेश्वरि ! ॥२॥
तन्मध्ये कालिका - तारा - साधकानां कुलेश्वरी ! ।
मद्यं बिना साधनं च महाहास्याय कल्पते ॥३॥
यथा दीक्षां बिना देवी ! साधनं हास्मेव हि ।
तथा तयोः साधकानां ज्ञेयं तत्त्वं बिना सदा ॥४॥
शिलायां शस्य - वापैश्च न भवेदंकुरो यथा ।
आनावृष्ट्या क्षितौ देवि ! कर्षणं यथा नहि ॥५॥
ऋतुं विना कुतो देवि ! कुतोपऽत्यं प्रजायते ।
गमनं च विना क्वापि ग्राम - प्राप्तिर्यथा न च ॥६॥
अतो देव्याः साधनेषु पञ्चतत्त्वं सदा लभेत् ।
पञ्चतत्त्वैः साधकेन्द्रावर्चयेद् विधिना मुदा ॥७॥
मद्यैर्मांसैस्त्तथा मत्स्यैमुद्राभिर्मैथुनैरपि ।
स्त्रीभिः सार्द्ध सदा साधुरर्चयेज्जगदम्बिकाम् ॥८॥
अन्यथा च महानिन्दा गीयते पण्डितैः सुरैः ।
कायेन मनसा वाचा तस्मात् तत्त्व - परो भवेत् ॥९॥
कालिका - तारिणी - दीक्षां गृहीत्वा मद्य - सेवनम् ।
न करोति नरो यस्तु स कलौ पतितो भवेत् ॥१०॥
वैदिकीं तान्त्रिकीं सन्ध्यां जप - होम - बहिष्कृतः ।
अब्राह्मणः स एवोक्तः स एव हन्ति मूर्खकः ॥११॥
शूनी - मूत्र - समं तस्य तप्रणं यत् पितृष्वपि ।
अतो न तर्पयेत् सोऽपि यदीच्छेदात्मनो हितम् ॥१२॥
काली - तारा - तनुं प्राप्य वीराचारं करोति न ।
शूद्रत्वं तच्छरीरे तु प्राप्तं तेन च चान्यथा ॥१३॥
क्षत्रियोऽपि तथा देवि ! वैश्यश्चाण्डालतां व्रजेत् ।
शूद्रो हि शूकरत्वं च याति याति न संशयः ॥१४॥
अवश्यं ब्राह्मणो नित्यं राजा वैश्यश्च शूद्रकः ।
पञ्चतत्त्वैः भजेद देवीं न कुर्यात् संशयं क्वचित् ॥१५॥
पञ्चतत्त्वैः कलौ देवि ! पूजयेद् यः कुलेश्वरीम् ।
तस्यासाध्यं त्रिभुवने न किञ्चिदपि विद्यते ॥१६॥
स ब्राह्मणो वैष्णवश्च स शाक्तो गाणपोऽपि च ।
सौरः स परमार्थी च स एव पूर्ण - दीक्षितः ॥१७॥
स एव धार्मिकः साधुर्ज्ञानी चैव महाकृतिः ।
याज्ञिकः सर्व - कर्माहः सो हि देवो न चान्यथा ॥१८॥
पावनानीह तीर्थानि सर्वेषामिति सम्मतम् ।
तीर्थानां पावनः कौलो गिरिजे ! बहु किं वचः ॥१९॥
अस्यैव जननी धन्या धन्या हि जनकादयः ।
धन्या ज्ञाति - कुटुम्बाश्च धन्या आलापिनो जनाः ॥२०॥
नृत्यन्ति पितरः सर्वे गाथां गायन्ति ते मुदा ।
अपि कश्चित् कुलेऽस्माकं कुलज्ञानी भविष्यति ॥२१॥
तदा योग्या भविष्यामः कुलीनानां सभातले ।
समागन्तुमिति ज्ञात्वा सूत्सुकाः पितरः परे ॥२२॥
कुलाचारस्य माहात्म्यं किं ब्रूमः परमेश्वरि !
पञ्च - वक्त्रेण देवेशि ! सनातन्याः फलानि च ॥२३॥

॥ श्रीदेव्युवाच ॥

साधनं वद कौलेश ! साधकानां सुखावहम् ।
दिव्यं रम्यं मनोहरि सर्वाभीष्ट - फल प्रदम् ॥२४॥

॥ श्रीशिव उवाच ॥

श्रृणु काम - कलां कान्ते ! साधनं तु सुखावहम् ।
यत् किञ्चिद् गदितं पूर्वं विस्मृतं तद् वदाम्यहम् ॥२५॥
अति - सुललित - दिव्यं स्थानमालोक्य तु भक्त्या,
हदि च परम देवीं सम्विभाव्यैक - चित्तः ।
मधुर - कुसुम - गन्धैर्व्याप्तमाहत्य साधुः,
तदुपरि खलु तिष्ठेत् साधनार्थी कुलज्ञः ॥२६॥
जयवति यतमानः शब्द - पुष्पं क्षिपेत् तत्,
स खलु करक - वीजान्यत्र दुर्गे ! ततो हि ।
चिर - भव - बक - पुष्पं वर्जयित्वाऽर्चयित्वा,
यदि जपति विधिज्ञस्तत्क्षणत् सोप्यहं च ॥२७॥
उप - वन - परि - युक्त शुद्ध - रम्यालते यो,
विधि - कृत - वर - लिङ्गं लेपयित्वा सुगन्धैः ।
विविध - कुसुम - धूपैधूपयित्वा लतां सः,
सम्प्रति जपति भु - भक्त्या त्वत् - सुतो जायते सः ॥२८॥
अचल - शिखर - मध्ये शीघ्रमालम्बयित्वा,
कनक - कुसुम - सार्ध शब्द - पुष्प्म निवेद्य ।
कृत - बहु - विधि - पूजाः स्वं गुरुं भावयित्वा,
जपति यदि विलासी विष्णुरेव स्वयं सः ॥२९॥
परिचरति स साधुः सिद्धि - वर्गः सशङ्कः,
पर - वधू - लतानां वक्त्र - पद्मोपभोगी ।
जयति भुवन - मध्ये निर्जरश्चामरोऽपि,
व्रजति तमनु नित्यं सार्वभौमो नृणां सः ॥३०॥
अभिनव - शुभनीरं रक्त - पद्म - प्रकीर्णम् ,
विविध - कमल - रम्यं भर्ज - मीन - प्रयुक्तम् ।
अपर - विहित - वस्तु व्याप्तमीशेश्चरोऽपि,
विगत - जन - समूहे प्राप्य देवी ! प्रकोणे ॥३१॥
घन - जनित - सुशोभे विद्युदादीप्ति - रम्ये,
हदि च परम - देवीं चिन्तयित्वा सु - भक्त्या ।
विधि - विहित - विधानैः स्नान - पूजां समाप्य,
प्रति - जपति निशायां गह्वरे ब्रह्म कः स्यात् ॥३२॥
इह च गुरु - वराज्ञां प्राप्य शीर्षे निधाय,
त्वयि भजति कुलज्ञो भाव - भेदात् कुलेशि ! ।
सुर - गुरुरिह को वा कोऽपि चन्द्रो दिनेशो,
व्रजति भुवन - मध्ये दिक् - पतित्वं च कोऽपि ॥३३॥
इति च परम - देव्याः साधनं यन्मयोक्तम् ,
यदि पठति सु - भव्यो गदगदो वासनाभिः ।
अभिमत - फल - सिद्धिः सर्वलोकैर्वरेण्यो,
भवति भुवन - मध्ये पुत्र - दारैर्युतोऽपि ॥३४॥
अचल - धन - समूहस्तस्य भोगे वसेत् तु,
प्रतिदिनमभिपूजा देवता - गृहे च ।
परिजन - गण - भक्तिः सर्वदा तत्र तिष्ठेत् ,
सदसि वसति राज्ञः सादरः सोऽपि वन्द्यः ॥३५॥

॥ श्रीकामाख्या - तन्त्रे पार्वतीश्वर - सम्वादे षष्ठः पटलः ॥


References : N/A
Last Updated : July 06, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP